शतपथब्राह्मणम्/काण्डम् ३/अध्यायः ८

विकिस्रोतः तः


ब्राह्मण १

१ होतुर्होतृषदनोपवेशनादिप्रयोगकथनं, समिदाद्येकादशप्रयाजानाम् 'आप्रियः' इति संज्ञाज्ञापनं, आप्रियनामनिर्वचनं तस्य प्रशंसनाय तत्प्रवृत्तिनिमित्तस्याप्यायनस्य संभावनानिरूपणम्, आप्यायनसाधनत्वमेवोपजीव्यैकादशत्वं विधाय प्रशंसनं, समिदादिदशप्रयाजानामितिकर्तव्यताकथनं, दशमप्रयाजानंतरं ' शासमाहर ' इति बूयादिति विधानं, यूपशकलौ जुह्वाग्रगतेनाज्येन समज्य ताभ्यामक्ताभ्यां समंत्रकं पशोर्ललाटस्योपस्पर्शनविधानं, पुनर्यूपशकलस्यावगू हनविधानं, शमित्रे शासप्रदानं, स्रुचोरासादनविधानं, सार्थवादमग्नीत्कर्तृकं पशुप्रभृतीनां पर्यग्नीकरणविधानं, पश्वंगश्रपणार्थमुल्मुकाहरणविधानम्, उल्मुकाहरणविषये कस्यचित्पक्षं सयुक्तिकमुपन्यस्य तं निराकृत्य च स्वपक्षस्थापनविधानम्, उल्मुकस्य पुरोगमनप्रयोजनसहितमग्नीध्र- प्रतिप्रस्थात्रध्वर्युयजमानानां शामित्रं प्रति गमनविधानं, तेषामभिप्रायस्यान्यथाकरणं, सेतिकर्तव्यताकं पशोर्वैश्वदेवत्वापादनं, वाचनविधानं तन्मंत्रार्थविवरणं च, पशोर्विशसनप्रदेशेऽध्वर्योः सप्रयोजनं समंत्रं तृणापासविधानं, साभिप्रायं पुनराहवनीयमभ्यावर्तनकथनं, पशोः सञ्ज्ञपनप्रकारकथनं, सञ्ज्ञपनात्प्राक्पश्चाच्च होमे होमभेदेन स्वाहाकारप्रयोगवैपरीत्यदर्शनं तस्य प्रयोजनकथनेन प्रशंसनम्, एतयोर्होमयोरनुष्ठाने ऐच्छिकत्वोपवर्णनं चेत्यादि.


ब्राह्मण २

२ सञ्ज्ञपनानंतरभाविप्रयोगकथनं, पत्न्यै वाचनविधानं तन्मंत्रव्याख्यानं च, अद्भिः पावनविधानं, सार्थवादं समंत्रं पत्नीकर्तृकं पशोः प्राणानामद्भिरुपस्पर्शनविधानं, अवयवावयविभेदेनोपस्पर्शनमंत्रभागकथनं, परिशिष्टाभिरद्भिर्यजमानपत्न्योः पशुशीर्षतोग्रेनुषिञ्चनविधानम्,अनुषिञ्चनमंत्रविधानं,पशोर्जघनार्द्धस्य समंत्रकं निनयनविधानं, समंत्रं सप्रकारकं पशोर्विशसनप्रयोगकथनं, वपामुत्खिद्य तया वपाश्रपण्योः समंत्रं प्रच्छादनविधानं, वपाश्रपण्योः कार्ष्मर्यमयत्वं विधाय .तत्प्रशंसन, पशोर्वपापरिवासनम् अग्नीधः पुनरुल्मुकादानं तेषां जघनेन चात्वालमाहवनीयं प्रत्यागमनम्, अध्वर्युकर्तृकं समंत्रमाहवनीये तृणप्रासनं चेत्यादि प्रयोगकथनं, वपाप्रतपनप्रकार- कथनं, दक्षिणतः प्रतितापोपगमनमार्ग- प्रदर्शनं, प्रतिप्रस्थात्रा वपायां तप्यमानायां स्रुवेणाज्यमादायाध्वर्योर्वपोपरि समंत्रं होमकरणविधानं, स्तोकप्रैषकथनं, होत्रा स्तोकेभ्योनूच्यमानानां मंत्राणामाग्नेयत्वस्य वृष्टिसाधनत्वेनप्रशंसनं, प्रतिप्रस्थातुः प्रयाजहोमार्थमध्वर्युं प्रति प्रैषप्रदानविधानम्, अंत्यप्रयाजं हुत्वा प्रयाजशेषेणादौ वपाभिघारणं पश्चात्पृषदाज्याभिघारणं चेति विधानम्, आदौ पृषदाज्याभिधारणमिति चरकाध्वर्यूणां मतस्य प्रत्याख्यानं, सप्रकारकं वपायागविधानं, तत्र प्रैषे 'प्रस्थितम् इति पदं न ब्रूयादिति निषेधकरणं, हुत्वा वपां परस्पराभिमुखयो- र्वपाश्रपण्योः समंत्रमनुप्रासनविधानं, वपायागप्रशंसनं, चात्वाले मार्जनकरणविधानं चेत्यादि.


ब्राह्मण ३

३ पशोऽनुनिर्वाप्यपुरोडाशस्य तद्देवतायाश्च विधानं, पुरोडाशानुनिर्वापं पूर्यमाणस्य पशोः समृद्धिहेतुत्वेन प्रशंसनं, पुरोडाशस्य वपानंतर्यप्रशंसनं, पशोर्विशसनविधानं, शमितुरनुशासनविधानं, हृदयावदानार्थं जुह्वां पृषदाज्यं गृहीत्वा शामित्रं प्रति गत्वा ततोऽध्वर्युशमित्रोः प्रश्नप्रतिप्रश्नकरणविधानं, प्रश्नप्रयोजनकथनं, सार्थवादं समंत्रमग्रे हृदयाभिघारणविधानम्, अभिघारणमन्त्रांते स्वाहाकारकरणप्रतिषेधः, अवदानार्थं दक्षि- णतो हविराहरणमार्गप्रदर्शनं दक्षिणत- उत्तरबर्हिःसु प्लक्षशाखासु प्रतिप्रस्थाताऽङ्गान्यवद्येदिति विधानं, प्रसंगात्प्लक्षवृक्षोत्पत्तिवर्णनं, क्रमात्प्रधानपश्वङ्गस्विष्टकृद्वसाहोमार्थं जुहूपभृद्वसाहोमहवनीसमवत्तधानीषु आज्यमुपस्तीर्य जुहूपभृतोर्हिरण्यशकलावधानविधानं, मनोतानुवाचनं विधाय तन्नामनिर्वचनेन तत्प्रशंसनं, प्रधानार्थावद्यमानानि हदयाद्यङ्गानि तत्क्रमं च विधाय तेषां प्रशंसनं, हृदयं जिह्वा वक्षः सव्यदोः पार्श्वद्वयं यकृद्य त्रेधाकृतं गुदं स्थूलमध्यभागौ दक्षिणा श्रोणिरित्येकादशानां जौहवाङ्गानामवदानविधानं, दक्षिणदोर्द्वेधाकृतं गुदाणुभागं सव्याश्रोणिरिति स्विष्टकृदर्थानां त्रयाणामौपभृतानाम- ङ्गानामवदानविधानं, पूर्ववद्धिरण्यशकलावधानमुपरिष्टादाज्याभिघारणविधानं च, मन्त्रमन्त्रार्थविवरणसहितं वसाहोमद्रव्यग्रहणविधानं, तदुपरिष्टादाज्यस्य द्विरभिघारणविधानम्, समंत्रकम् पार्श्वास्थिनाऽसिना वा गृहीताया वसाया विभजनविधानं, गृहीतावशिष्टां वसां प्रधानावशिष्टानि हृदयाद्यंगानि समवत्तधान्या प्रास्य पुनराज्येन द्विरभिघारणमभितो हिरण्यशकलावधानविधानम्, प्रधानस्विष्टकृदर्थावदानानां समुच्चयेन प्रशंसनं, शिरआदीनामनवदे- यत्वस्योपपत्तेराख्यानमुखेन प्रदर्शनम्, अवद्यात्तहविःप्रदानप्रकारकथनं, वपाप्रैषवदग्निषोमीयंप्रैषेऽपि प्रस्थितम् इति पदं न ब्रूयादिति निषेधकरणं, वसाहोमस्य कालविधानम्, वसाहोममंत्रकथनं मंत्रस्य वैश्वदेवत्वं प्रकृतहोम- संगतमिति प्रतिपादनम्, वसाहोमानंतर प्रधानहोमविधानं, वनस्पतियागं विधाय तस्य यूपद्वारा पशोः सोमत्वसम्पादकत्वेन प्रशंसनम्, स्विष्टकृद्यागप्रकारकथनम्, वसाहोमशेषेण समंत्रं दिग्व्याघारणविधानम्, सम्यग्गतावयवस्य पशोः सम्मर्शनविधानम्, विशसनानन्तरकालस्यैतस्य व्यवस्थाप्रदर्शनम्, सम्मर्शने मंत्रमुक्त्वा तस्य विभज्य व्याख्यानं चेत्यादि.


ब्राह्मण ४

४ प्राणस्य श्रेष्ठत्वकारणाभिधानमुखेन गुदस्य प्रधानस्विष्टकृदुपयडिष्ट्यर्थं त्रेधा विभज्य विनियोगं प्रशंस्य प्रयाजादीनामितराङ्गत्वकथनम्, प्रसंगाद्यदिकथञ्चित्पशोः कृशत्वं स्यात्तर्हि गुदस्य सम्पूर्णत्वायोदर्यं मांसं तेन सह मिश्रिणीयमिति निरूपणम्, अनुयाजार्थं पृषदाज्यग्रहणं विधाय तत्प्रशंसनम्, विहिताननुयाजान्विधास्यमानैरुपयड्भिः सह पुरस्तादुपरिष्टाच्च विधास्यन्प्राणात्मना तत्प्रशं- सनम्, उपयजस्य निर्वचनपुरःसरं प्रशंसनम्, उपयड्यागे मन्त्रानुक्त्वा तद्व्याख्यानं चतुर्णामत्युपयड्ढोमानां विधानं, प्रजाभिवृद्धिहेतुतया तेषां प्रशंसनं चेति,



ब्राह्मण ५

५ अत्युपयाजमंत्रान्विधाय पुनःसृष्ट्यभिवृद्धिहेतुतया तत्प्रशंसनं, मन्त्रतदर्थयुतं मुखविमर्शनविधानम्, जाघन्या पत्नीसंयावनविधानं, जाघन्या अपि प्रदेशविशेषकथनम्, हृदयशूलस्यावभृथाय नयनस्य प्रयोजनाभिधानं, परिकर्मिणे हृदयशूलदानविधानं, पृथिव्यामप्सु च शूलं परास्यतो दोषप्रदर्शनम्, उक्तदोषाभावायोपायकथनम्, यदाऽब्विषये म्लानिं प्राप्नुयात्तदा यूपस्य प्राग्देशे उदपात्रं निनीय तत्रापीषदार्द्रप्रदेशे समन्त्रं हृदयशूलस्योपगूहनविधानम्, ईषदार्द्रे उपगूहनादपां पृथिव्यामुपगूहनात्तदीयौषधीनां च हिंसाप्रसंगोऽतस्तत्रोभयत्र हिंसापरिहाराय समंत्रं प्रार्थनाकरणविधानम्, अध्वर्युप्रभृतीनामभिमंत्रणविधानम्, एतस्य प्रशंसनं, शूलोपगूहनस्य विषयविशेषे निषेधकरणं चेति.