शतपथब्राह्मणम्/काण्डम् १/अध्यायः ४/ब्राह्मण ५

विकिस्रोतः तः
Jump to navigation Jump to search


१.४.५ उत्तराघारः

स स्रुचोत्तरमाघारमाघारयिष्यन् । पूर्वेण स्रुचावञ्जलिं निदधाति नमो देवेभ्यः स्वधा पितृभ्य इति तद्देवेभ्यश्चैवैतत्पितृभ्यश्चार्त्विज्यं करिष्यन्निह्नुते सुयमे मे भूयास्तमिति स्रुचावादत्ते सुभरे मे भूयास्तम्भर्तुं वां शकेयमित्येवैतदाहास्कन्नमद्य देवेभ्य आज्यं सम्भ्रियासमित्यविक्षुब्धमद्य देवेभ्यो यज्ञं तनवा इत्येवैतदाह - १.४.५.[१]

अङ्घ्रिणा विष्णो मा त्वावक्रमिषमिति । यज्ञो वै विष्णुस्तस्मा एवैतन्निह्नुते मा
त्वावक्रमिषमिति वसुमतीमग्ने ते छायामुपस्थेषमिति साध्वीमग्ने ते छायामुपस्थेषमित्येवैतदाह - १.४.५.[२]

विष्णो स्थानमसीति । यज्ञो वै विष्णुस्तस्येव ह्येतदन्तिकं तिष्ठति तस्मादाह विष्णोस्थानमसीतीत इन्द्रो वीर्यमकृणोदित्यतो हीन्द्रस्तिष्ठन्दक्षिणतो नाष्ट्रा रक्षांस्यपाहंस्तस्मादाहेत इन्द्रो वीर्यमकृणोदित्यूर्ध्वोऽध्वर आस्थादित्यध्वरो वै यज्ञ ऊर्ध्वो यज्ञ आस्थादित्येवैतदाह - १.४.५.[३]

अग्ने वेर्होत्रं वेर्दूत्यमिति । उभयं वा एतदग्निर्देवानां होता च दूतश्च तदुभयं विद्धि यद्देवानामसीत्येवैतदाहावतां त्वां द्यावापृथिवी अव त्वं द्यावापृथिवी इति नात्र तिरोहितमिवास्ति स्विष्टकृद्देवेभ्य इन्द्र आज्येन हविषाभूत्स्वाहेतीन्द्रो वै यज्ञस्य देवता तस्मादाहेन्द्र आज्येनेति वाचे वा एतमाघारमाघारयतीन्द्रो वागित्यु वा आहुस्तस्माद्वेवाहेन्द्र आज्येनेति - १.४.५.[४]

अथासंस्पर्शयन्त्स्रुचौ पर्येत्य । ध्रुवया समनक्ति शिरो वै यज्ञस्योत्तर आघार आत्मा वै ध्रुवा तदात्मन्येवैतच्छिरः प्रतिदधाति शिरो वै यज्ञस्योत्तर आघारः श्रीर्वै शिरः श्रीर्हि वै शिरस्तस्माद्योऽर्धस्य श्रेष्ठो भवत्यसावमुष्यार्धस्य शिर इत्याहुः - १.४.५.[५]

यजमान एव ध्रुवामनु । योऽस्मा अरातीयति स उपभृतमनु स यद्धोपभृता समञ्ज्याद्यो यजमानायारातीयति तस्मिंच्छ्रियं दध्यात्तद्यजमान एवैतच्छ्रियं दधाति तस्माद्ध्रुवया समनक्ति - १.४.५.[६]

स समनक्ति । सं ज्योतिषा ज्योतिरिति ज्योतिर्वा इतरस्यामाज्यं भवति ज्योतिरितरस्यां ते ह्येतदुभे ज्योतिषी संगच्छेते तस्मादेवं समनक्ति - १.४.५.[७]

अथातो मनसश्चैव वाचश्च । अहम्भद्र उदितं मनश्च ह वै वाक्चाहम्भद्र ऊदाते - १.४.५.[८]

तद्ध मन उवाच । अहमेव त्वच्छ्रेयोऽस्मि न वै मया त्वं किं चनानभिगतं वदसि सा यन्मम त्वं कृतानुकरानुवर्त्मास्यहमेव त्वच्छ्रेयोऽस्मीति - १.४.५.[९]

अथ ह वागुवाच । अहमेव त्वच्छ्रेयस्यस्मि यद्वै त्वं वेत्थाहं तद्विज्ञपयाम्यहं संज्ञपयामीति - १.४.५.[१०]

ते प्रजापतिं प्रतिप्रश्नमेयतुः । स प्रजापतिर्मनस एवानूवाच मन एव त्वच्छ्रेयो मनसो वै त्वं कृतानुकरानुवर्त्मासि श्रेयसो वै पापीयाङ्कृतानुकरोऽनुवर्त्मा भवतीति - १.४.५.[११]

सा ह वाक्परोक्ता विसिष्मिये । तस्यै गर्भः पपात सा ह वाक्प्रजापतिमुवाचाहव्यवाडेवाहं तुभ्यं भूयासं यां मा परावोच इति तस्माद्यत्किं च प्राजापत्यं यज्ञे क्रियत उपांश्वेव तत्क्रियते अहव्यवाड्ढिवाक्प्रजापतय आसीत् - १.४.५.[१२]

तद्धैतद्देवाः । रेतश्चर्मन्वा यस्मिन्वा बभ्रुस्तद्ध स्म पृच्छन्त्यत्रेव त्यादिति ततोऽत्रिः सम्बभूव तस्मादप्यात्रेय्या योषितैनस्व्येतस्यै हि योषायै वाचो देवताया एते सम्भूताः - १.४.५.[१३]