शतपथब्राह्मणम्/काण्डम् १/अध्यायः ४/ब्राह्मण २

विकिस्रोतः तः

१.४.२ निगदानुवचनम्

एतद्ध वै देवा अग्निं गरिष्ठेऽयुञ्जन् । यद्धोतृत्व इदं नो हव्यं वहेति तमेतद्गरिष्ठे युक्त्वोपामदन्वीर्यवान्वै त्वमस्यलं वै त्वमेतस्मा असीति वीर्ये समादधतो यथेदमप्येतर्हि ज्ञातीनां यं गरिष्ठे युञ्जन्ति तमुपमदन्ति वीर्यवान्वै त्वमस्यलं वै त्वमेतस्मा असीति वीर्ये समादधतः स यदत ऊर्ध्वमन्वाह – उपस्तौत्येवैनमेतत्, वीर्यमेवास्मिन्दधाति॥ - १.४.२.१

अग्ने महां असि ब्राह्मण भारतेति । ब्रह्म ह्यग्निस्तस्मादाह ब्राह्मणेति भारतेत्येष हि देवेभ्यो हव्यं भरति तस्माद्भरतोऽग्निरित्याहुरेष उ वा इमाः प्रजाः प्राणो भूत्वा बिभर्ति तस्माद्वेवाह भारतेति - १.४.२.२

अथार्षेयं प्रवृणीते । ऋषिभ्यश्चैवैनमेतद्देवेभ्यश्च निवेदयत्ययम्महावीर्यो यो यज्ञं प्रापदिति तस्मादार्षेयं प्रवृणीते - १.४.२.३

परस्तादर्वाक्प्रवृणीते । परस्ताद्ध्यर्वाच्यः प्रजाः प्रजायन्ते ज्यायसस्पतय उ चैवैतं निह्नुत इदं हि पितैवाग्रेऽथ पुत्रोऽथ पौत्रस्तस्मात्परस्तादर्वाक्प्रवृणीते - १.४.२.४

स आर्षेयमुक्त्वाह । देवेद्धो मन्विद्ध इति देवा ह्येतमग्र ऐन्धत तस्मादाह देवेद्ध इति मन्विद्ध इति मनुर्ह्येतमग्र ऐन्द्ध तस्मादाह मन्विद्ध इति - १.४.२.५

ऋषिष्टुत इति । ऋषयो ह्येतमग्रे स्तुवंस्तस्मादाहर्षिष्टुत इति - १.४.२.६

विप्रानुमदित इति । एते वै विप्रा यदृषय एते ह्येतमन्वमदंस्तस्मादाह विप्रानुमदित इति - १.४.२.७

कविशस्त इति । एते वै कवयो यदृषय एते ह्येतमशंसंस्तस्मादाह कविशस्त इति - १.४.२.८

ब्रह्मसंशित इति ब्रह्मसंशितो ह्येष घृताहवन इति घृताहवनो ह्येषः - १.४.२.९

प्रणीर्यज्ञानां रथीरध्वराणामिति । एतेन वै सर्वान्यज्ञान्प्रणयन्ति ये च पाकयज्ञा ये चेतरे तस्मादाह प्रणीर्यज्ञानामिति - १.४.२.१०

रथीरध्वराणामिति । रथो ह वा एष भूत्वा देवेभ्यो यज्ञं वहति तस्मादाह रथीरध्वराणामिति - १.४.२.११

अतूर्तो होता तूर्णिर्हव्यवाडिति । न ह्येतं रक्षांसि तरन्ति तस्मादाहातूर्तो होतेति
तूर्णिर्हव्यवाडिति सर्वं ह्येष पाप्मानं तरति तस्मादाह तूर्णिर्हव्यवाडिति - १.४.२.१२

आस्पात्रं जुहूर्देवानामिति । देवपात्रं वा एष यदग्निस्तस्मादग्नौ सर्वेभ्यो देवेभ्यो जुह्वति देवपात्रं ह्येष प्राप्नोति ह वै तस्य पात्रं यस्य पात्रम्प्रेप्स्यति य एवमेतद्वेद - १.४.२.१३

चमसो देवपान इति । चमसेन ह वा एतेन भूतेन देवा भक्षयन्ति तस्मादाह चमसो देवपान इति - १.४.२.१४

अरां इवाग्ने नेमिर्देवांस्त्वं परिभूरसीति । यथारान्नेमिः सर्वतः परिभूरेवं त्वं देवान्त्सर्वतः परिभूरसीत्येवैतदाह - १.४.२.१५

आवह देवान्यजमानायेति । तदस्मै यज्ञाय देवानावोढवा आहाग्निमग्न आवहेति तदाग्नेयायाज्यभागायाग्निमावोढ्वा आह सोममावहेति तत्सौम्यायाज्यभागाय सोममावोढवा आहाग्निमावहेति तद्य एष उभयत्राच्युत आग्नेयः पुरोडाशो भवति तस्मा अग्निमावोढवा आह - १.४.२.१६

अथ यथादेवतम् । देवां आज्यपां आवहेति तत्प्रयाजानुयाजानावोढवा आह प्रयाजानुयाजा वै देवा आज्यपा अग्निं होत्रायावहेति तदग्निं होत्रायावोढवा आह स्वं
महिमानमावहेति तत्स्वं महिमानमावोढवा आह वाग्वा अस्य स्वो महिमा तद्वाचमावोढवा आहा च वह जातवेदः सुयजा च यजेति तद्या एवैतद्देवता आवोढवा आह ता एवैतदाहा चैना वहानुष्ठ्या च यजेति यदाह सुयजा च यजेति - १.४.२.१७

स वै तिष्ठन्नन्वाह । अन्वाह ह्येतदसौ ह्यनुवाक्या तदसावेवैतद्भूत्वान्वाह तस्मात्तिष्ठन्नन्वाह - १.४.२.१८

आसीनो याज्यां यजति । इयं हि याज्या तस्मान्न कश्चन तिष्ठन्याज्यां यजतीयं हि याज्या तदियमेवैतद्भूत्वा यजति तस्मादासीनो याज्यां यजति - १.४.२.१९