शतपथब्राह्मणम्/काण्डम् १/अध्यायः १/ब्राह्मण २

विकिस्रोतः तः


१.१.२ पात्रासादनम्

अथ शूर्पं चाग्निहोत्रहवणीं चादत्ते । कर्मणे वां वेषाय वामिति यज्ञो वै कर्म यज्ञाय हि तस्मादाह कर्मणे वामिति वेषाय वामिति वेवेष्टीव हि यज्ञम् - १.१.२.१

अथ वाचं यच्छति । वाग्वै यज्ञोऽविक्षुब्धो यज्ञं तनवा इत्यथ प्रतपति प्रत्युष्टं रक्षः प्रत्युष्टा अरातयो निष्टप्तं रक्षो निष्टप्ता अरातय इति वा - १.१.२.२

देवा ह वै यज्ञं तन्वानाः । तेऽसुररक्षसेभ्य आसङ्गाद्बिभयाञ्चक्रुस्तद् यज्ञमुखादेवैतन्नाष्ट्रा रक्षांस्यतोऽपहन्ति - १.१.२.३

अथ प्रैति । उर्वन्तरिक्षमन्वेमीत्यन्तरिक्षं वा अनुरक्षश्चरत्यमूलमुभयतः परिच्छिन्नं यथायं पुरुषोऽमूल उभयतः परिच्छिन्नोऽन्तरिक्षमनुचरति तद्ब्रह्मणैवैतदन्तरिक्षमभयमनाष्ट्रं कुरुते - १.१.२.४

स वा अनस एव गृह्णीयात् । अनो ह वा अग्रे पश्चेव वा इदं यच्छालं स यदेवाग्रे
तत्करवाणिति तस्मादनस एव गृह्णीयात् - १.१.२.५

भूमा वा अनः । भूमा हि वा अनस्तस्माद्यदा बहु भवत्यनोवाह्यमभूदित्याहुस्तद्भूमानमेवैतदुपैति तस्मादनस एव गृह्णीयात् - १.१.२.६

यज्ञो वा अनः। यज्ञो हि वा अनस्तस्माद् अनस एव यजूंषि सन्ति। न कौष्ठस्य न कुम्भ्यै भस्त्रायै ह स्मर्षयो गृह्णन्ति तद्वृषीन्प्रति भस्त्रायै यजूंष्यासुस्तान्येतर्हि प्राकृतानि यज्ञाद्यज्ञं निर्मिमा इति तस्मादनस एव गृह्णीयात् - १.१.२.७

उतो पात्र्यै गृह्णन्ति। अनन्तरायमु तर्हि यजूंषि जपेत्। स्फ्यमु तर्ह्यधस्तादुपोह्य गृह्णीयाद्यतो युनजाम ततो विमुञ्चन्ति - १.१.२.८

तस्य वा एतस्यानसः । अग्निरेव धूरग्निर्हि वै धूरथ य एनद्वहन्त्यग्निदग्धमिवैषां वहं भवत्यथ यज्जघनेन कस्तम्भीं प्रउगं वेदिरेवास्य सा नीड एव हविर्धानम् - १.१.२.९

स धुरमभिमृशति । धूरसि धूर्व धूर्वन्तं धूर्व तं योऽस्मान्धूर्वति तं धूर्वयं वयं धूर्वाम इत्यग्निर्वा एष धुर्यस्तमेतदत्येष्यन्भवति हविर्ग्रहिष्यंस्तस्मा एवैतान्निह्नुते तथो हैतमेषोऽतियन्तमग्निर्धुर्यो न हिनस्ति - १.१.२.१०

तद्ध स्मैतदारुणिराह । अधर्मासशो वा अहं सपत्नान्धूर्वामीत्येतद्ध स्म स तदभ्याह - १.१.२.११

अथ जघनेन कस्तम्भीमीषामभिमृश्य जपति । देवानामसि वह्नितमं सस्नितमं पप्रितमं जुष्टतमं देवहूतमम् । ह्रुतमसि हविर्धानं दृंहस्व मा ह्वारित्यन एवैतदुपस्तौत्युपस्तुताद्रातमनसो हविर्गृह्णानीति मा ते यज्ञपतिर्ह्वार्षीदिति यजमानो वै यज्ञपतिस्तद्यजमानायैवैतदह्वलामाशास्ते - १.१.२.१२

अथाक्रमते । विष्णुस्त्वा क्रमतामिति यज्ञो वै विष्णुः स देवेभ्य इमां विक्रान्तिं विचक्रमे यैषामियं विक्रान्तिरिदमेव प्रथमेन पदेन पस्पाराथेदमन्तरिक्षं द्वितीयेन दिवमुत्तमेनैताम्वेवैष एतस्मै विष्णुर्यज्ञो विक्रान्तिं विक्रमते- १.१.२.१३

अथ प्रेक्षते । उरु वातायेति प्राणो वै वातस्तद्ब्रह्मणैवैतत्प्राणाय वातायोरुगायं कुरुते - १.१.२.१४

अथापास्यति । अपहतं रक्ष इति यद्यत्र किञ्चिदापन्नं भवति यद्यु नाभ्येवमृशेत्तन्नाष्ट्रा एवैतद्रक्षांस्यतोऽपहन्ति - १.१.२.१५

अथाभिपद्यते । यच्छन्तां पञ्चेति पञ्च वा इमा अङ्गुलयः पाङ्क्तो वै यज्ञस्तद्यज्ञमेवैतदत्र दधाति - १.१.२.१६

अथ गृह्णाति । देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्याम् अग्नये जुष्टं गृह्णामीति सविता वै देवानां प्रसविता तत्सवितृप्रसूत एवैतद्गृह्णाति अश्विनोर्बाहुभ्यामित्यश्विनावध्वर्यू पूष्णो हस्ताभ्यामिति पूषा भागदुघोऽशनं पाणिभ्यामुपनिधाता सत्यं देवा अनृतम्मनुष्यास्तत्सत्येनैवैतद्गृह्णाति - १.१.२.१७

अथ देवताया आदिशति । सर्वा ह वै देवता अध्वर्युं हविर्गृहीष्यन्तमुपतिष्ठन्ते मम नाम ग्रहीष्यति मम नाम ग्रहीष्यतीति ताभ्य एवैतत्सह सतीभ्योऽसमदं करोति - १.१.२.१८

यद्वेव देवताया आदिशति । यावतीभ्यो ह वै देवताभ्यो हवींषि गृह्यन्त ॠणमु हैव तास्तेन मन्यन्ते यदस्मै तं कामं समर्धयेयुर्यत्काम्या गृह्णाति तस्माद्वै देवतायाऽआदिशत्येवमेव यथापूर्वं हवींषि गृहीत्वा - १.१.२.१९

अथाभिमृशति । भूताय त्वा नारातय इति तद्यत एव गृह्णाति तदेवैतत्पुनराप्याययति - १.१.२.२०

अथ प्राङ्प्रेक्षते । स्वरभिविख्येषमिति परिवृतमिव वा एतदनो भवति तदस्यैतच्चक्षुः पाप्मगृहीतमिव भवति यज्ञो वै स्वरहर्देवाः सूर्यस्तत्स्वरेवैतदतोभिविपश्यति - १.१.२.२१

अथावरोहति । दृंहन्तां दुर्याः पृथिव्यामिति गृहा वै दुर्यास्ते हैत ईश्वरो गृहा यजमानस्य योऽस्यैषोऽध्वर्युर्यज्ञेन चरति तं प्रयन्तमनुप्रच्योतोस्तस्येश्वरः कुलं विक्षोब्धोस्तानेवैतदस्यां पृथिव्यां दृंहति तथा नानुप्रच्यवन्ते तथा न विक्षोभन्ते तस्मादाह दृंहन्तां दुर्याः पृथिव्यामित्यथ प्रैत्युर्वन्तरिक्षमन्वेमीति सोऽसावेव बन्धुः - १.१.२.२२

स यस्य गार्हपत्ये हवींषि श्रपयन्ति । गार्हपत्ये तस्य पात्राणि संसादयन्ति जघनेनो तर्हि गार्हपत्यं सादयेद्यस्याहवनीये हवींषि श्रपयन्त्याहवनीये तस्य पात्राणि संसादयन्ति जघनेनो तर्ह्याहवनीयं सादयेत्पृथिव्यास्त्वा नाभौ सादयामीति मध्यं वै नाभिर्मध्यमभयं तस्मादाह पृथिव्यास्त्वा नाभौ सादयामीत्यदित्या उपस्थ इत्युपस्थ इवैनदभार्षुरिति वा आहुर्यत्सुगुप्तं गोपायन्ति तस्मादाहादित्या उपस्थ इत्यग्ने हव्यं रक्षेति तदग्नये चैवैतद्धविः परिददाति गुप्त्या अस्यै च पृथिव्यै तस्मादाहाग्ने हव्यं रक्षेति - १.१.२.२३