शतपथब्राह्मणम्/काण्डम् २/अध्यायः ३/ब्राह्मण ४
२.३.४ बृहदुपस्थानम्
अग्नौ ह वै देवाः । सर्वान्पशून्निदधिरे ये च ग्राम्या ये चारण्या विजयं वोपप्रैष्यन्तः कामचारस्य वा कामायायं नो गोपिष्ठो गोपायदिति वा - २.३.४.१
तानु हाग्निर्निचकमे । तैः सम्गृह्य रात्रिं प्रविवेश पुनरेम इति देवा एदग्निं तिरोभूतं ते ह विदांचक्रुरिह वै प्राविक्षद्रात्रिं वै प्राविक्षदिति तमेतत्प्रत्यायत्यां रात्रौ सायमुपातिष्ठन्त देहि नः पशून्पुनर्नः पशून्देहीति तेभ्योऽग्निः पशून्पुनरददात् - २.३.४.२
तस्मै कमग्नी उपतिष्ठेत । अग्नी वै दातारौ तावेवैतद्याचते सायमुपतिष्ठेत सायं हि देवा उपातिष्ठन्त दत्तो हैवास्मा एतौ पशून्य एवं विद्वानुपतिष्ठते - २.३.४.३
अथ यस्मान्नोपतिष्ठेत । उभये ह वा इदमग्रे सहासुर्देवाश्च मनुष्याश्च तद्यद्ध स्म मनुष्याणां न भवति तद्ध स्म देवान्याचन्त इदं वै नो नास्तीदं नोऽस्त्विति ते तस्या एव याञ्च्यायै द्वेषेण देवास्तिरोभूता नेद्धिनसानि नेद्द्वेष्योऽसानीति तस्मान्नोपतिष्ठेत- २.३.४.४
अथ यस्मादुपैव तिष्ठेत । यज्ञो वै देवानामाशीर्यजमानस्य तद्वा एष एव यज्ञो यदाहुतिराशीरेव यजमानस्य तद्यदेवास्यात्र तदेवैतदुपतिष्ठमानः कुरुते तस्मादुपैव तिष्ठेत - २.३.४.५
अथ यस्मान्नोपतिष्ठेत । यो वै ब्राह्मणं वा शंसमानोऽनुचरति क्षत्रियं वा यं मे दास्यत्ययं मे गृहान् करिष्यतीति यो वै तं वाद्येन वा कर्मणा वाभिरिराधयिषति तस्मै वै स देयं मन्यतेऽथ य आह किं नु त्वं ममासि यो मे न ददासीतीश्वर एनं द्वेष्टोरीश्वरो निर्वेदं गन्तोस्तस्मान्नोपतिष्ठेतैतदित्त्वेवैष एत याचते यदिन्द्धे यज्जुहोति तस्मान्नोपतिष्ठेत - २.३.४.६
अथ यस्मादुपैव तिष्ठेत । उत वै याच्छन्दातारं लभत एवोतो भर्ता भार्यं नानुबुध्यते स यदैवाह भार्यो वै तेऽस्मि बिभृहि मेत्यथैनं वेदाथैनम्भार्यं मन्यते तस्मादुपैव तिष्ठेतेदमित्तु समस्तं यस्मादुपतिष्ठेत - २.३.४.७
प्रजापतिर्वा एष भूत्वा । यावत ईष्टे यावदेनमनु तस्य रेतः सिञ्चति यदग्निहोत्रं जुहोतीदमेवैतत्सर्वमुपतिष्ठमानोऽनुविकरोतीदं सर्वमनुप्रजनयति - २.३.४.८
स वा उपवत्या प्रतिपद्यते । इयं वा उप द्वयेनेयमुप यद्धीदं किं च जायतेऽस्यां तदुपजायतेऽथ यन्न्यृच्छत्यस्यामेव तदुपोप्यते तदह्ना रात्र्या भूयोभूय एवाक्षय्यं भवति तदक्षय्येणैवैतद्भूम्ना प्रतिपद्यते - २.३.४.९
स आह । [१]उपप्रयन्तो अध्वरमित्यध्वरो वै यज्ञ उपप्रयन्तो यज्ञमित्येवैतदाह मन्त्रं वोचेमाग्नय इति मन्त्रमु ह्यस्मा एतद्वक्ष्यन्भवत्यारे अस्मे च शृण्वत इति यद्यप्यस्मदारकादस्यथ न एतच्छृण्वेवैवमेवैतन्मन्यस्वेत्येवैतदाह - २.३.४.१०
अग्निर्मूर्धा दिवः । ककुत्पतिः पृथिव्या अयमपां रेतांसि जिन्वतीत्यन्वेव धावति तद्यथा याचन् कल्याणं वदेदामुष्यायणो वै त्वमस्यलं वै त्वमेतस्मा असीत्येवमेषा - २.३.४.११
अथैन्द्राग्नी । उभा वामिन्द्राग्नी आहुवध्या उभा राधसः सह मादयध्यै उभा दाताराविषां रयीणामुभा वाजस्य सातये हुवे वामित्येष वा इन्द्रो य एष तपति स यदस्तमेति तदाहवनीयं प्रविशति तदुभावेवैतत्सह सन्ता उपतिष्ठत उभौ मे सह सन्तौ दत्तामिति तस्मादैन्द्राग्नी - २.३.४.१२
अयं ते योनिर्ऋत्वियः । यतो जातो अरोचथाः तं जानन्नग्न आरोहाथा नो वर्धया रयिमिति पुष्टं वै रयिर्भूयो भूय एव न इदं पुष्टं कुर्वित्येवैतदाह - २.३.४.१३
अयमिह प्रथमः । धायि धातृभिर्होता यजिष्ठो अध्वरेष्वीड्यः यमप्नवानो भृगवो विरुरुचुर्वनेषु चित्रं विभ्वं विशे विश इत्यन्वेव धावति तद्यथा याचन्कल्याणं वदेदामुष्यायणो वै त्वमस्यलं वै त्वमेतस्मा असीत्येवमेषा यथो एवैष तथो एवैनमेतदाह यदाह विभ्वं विशे विश इति विभूर्ह्येष विशे विशे - २.३.४.१४
अस्य प्रत्नाम् । अनु द्युतं शुक्रं दुदुह्रे अह्रयः पयः सहस्रसामृषिमिति परमा वा एषा सनीनां यत्सहस्रसनिस्तदेतस्यैवावरुद्धै तस्मादाह पयः सहस्रसामृषिमिति - २.३.४.१५
तदेतत्समाहार्यं षडृचम् । तस्योपवती प्रथमा प्रत्नवत्युत्तमावोचाम तद्यस्मादुपवत्यथाद एव प्रत्नं यावन्तो ह्येव सनाग्रे देवास्तावन्त एव देवास्तस्माददः प्रत्नं तदिमे एवान्तरेण सर्वे कामास्ते अस्मा इमे संजानाने सर्वान् कामान्त्संनमतः - २.३.४.१६
स वै त्रिः प्रथमां जपति । त्रिरुत्तमां त्रिवृत्प्रायणा हि यज्ञास्त्रिवृदुदयनास्तस्मात्त्रिः प्रथमां जपति त्रिरुत्तमाम् - २.३.४.१७
यद्ध वा अत्राग्निहोत्रं जुह्वत् । वाद्येन वा कर्मणा वा मिथ्या करोत्यात्मनस्तदवद्यत्यायुषो वा वर्चसो वा प्रजायै वा - २.३.४.१८
तदु खलु तनूपा अग्नेऽसि । तन्वं मे पाह्यायुर्दा अग्नेऽस्यायुर्मे देहि वर्चोदा अग्नेऽसि वर्चो मे देहि अग्ने यन्मे तन्वा ऊनं तन्म आप्रणेति - २.३.४.१९
यद्ध वा अत्राग्निहोत्रं जुह्वत् । वाद्येन वा कर्मणा वा मिथ्याकरोत्यात्मनस्तदवद्यत्यायुषो वा वर्चसो वा प्रजायै वा तन्मे पुनराप्याययेत्येवैतदाह तथो हास्यैतत्पुनराप्यायते - २.३.४.२०
इन्धानास्त्वा । शतं हिमा द्युमन्तं समिधीमहीति शतं वर्षाणि जीव्यास्मेत्येवैतदाह तावत्त्वा महान्तं समिधीमहीति यदाह द्युमन्तं समिधीमहीति वयस्वन्तो वयस्कृतं सहस्वन्तः सहस्कृतमिति वयस्वन्तो वयम्भूयास्म वयस्कृत्त्वं भूया इत्येवैतदाह सहस्वन्तो वयं भूयास्म सहस्कृत्त्वं भूया इत्येवैतदाहाग्ने सपत्नदम्भनमदब्धासो अदाभ्यमिति त्वया वयं सपत्नान्पापीयसः क्रियास्मेत्येवैतदाह - २.३.४.२१
चित्रावसो स्वस्ति ते पारमशीयेति । त्रिरेतज्जपति रात्रिर्वै चित्रावसुः सा हीयं संगृह्येव
चित्राणि वसति तस्मान्नारकाच्चित्रं ददृशे - २.३.४.२२
एतेन ह स्म वा ऋषयः । रात्रेः स्वस्ति पारं समश्नुवत एतेनो ह स्मैनान्रात्रेर्नाष्ट्रा रक्षांसि न विन्दन्त्येतेनो एवैष एतद्रात्रेः स्वस्ति पारं समश्नुत एतेनो एनं रात्रेर्नाष्ट्रा रक्षांसि न विन्दन्त्येतावन्नु तिष्ठञ्जपति - २.३.४.२३
अथासीनः । सं त्वमग्ने सूर्यस्य वर्चसागथा इति तद्यदस्तं यन्नादित्य आहवनीयं प्रविशति तेनैतदाह समृषीणां स्तुतेनेति तद्यदुपतिष्ठते तेनैतदाह सं प्रियेण धाम्नेत्याहुतयो वा अस्य प्रियं धामाहुतिभिरेव तदाह समहमायुषा सं वर्चसा सं प्रजया सं रायस्पोषेण ग्मिषीयेति यथा त्वमेतैः समगथा एवमहमायुषा वर्चसा प्रजया रायस्पोषेणेति यद्भूम्नेति तदेवमहमेतैः संगच्छा इत्येवैतदाह - २.३.४.२४
अथ गामभ्यैति । अन्ध स्थान्धो वो भक्षीय मह स्थ महो वो भक्षीयेति यानि वो वीर्याणि यानि वो महांसि तानि वो भक्षीयेत्येवैतदाहोर्ज स्थोर्जं वो भक्षीयेति रस स्थ रसं वो भक्षीयेत्येवैतदाह रायस्पोष स्थ रायस्पोषं वो भक्षीयेति भूमा स्थ भूमानं वो भक्षीयेत्येवैतदाह - २.३.४.२५
रेवती रमध्वमिति रेवन्तो हि पशवस्तस्मादाह रेवती रमध्वमित्यस्मिन्योनावस्मिन् गोष्ठेऽस्मिंलोकेऽस्मिन् क्षये । इहैव स्तमापगातेत्यात्मन एवैतदाह मदेव मापगातेति - २.३.४.२६
अथ गामभिमृशति । संहितासि विश्वरूपीति विश्वरूपा इव हि पशवस्तस्मादाह विश्वरूपीत्यूर्जा माविश गौपत्येनेत्यूर्जेति यदाह रसेनेति तदाह गौपत्येनेति यदाह भूम्नेति तदाह - २.३.४.२७
अथ गार्हपत्यमभ्यैति । स गार्हपत्यमुपतिष्ठत उप त्वाग्ने दिवे दिवे दोषावस्तर्धिया वयं नमो भरन्त एमसीति नम एवास्मा एतत्करोति यथैनं न हिंस्यात् - २.३.४.२८
राजन्तमध्वराणाम् । गोपामृतस्य दीदिविं वर्धमानं स्वे दम इति स्वं वै त इदं यन्मम तन्नो भूयो भूय एव कुर्वित्येवैतदाह - २.३.४.२९
स नः पितेव सूनवे । अग्ने सूपायनो भव सचस्वा नः स्वस्तय इति यथा पिता पुत्राय सूपचरो नैवैनं केन चन हिनस्त्येवं नः सूपचर एधि मैव त्वा केन चन हिंसिष्मेत्येवैतदाह - २.३.४.३०
अथ द्विपदाः । अग्ने त्वं नो अन्तम उत त्राता शिवो भवा वरूथ्यः वसुरग्निर्वसुश्रवा अच्छा नक्षि द्युमत्तमं रयिं दाः तं त्वा शोचिष्ठ दीदिवः सुम्नाय नूनमीमहे सखिभ्यः स नो बोधि श्रुधी हवमुरुष्या णो अघायतः समस्मादिति - २.३.४.३१
यद्वा आहवनीयमुपतिष्ठते । पशूंस्तद्याचते तस्मात्तमुच्चावचैश्छन्दोभिरुपतिष्ठत उच्चावचा इव हि पशवोऽथ यद्गार्हपत्यं पुरुषांस्तद्याचते तद्गायत्रं प्रथमं त्रिचं गायत्रं वा अग्नेश्छन्दः स्वेनैवैनमेतच्छन्दसोपपरैति - २.३.४.३२
अथ द्विपदाः । पुरुषच्छन्दसं वै द्विपदा द्विपाद्वा अयं पुरुषः पुरुषानैवैतद्याचते पुरुषान्हि याचते तस्माद्द्विपदाः पशुमान्ह वै पुरुषवान्भवति य एवं विद्वानुपतिष्ठते - २.३.४.३३
अथ गामभ्यैति । इड एह्यदित एहीतीडा हि गौरदितिर्हि गौस्तामभिमृशति काम्या एतेति मनुष्याणां ह्येतासु कामाः प्रविष्टास्तस्मादाह काम्या एतेति मयि वः कामधरणं भूयादित्यहं वः प्रियो भूयासमित्येवैतदाह - २.३.४.३४
अथान्तरेणाहवनीयं च गार्हपत्यं च । प्राङ्तिष्ठन्नग्निमीक्षमाणो जपति सोमानं स्वरणं कृणुहि ब्रह्मणस्पते कक्षीवन्तं य औशिजः यो रेवान्यो अमीवहा वसुवित्पुष्टिवर्धनः स नः सिषक्तु यस्तुरः मा नः शंसो अररुषो धूर्तिः प्रणङ्मर्त्यस्य रक्षा णो ब्रह्मणस्पत इति - २.३.४.३५
यद्वा आहवनीयमुपतिष्ठते । दिवं तदुपतिष्ठतेऽथ यद्गार्हपत्यं पृथिवीं तदथैतदन्तरिक्षमेषा हि दिग्बृहस्पतेरेतं ह्येतद्दिशमुपतिष्ठते तस्माद्बार्हस्पत्यं जपति - २.३.४.३६
महि त्रीणामवोऽस्तु । द्युक्षं मित्रस्यार्यम्णः दुराधर्षं वरुणस्य न हि तेषाममा चन नाध्वसु वारणेषु ईशे रिपुरघशंसः ते हि पुत्रासो अदितेः प्रजीवसे मर्त्याय ज्योतिर्यच्छन्त्यजस्रमिति तत्रास्ति नाध्वसु वारणेष्वित्येति ह वा अध्वानो वारणा य इमेऽन्तरेण द्यावापृथिवी एतान्ह्येतदुपतिष्ठते तस्मादाह नाध्वसु वारणेष्विति - २.३.४.३७
अथैन्द्री । इन्द्रो वै यज्ञस्य देवता सेन्द्रमेवैतदग्न्युपस्थानं कुरुते कदाचन स्तरीरसि नेन्द्र सश्चसि दाशुष इति यजमानो वै दाश्वान्न यजमानाय द्रुह्यसीत्येवैतदाहोपोपेन्नु मघवन्भूय इन्नु ते दानं देवस्य पृच्यत इति भूयो भूय एव न इदं पुष्टं कुर्वित्येवैतदाह - २.३.४.३८
अथ सावित्री । सविता वै देवानां प्रसविता तथो हास्मा एते सवितृप्रसूता एव सर्वे कामाः समृध्यन्ते तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि धियो यो नः प्रचोदयादिति- २.३.४.३९
अथाग्नेयी । तदग्नय एवैतदात्मानमन्ततः परिददाति गुप्त्यै [२]परि ते दूडभो रथोऽस्मानश्नोतु विश्वतः येन रक्षसि दाशुष इति यजमाना वै दाश्वांसो यो ह वा अस्यानाधृष्यतमो रथस्तेनैष यजमानानभिरक्षति स यस्तेऽनाधृष्यतमो रथो येन यजमानानभिरक्षसि तेन नः सर्वतोऽभिगोपायेत्येवैतदाह त्रिरेतज्जपति- २.३.४.४०
अथ पुत्रस्य नाम गृह्णाति । इदं मेऽयं वीर्यं पुत्रोऽनुसंतनवदिति यदि पुत्रो न स्यादप्यात्मन एव नाम गृह्णीयात् - २.३.४.४१