शतपथब्राह्मणम्/काण्डम् ७/अध्यायः १/प्रथमं ब्राह्मणम्

विकिस्रोतः तः
Jump to navigation Jump to search
७.१.१ गार्हपत्याग्निचयनम्


गार्हपत्यं चेष्यन्पलाशशाखया व्युदूहति । अवस्यति हैतद्यद्गार्हपत्यं चिनोति य उ वै के चाग्निचितोऽस्यामेव तेऽवसितास्तद्यद्व्युदूहत्यवसितानेव तद्व्युदूहति नेदवसितानध्यवस्यानीति - ७.१.१.[१]

अपेत वीत वि च सर्पतात इति । अप चैवैत वि चेत व्यु च सर्पतात इत्येतद्य उदरसर्पिणस्तानेतदाह येऽत्र स्थ पुराणा ये च नूतना इति येऽत्र स्थ सनातना ये चाधुनातना इत्येतत् - ७.१.१.[२]

अदाद्यमोऽवसानं पृथिव्या इति । यमो ह वा अस्या अवसानस्येष्टे स एवास्मा अस्यामवसानं ददाति - ७.१.१.[३]

अक्रन्निमं पितरो लोकमस्मा इति । क्षत्रं वै यमो विशः पितरो यस्मा उ वै क्षत्रियो विशा संविदानोऽस्यामवसानं ददाति तत्सुदत्तं तथो हास्मै क्षत्रं यमो विशा पितृभिः संविदानोऽस्यामवसानं ददाति - ७.१.१.[४]

पलाशशाखया व्युदूहति । ब्रह्म वै पलाशो ब्रह्मणैव तदवसितान्व्युदूहति मन्त्रेण ब्रह्म वै मन्त्रो ब्रह्मणैव तदवसितान्व्युदूहति तामुदीचीमुदस्यति - ७.१.१.[५]

अथोषान्निवपति । अयं वै लोको गार्हपत्यः पशव ऊषा अस्मिंस्तल्लोके पशून्दधाति
तस्मादिमेऽस्मिंलोके पशवः - ७.१.१.[६]

यद्वेवोषान्निवपति । प्रजापतिः प्रजा असृजत ता नानोल्बा असृजत ता न समजानत सोऽकामयत संजानीरन्निति ताः समानोल्बा अकरोत्तासामूषानुल्बमकरोत्ताः समजानत तस्मादप्येतर्हि समानोल्बाः समेव जानते देवैः समानोल्बोऽसानीत्यु वै यजते यो यजते तद्यदूषान्निवपति देवैरेव तत्समानोल्बो भवति - ७.१.१.[७]

संज्ञानमसीति । समजानत ह्येतेन कामधरणमिति पशवो वा ऊषाः कामधरणम्मयि ते कामधरणं भूयादिति मयि ते पशवो भूयासुरित्येतत्तैः सर्वं गार्हपत्यं प्रच्छादयति योनिर्वै गार्हपत्या चितिरुल्बमूषाः सर्वां तद्योनिमुल्बेन प्रच्छादयति - ७.१.१.[८]

अथ सिकता निवपति । अग्नेरेतद्वैश्वानरस्य भस्म यत्सिकता अग्निमु वा एतं वैश्वानरं चेष्यन्भवति न वा अग्निः स्वं भस्मातिदहत्यनतिदाहाय - ७.१.१.[९]

यद्वेव सिकता निवपति । अग्नेरेतद्वैश्वानरस्य रेतो यत्सिकता अग्निमु वा एतं वैश्वानरं चेष्यन्भवति न वा अरेतस्कात्किं चन विक्रियतेऽस्माद्रेतसोऽधि विक्रियाता इति - ७.१.१.[१०]

अग्नेर्भस्मास्यग्नेः पुरीषमसीति । यातयाम वा अग्नेर्भस्मायातयाम्न्यः सिकता अयातयाममेवैनदेतत्करोति ताभिः सर्वं गार्हपत्यं प्रच्छादयति योनिर्वै गार्हपत्या चिती रेतः सिकताः सर्वस्यां तद्योनौ रेतो दधाति - ७.१.१.[११]

अथैनं परिश्रिद्भिः परिश्रयति । योनिर्वै परिश्रित इदमेवैतद्रेतः सिक्तं योन्या परिगृह्णाति तस्माद्योन्या रेतः सिक्तं परिगृह्यते - ७.१.१.[१२]

यद्वेवैनं परिश्रिद्भिः परिश्रयति । अयं वै लोको गार्हपत्य आपः परिश्रित इमं तं लोकमद्भिः परितनोति समुद्रेण हैनं तत्परितनोति सर्वतस्तस्मादिमं लोकं सर्वतः समुद्रः पर्येति दक्षिणावृत्तस्मादिमं लोकं दक्षिणावृत्समुद्रः पर्येति खातेन तस्मादिमं लोकं खातेन समुद्रः पर्येति - ७.१.१.[१३]

चित स्थेति । चिनोति ह्येनाः परिचित स्थेति परि ह्येनाश्चिनोत्यूर्ध्वचितः श्रयध्वमित्यूर्ध्वा उपदधदाह तस्मादूर्ध्व एव समुद्रो विजतेऽथ यत्तिरश्चीरुपदध्यात्सकृद्धैवेदं सर्वं समुद्रो निर्मृज्यान्न सादयत्यसन्ना ह्यापो न सूददोहसाधिवदति - ७.१.१.[१४]

अस्थीनि वै परिश्रितः । प्राणः सूददोहा न वा अस्थिषु प्राणोऽस्त्येकेन यजुषा बह्वीरिष्टका उपदधात्येकं ह्येतद्रूपं यदापोऽथ यद्बह्व्यः परिश्रितो भवन्ति बह्व्यो ह्यापः - ७.१.१.[१५]

तद्वै योनिः परिश्रितः । उल्बमूषा रेतः सिकता बाह्याः परिश्रितो भवन्त्यन्तर ऊषा
बाह्या हि योनिरन्तरमुल्बं बाह्य ऊषा भवन्त्यन्तराः सिकता बाह्यं ह्युल्बमन्तरं रेत एतेभ्यो वै जायमानो जायते तेभ्य एवैनमेतज्जनयति - ७.१.१.[१६]

अथैनमतश्चिनोति । इदमेवैतद्रेतः सिक्तं विकरोति तस्माद्योनौ रेतः सिक्तं विक्रियते - ७.१.१.[१७]

स चतस्रः प्राचीरुपदधाति । द्वे पश्चात्तिरश्च्यौ द्वे पुरस्तात्तद्याश्चतस्रः प्राचीरुपदधाति स आत्मा तद्यत्ताश्चतस्रो भवन्ति चतुर्विधो ह्ययमात्माथ ये पश्चात्ते सक्थ्यौ ये पुरस्तात्तौ बाहू यत्र वा आत्मा तदेव शिरः - ७.१.१.[१८]

तं वा एतम् । अत्र पक्षपुच्छवन्तं विकरोति यादृग्वै योनौ रेतो विक्रियते तादृग्जायते तद्यदेतमत्र पक्षपुच्छवन्तं विकरोति तस्मादेषोऽमुत्र पक्षपुच्छवान्जायते - ७.१.१.[१९]

तं वै पक्षपुच्छवन्तमेव सन्तम् । न पक्षपुच्छवन्तमिव पश्यन्ति तस्माद्योनौ गर्भं न यथारूपं पश्यन्त्यथैनममुत्र पक्षपुच्छवन्तम्पश्यन्ति तस्माज्जातं गर्भं यथारूपं पश्यन्ति - ७.१.१.[२०]

स चतस्रः पूर्वा उपदधाति । आत्मा ह्येवाग्रे सम्भवतः सम्भवति दक्षिणत उदङ्ङासीन उत्तरार्ध्यां प्रथमामुपदधाति तथो हास्यैषोऽभ्यात्ममेवाग्निश्चितो भवति - ७.१.१.[२१]

अयं सो अग्निः । यस्मिन्त्सोममिन्द्रः सुतं दध इत्ययं वै लोको गार्हपत्य आपः सोमः सुतोऽस्मिंस्तल्लोकेऽप इन्द्रोऽधत्त जठरे वावशान इति मध्यं वै जठरं सहस्रियं वाजमत्यं न सप्तिमित्यापो वै सहस्रियो वाजः ससवान्त्सन्त्स्तूयसे जातवेद इति चितः संश्चीयसे जातवेद इत्येतत् - ७.१.१.[२२]

अग्ने यत्ते दिवि वर्च इति । आदित्यो वा अस्य दिवि वर्चः पृथिव्यामित्ययमग्निः पृथिव्यां यदोषधीष्वप्स्वा यजत्रेति य एवौषधिषु चाप्सु चाग्निस्तमेतदाह येनान्तरिक्षमुर्वाततन्थेति वायुः स त्वेषः स भानुरर्णवो नृचक्षा इति महान्त्स भानुरर्णवो नृचक्षा इत्येतत् - ७.१.१.[२३]

अग्ने दिवो अर्णमच्छा जिगासीति । आपो वा अस्य दिवोऽर्णस्ता एष धूमेनाच्छैत्यच्छा देवां ऊचिषे धिष्ण्या य इति प्राणा वै देवा धिष्ण्यास्ते हि सर्वा धिय इष्णन्ति या रोचने परस्तात्सूर्यस्य याश्चावस्तादुपतिष्ठन्त आप इति रोचनो ह नामैष लोको यत्रैष एतत्तपति तद्याश्चैतं परेणापो याश्चावरेण ता एतदाह - ७.१.१.[२४]

पुरीष्यासो अग्नय इति । पशव्यासोऽग्नय इत्येतत्प्रावणेभिः सजोषस इति प्रायणरूपम्प्रायणं ह्येतदग्नेर्यद्गार्हपत्यो जुषन्तां यज्ञमद्रुहोऽनमीवा इषो महीरिति
जुषन्तां यज्ञमद्रुहोऽनशनाया इषो महीरित्येतत् - ७.१.१.[२५]

नानोपदधाति । ये नानाकामा आत्मंस्तांस्तद्दधाति सकृत्सादयत्येकं तदात्मानं करोति सूददोहसाधिवदति प्राणो वै सूददोहाः प्राणेनैवैनमेतत्संतनोति संदधाति - ७.१.१.[२६]

अथ जघनेन परीत्य । उत्तरतो दक्षिणासीनोऽपरयोर्दक्षिणामग्र उपदधातीडामग्ने पुरुदंसं सनिं गोरिति पशवो वा इडा पशूनामेवास्मा एतामाशिषमाशास्ते शश्वत्तमं हवमानाय साधेति यजमानो वै हवमानः स्यान्नः सूनुस्तनयो विजावेति प्रजा वै सूनुरग्ने सा ते सुमतिर्भूत्वस्मे इत्याशिषमाशास्ते - ७.१.१.[२७]

अथोत्तराम् । अयं ते योनिर्ऋत्वियो यतो जातो अरोचथा इत्ययं ते योनिर्ऋतव्यः सनातनो यतो जातोऽदीप्यथा इत्येतत्तं जानन्नग्न आरोहाथा नो वर्धया रयिमिति यथैव यजुस्तथा बन्धुः - ७.१.१.[२८]

सक्थ्यावस्यैते । ते नानोपदधाति नाना सादयति नाना सूददोहसाधिवदति नाना हीमे सक्थ्यौ द्वे भवतो द्वे हीमे सक्थ्यौ पश्चादुपदधाति पश्चाद्धीमे सक्थ्यावग्राभ्यां संस्पृष्टे भवत एवं हीमे सक्थ्यावग्राभ्यां संस्पृष्टे - ७.१.१.[२९]

अथ तेनैव पुनः परीत्य । दक्षिणत उदङ्ङासीनः पूर्वयोरुत्तरामग्र उपदधाति चिदसि तया देवतयाङ्गिरस्वद्ध्रुवा सीदेत्यथ दक्षिणां परिचिदसि तया देवतयाङ्गिरस्वद्ध्रुवा सीदेति - ७.१.१.[३०]

बाहू अस्यैते । ते नानोपदधाति नाना सादयति नाना सूददोहसाधिवदति नाना हीमौ
बाहू द्वे भवतो द्वौ हीमौ बाहू पूर्वार्ध उपदधाति पुरस्ताद्धीमौ बाहू अग्राभ्यां संस्पृष्टे भवत एवं हीमौ बाहू अग्राभ्यां संस्पृष्टौ स वा इतीमाऽउपदधातीतीमे इतीमे तद्दक्षिणावृत्तद्धि देवत्रा - ७.१.१.[३१]

अष्टाविष्टका उपदधाति । अष्टाक्षरा गायत्री गायत्रोऽग्निर्यावानग्निर्यावत्यस्य मात्रा तावन्तमेवैनमेतच्चिनोति पञ्च कृत्वः सादयति पञ्चचितिकोऽग्निः पञ्चऽर्तवः संवत्सरः संवत्सरोऽग्निर्यावनग्निर्यावत्यस्य मात्रा तावन्तमेवैनमेतच्चिनोत्यष्टाविष्टकाः पञ्च कृत्वः सादयति तत्त्रयोदश त्रयोदश मासाः संवत्सरस्त्रयोदशाग्नेश्चितिपुरीषाणि यावानग्निर्यावत्यस्य मात्रा तावत्तद्भवति - ७.१.१.[३२]

अथ लोकम्पृणामुपदधाति । तस्या उपरि बन्धुस्तिस्रः पूर्वास्त्रिवृदग्निर्यावानग्निर्यावत्यस्य मात्रा तावन्तमेवैनमेतच्चिनोति दशोत्तरास्तासामुपरि बन्धुर्द्वे वाग्रेऽथ दशाथैकामेवं हि चितिं चिन्वन्ति तास्त्रयोदश सम्पद्यन्ते तस्योक्तो बन्धुः - ७.१.१.[३३]

ता उभय्य एकविंशतिः सम्पद्यन्ते । द्वादश मासाः पञ्चऽर्तवस्त्रय इमे लोका असावादित्य एकविंशोऽमुं तदादित्यमस्मिन्नग्नौ प्रतिष्ठापयति - ७.१.१.[३४]

एकविंशतिर्वेव परिश्रितः । द्वादश मासाः पञ्चऽर्तवस्त्रय इमे लोका अयमग्निरमुतोऽध्येकविंश इमं तदग्निममुष्मिन्नादित्ये प्रतिष्ठापयति तद्यदेता एवमुपदधात्येतावेवैतदन्योऽन्यस्मिन्प्रतिष्ठापयति तावेतावन्योऽन्यस्मिन्प्रतिष्ठितौ तौ वा एतावत्र द्वावेकविंशौ सम्पादयत्यत्र ह्येवेमौ तदोभौ भवत आहवनीयश्च गार्हपत्यश्च - ७.१.१.[३५]

अथ पुरीषं निवपति । तस्योपरि बन्धुस्तच्चात्वालवेलाया आहरत्यग्निरेष यच्चात्वालस्तथो हास्यैतदाग्नेयमेव भवति सा समम्बिला स्यात्तस्योक्तो बन्धुः - ७.१.१.[३६]

व्याममात्री भवति । व्याममात्रो वै पुरुषः पुरुषः प्रजापतिः प्रजापतिरग्निरात्मसम्मितां तद्योनिं करोति परिमण्डला भवति परिमण्डला हि योनिरथो अयं वै लोको गार्हपत्यः परिमण्डल उ वा अयं लोकः - ७.१.१.[३७]

अथैनौ संनिवपति । संज्ञामेवाभ्यामेतत्करोति समितं संकल्पेथां सं वाम्मनांसि सं व्रताग्ने त्वं पुरीष्यो भवतं नः समनसाविति शमयत्येवैनावेतदहिंसायै यथा नान्योऽन्यं हिंस्याताम् - ७.१.१.[३८]

चतुर्भिः संनिवपति । तद्ये चतुष्पदाः पशवस्तैरेवाभ्यामेतत्संज्ञां करोत्यथो अन्नं वै पशवोऽन्नेनैवाभ्यामेतत्संज्ञां करोति - ७.१.१.[३९]

तां न रिक्तामवेक्षेत । नेद्रिक्तामवेक्षा इति यद्रिक्तामवेक्षेत ग्रसेत हैनम् - ७.१.१.[४०]

अथास्यां सिकता आवपति । अग्नेरेतद्वैश्वानरस्य रेतो यत्सिकता अग्निमेवास्यामेतद्वैश्वानरं रेतो भूतं सिञ्चति सा समम्बिला स्यात्तस्योक्तो बन्धुः - ७.१.१.[४१]

अथैनां विमुञ्चति । अप्रदाहाय यद्धि युक्तं न विमुच्यते प्र तद्दह्यत एतद्वा एतद्युक्ता रेतोऽभार्षीदेतमग्निं तमत्राजीजनदथापरं धत्ते योषा वा उखा तस्माद्यदा योषा पूर्वं रेतः प्रजनयत्यथापरं धत्ते - ७.१.१.[४२]

मातेव पुत्रं पृथिवी पुरीष्यमिति । मातेव पुत्रं पृथिवी पशव्यमित्येतदग्निं स्वे योनावभारुखेत्यग्निं स्वे योनावभार्षीदुखेत्येतत्तां विश्वैर्देवैर्ऋतुभिः संविदानः प्रजापतिर्विश्वकर्मा विमुञ्चत्वित्यृतवो वै विश्वे देवास्तदेनां विश्वैर्देवैर्ऋतुभिः संविदानः प्रजापतिर्विश्वकर्मा विमुञ्चति तामुत्तरतोऽग्नेर्निदधात्यरत्निमात्रे तस्योक्तो बन्धुः - ७.१.१.[४३]

अथास्यां पय आनयति । एतद्वा एतद्रेतो धत्तेऽथ पयो धत्ते योषा वा उखा तस्माद्यदा योषा रेतो धत्तेऽथ पयो धत्तेऽधराः सिकता भवन्त्युत्तरं पयोऽधरं हि रेत उत्तरं पयस्तन्मध्य आनयति यथा तत्प्रतिपुरुषशीर्षमुपदध्यात् - ७.१.१.[४४]