शतपथब्राह्मणम्/काण्डम् ७/अध्यायः १

विकिस्रोतः तः

प्रथमं ब्राह्मणम् गार्हपत्याग्निचयनम्

१ गार्हपत्याग्निचयनम-तत्र पूर्वं विधित्सितस्य गार्हपत्यधिष्ण्यचयनस्य पूर्वभवान्भूसंस्कारान्विधातुमादौ तत्स्थानस्य सप्रयोजनं साभिप्रायं समन्त्रकं पलाशशाखया ब्युदूहनविधानम् , विहिते व्युदूहने विनियुक्तस्य मन्त्रस्य पादशोऽ नूद्य व्याख्यानम्, व्युदूहने विहितस्य पलाशशाखाकरणत्वस्य मन्त्रकरणत्वस्य चानूद्य प्रशंसनं, तस्याः पलाशशाखाया उदङ्निरसनविधानम् , सम्मार्ज नानन्तरमूषाणां निवपनस्य सहेतुकं सार्थवादं विधानम्, तस्मिन्निवपने मंत्रं विनियुज्य तदर्थविवरणम् , न्युप्तैरूषैः प्रच्छादनं विधाय तस्य प्रशंसनम् , सार्थवादं मन्त्र तदभिप्रायोपेतं सिकतानां निवपनविधानम्, सिकताभिः प्रच्छादनं विधाय शर्कराभिः परिश्रयणस्य सार्थवादं सप्रकारकं विधानम् , तत्र परिश्रयणे मन्त्रं विधाय तस्य व्याख्यानम् , मन्त्रस्य "सूददोहसः "इति पदस्योच्चारणनिषेधस्योपपादनमेकेन यजुषा बहूनां परिश्रितां स्थापनस्योपपादनं च, परिश्रिद्रूपसिकतानां बाह्याभ्यन्तरभावं विधाय तस्य प्रशंसनम् , इत्थं संस्कृतस्य गार्हपत्यायतनस्येष्टकाभिश्चयनविधानम्, विहितत्य चयनस्य निष्पत्तये इष्टकानामुपधानप्रकारविधानम् , उपधेयासु त्रिविधास्विष्टकास्ववयवक्लप्तिं प्रतिपाद्य तासां चतसृणामिष्टकानामुपधाने चतुरो मंत्रान्विनियुज्य तेषां व्याख्यानम् , एतासामिष्टकानां क्रमेण कृतमुपधानमनूद्य तस्य प्रशंसनम् , सादनसूददोहसोः सकृत्त्वं विधाय तत्प्रशंसनम्, पश्चिमार्ध्ययोरिष्टकयोरुपधानप्रकारकथनम् , तत्र मन्त्रं विनियुज्य तद्व्याख्यानम् , मंत्रतत्तात्पर्योपेतं पाश्चात्ययोरुत्तरस्या इष्टकाया उपधानविधानम् , सार्थवादं सकारणं पाश्चात्ययोरिष्टकयोरुपधानसादनादीनां पृथक्कर्तव्यताभिधानम् , अग्रप्रदेशेन तयोः परस्परसंसर्गस्य विधानम् , समन्त्रकं पूर्वार्ध्ययोरिष्टकयोरुपधानप्रकारनिरूपणम् , एतासामिष्टकानामुपधानस्य प्रादक्षिण्यमुपनयेन दर्शयित्वा तस्य प्रशंसनम् , उपहितानामिष्टकानां सम्भूय संख्यायाः प्रशंसनं, सादनसंख्यामनूद्य तस्याः प्रशंसनम् , संख्याद्वयं सम्भूय तस्य प्रशंसनं, वक्ष्यमाणस्तावकार्थवादातिदेशसहितं लोकम्पृणाख्याया इष्टकाया उपधानविधानम् , सकृत्पठितेन लोकम्पृणेति मन्त्रेण तिसृणां युगपदुपधानविधानम् , तेनैव सकृत्पठितेन मन्त्रेण दशानामि. ष्टकानामुपधानविधानम् , पूर्वं त्रयोदश. लोकम्पृणानां द्वेधा विभागेनोपधान. पक्षमभिधायेदानीं त्रेधाविभागपक्षस्याप्यभिधानम् , पूर्वाभिरिष्टकाभिः सहैतासामिष्टकानां संख्यां सम्भूय तस्याः प्रशंसनम् , परिश्रितां संख्यामनूद्य तस्याः प्रशंसनम्, वक्ष्यमाणस्तावकार्थवादातिदेशयुतं पुरीषनिवपनविधानं, सार्थवादं पुरीषाहरणस्थानविधानम्, इत्थं पुरीषान्तां गार्हपत्यचितिमुक्त्वाऽथ तस्याः प्रान्तेषु साम्यस्य स्तावकार्थवादातिदेशसहितमभिधानं गार्हपत्यचितेः सार्थवादं परिमाणं विधाय परितो मण्डलाकारत्वविधानम् , गार्हपत्यचितिरूपस्याग्नेरुख्याग्नेश्च चतुर्भिर्मन्त्रैः संसर्जनविधानम् , तन्मन्त्राणां तात्पर्याभिधानञ्च, चतुर्मन्त्रकरणकमुख्याग्नेर्गार्हपत्यचितिमध्ये सकारणं निवपनविधानम् , रिक्ताया उखाया अध्वर्युकर्तृकस्य यजमानकर्तृकस्य वाऽवेक्षणस्य निषेधं प्रतिपाद्य तस्याः सिकताभिः समगर्तत्वकरणविधानम्, उखायाः शिक्याद्विमोचनस्य सप्रयोजनं सोपपत्तिकं सदृष्टान्तं मन्त्रतदर्थविवरणोपेतं विधानम्, स्तावकार्थवादातिदेशयुतं तस्या उखायाः ज्वलनरूपस्याग्नेरुत्तरपार्श्वेऽरत्निमात्रे चितावेव स्थापनं कर्तव्यमित्यभिधानम् , सिकतापूर्णाया उखाया मध्ये तूष्णीं पयस आसेचनस्य सकारणं सदृष्टान्तं विधानम् , सिकतापयसोरधरोत्तरभावमनूद्य तत्प्रशंसनं, उखायां पयस आनयनस्थानस्य विधानश्चेत्यादि.


द्वितीयं ब्राह्मणम्

२ उख्यरूपेण संस्कृतस्य गार्हपत्याग्नेर्विराड्रूपप्रजापत्यात्मत्वं वक्तुं प्रजापतेः संस्कृतिं विवक्षया च तच्छरीरविश्लेषणस्य प्रतिपादनं, अनन्तरमस्य. देवैः कृतसंस्कारत्वस्योपवर्णनम् , इत्थं सम्प्रधारितमर्थं कर्तुं देवा अग्निं प्रार्थितवन्तः- सोऽपि तत्प्रार्थनमङ्गीकृतवानित्यभिधानम्, इदानीन्तनप्रसिद्धया देवानामग्निमुखत्वस्य दृढीकरणम् उत्क्रान्तानां प्राणादीनां परिणाम विशेषस्याभिधानं, प्रकृतमनुसृत्य तस्य कीदृक्किमङ्गमित्यादि सोपपत्तिकमभिधानं, प्रतिष्ठारूपस्य प्रजापतेः संस्कारमभिधाय चित्याग्नेरपि ताडक्संस्कारं वक्तुं तयोस्तादात्म्यमुपवर्ण्य सोपपत्तिकं संस्कारसामत्वस्योपवर्णनं, समिधामहरहरभ्याधानमनूद्य तत्र कारणं प्रतिपाद्य रुक्मप्रतिमोचनोख्यभरणादीनां संवत्सरकालव्याप्तेरभिधानं, अत्रोक्तेऽर्थे वामकक्षायणर्षेः साभिप्रायं मतनिरूपणं, प्रकृतस्य चयनात्मकस्य प्रजापतेर्लोकत्रयात्मत्वं तदधिष्ठात्त्रग्निवाय्वादित्यात्मत्वं च प्रतिपाद्य पुनस्तस्याधियाज्ञिकाध्यात्मिकरूपद्वयस्य प्रतिपादनं, चित्यात्मकस्याहवनीयस्य तत्र निधीयमानस्याग्नेश्च क्रमेण शीर्षत्वं शीर्षण्यप्राणत्वं च प्रतिपाद्य तयोरेव पक्षपुच्छवत्वस्य सोपपत्तिकं प्रतिपादनं, प्रकारान्तरेणापि तस्याधियाज्ञिकाध्यात्मिकरूपत्वस्य प्रतिपादनं, त्रिचितिको गार्हपत्यश्चेतव्य इत्येकीय मतं सोपपत्तिकमुपन्यस्य वक्ष्यमाणसम्पत्त्रयातिरेकरूपदोषाभिधानेन तं पक्षं निराकृत्य तथाऽवाङ्प्राणानामुक्तं त्रित्वमङ्गीकृत्य तदपि निराकृत्यैकत्वस्य सोपपत्तिकं निगमनं, पूर्वमुपक्षिप्ताया अनुष्टुब्बृहत्योः सम्पत्तेरभिधानं, तत्र 'तिस्रोऽनुष्टुभः सम्पाद्य, तासां प्रयोजनपुरःसरमुपयोगकथनं, प्रतिपादितार्थज्ञस्य फलाभिधानं, प्रागुपन्यस्ताया बृहतीसम्पत्तेरुप्रपादनं, गार्हपत्याग्नीध्रीयाहवनीयानां क्रमेण पृथिव्यन्तरिक्षद्युलोकात्मकत्वात्क्रमेणैव तेषां संकारो युक्त इत्याशंक्य व्युत्क्रमानुष्ठानस्य सकारणं सप्रयोजनमुपपादनं चेत्यादि.