शतपथब्राह्मणम्/काण्डम् १/अध्यायः १

विकिस्रोतः तः

ब्राह्मण १

तत्र - व्रतोपायनं, व्रतविसर्गः, यजमाननियमाः, अपां (प्रणीतासंज्ञकानां) प्रणयनं, परिस्तरणं, पात्रासादनं चेत्यादीतिकर्तव्यतानिरूपणं, तत्तदर्थवादातिकं च।


ब्राह्मण २

शूर्पाग्निहोत्रहवण्यादानात्प्रभृति गार्हपत्यस्य पश्चाद्धविद्धविरासादनान्ता हविर्द्रव्यसंपादनसम्बन्धिनीतिकर्तव्यता, तत्तदर्थवादादिकं च.


ब्राह्मण ३

पवित्रकरणं , तत्र प्रोक्षण्युत्पवनप्रयोजनकथनप्रसङ्गेन वृत्रासुरवधेतिहासः,- वृत्रनामनिरुक्तिः, तच्छरीरस्रुतदुर्गन्धाज्जले दर्भोत्पत्तिः,प्रोक्षणीनामपां प्रोक्षणं, हविःप्रोक्षणं, यज्ञपात्राणां प्रोक्षणं च.


ब्राह्मण ४

कृष्णाजिनादानादि-त्रिःफलीकरणान्ता पुरोडाशकरणसम्बन्धिनीतिकर्तव्यता, तत्र कृष्णाजिनस्य वेदत्रयीरूपत्वं यज्ञरूपत्वं च, तथाऽवहननपेषणप्रसङ्गेन हविःस्कन्दने दोषाभावात् प्रायश्चित्ताभावकथनम्, उलूखलमुसलयोर्दृषदुपलयोः सोमाभिषवार्थग्राव्णां च अद्रयः इति नामसाधारण्यादुलूखलमुसलाभ्यां दृषदुपलाभ्यां क्रियमाणस्यावहननस्य पेषणस्य च ग्रावसाध्येन सोमाभिषवेण साकं तुल्यतानिरूपणम्, अन्तरा मानुष्या वाचो व्याहरणे प्रायश्चित्तं, शम्यासमाहननहेतुभूत इतिहासश्चेत्यादि.