शतपथब्राह्मणम्/काण्डम् २/अध्यायः ३/ब्राह्मण १
२.३.१
सूर्यो ह वा अग्निहोत्रम् । तद्यदेतस्या अग्र आहुतेरुदैत्तस्मात्सूर्योऽग्निहोत्रम् - २.३.१.१
स यत्सायमस्तमिते जुहोति । य इदं तस्मिन्निह सति जुहवानीत्यथ यत्प्रातरनुदिते जुहोति य इदं तस्मिन्निह सति जुहवानीति तस्माद्वै सूर्योऽग्निहोत्रमित्याहुः - २.३.१.२
अथ यदस्तमेति । तदग्नावेव योनौ गर्भो भूत्वा प्रविशति तं गर्भम्भवन्तमिमाः सर्वाः प्रजा अनु गर्भा भवन्तीलिता हि शेरे संजानाना अथ यद्रात्रिस्तिर एवैतत्करोति तिर इव हि गर्भाः - २.३.१.३
स यत्सायमस्तमिते जुहोति । गर्भमेवैतत्सन्तमभिजुहोति गर्भं सन्तमभिकरोति स यद्गर्भं सन्तमभिजुहोति तस्मादिमे गर्भा अनश्नन्तो जीवन्ति - २.३.१.४
अथ यत्प्रातरनुदिते जुहोति । प्रजनयत्येवैनमेतत्सोऽयं तेजो भूत्वा विभ्राजमान उदेति शश्वद्ध वै नोदियाद्यदस्मिन्नेतामाहुतिं न जुहुयात्तस्माद्वा एतामाहुतिं जुहोति - २.३.१.५
स यथाहिस्त्वचो निर्मुच्येत । एवं रात्रेः पाप्मना निर्मुच्यते यथा ह वा अहिस्त्वचो निर्मुच्येतैवं सर्वस्मात्पाप्मनो निर्मुच्यते य एवं विद्वानग्निहोत्रं जुहोति तदेतस्यैवानु प्रजातिमिमाः सर्वाः प्रजा अनु प्रजायन्ते वि हि सृज्यन्ते यथार्थम् - २.३.१.६
स यः पुरादित्यस्यास्तमयात् । आहवनीयमुद्धरत्येते वै विश्वे देवा रश्मयोऽथ यत्परं भाः प्रजापतिर्वा स इन्द्रो वै तदु ह वै विश्वे देवा अग्निहोत्रं जुह्वतो गृहानागच्छन्ति स यस्यानुद्धृतमागच्छन्ति तस्माद्देवा अपप्रयन्ति तद्वा अस्मै तद्व्यृध्यते यस्माद्देवा अपप्रयन्ति तस्यानु व्यृद्धिं यश्च वेद यश्च नानुद्धृतमभ्यस्तमगादित्याहुः - २.३.१.७
अथ यः पुरादित्यस्यास्तमयात् । आहवनीयमुद्धरति यथा श्रेयस्यागमिष्यत्यावसथेनोपकॢप्तेनोपासीतैवं तत्स यस्योद्धृतमागच्छन्ति तस्याहवनीयं प्रविशन्ति तस्याहवनीये निविशन्ते - २.३.१.८
स यत्सायमस्तमिते जुहोति । अग्नावेवैभ्य एतत्प्रविष्टेभ्यो जुहोत्यथ यत्प्रातरनुदिते जुहोत्यप्रेतेभ्य एवैभ्य एतज्जुहोति तस्मादुदितहोमिनां विच्छिन्नमग्निहोत्रं मन्यामह इति ह स्माहासुरिर्यथा शून्यमावसथमाहरेदेवं तदिति - २.३.१.९
द्वयं वा इदं जीवनम् । मूलि चैवामूलं च तदुभयं देवानां सन्मनुष्या उपजीवन्ति पशवो मूला ओषधयो मूलिन्यस्ते पशवो मूला ओषधीर्मूलिनीर्जग्ध्वापः पीत्वा तत एष रसः सम्भवति - २.३.१.१०
स यत्सायमस्तमिते जुहोति । अस्य रसस्य जीवनस्य देवेभ्यो जुहवानि यदेषामिदं सदुपजीवाम इति स यत्ततो रात्र्याश्नाति हुतोच्छिष्ठमेव तन्निरवत्तबल्यश्नाति हुतोच्छिष्टस्य ह्येवाग्निहोत्रं जुह्वदशिता - २.३.१.११
अथ यत्प्रातरनुदिते जुहोति । अस्य रसस्य जीवनस्य देवेभ्यो जुहवानि यदेषामिदं सदुपजीवाम इति स यत्ततोऽह्नाश्नाति हुतोच्छिष्टमेव तन्निरवत्तबल्यश्नाति हुतोच्छिष्टस्य ह्येवाग्निहोत्रं जुह्वदशिता - २.३.१.१२
तदाहुः । समेवान्ये यज्ञास्तिष्ठन्तेऽग्निहोत्रमेव न संतिष्ठतेऽपि द्वादशसंवत्सरमन्तवदेवाथैतदेवानन्तं सायं हि हुत्वा वेद प्रातर्होष्यामीति प्रातर्हुत्वा वेद पुनः सायं होष्यामीति तदेतदनुपस्थितमग्निहोत्रं तस्यानुपस्थितिमन्वनुपस्थिता इमाः प्रजाः प्रजायन्तेऽनुपस्थितो ह वै श्रिया प्रजया प्रजायते य एवमेतदनुपस्थितमग्निहोत्रं वेद - २.३.१.१३
तद्दुग्ध्वाधिश्रयति । शृतमसदिति तदाहुर्यर्ह्युदन्तं तर्हि जुहुयादिति तद्वैनोदन्तं कुर्यादुप ह दहेद्यदुदन्तं कुर्यादप्रजज्ञि वै रेत उपदग्धं तस्मान्नोदन्तं कुर्यात् - २.३.१.१४
अधिश्रित्यैव जुहुयात् । यन्न्वेवैतदग्ने रेतस्तेन न्वेव शृतं यद्वेनदग्नावधिश्रयन्ति तेनो एव शृतं तस्मादधिश्रित्यैव जुहुयात् - २.३.१.१५
तदवज्योतयति । शृतं वेदानीत्यथापः प्रत्यानयति शान्त्यै न्वेव रसस्यो चैव सर्वत्वायेदं हि यदा वर्षत्यथौषधयो जायन्तऽथोषधीर्जग्ध्वापः पीत्वा तत एष रसः सम्भवति तस्मादु रसस्यो चैव सर्वत्वाय तस्माद्यद्येनं क्षीरं केवलं पानेऽभ्याभवेदुदस्तोकमाश्चोतयितवै ब्रूयाच्छान्त्यै न्वेव रसस्यो चैव सर्वत्वाय - २.३.१.१६
अथ चतुरुन्नयति । चतुर्धाविहितं हीदं पयोऽथ समिधमादायोदाद्रवति समिद्धहोमायैव सोऽनुपसाद्य पूर्वामाहुतिं जुहोति स यदुपसादयेद्यथा यस्मा अशनमाहरिश्यन्त्स्यात्तदन्तरा निदध्यादेवं तदथ यदनुपसाद्य यथा यस्मा अशनमाहरेत्तस्मा आहृत्यैवोपनिदध्यादेवं तदुपसाद्योत्तरां नानावीर्ये एवैने एतत्करोति मनश्च ह वै वाक्चैते आहुती तन्मनश्चैवैतद्वाचं च व्यावर्तयति तस्मादिदं मनश्च वाक्च समानमेव सन्नानेव - २.३.१.१७
स वै द्विरग्नौ जुहोति । द्विरुपमार्ष्टि द्विः प्राश्नाति चतुरुन्नयति तद्दश दशाक्षरा वै विराड्विराड्वै यज्ञस्तद्विराजमेवैतद्यज्ञमभिसम्पादयति - २.३.१.१८
स यदग्नौ जुहोति । तद्देवेषु जुहोति तस्माद्देवाः सन्त्यथ यदुपमार्ष्टि तत्पितृषु चौषधीषु च जुहोति तस्मात्पितरश्चौषधयश्च सन्त्यथ यद्धुत्वा प्राश्नाति तन्मनुष्येषु जुहोति तस्मान्मनुष्याः सन्ति - २.३.१.१९
या वै प्रजा यज्ञेऽनन्वाभक्ताः । पराभूता वै ता एवमेवैतद्या इमाः प्रजा अपराभूतास्ता यज्ञमुख आभजति तेनो ह पशवोऽन्वाभक्ता यन्मनुष्याननुपशवः - २.३.१.२०
तदु होवाच याज्ञवल्क्यः । न वै यज्ञ इव मन्तवै पाकयज्ञ इव वा इतीदं हि यदन्यस्मिन्यज्ञे स्रुच्यवद्यति सर्वं तदग्नौ जुहोत्यथैतदग्नौ हुत्वोत्सृप्याचामति निर्लेढि तदस्य पाकयज्ञस्येवेति तदस्य तत्पशव्यं रूपम् पशव्यो हि पाकयज्ञः - २.३.१.२१
सैषैकाहुतिरेवाग्रे । यामेवामूं प्रजापतिरजुहोदथ यदेत एतत्पश्चेवाध्रियन्ताग्निर्योऽयं पवते सूर्यस्तस्मादेषा द्वितीयाहुतिर्हूयते - २.३.१.२२
सा या पूर्वाहुतिः । साग्निहोत्रस्य देवता तस्मात्तस्यै जुहोत्यथ योत्तरा स्विष्टकृद्भाजनमेव सा तस्मात्तामुत्तरार्धे जुहोत्येषा हि दिक्स्विष्टकृतस्तन्मिथुनायैवैषा द्वितीयाहुतिर्हूयते द्वन्द्वं हि मिथुनम् प्रजननम् - २.३.१.२३
तद्द्वयमेवैते आहुती । भूतं चैव भविष्यच्च जातं च जनिष्यमाणं चागतं चाशा चाद्य च श्वश्च तद्द्वयमेवानु - २.३.१.२४
आत्मैव भूतम् । अद्धा हि तद्यद्भूतमद्धो तद्यदात्मा प्रजैव भविष्यदनद्धा हि तद्यद्भविष्यदनद्धो तद्यत्प्रजा - २.३.१.२५
आत्मैव जातम् । अद्धा हि तद्यज्जातमद्धो तद्यदात्मा प्रजैव जनिष्यमाणमनद्धा हि तद्यज्जनिष्यमाणमनद्धो तद्यत्प्रजा - २.३.१.२६
आत्मैवागतम् । अद्धा हि तद्यदागतमद्धो तद्यदात्मा प्रजैवाशानद्धा हि तद्यदाशानद्धो तद्यत्प्रजा - २.३.१.२७
आत्मैवाद्य । अद्धा हि तद्यदद्याद्धो तद्यदात्मा प्रजैव श्वोऽनद्धा हि तद्यच्छ्वोऽनद्धो तद्यत्प्रजा - २.३.१.२८
सा या पूर्वाहुतिः । सात्मानमभि हूयते तां मन्त्रेण जुहोत्यद्धा हि तद्यन्मन्त्रोऽद्धो तद्यदात्माऽथ योत्तरा सा प्रजामभि हूयते तां तूष्णीं जुहोत्यनद्धा हि तद्यत्तूष्णीमनद्धो तद्यत्प्रजा - २.३.१.२९
स जुहोति । [१]अग्निर्ज्योतिर्ज्योतिरग्निः स्वाहेत्यथ प्रातः सूर्यो ज्योतिर्ज्योतिः सूर्यः स्वाहेति तत्सत्येनैव हूयते यदा ह्येव सूर्योऽस्तमेत्यथाग्निर्ज्योतिर्यदा सूर्य उदेत्यथ सूर्यो ज्योतिर्यद्वै सत्येन हूयते तद्देवान् गच्छति - २.३.१.३०
तदु हैतदेवारुणये ब्रह्मवर्चसकामाय तक्षानूवाचाग्निर्वर्चो ज्योतिर्वर्चः सूर्यो वर्चो ज्योतिर्वर्च इति ब्रह्मवर्चसी हैव भवति य एवं विद्वानग्निहोत्रं जुहोति - २.३.१.३१
तद्वस्त्येव प्रजननस्येव रूपम् । अग्निर्ज्योतिर्ज्योतिरग्निः स्वाहेति तदुभयतो ज्योती रेतो देवतया परिगृह्णात्युभयतः परिगृहीतं वै रेतः प्रजायते तदुभयत एवैतत्परिगृह्य प्रजनयति - २.३.१.३२
अथ प्रातः । सूर्यो ज्योतिर्ज्योतिः सूर्यः स्वाहेति तदुभयतो ज्योती रेतो देवतया परिगृह्णात्युभयतः परिगृहीतं वै रेतः प्रजायते तदुभयत एवैतत्परिगृह्य प्रजनयति तत्प्रजननस्य रूपम् - २.३.१.३३
तदु होवाच जीवलश्चैलकिः । गर्भमेवारुणिः करोति न प्रजनयतीति स एतेनैव सायं जुहुयात् - २.३.१.३४
अथ प्रातः । ज्योतिः सूर्यः सूर्यो ज्योतिः स्वाहेति तद्बहिर्धा ज्योती रेतो देवतया करोति बहिर्धा वै रेतः प्रजातं भवति तदेनत्प्रजनयति - २.३.१.३५
तदाहुः । अग्नावेवैतत्सायं सूर्यं जुहोति सूर्ये प्रातरग्निमिति तद्वैतदुदितहोमिनामेव यदा ह्येव सूर्योऽस्तमेत्यथाग्निर्ज्योतिर्यदा सूर्य उदेत्यथ सूर्यो ज्योतिर्नास्य सा परिचक्षेयमेव परिचक्षा यत्तस्यै नाद्धा देवतायै हूयते याग्निहोत्रस्य देवताग्निर्ज्योतिर्ज्योतिरग्निः स्वाहेति तत्र नाग्नये स्वाहेत्यथ प्रातः सूर्यो ज्योतिर्ज्योतिः सूर्यः स्वाहेति तत्र न सूर्याय स्वाहेति - २.३.१.३६
अनेनैव जुहुयात् । सजूर्देवेन सवित्रेति तत्सवितृमत्प्रसवाय सजू रात्र्येन्द्रवत्येति तद्रात्र्या मिथुनं करोति सेन्द्रं करोतीन्द्रो हि यज्ञस्य देवता जुषाणो अग्निर्वेतु स्वाहेति तदग्नये प्रत्यक्षं जुहोति - २.३.१.३७
अथ प्रातः । सजूर्देवेन सवित्रेति तत्सवितृमत्प्रसवाय सजूरुषसेन्द्रवत्येत्यह्नेति वा तदह्नां वोषसां वा मिथुनं करोति सेन्द्रं करोतीन्द्रो हि यज्ञस्य देवता जुषाणः सूर्यो वेतु स्वाहेति तत्सूर्याय प्रत्यक्षं जुहोति तस्मादेवमेव जुहुयात् - २.३.१.३८
ते होचुः । को न इदं होष्यतीति ब्राह्मण एवेति ब्राह्मणेदं नो जुहुधीति किं मे ततो भविष्यतीत्यग्निहोत्रोच्छिष्टमेवेति स यत्स्रुचि परिशिनष्टि तदग्निहोत्रोच्छिष्टमथ यत्स्थाल्यां यथा परीणहो निर्वपेदेवं तत्तस्मात्तद्य एव कश्च पिबेत्तद्वै नाब्राह्मणः पिबेदग्नौ ह्यधिश्रयन्ति तस्मान्नाब्राह्मणः पिबेत् - २.३.१.३९
टिप्पणी
अग्निहोत्रोपरि टिप्पणी। व्यवहारे, अयं प्रतीयते यत् यदा जठरे अग्न्याः प्रदीपनं भवति, तदैव अग्निहोत्रमस्ति। यदा जठरे अग्निः प्रदीपिता भवति, तदा अल्पापि संभावना अस्ति यत् अयमग्निः सूर्यस्य रूपं धारितुं शक्यते। यावत् अग्निः सूर्यस्य रूपं धारयति, तावत् प्रतीक्षा एव श्रेयस्करः। लोके वादं श्रूयन्ते यत् अमुकः सूर्यदर्शनान्तरे एव भोजनं करोति। आध्यात्मिकपक्षे अयं अग्निहोत्रस्य सर्वश्रेष्ठ उदाहरणमस्ति। अपि च, नायमावश्यकं यत् प्रातःकाले एव अग्निः सूर्यस्य रूपं धारयेत्। यदा अग्निः सूर्यस्य रूपं धारयति, तदैव आध्यात्मिक प्रातःकालः अस्ति। अपि च, नैव आवश्यकमस्ति यत् अग्निः पूर्णरूपेण सूर्यस्य रूपं धारयेत्। अग्न्याः स्वरूपे किंचिदपि परिवर्तनं अग्निहोत्रस्य सूचकः अस्ति।