शतपथब्राह्मणम्/काण्डम् ३/अध्यायः ८/ब्राह्मण ३

विकिस्रोतः तः
Jump to navigation Jump to search

३.८.३

यद्देवत्यः पशुर्भवति । तद्देवत्यं पुरोडाशमनुनिर्वपति तद्यत्पुरोडाशमनुनिर्वपति सर्वेषां वा एष पशूनां मेधो यद्व्रीहियवौ तेनैवैनमेतन्मेधेन समर्धयति कृत्स्नं करोति तस्मात्पुरोडाशमनुनिर्वपति - ३.८.३.[१]

अथ यद्वपया प्रचर्य । एतेन पुरोडाशेन प्रचरति मध्यतो वा इमां वपामुत्खिदन्ति मध्यत एवैनमेतेन मेधेन समर्धयति कृत्स्नं करोति तस्माद्वपया प्रचर्यैतेन पुरोडाशेन प्रचरत्येष न्वेवैतस्य बन्धुर्यत्र क्व चैष पशुं पुरोडाशोऽनुनिरुप्यते - ३.८.३.[२]

अथ पशुं विशास्ति । त्रिः प्रच्यावयतात्त्रिः प्रच्युतस्य हृदयमुत्तमं कुरुतादिति त्रिवृद्धि यज्ञः - ३.८.३.[३]

अथ शमितारं संशास्ति । यत्त्वा पृच्छाच्छृतं हविः शमिता३रिति शृतमित्येव ब्रूतान्न शृतम्भगवो न शृतं हीति - ३.८.३.[४]

अथ जुह्वा पृषदाज्यस्योपहत्य । अध्वर्युरुपनिष्क्रम्य पृच्छति शृतं हविः शमिता३रिति शृतमित्याह तद्देवानामित्युपांश्वध्वर्युः - ३.८.३.[५]

तद्यत्पृच्छति । शृतं वै देवानां हविर्नाशृतं शमिता वै तद्वेद यदि शृतं वा भवत्यशृतं वा - ३.८.३.[६]

तद्यत्पृच्छति । शृतेन प्रचराणीति तद्यद्यशृतं भवति शृतमेव देवानां हविर्भवति शृतं यजमानस्यानेना अध्वर्युर्भवति शमितरि तदेनो भवति त्रिष्कृत्वः पृच्छति त्रिवृद्धि यज्ञोऽथ यदाह तद्देवानामिति तद्धि देवानां यच्छृतं तस्मादाह तद्देवानामिति - ३.८.३.[७]

स हृदयमेवाग्रेऽभिघारयति । आत्मा वै मनो हृदयं प्राणः पृषदाज्यमात्मन्येवैतन्मनसि प्राणं दधाति तथैतज्जीवमेव देवानां हविर्भवत्यमृतममृतानाम् - ३.८.३.[८]

सोऽभिघारयति । सं ते मनो मनसा सं प्राणः प्राणेन गच्छतामिति न स्वाहाकरोति न ह्येषाहुतिरुद्वासयन्ति पशुम् - ३.८.३.[९]

तं जघनेन चात्वालमन्तरेण यूपं चाग्निं च हरन्ति । तद्यत्समया न हरन्ति नान्यानि हवींषि हरन्ति शृतं सन्तं नेदङ्गशो विकृत्तेन क्रूरीकृतेन समया यज्ञं प्रसजामेति यदु बाह्येन न हरन्त्यग्रेण यूपं बहिर्द्धा ह यज्ञात्कुर्युस्तस्मादन्तरेण यूपं चाग्निं च हरन्ति दक्षिणतो निधाय प्रतिप्रस्थातावद्यति प्लक्षशाखा उत्तरबर्हिर्भवन्ति ता अध्यवद्यति तद्यत्प्लक्षशाखा उत्तरबर्हिर्भवन्ति - ३.८.३.[१०]

यत्र वै देवाः । अग्रे पशुमालेभिरे तं त्वष्टा शीर्षतोऽग्रेऽभ्युवामोतैवं चिन्नालभेरन्निति त्वष्टुर्हि पशवः स एष शीर्षन्मस्तिष्कोऽनूक्यश्च मज्जा तस्मात्स वान्त इव त्वष्टा ह्येतमभ्यवमत्तस्मात्तं नाश्नीयात्त्वष्टुर्ह्येतदभिवान्तम् - ३.८.३.[११]

तस्यावाङ्मेधः पपात । स एष वनस्पतिरजायत तं देवाः प्रापश्यंस्तस्मात्प्रख्यः प्रख्यो ह वै नामैतद्यत्प्लक्ष इति तेनैवैनमेतन्मेधेन समर्धयति कृत्स्नं करोति तस्मात्प्लक्षशाखा उत्तरबर्हिर्भवन्ति - ३.८.३.[१२]

अथाज्यमुपस्तृणीते । जुह्वां चोपभृति च वसाहोमहवन्यां समवत्तधान्यामथ हिरण्यशकलाववदधाति जुह्वां चोपभृति च - ३.८.३.[१३]

अथ मनोतायै हविषोऽनुवाच आह । तद्यन्मनोतायै हविषोऽनुवाच आह सर्वा ह वै देवताः पशुमालभ्यमानमुपसंगच्छन्ते मम नाम ग्रहीष्यति मम नाम ग्रहीष्यतीति सर्वासां हि देवतानां हविः पशुस्तासां सर्वासां देवतानां पशौ मनांस्योतानि भवन्ति तान्येवैतत्प्रीणाति तथो हामोघाय देवतानाम्मनांस्युपसंगतानि भवन्ति तस्मान्मनोतायै हविषोऽनुवाच आह - ३.८.३.[१४]

स हृदयस्यैवाग्रेऽवद्यति । तद्यन्मध्यतः सतो हृदयस्याग्रेऽवद्यति प्राणो वै हृदयमतो ह्ययमूर्ध्वः प्राणः संचरति प्राणो वै पशुर्यावद्ध्येव प्राणेन प्राणिति तावत्पशुरथ यदास्मात्प्राणोऽपक्रामति दार्वेव तर्हि भूतोऽनर्थ्यः शेते - ३.८.३.[१५]

हृदयमु वै पशुः । तदस्यात्मन एवाग्रेऽवद्यति तस्माद्यदि किंचिदवदानं हीयेत न तदाद्रियेत सर्वस्य हैवास्य तत्पशोरवत्तं भवति यद्धृदयस्याग्रेऽवद्यति तस्मान्मध्यतः सतो हृदयस्यैवाग्रेऽवद्यत्यथ यथापूर्वम् - ३.८.३.[१६]

अथ जिह्वायै । सा हीयं पूर्वार्धात्प्रतिष्ठत्यथ वक्षसस्तद्धि ततोऽथैकचरस्य दोष्णोऽथ पार्श्वयोरथ तनिम्नोऽथ वृक्कयोः - ३.८.३.[१७]

गुदं त्रेधा करोति । स्थविमोपयड्भ्यो मध्यं जुह्वां द्वेधा कृत्वावद्यत्यणिम त्र्यङ्गेष्वथैकचरायै श्रोणेरेतावन्नु जुह्वामवद्यति - ३.८.३.[१८]

अथोपभृति । त्र्यङ्ग्यस्य दोष्णो गुदं द्वेधा कृत्वावद्यति त्र्यङ्ग्यायै श्रोणेरथ हिरण्यशकलाववदधात्यथोपरिष्टादाज्यस्याभिघारयति - ३.८.३.[१९]

अथ वसाहोमं गृह्णाति । रेडसीति लेलयेव हि यूस्तस्मादाह रेडसीत्यग्निष्ट्वा श्रीणात्वित्यग्निर्ह्येतच्छ्रपयति तस्मादाहाग्निष्ट्वा श्रीणात्वित्यापस्त्वा समरिणन्नित्यापो ह्येतमङ्गेभ्यो रसं सम्भरन्ति तस्मादाहापस्त्वा समरिणन्निति - ३.८.३.[२०]

वातस्य त्वा ध्राज्या इति । अन्तरिक्षं वा अयमनुपवते योऽयं पवतेऽन्तरिक्षाय वै
गृह्णाति तस्मादाह वातस्य त्वा ध्राज्या इति - ३.८.३.[२१]

पूष्णो रंह्या इति । एष वै पूष्णो रंहिरेतस्मा उ हि गृह्णाति तस्मादाह पूष्णो रंह्या
इति - ३.८.३.[२२]

ऊष्मणो व्यथिषदिति । एष वा ऊष्मैतस्मा उ हि गृह्णाते तस्मादाहोष्मणो व्यथिषदित्यथोपरिष्टाद्द्विराज्यस्याभिघारयति - ३.८.३.[२३]

अथ पार्श्वेन वासिना वा प्रयौति । प्रयुतं द्वेष इति तन्नाष्ट्रा एवैतद्रक्षांस्यतोऽपहन्ति - ३.८.३.[२४]

अथ यद्यूष्परिशिष्यते । तत्समवत्तधान्यामानयति तद्धृदयं प्रास्यति जिह्वां वक्षस्तनिम मतस्ने वनिष्ठुमथोपरिष्टाद्द्विराज्यस्याभिघारयति - ३.८.३.[२५]

तद्यद्धिरण्यशकलावभितो भवतः । घ्नन्ति वा एतत्पशुं यदग्नौ जुह्वत्यमृतमायुर्हिरण्यं तदमृत आयुषि प्रतितिष्ठति तथात उदेति तथा संजीवति तस्माद्धिरण्यशकलावभितो भवतः - ३.८.३.[२६]

अथ यदक्ष्णयावद्यति । सव्यस्य च दोष्णो दक्षिणायाश्च श्रोणेर्द्दक्षिणस्य च दोष्णः सव्यायाश्च श्रोणेस्तस्मादयं पशुरक्ष्णया पदो हरत्यथ यत्सम्यगवद्येत्समीचो हैवायम्पशुः पदो हरेत्तस्मादक्ष्णयावद्यत्यथ यन्न शीर्ष्णोऽवद्यति नांसयोर्नानूकस्य नापरसक्थयोः - ३.८.३.[२७]

असुरा ह वा अग्रे पशुमालेभिरे । तद्देवा भीषा नोपावेयुस्तान्हेयं पृथिव्युवाच मैतदादृड्वमहं व एतस्याध्यक्षा भविष्यामि यथा यथैत एतेन चरिष्यन्तीति - ३.८.३.[२८]

सा होवाच । अन्यतरामेवाहुतिमहौषुरन्यतरां पर्यशिषन्निति स याम्पर्यशिंषंस्तानीमान्यवदानानि ततो देवाः स्विष्टकृते त्र्यङ्गाण्यपाभजंस्तस्मात्त्र्यङ्गाण्यथासुरा अवाद्यञ्छीर्ष्णोंऽसयोरनूकस्यापरसक्थयोस्तस्मात्तेषां नावद्येद्यन्न्वेव त्वष्टानूकमभ्यवमत्तस्मादनूकस्य नावद्येदथाहाग्नीषोमाभ्यां छागस्य हविषोऽनुब्रूहीत्याश्राव्याहाग्नीषोमाभ्यां छागस्य हविः प्रेष्येति न प्रस्थितमित्याह प्रसुते प्रस्थितमिति - ३.८.३.[२९]

अन्तरेणार्धर्चौ याज्यायै वसाहोमं जुहोति । इतो वा अयमूर्ध्वो मेध उत्थितो यमस्या इमं रसं प्रजा उपजीवन्त्यर्वाचीनं दिवो रसो वै वसाहोमो रसो मेधो रसेनैवैतद्रसं तीव्रीकरोति तस्मादयं रसोऽद्यमानो न क्षीयते - ३.८.३.[३०]

तद्यदन्तरेण । अर्धर्चौ याज्यायै वसाहोमं जुहोतीयं वा अर्धर्चोऽसौ द्यौरर्धर्चोऽन्तरा वै द्यावापृथिवी अन्तरिक्षमन्तरिक्षाय वै जुहोति तस्मादन्तरेणार्धर्चौ याज्यायै वसाहोमं जुहोति - ३.८.३.[३१]

स जुहोति । घृतं घृतपावानः पिबत वसां वसापावानः पिबतान्तरिक्षस्य हविरसि स्वाहेत्येतेन वैश्वदेवेन यजुषा जुहोति वैश्वदेवं वा अन्तरिक्षं तद्यदेनेनेमाःप्रजाः प्राणत्यश्चोदानत्यश्चान्तरिक्षमनुचरन्ति तेन वैश्वदेवं वषट्कृते जुहोति यानि जुह्वामवदानानि भवन्ति - ३.८.३.[३२]

अथ जुह्वा पृषदाज्यस्योपघ्नन्नाह । वनस्पतयेऽनुब्रूहीत्याश्राव्याह वनस्पतये प्रेष्येति वषट्कृते जुहोति तद्यद्वनस्पतये जुहोत्येतमेवैतद्वज्रं यूपम्भागिनं करोति सोमो वै वनस्पतिः पशुमेवैतत्सोमं करोति तद्यदन्तरेणोभे आहुती जुहोति तयोभयं व्याप्नोति तस्मादन्तरेणोभे आहुती जुहोति - ३.८.३.[३३]

अथ यान्युपभृत्यवदानानि भवन्ति । तानि समानयमान आहाग्नये स्विष्टकृतेऽनुब्रूहीत्याश्राव्याहाग्नये स्विष्टकृते प्रेष्येति वषट्कृते जुहोति - ३.८.३.[३४]

अथ यद्वसाहोमस्य परिशिष्यते । तेन दिशो व्याघारयति दिशः प्रदिश आदिशो विदिश उद्दिशो दिग्भ्यः स्वाहेति रसो वै वसाहोमः सर्वास्वेवैतद्दिक्षु रसं दधाति
तस्मादयं दिशिदिशि रसोऽभिगम्यते - ३.८.३.[३५]

अथ पशुं सम्मृशति । एतर्हि सम्मर्शनस्य कालोऽथ यत्पुरा सम्मृशति य इम उपतिष्ठन्ते ते विमथिष्यन्त इति शङ्कमानो यद्यु विमाथान्न शङ्केतात्रैव सम्मृशेत् - ३.८.३.[३६]

ऐन्द्रः प्राणः । अङ्गेअङ्गे निदीध्यदैन्द्र उदानो अङ्गेअङ्गे निधीत इति यदङ्गशो
विकृत्तो भवति तत्प्राणोदानाभ्यां संदधाति देव त्वष्टर्भूरि ते संसमेतु सलक्ष्मा यद्विषुरूपं भवातीति कृत्स्नवृतमेवैतत्करोति देवत्रा यन्तमवसे सखायोऽनु त्वा मातापितरो मदन्त्विति तद्यत्रैनमहौषीत्तदेनं कृत्स्नं कृत्वानुसमस्यति सोऽस्य कृत्स्नोऽमुष्मिंलोक आत्मा भवति - ३.८.३.[३७]