सामग्री पर जाएँ

शतपथब्राह्मणम्/काण्डम् २/अध्यायः ३

विकिस्रोतः तः

ब्राह्मण १ अग्निहोत्रविधिः

१ अग्निहोत्रस्य सूर्यात्मकतां प्रशस्य सायंप्रातर्होमयोः कालविशेषविधानम्, रात्रौ सूर्यस्याग्न्यवस्थानप्रति- पादनम्, सायम्प्रातर्होमयोर्गर्भवृद्धितज्जननहेतुत्वस्य उपपादनम् उद्यतः सूर्यस्य तेजःप्राप्तेर्दृष्टान्तेनोपपादनम्, सायंप्रातरग्निहोत्रयोः क्रमादस्तमयादुदयाच्च प्रागेवाहवनीयस्य विहरणं कर्तव्यमिति विधानम् अस्तमितानुदितहोमयोः प्रकारान्तरेण प्रशंसनम्, अग्निहोत्रहोमस्येतरयज्ञवैलक्षण्येन असंस्थितत्वप्रतिपादनम्, होमसाधनस्य पयसो दोहनाधिश्रयणयोर्विधानम् तदवज्योतन- विधानं च, सायम्प्रातरग्निहोत्राहुतीनां चतुरुन्नयनादिधर्मविधानम् होमोपमार्जनप्राशनोन्नयनानां संख्यां समुच्चित्य प्रशंसनं, तेषामुपयोगकथनं च, अग्निहोत्रस्य याज्ञवल्क्याभिमतपाकयज्ञत्वविधानम्, अग्निहोत्रे पूर्वाहुतेः प्रधान- देवताप्रीत्याधायकत्वं, द्वितीयाहुतेः स्विष्टकृत्स्थानीयत्वं चेति कथनम्, तयोराहुत्योर्भूतभविष्यदादिद्वन्द्वस्यात्मप्रजारूपत्वाद्धानद्धारूपत्वप्रदर्शनं समन्त्रकामन्त्रकत्वधर्मविधानं च, सायम्प्रातर्होमयोर्ब्रह्मवर्चसकामनया मंत्रविशेषयोर्विधानम्, अग्निर्ज्योतिः सूर्यो ज्योतिरित्यनयोर्होममंत्रयोः प्रज- ननरूपसद्भावात्ताम्यां होमे प्रजासम्पत्तिकथनम्, तथोदितहोमपक्षे संभवतीति उदितहोमपक्षाश्रयणीयत्वमाशंक्य दोषान्तरमुद्भाव्य च पक्षान्तराश्रयेण सजूर्देवेनेत्यनयोर्मंत्रयोर्विधानम्, हुतशिष्टस्थालीस्थपयसो ब्राह्मणानां पानं विधातुमग्निहोत्रहोमस्याध्वर्योस्तदन्यत्वविधानं चेत्यादि.

ब्राह्मण २ उपस्थानम्

२ तत्राग्नीनां दैवतरूपतां प्रतिपाद्य स्वरूपप्रतिपादनम्, एतद्वेदितुः फलकथनं च, तेषामग्नीनामुपस्थानकथ- नम्, अन्वाहार्यपचनस्याहरहर्दक्षिणत आहरणम्, उपवसथ एवाहरणं वा नवावसथे वाऽऽहरणमिति पक्षत्रयविधानं, तत्रोत्तरपक्षयो फलकथनं च, आह- वनीयाग्नेरवस्थाविशेषेण रुद्रवरुणे न्द्रादिदेवतारूपतामभिधाय तत्फलाय काम्यानां होमकालानामभिधानम्, एतेषां रुद्राद्यवस्थाविशेषाणां मध्ये प्रत्यवस्थाविशेषं नैरन्तर्येण संवत्सरपर्यन्तानुष्ठाननियमविधानमन्यथा सदृष्टान्तं दोषोद्भावनम्, संवत्सरपर्यन्तं नैरन्तर्येणैकपक्षं कुर्वतो यष्टुरुद्दिष्टफलप्राप्तिकथनम्, सार्थवादं पूर्वोत्तराहुतिद्रव्ययोरवशिष्टस्य चोत्तरोत्तरं भूयस्त्वं विधाय तदुपपादनं चेत्यादि.

ब्राह्मण ३

३ गार्हपत्याऽऽहवनीययोरग्न्योरुपस्थानं विधातुं प्रागग्न्याधानेन जनितस्या- ग्निहोत्राधिकरणस्याग्नेः भरणरूपेण स्तवनं, भरणात्प्राक्तदुद्वासननिषेधकथनं च, अग्निहोत्रस्यामृतत्वप्राप्तिसाधनत्वं वक्तुं सूर्यस्य मृत्युरूपताप्रतिपादनम्, अग्निहोत्रे तस्य मृत्यो रतिमुक्तिमभिधाय तद्द्वारा इतरयज्ञेष्वप्यतिमुक्तिः सिद्धेति दर्शनम्, मृत्योरतिमुक्तिरहोरात्राभ्यामपि यजमानेन ज्ञातव्येति सदृष्टान्तं प्रतिपादनम्, होमार्थमन्तरागमनं विधाय तत्प्रशंसनम् अग्निहोत्रस्य नौरूपेण स्तवनमुत्तरतः प्रवेशविधानं च, अग्निहोत्रस्य चित्याग्निसम्पत्त्या स्तवनम्, चित्याग्नेः संवत्सररूपत्त्वात्तावत्कालसाध्यस्याग्निहोत्रस्य संवत्सरसम्पत्तेरुपपादनम्, अग्निहोत्रस्य महदुक्थसम्पत्त्या स्तवनं चेति.

ब्राह्मण ४ बृहदुपस्थानम्

४ साख्यायिकं सायङ्कालीनाग्न्युपस्थानविधानम्, तत्रानुपस्थानोपस्थानपक्षयोः सकारणं पूर्वोत्तरपक्षाभ्यां प्रतिपादनम्, उपस्थानसाधनभूतायाः प्रथमाया ऋचो लिंगविशेषमुपन्यस्य प्रशंसनम् ।
अथ बृहदुपस्थानम् । उपस्थानसाधनभूतानां षण्णामृचां तात्पर्याभिधानम्, तत्र प्रथमोत्तमयोर्लिङ्गविशेषमुपजीव्य स्तवनं त्रिर्जपविधानपूर्वकं प्रशंसनं च, दोषोद्भावन- तत्परिहारपुरःसरं ' तनूपा अग्नेऽसि' इत्यादिमन्त्रैराहवनीयोपस्थानविधानं, सधर्मकमुक्तोपस्थानमंत्रतात्पर्याभिधानं च, तत्र ' चित्रावसो ' इत्यादिमंत्रस्य त्रिर्जपविधानम्, उक्तमंत्रजपप्रयोजनाख्यापकपुरावृत्तकथनम्, प्रकृताग्न्युपस्थानस्याभिप्रायोपवर्णनम्, अग्निहोत्रहोमधेनोः समंत्रकमुपगमनमुपस्पर्शनं च विधाय तत्प्रशंसनम्, गार्हपत्योपस्थानविधानम्, एतदुपस्थानमंत्राणां तात्पर्याभिधानम्, आहवनीयगार्हपत्योपस्थानयोः पशुपुरुषयोः प्राप्तिहेतुत्वकथनम्, समंत्रकस्य गोसमीपगमनस्य तदुपस्पर्शनस्य च विधानम्, प्रयोजनसहितः सोमानमित्यस्य त्रिचस्य महित्रीणामित्यस्य त्रिचस्य कदाचनेत्यैन्द्र्यास्तत्सवितुरिति सावित्र्याः परि ते दूढभ इत्याग्नेय्याश्चर्चो जपविधि- स्तत्राग्नेय्यास्त्रिर्जपविधिश्च, दर्शपूर्ण- मासवदत्रापि पुत्रनामानुध्यानं चेत्यादि.