शतपथब्राह्मणम्/काण्डम् ७/अध्यायः १/द्वितीयं ब्राह्मणम्

विकिस्रोतः तः
Jump to navigation Jump to search

७.१.२

प्रजापतिः प्रजा असृजत । स प्रजाः सृष्ट्वा सर्वमाजिमित्वा व्यस्रंसत तस्माद्विस्रस्तात्प्राणो मध्यत उदक्रामदथास्माद्वीर्यमुदक्रामत्तस्मिन्नुत्क्रान्तेऽपद्यत
तस्मात्पन्नादन्नमस्रवद्यच्चक्षुरध्यशेत तस्मादस्यान्नमस्रवन्नो हेह तर्हि का चन प्रतिष्ठाऽऽस - ७.१.२.[१]

ते देवा अब्रुवन् । न वा इतोऽन्या प्रतिष्ठास्तीममेव पितरं प्रजापतिं संस्करवाम सैव नः प्रतिष्ठा भविष्यतीति - ७.१.२.[२]

तेऽग्निमब्रुवन् । न वा इतोऽन्या प्रतिष्ठास्ति त्वयीमं पितरं प्रजापतिं संस्करवाम सैव नः प्रतिष्ठा भविष्यतीति किं मे ततो भविष्यतीति - ७.१.२.[३]

तेऽब्रुवन् । अन्नं वा अयं प्रजापतिस्त्वन्मुखा एतदन्नमदाम त्वन्मुखानां न एषोऽन्नमसदिति तथेति तस्माद्देवा अग्निमुखा अन्नमदन्ति यस्यै हि कस्यै च देवतायै जुह्वत्यग्नावेव जुह्वत्यग्निमुखा हि तद्देवा अन्नमकुर्वत - ७.१.२.[४]

स योऽस्मात्प्राणो मध्यत उदक्रामत् । अयमेव स वायुर्योऽयं पवतेऽथ यदस्माद्वीर्यमुदक्रामदसौ स आदित्योऽथ यदस्मादन्नमस्रवद्यदेव संवत्सरेऽन्नं तत्तत् - ७.१.२.[५]

तं देवा अग्नौ प्रावृञ्जन् । तद्य एनं प्रवृक्तमग्निरारोहद्य एवास्मात्स प्राणो मध्यत उदक्रामत्स एवैनं स आपद्यत तमस्मिन्नदधुरथ यदस्माद्वीर्यमुदक्रामत्तदस्मिन्नदधुरथ यदस्मादन्नमस्रवत्तदस्मिन्नदधुस्तं सर्वं कृत्स्नं संस्कृत्योर्ध्वमुदश्रयंस्तद्यं तमुदश्रयन्निमे स लोकाः - ७.१.२.[६]

तस्यायमेव लोकः प्रतिष्ठा । अथ योऽस्मिंलोकेऽग्निः सोऽस्यावाङ्प्राणोऽथास्यान्तरिक्षमात्माथ योऽन्तरिक्षे वायुर्य एवायमात्मन्प्राणः सोऽस्य स द्यौरेवास्य शिरः सूर्याचन्द्रमसौ चक्षुषी यच्चक्षुरध्यशेत स चन्द्रमास्तस्मात्स मीलितततरोऽन्नं हि तस्मादस्रवत् - ७.१.२.[७]

तदेषा वै सा प्रतिष्ठा । यां तद्देवाः समस्कुर्वन्त्सैवेयमद्यापि प्रतिष्ठा सो एवाप्यतोऽधि भविता - ७.१.२.[८]

स यः स प्रजापतिर्व्यस्रंसत । अयमेव स योऽयमग्निश्चीयत तद्यदेषोखा रिक्ता शेते पुरा प्रवर्जनाद्यथैव तत्प्रजापतिरुत्क्रान्ते प्राण उत्क्रान्ते वीर्ये स्रुतेऽन्ने रिक्तोऽशयदेतदस्य तद्रूपम् - ७.१.२.[९]

तामग्नौ प्रवृणक्ति । यथैवैनमदो देवाः प्रावृञ्जंस्तद्य एनां प्रवृक्तामग्निरारोहति य एवास्मात्स प्राणो मध्यत उदक्रामत्स एवैनं स आपद्यते तमस्मिन्दधात्यथ यद्रुक्मं प्रतिमुच्य बिभर्ति यदेवास्माद्वीर्यमुदक्रामत्तदस्मिन्दधात्यथ याः समिध आदधाति
यदेवास्मादन्नमस्रवत्तदस्मिन्दधाति - ७.१.२.[१०]

ता वै सायं प्रातरादधाति । अह्नश्च हि तद्रात्रेश्चान्नमस्रवत्तान्येतानि सर्वस्मिन्नेव संवत्सरे स्युः संवत्सरो हि स प्रजापतिर्यस्मात्तान्युदक्रामंस्तदस्मिन्नेतत्सर्वस्मिन्नेव सर्वं दधाति यस्मिन्हास्यैतदतो न कुर्यान्न हास्य तस्मिन्नेतद्दध्यान्नासंवत्सरभृतस्येक्षकेण चन भवितव्यमिति ह स्माह वामकक्षायणो नेदिमं पितरं प्रजापतिं विच्छिद्यमानं पश्यानीति तं संवत्सरे सर्वं कृत्स्नं संस्कत्योर्ध्वमुच्छ्रयति यथैवैनमदो देवा उदश्रयन् - ७.१.२.[११]

तस्य गार्हपत्य एवायं लोकः । अथ यो गार्हपत्येऽग्निर्य एवायमस्मिंलोकेऽग्निः सो
ऽस्य सोऽथ यदन्तराहवनीयं च गार्हपत्यं च तदन्तरिक्षमथ य आग्नीध्रीयेऽग्निर्य एवायमन्तरिक्षे वायुः सोऽस्य स आहवनीय एव द्यौरथ य आहवनीयेऽग्निस्तौ सूर्याचन्द्रमसौ सोऽस्यैष आत्मैव - ७.१.२.[१२]

तस्य शिर एवाहवनीयः । अथ य आहवनीयेऽग्निर्य एवायं शीर्षन्प्राणः सोऽस्य स
तद्यत्स पक्षपुच्छवान्भवति पक्षपुच्छवान्ह्ययं शीर्षन्प्राणश्चक्षुः शिरो दक्षिणं श्रोत्रं दक्षिणः पक्ष उत्तरं श्रोत्रमुत्तरः पक्षः प्राणो मध्यमात्मा वाक्पुच्छं प्रतिष्ठा तद्यत्प्राणा वाचान्नं जग्ध्वा प्रतितिष्ठन्ति तस्मात्प्राणानां वाक्पुच्छं प्रतिष्ठा - ७.१.२.[१३]

अथ यदन्तराहवनीयं च गार्हपत्यं च । स आत्माथ य आग्नीध्रीयेऽग्निर्य एवायमन्तरात्मन्प्राणः सोऽस्य स प्रतिष्ठैवास्य गार्हपत्योऽथ यो गार्हपत्येऽग्निः सोऽस्यावाङ् प्राणः - ७.१.२.[१४]

तं हैके त्रिचितं चिन्वन्ति । त्रयो वा इमे ऽवाञ्चः प्राणा इति न तथा कुर्यादति ते रेचयन्त्येकविंशसम्पदमथो अनुष्टुप्सम्पदमथो बृहतीसम्पदं ये तथा कुर्वन्त्येकं ह्येवैतद्रूपं योनिरेव प्रजातिरेव यदेतेऽवाञ्चः प्राणा यद्धि मूत्रं करोति यत्पुरीषं प्रैव तज्जायते - ७.१.२.[१५]

अथातः सम्पदेव । एकविंशतिरिष्टका नव यजूंषि तत्त्रिंशत्सादनं च सूददोहाश्च तद्द्वात्रिंशद्द्वात्रिंशदक्षरानुष्टुप्सैषाऽनुष्टुप् - ७.१.२.[१६]

एकविंशतिर्वेव परिश्रितः । यजुर्द्वाविंशं व्युदूहनस्य यजुरूषाश्च यजुश्च सिकताश्च यजुश्च पुरीषं च यजुश्च चतुर्भिः संनिवपति विमुञ्चति पञ्चमेन ततस्त्रिभिरियं द्वात्रिंशदक्षरानुष्टुप्सैषानुष्टुप् - ७.१.२.[१७]

अथैते द्वे यजुषी । सो अनुष्टुबेव वाग्वा अनुष्टुप्तद्यदिदं द्वयं वाचो रूपं दैवं च मानुषं चोच्चैश्च शनैश्च तदेते द्वे - ७.१.२.[१८]

ता वा एतास्तिस्रोऽनुष्टुभः । चित एष गार्हपत्यस्तद्यदेता अत्र तिस्रोऽनुष्टुभः सम्पादयन्त्यत्र ह्येवेमे तदा सर्वे लोका भवन्ति ततोऽन्यतरां द्वात्रिंशदक्षरामनुष्टुभमाहवनीयं हरन्ति स आहवनीयः सा द्यौस्तच्छिरोऽथेहान्यतरा परिशिष्यते स गार्हपत्यः सा प्रतिष्ठा स उ अयं लोकः - ७.१.२.[१९]

अथ ये एते द्वे यजुषी । एतत्तद्यदन्तराहवनीयं च गार्हपत्यं च तदन्तरिक्षं स आत्मा तद्यत्ते द्वे भवतस्तस्मादेतत्तनीयो यदन्तराहवनीयं च गार्हपत्यं च तस्मादेषां लोकानामन्तरिक्षलोकस्तनिष्ठः - ७.१.२.[२०]

सैषा त्रेधाविहिता वागनुष्टुप् । तामेषोऽग्निः प्राणो भूत्वाऽनुसंचरति य आहवनीयेऽग्निः स प्राणः सोऽसावादित्योऽथ य आग्नीध्रीयेऽग्निः स व्यानः स उ अयं वायुर्योऽयं पवतेऽथ यो गार्हपत्येऽग्निः स उदानः स उ अयं योऽयमस्मिंलोकेऽग्निरेवंविद्ध वाव सर्वां वाचं सर्वं प्राणं सर्वमात्मानं संस्कुरुते - ७.१.२.[२१]

सैषा बृहत्येव । ये वै द्वे द्वात्रिंशतौ द्वात्रिंशदेव तदथैते द्वे यजुषी तच्चतुस्त्रिंशदग्निरेव पञ्चत्रिंशो नाक्षराच्छन्दो व्येत्येकस्मान्न द्वाभ्यां स उ द्व्यक्षरस्तत्षट्त्रिंशत्षट्त्रिंशदक्षरा बृहती बृहतीं वा एष संचितोऽभिसम्पद्यते यादृग्वै योनौ रेतः सिच्यते तादृग्जायते तद्यदेतामत्र बृहतीं करोति तस्मादेष संचितो बृहतीमभिसम्पद्यते - ७.१.२.[२२]

तदाहुः । यदयं लोको गार्हपत्योऽन्तरिक्षं धिष्ण्या द्यौराहवनीयोऽन्तरिक्षलोक उ अस्माल्लोकादनन्तर्हितोऽथ कस्माद्गार्हपत्यं चित्वाहवनीयं चिनोत्यथ धिष्ण्यानिति सह हैवेमावग्रे लोकावासतुस्तयोर्वियतोर्योऽन्तरेणाकाश आसीत्तदन्तरिक्षमभवदीक्षं हैतन्नाम ततः पुरान्तरा वा इदमीक्षमभूदिति तस्मादन्तरिक्षं तद्यद्गार्हपत्यं चित्वाहवनीयं चिनोत्येतौ ह्यग्रे लोकावसृज्येतामथ प्रत्येत्य धिष्ण्यान्निवपति कर्मण एवानन्तरयायाथोऽअन्तयोर्वाव संस्क्रियमाणयोर्मध्यं संस्क्रियते - ७.१.२.[२३]