शतपथब्राह्मणम्/काण्डम् १/अध्यायः १/ब्राह्मण १

विकिस्रोतः तः
Jump to navigation Jump to search

१.१.१

व्रतमुपैष्यन् । अन्तरेणाहवनीयं च गार्हपत्यं च प्राङ्तिष्ठन्नप उपस्पृशति तद्यदप उपस्पृशत्यमेध्यो वै पुरुषो यदनृतं वदति तेन पूतिरन्तरतो मेध्या वा आपो मेध्यो भूत्वा व्रतमुपायानीति पवित्रं वा आपः पवित्रपूतो व्रतमुपायानीति तस्माद्वा अप उपस्पृशति - १.१.१.[१]

सोऽग्निमेवाभीक्षमाणो व्रतमुपैति । अग्ने व्रतपते व्रतं चरिष्यामि तच्छकेयं तन्मे राध्यतामित्यग्निर्वै देवानां व्रतपतिस्तस्मा एवैतत्प्राह व्रतं चरिष्यामि तच्छकेयं तन्मे राध्यतामिति नात्र तिरोहितमिवास्ति - १.१.१.[२]

अथ संस्थिते विसृजते । अग्ने व्रतपते व्रतमचारिषं तदशकं तन्मे राधीत्यशकद्ध्येतद्यो यज्ञस्य संस्थामगन्नराधि ह्यस्मै यो यज्ञस्य संस्थामगन्नेतेन न्वेव भूयिष्ठा इव व्रतमुपयन्त्यनेन त्वेवोपेयात् - १.१.१.[३]

द्वयं वा इदं न तृतीयमस्ति । सत्यं चैवानृतं च सत्यमेव देवा अनृतम्मनुष्या इदमहमनृतात्सत्यमुपैमीति तन्मनुष्येभ्यो देवानुपैति - १.१.१.[४]

स वै सत्यमेव वदेत् । एतद्धवै देवा व्रतं चरन्ति यत्सत्यं तस्मात्ते यशो यशो
ह भवति य एवं विद्वान्त्सत्यं वदति - १.१.१.[५]

अथ संस्थिते विसृजते । इदमहं य एवास्मि सोऽस्मीत्यमानुष इव वा एतद्भवति
यद्व्रतमुपैति न हि तदवकल्पते यद्ब्रूयादिदमहं सत्यादनृतमुपैमीति तदु खलु पुनर्मानुषो भवति तस्मादिदमहं य एवास्मि सोऽस्मीत्येवं व्रतं विसृजेत - १.१.१.[६]

अथातोऽशनानशनस्यैव । तदुहाषाढः सावयसोऽनशनमेव व्रतं मेने मनो ह वै देवा मनुष्यस्याजानन्ति त एनमेतद्व्रतमुपयन्तं विदुः प्रातर्नो यक्ष्यत इति तेऽस्य विश्वे देवा गृहानागच्छन्ति तेऽस्य गृहेषूपवसन्ति स उपवसथः - १.१.१.[७]

तन्न्वेवानवकॢप्तम् । यो मनुष्येष्वनश्नत्सु पूर्वोऽश्नीयादथ किमु यो देवेष्वनश्नत्सु पूर्वोऽश्नीयात्तस्मादु नैवाश्नीयात् - १.१.१.[८]

तदु होवाच याज्ञवल्क्यः । यदि नाश्नाति पितृदेवत्यो भवति यद्यु अश्नाति देवानत्यश्नातीति स यदेवाशितमनशितं तदश्नीयादिति यस्य वै हविर्न गृह्णन्ति
तदशितमनशितं स यदश्नाति तेनापितृदेवत्यो भवति यद्यु तदश्नाति यस्य हविर्न
गृह्णन्ति तेनो देवान्नात्यश्नाति - १.१.१.[९]

स वा आरण्यमेवाश्नीयात् । या वारण्या ओषधयो यद्वा वृक्ष्यं तदु ह स्माहापि
बर्कुर्वार्ष्णो माषान्मे पचत न वा एतेषां हविर्गृह्णन्तीति तदु तथा न कुर्याद्व्रीहियवयोर्वा एतदुपजं यच्छमीधान्यं तद्व्रीहियवावेवैतेन भूयांसौ करोति तस्मादारण्यमेवाश्नीयात् - १.१.१.[१०]

स आहवनीयागारे वैतां रात्रीं शयीत । गार्हपत्यागारे वा देवान्वा एष उपावर्तते यो
व्रतमुपैति स यानेवोपावर्त्तते तेषामेवैतन्मध्ये शेतेऽधः शयीताधस्तादिव हि श्रेयस उपचारः - १.१.१.[११]

स वै प्रातरप एव । प्रथमेन कर्मणाभिपद्यतेऽपः प्रणयति यज्ञो वा आपो यज्ञमेवैतत्प्रथमेन कर्मणाभिपद्यते ताः प्रणयति यज्ञमेवैतद्वितनोति - १.१.१.[१२]

स प्रणयति । कस्त्वा युनक्ति स त्वा युनक्ति कस्मै त्वा युनक्ति तस्मै त्वा युनक्तीत्येताभिरनिरुक्ताभिर्व्याहृतिभिरनिरुक्तो वै प्रजापतिः प्रजापतिर्यज्ञस्तत्प्रजापतिमेवैतद्यज्ञं युनक्ति - १.१.१.[१३]

यद्वेवापः प्रणयति । अद्भिर्वा इदं सर्वमाप्तं तत्प्रथमेनैवैतत्कर्मणा सर्वमाप्नोति - १.१.१.[१४]

यद्वेवास्यात्र । होता वाध्वर्युर्वा ब्रह्मा वाग्नीध्रो वा स्वयं वा यजमानो नाभ्यापयति तदेवास्यैतेन सर्वमाप्तं भवति - १.१.१.[१५]

यद्वेवापः प्रणयति । देवान्ह वै यज्ञेन यजमानांस्तानसुररक्षसानि ररक्षुर्न यक्ष्यध्व इति तद्यदरक्षंस्तस्माद्रक्षांसि - १.१.१.[१६]

ततो देवा एतं वज्रं ददृशुः । यदपो वज्रो वा आपो वज्रो हि वा आपस्तस्माद्येनैता
यन्ति निम्नं कुर्वन्ति यत्रोपतिष्ठन्ते निर्दहन्ति तत एतं वज्रमुदयच्छंस्तस्याभयेऽनाष्ट्रे निवाते यज्ञमतन्वत तथो एवैष एतं वज्रमुद्यच्छति तस्याभयेऽनाष्ट्रे निवाते यज्ञं तनुते तस्मादपः प्रणयति - १.१.१.[१७]

ता उत्सिच्योत्तरेण गार्हपत्यं सादयति । योषा वा आपो वृषाग्निर्गृहा वै गार्हपत्यस्तद्गृहेष्वेवैतन्मिथुनं प्रजननं क्रियते वज्रं वा एष उद्यच्छति योऽपः प्रणयति यो वा अप्रतिष्ठितो वज्रमुद्यच्छति नैनं शक्नोत्युद्यन्तुं सं हैनं शृणाति - १.१.१.[१८]

स यद्गार्हपत्ये सादयति । गृहा वै गार्हपत्यो गृहा वै प्रतिष्ठा, तद् गृहेष्वेवैतत् प्रतिष्ठायां प्रतितिष्ठति तथो हैनमेष वज्रो न हिनस्ति तस्माद्गार्हपत्ये सादयति - १.१.१.[१९]

ता उत्तरेणाहवनीयं प्रणयति । योषा वा आपो व्वृषाग्निर्मिथुनमेवैतत्प्रजननं क्रियत एवमिव हि मिथुनं कॢप्तमुत्तरतो हि स्त्री पुमांसमुपशेते - १.१.१.[२०]

ता नान्तरेण संचरेयुः । नेन्मिथुनं चर्यमाणमन्तरेण संचरानिति ता नातिहृत्य सादयेन्नो अनाप्ताः सादयेत्स यदतिहृत्य सादयेदस्ति वा अग्नेश्चापां च विभ्रातृव्यमिव स यथेव ह तदग्नेर्भवति यत्रास्याप उपस्पृशन्त्यग्नौ हाधिभ्रातृव्यं वर्धयेद्यदतिहृत्य सादयेद्यद्य अनाप्ताः सादयेन्नो हाभिस्तं काममभ्यापयेद्यस्मै कामाय प्रणीयन्ते तस्मादु सम्प्रत्येवोत्तरेणाहवनीयम्प्रणयति - १.१.१.[२१]

अथ तृणैः परिस्तृणाति । द्वन्द्वं पात्राण्युदाहरति शूर्पं चाग्निहोत्रहवणीं च स्फ्यं च कपालानि च शम्यां च कृष्णाजिनं चोलूखलमुसले दृषदुपल तद्दश दशाक्षरा वै विराड्विराड्वै यज्ञस्तद्विराजमेवैतद्यज्ञमभिसम्पादयत्यथ यद्द्वन्द्वं द्वन्द्वं वै वीर्यं यदा वै द्वौ सं रभेते अथ तद्वीर्यं भवति द्वन्द्वं वै मिथुनं प्रजननं मिथुनमेवैतत्प्रजननं क्रियते - १.१.१.[२२]

[सम्पाद्यताम्]

टिप्पणी

१.१.१.२२

हविर्यज्ञेभ्यः येषां दशयज्ञमिथुनानां उल्लेखमस्ति, तत् हविर्यज्ञेभ्यः यावत् सीमितं नास्ति। ये सोमयागाः सन्ति, तेषु यज्ञमिथुनानां उत्कृष्टस्वरूपाणां क्रमणं भवति। उदाहरणार्थं, शौ.अ. ९.६.१६ अनुसारेण यः शूर्पं अस्ति, सोमयागे तत् पवित्रमस्ति। यः उलूखलमुसले स्तः, तयोः सोमयागे क्रमणं ग्रावाणः रूपेण अथवा उलूखलबुध्नस्य यूपे भवति। हविर्यागे यः उपलमस्ति, तस्य सोमयागे क्रमणं उपरवसंज्ञकेषु बिलरूपेषु अस्ति, अयं प्रतीयते। या अग्निहोत्रहवणी अस्ति, यस्याः प्रयोगं अपसः धारणे भवति, तस्याः वैशिष्ट्यं हंसइव नीरक्षीरविवेकः अस्ति। सोमयागे अपसः स्थाने आज्यस्य उपयोगं भवति, तत्र अग्निहोत्रहवण्याः किं विकल्पमस्ति, अन्वेषणीयः। हविर्यज्ञे शम्यायाः न्यासं शिश्ने अस्ति। शिश्नः जिह्वायाः अनिरुक्तं रूपमस्ति। सोमयागे शम्यायाः एकं उपयोगं शम्यापरासरूपेण अस्ति।

तुलनीय -- तैत्तिरीयसंहितायां १.६.८.२ दशयज्ञायुधानि

तैत्तिरीयसंहितायां १.६.९.४ द्वादशद्वन्द्वसंपत्तिः

शूर्प-अग्निहोत्रहवणी उपरि टिप्पणी

स्फ्योपरि टिप्पणी

कपालोपरि टिप्पणी

शम्या उपरि संदर्भाः

जिह्वा उपरि टिप्पणी

कृष्णाजिनोपरि टिप्पणी

उलूखलमुसलोपरि टिप्पणी

दृषद-उपलोपरि टिप्पणी


शूर्पम्
अग्निहोत्रहवणी
आश्रावण-प्रत्याश्रावणम् (स्फ्यस्य संदर्भे)
स्फ्य
कृष्णाजिनम्.
उलूखलमुसले
दृषदउपले