सामग्री पर जाएँ

शतपथब्राह्मणम्/काण्डम् १/अध्यायः ४

विकिस्रोतः तः

ब्राह्मण १

सामिधेन्यनुवचने उपांशुहिङ्करणादिधर्मविशेषविधानं, तत्र हिंकारप्रणवयो- स्तादात्म्याद्युपवर्णनं, सामिधेनीनामृचा सप्रयोजनं सोदाहरणं एति- प्रेति लिङ्गद्वयविशेषविधानं, सामिधेनीष्वृक्षु प्रथमद्वितीययोर्ऋचोः केषांचिन्मतेन लिङ्गैक्यमाशङ्क्य तत्खण्डनं, सामिधेनीनामृचां क्रमेण प्रायः पदशो व्याख्यानं, तत्र प्रसङ्गान्माथवविदेघराजकथाप्रस्तावः, अग्नेर्देवदूतत्वेतिहासः देवा- सुरनिवासनगर्यभिधानम्, अष्टम्यामृचि होता यो विश्ववेदसम् इति मानुषपरिकल्पितपाठान्तरस्य निरासः, सामिधेनीष्वृक्षु सप्तदश- संख्यापूरकयोर्धाय्याभूतयोः ऋचो स्थाननिर्धारणं, समिद्धवत्या दशम्या ऋचः प्राक्-अनुयाजसमिद्वर्जमवशिष्टुसर्वेध्मानामभ्याधानम्, अन्तिमाया ऋच प्रोक्षणीप्रैषवत्सम्प्रैषरूपत्वं, तद्गताध्वरपदस्य निरुक्तिपूर्वकं सोमयागे रूढिं प्रतिपाद्य दर्शपूर्णमासे च तद्योगं दर्शयित्वा द्वयोः समानफलजनकत्वोपवर्णनमित्यादि.

ब्राह्मण २

निगदानुवचनम्, आर्षेयानुवचनं, निवित्पाठः, यथादेवतं देवतावाहनं, सामि- धेनीपुरोऽनुवाक्ययोस्तिष्ठताऽनुवचनं, याज्यायां आसीनेनानुवचनमिति धर्मविशेषविधानं चेति

ब्राह्मण ३

शांतिकर्म-तत्र सामिधेनीभिः समिद्धोऽग्निः प्रदीप्ततमो भवतीत्यतः स रक्षःप्रभृतिभिरहिंस्यः स्प्रष्टुमशक्यश्च जायत इति कथनं, सामिधेनीनां तत्तल्लिङ्गोपन्यासेन प्राणापानादिकरणग्रामविशिष्टात्मसंस्कारहेतुत्वेन स्तुतिः,सामिधेन्यनुवचनकाले होतारं प्रतिं शपतो द्वेष्यस्य प्रत्यृचं प्राणा- पानादिवियोजनहेतुत्वेन प्रशंसनं च

ब्राह्मण ४

आघारसंज्ञकयोर्होमयोर्विधानं, मनो वाग्देवत्यौ च तौ पूर्वोत्तरावाघारौ समिद्धेऽग्नौ होतव्यौ, तत्र पूर्वघार उपांशु स्रुवेण तूष्णीमुत्तरत उपविष्टेन सता होतव्यः, उत्तराघारश्चोच्चैः स्रुचा स्वाहाकारेण दक्षितस्तिष्ठता सता होतव्यः, पूर्वाघारोत्तरं सप्रैषमग्निसम्मार्गः पूर्वोत्तरावाघारयोरग्निसंमार्गस्य च देवेभ्यो यक्ष्यमाणहविर्द्रव्यं वाहयित्वा प्रदानार्थं शकटसम्पत्या रूपणं, द्वयोराघारयोर्मध्ये- ऽग्रिसम्मार्जनानुष्ठानस्य प्रशंसा चेत्यादि.

ब्राह्मण ५

सेतिकर्तव्यताकं उत्तराघारहोमः, प्रत्येत्य जौहवेनाज्येन ध्रुवासमञ्जनं प्राजापत्यस्य पूर्वाघारस्योपांशु वप्रापको वाङ्मनसयोः संवादस्तत्र प्रजापतिकृतो निर्णयश्च,एतन्निर्णयेन विषादाद्वाचो गर्भः पतितस्ततः प्रभृति प्रजापतिं प्रति वाचो- ऽहव्यवाट्त्वधारणं, गर्भपतिताद्रेतसो ऽत्रेरुत्पत्तिः, अत्रिपदनिरुक्तिः, उक्तहेतुना सृतगर्भा रजस्वला वागात्रेयी प्रसिद्धा, अस्या वाचः सकल स्त्रीजातस्योपादानहेतुत्वाद् एवंरूपा लौकिक्यः स्त्रियोऽपि आत्रेय्य एवेत्यादि.