सामग्री पर जाएँ

शतपथब्राह्मणम्/काण्डम् ३/अध्यायः ८/ब्राह्मण २

विकिस्रोतः तः

३.८.२ संज्ञपनान्तरभाविप्रयोगकथनम्

यदा प्राह संज्ञप्तः पशुरिति । अथाध्वर्युराह नेष्टः पत्नीमुदानयेत्युदानयति नेष्टा पत्नीं पान्नेजनं बिभ्रतीम् - ३.८.२.१

तां वाचयति । नमस्त ऽआतानेति यज्ञो वा ऽआतानो यज्ञं हि तन्वते तेन यज्ञ आतानो जघनार्द्धो वा एष यज्ञस्य यत्पत्नी तामेतत्प्राचीं यज्ञं प्रसादयिष्यन्भवति तस्मा एवैतद्यज्ञाय निह्नुते तथो हैनामेष यज्ञो न हिनस्ति तस्मादाह नमस्त ऽआतानेति -- ३.८.२.२

अनर्वा प्रेहीति । असपत्नेन प्रेहीत्येवैतदाह घृतस्य कुल्या ऽउप ऋतस्य पथ्या ऽअन्विति साधूपेत्येवैतदाह देवीरापः शुद्धा वोढ्वं सुपरिविष्टा देवेषु सुपरिविष्टा वयं परिवेष्टारो भूयास्मेत्यप एवैतत्पावयति - ३.८.२.३

अथ पशोः प्राणानद्भिः पत्न्युपस्पृशति । तद्यदद्भिः प्राणानुपस्पृशति जीवं वै देवानां हविरमृतममृतानामथैतत्पशुं घ्नन्ति यत्संज्ञपयन्ति यद्विशासत्यापो वै प्राणास्तदस्मिन्नेतान्प्राणान्दधाति तथैतज्जीवमेव देवानां हविर्भवत्यमृतममृतानाम् - ३.८.२.४

अथ यत्पत्न्युपस्पृशति । योषा वै पत्नी योषायै वा इमाः प्रजाः प्रजायन्ते
तदेनमेतस्यै योषायै प्रजनयति तस्मात्पत्न्युपस्पृशति - ३.८.२.५

सोपस्पृशति । वाचं ते शुन्धामीति मुखं प्राणं ते शुन्धामीति नासिके चक्षुस्ते शुन्धामीत्यक्ष्यौ श्रोत्रं ते शुन्धामीति कर्णौ नाभिं ते शुन्धामीति योऽयमनिरुक्तः प्राणो मेढ्रं ते शुन्धामीति वा पायुं ते शुन्धामीति योऽयं पश्चात्प्राणस्तत्प्राणान्दधाति तत्समीरयत्यथ संहृत्य पदश्चरित्रांस्ते शुन्धामीति पद्भिर्वै प्रतितिष्ठति प्रतिष्ठित्या एव तदेनं प्रतिष्ठापयति - ३.८.२.६

अथ या आपः परिशिष्यन्ते । अर्धा वा यावत्यो वा ताभिरेनं यजमानश्च शीर्षतोऽग्रे
ऽनुषिञ्चतस्तत्प्राणांश्चैवास्मिंस्तत्तौ धत्तस्तच्चैनमतः समीरयतः - ३.८.२.७

तद्यत्क्रूरीकुर्वन्ति । यदास्थापयन्ति शान्तिरापस्तदद्भिः शान्त्या शमयतस्तदद्भिः संधत्तः - ३.८.२.८

तावनुषिञ्चतः । मनस्त आप्यायतां वाक्त आप्यायतां प्राणस्त आप्यायतां चक्षुस्त
आप्यायतां श्रोत्रं त आप्यायतामिति तत्प्राणान्धत्तस्तत्समीरयतो यत्ते क्रूरं यदास्थितं तत्त आप्यायतां निष्ट्यायतामिति - ३.८.२.९

तद्यत्क्रूरीकुर्वन्ति । यदास्थापयन्ति शान्तिरापस्तदद्भिः शान्त्या शमयतस्तदद्भिः संधत्तस्तत्ते शुध्यत्विति तन्मेध्यं कुरुतः शमहोभ्य इति जघनेन पशुं निनयतः - ३.८.२.१०

तद्यत्क्रूरीकुर्वन्ति । यदास्थापयन्ति नेदेतदन्वशान्तान्यहोरात्राण्यसन्निति तस्माच्छमहोभ्य इति जघनेन पशुं निनयतः - ३.८.२.११

अथोत्तानं पशुं पर्यस्यन्ति । स तृणमन्तर्दधात्योषधे त्रायस्वेति वज्रो वा असिस्तथो हैनमेष वज्रोऽसिर्न हिनस्त्यथासिनाभिनिदधाति स्वधिते मैनं हिंसीरिति वज्रो वा असिस्तथो हैनमेष वज्रोऽसिर्न हिनस्ति - ३.८.२.१२

सा या प्रज्ञाताश्रिः । तयाभिनिदधाति सा हि यजुष्कृता मेध्या तद्यदग्रं तृणस्य तत्सव्ये प्राणौ कुरुतेऽथ यद्बुध्नं तद्दक्षिणेनादत्ते - ३.८.२.१३

स यत्राच्छ्यति । यत एतल्लोहितमुत्पतति तदुभयतोऽनक्ति रक्षसां भागोऽसीति रक्षसां ह्येष भागो यदसृक् - ३.८.२.१४

तदुपास्याभितिष्ठति । इदमहं रक्षोऽभितिष्ठामीदमहं रक्षोऽवबाध इदमहं रक्षोऽधमं तमो नयामीति तद्यज्ञेनैवैतन्नाष्ट्रा रक्षांस्यवबाधते तद्यदमूलमुभयतः परिच्छिन्नं भवत्यमूलं वा इदमुभयतः परिच्छिन्नं रक्षोऽन्तरिक्षमनुचरति यथायं पुरुषोऽमूल उभयतः परिच्छिन्नोऽन्तरिक्षमनुचरति तस्मादमूलमुभयतः परिच्छिन्नम्भवति - ३.८.२.१५

अथ वपामुत्खिदन्ति । तया वपाश्रपण्यौ प्रोर्णौति घृतेन द्यावापृथिवी प्रोर्णुवाथामिति तदिमे द्यावापृथिवी ऊर्जा रसेन भाजयत्यनयोरूर्जं रसं दधाति ते रसवत्या उपजीवनीये इमाः प्रजा उपजीवन्ति - ३.८.२.१६

कार्ष्मर्यमय्यौ वपाश्रपण्यौ भवतः । यत्र वै देवा अग्रे पशुमालेभिरे तदुदीचः कृष्यमाणस्यावाङ्मेधः पपात स एष वनस्पतिरजायत तद्यत्कृष्यमाणस्यावाङपतत्तस्मात्कार्ष्मर्यस्तेनैवैनमेतन्मेधेन समर्धयति कृत्स्नं करोति तस्मात्कार्ष्मर्यमय्यौ वपाश्रपण्यौ भवतः - ३.८.२.१७

तां परिवासयति । तां पशुश्रपणे प्रतपति तथो हास्यात्रापि शृता भवति पुनरुल्मुकमग्नीदादत्ते ते जघनेन चात्वालं यन्ति त आयन्त्यागच्छन्त्याहवनीयं स एतत्तृणमध्वर्युराहवनीये प्रास्यति वायो वै स्तोकानामिति स्तोकानां हैषा समित् - ३.८.२.१८

अथोत्तरतस्तिष्ठन्वपां प्रतपति । अत्येष्यन्वा एषोऽग्निं भवति दक्षिणतः परीत्य श्रपयिष्यंस्तस्मा एवैतन्निह्नुते तथो हैनमेषोऽतियन्तमग्निर्न हिनस्ति तस्मादुत्तरतस्तिष्ठन् वपां प्रतपति - ३.८.२.१९

तामन्तरेण यूपं चाग्निं च हरन्ति । तद्यत्समया न हरन्ति येनान्यानि हवींषि हरन्ति नेदशृतया समया यज्ञं प्रसजामेति यदु बाह्येन न हरन्त्यग्रेण यूपम्बहिर्द्धा यज्ञात्कुर्युस्तस्मादन्तरेण यूपं चाग्निं च हरन्ति दक्षिणतः परीत्य प्रतिप्रस्थाता श्रपयति - ३.८.२.२०

अथ स्रुवेणोपहत्याज्यम् । अध्वर्युर्वपामभिजुहोत्यग्निराज्यस्य वेतु स्वाहेति तथो हास्यैते स्तोकाः शृताः स्वाहाकृता आहुतयो भूत्वाग्निं प्राप्नुवन्ति - ३.८.२.२१

अथाह स्तोकेभ्योऽनुब्रूहीति । स आग्नेयी स्तोकेभ्योऽन्वाह तद्यदाग्नेयी स्तोकेभ्योऽन्वाहेतः प्रदाना वै वृष्टिरितो ह्यग्निर्वृष्टिं वनुते स एतै स्तोकैरेतान्त्स्तोकान्वनुते त एते स्तोका वर्षन्ति तस्मादाग्नेयी स्तोकेभ्योऽन्वाह यदा शृता भवति - ३.८.२.२२

अथाह प्रतिप्रस्थाता शृता प्रचरेति । स्रुचावादायाध्वर्युरतिक्रम्याश्राव्याह स्वाहाकृतिभ्यः प्रेष्येति वषट्कृते जुहोति - ३.८.२.२३

हुत्वा वपामेवाग्रेऽभिघारयति । अथ पृषदाज्यं तदु ह चरकाध्वर्यवः पृषदाज्यमेवाग्रेऽभिघारयन्ति प्राणः पृषदाज्यमिति वदन्तस्तदु ह याज्ञवल्क्यं चरकाध्वर्युरनुव्याजहारैवं कुर्वन्तं प्राणं वा अयमन्तरगादध्वर्युः प्राण एनं हास्यतीति - ३.८.२.२४

स ह स्म बाहू अन्ववेक्ष्याह । इमौ पलितौ बाहू क्व स्विद्ब्राह्मणस्य वचो बभूवेति न तदाद्रियेतोत्तमो वा एष प्रयाजो भवतीदं वै हविर्यज्ञ उत्तमे प्रयाजे ध्रुवामेवाग्रेऽभिघारयति तस्यै हि प्रथमावाज्यभागौ होष्यन्भवति वपां वा अत्र प्रथमां होष्यन्भवति तस्माद्वपामेवाग्रेऽभिघारयेदथ पृषदाज्यमथ यत्पशुं नाभिघारयति नेदशृतमभिघारयाणीत्येतदेवास्य सर्वः पशुरभिघारितो भवति यद्वपामभिघारयति तस्माद्वपामेवाग्रेऽभिघारयेदथ पृषदाज्यम् - ३.८.२.२५

अथाज्यमुपस्तृणीते । अथ हिरण्यशकलमवदधात्यथ वपामवद्यन्नाहाग्नीषोमाभ्यां छागस्य वपायै मेदसोऽनुब्रूहीत्यथ हिरण्यशकलमवदधात्यथोपरिष्टाद्द्विराज्यस्याभिघारयति - ३.८.२.२६

तद्यद्धिरण्यशकलावभितो भवतः । घ्नन्ति वा एतत्पशुं यदग्नौ जुह्वत्यमृतमायुर्हिरण्यं तदमृत आयुषि प्रतितिष्ठति तथात उदेति तथा संजीवति तस्माद्धिरण्यशकलावभितो भवत आश्राव्याहाग्नीषोमाभ्यां छागस्य वपां मेदः प्रेष्येति न प्रस्थितमित्याह प्रसुते प्रस्थितमिति वषट्कृते जुहोति - ३.८.२.२७

हुत्वा वपां समीच्यौ । वपाश्रपण्यौ कृत्वानुप्रास्यति स्वाहाकृते ऊर्ध्वनभसम्मारुतं गच्छतमिति नेदिमे अमुया सतो याभ्यां वपामशिश्रपामेति - ३.८.२.२८

तद्यद्वपया चरन्ति । यस्यै वै देवतायै पशुमालभन्ते तामेवैतद्देवतामेतेन मेधेन प्रीणाति सैषा देवतैतेन मेधेन प्रीता शान्तोत्तराणि हवींषि श्रप्यमाणान्युपरमति तस्माद्वपया चरन्ति - ३.८.२.२९

अथ चात्वाले मार्जयन्ते । क्रूरी वा एतत्कुर्वन्ति यत्संज्ञपयन्ति यद्विशासति शान्तिरापस्तदद्भिः शान्त्या शमयन्ते तदद्भिः संदधते तस्माच्चात्वाले मार्जयन्ते - ३.८.२.३०


टिप्पणी

३.४.१.१६ कार्ष्मर्य

कार्ष्मर्य (भद्रपर्णी-)

१. कार्ष्मर्यमयीं दक्षिणत उपदधाति । त एतꣳ रक्षोहणं वनस्पतिमपश्यन्कार्ष्मर्यम् ( देवाः )। माश ७, ४, १, ३७ ।

२. कार्ष्मर्यमयाः परिधयः । देवा ह वा एतं वनस्पतिषु राक्षोघ्नं ददृशुर्यत्कार्ष्मर्यम् । माश ३, ४, १, १६ ।

३. प्रजापतेर्विस्रस्तस्याग्निस्तेज आदाय दक्षिणाकर्षत्सोऽत्रोदरमद्यत्कृष्ट्वोदरमत्तस्मात्कार्ष्मर्यः। माश ७, ४, १, ३९।

४. कार्ष्मर्यमय्यौ वपाश्रपण्यौ भवतः । यत्र वै देवा अग्रे पशुमालेभिर तदुदीचः कृष्यमाणस्यावाङ् मेधः पपात स एष वनस्पतिरजायत तद्यत्कृष्यमाणस्यावाङपतत्तस्मात्कार्ष्मर्यः। माश ३, ८, २, १७ ॥

५. वज्रः ( वज्रो वै काठ. ) कार्ष्मर्यः । तैसं ५, २, ७, ४; काठ २०, ५; क ३१, ७ । कार्ष्मर्य-मय- कार्ष्मर्यमयाः परिधयो भवन्ति रक्षसामपहत्यै । मै ३, ७, ९, काठ २४, ८; क ३८, १ ।

कार्ष्मर्यमयी

१. इयं (पृथिवी ) वै कार्ष्मर्यमयी । तैसं ५, २, ७, ३; काठ २०, ५; क ३१, ७ ।

२. यत् कार्ष्मर्यमयीं दक्षिणत उपदधाति (सादयति मै.J) रक्षसामन्तर्हित्यै (°सामपहत्यै ।मै..)। मै ३, २, ६; क ३१, ७ ।