शतपथब्राह्मणम्/काण्डम् १४/अध्यायः ७

विकिस्रोतः तः

ब्राह्मणम् १ ज्योतिर्ब्राह्मणम्

१ ज्योतिर्ब्राह्मणम् - तत्र च जनकयाज्ञवक्ययोः संवादात्मिकयाऽऽख्यायिकया प्राङ्निरूपितां जागराद्यवस्थामनुसृत्य महता तर्केणानेकविप्रतिपत्तिनिरासद्वारेण देहादिव्यतिरिक्तशुद्धस्वयंप्रकाशानतिशयानन्दस्वभावलक्षणं प्रागभिहितमेवात्मानमधिगमयितुमुपायनिरूपणं, तत्रादौ प्रसङ्गात्कर्मकाण्डनिवृत्ताया आख्यायिकायाः संसूचनं, ततः प्रश्नप्रतिवचनाभ्यामादित्यादिज्योतिःपर्यायैः कार्यकारणसंघातानुग्राहकमात्मज्योतिःसंघातातिरिक्तं तद्विजातीय चेति न्यायतो निर्धारणं, ततो "विज्ञानमयः" इत्यादिविशेषणैरात्मज्योतिःस्वरूपस्य निर्धारणं, ततो नित्यमुक्तस्यात्मनोऽविद्यया बुद्ध्यादितादात्म्याध्यासादेव संसारित्वमिति दर्शयितुं सूक्ष्मदेहादिव्यतिरिक्ततयाssत्मनः शुद्धत्वप्रदर्शनाय वा स्वप्नस्वरूपोपपादनं, तत्र यथैकस्मिन्देहे स्वप्नजागरिते सञ्चरत आत्मनो देहाद्व्यतिरेकस्तथेहपरलोकयोः सञ्चारोक्त्याऽपि तस्य तद्व्यतिरेक इत्यभिधानं, प्रथममुपोद्घातत्वेन स्थानभेदप्रतिपादनपुरःसरं परलोकः प्रत्यक्षसिद्धोऽस्तीति प्रतिपादनं, स्वप्नस्थानं गत आत्मा किमाश्रितः सन्केन विधिना परलोकं पश्यतीत्यपेक्षायां तत्प्रकारनिरूपणं,तथाऽऽदित्यादिज्योतिर्भिरसंस्पृष्टश्चिदात्मा यथा साक्षादेव प्रत्यग्भावेन स्वप्रकाश इत्यवगन्तुं शक्येत तादृशप्रकारप्रदर्शनं, आत्मा स्वयं ज्योतिरित्युक्तप्रपञ्चस्य फलितमित्येतत्प्रदर्शनं, ततः स्वप्नेऽपि सर्वस्यादित्यादेर्दृश्यमानत्वात्कथं परिशेषात्स्वयंज्योतिष्ट्वसिद्धिरित्याशङ्क्य तत्समाधानाय तस्य सर्वस्य वासनामात्रनिर्मितत्वात्तत्रात्मा विविक्तः स्वयंज्योतिरिति निश्चायकस्य स्वप्ने बाह्यरथाद्यभावस्य प्रतिपादनं, उक्तेऽर्थे स्वप्नप्रपञ्चावेदकमन्त्राणां तथाऽऽत्मा विविक्तः स्वयंज्योतिरित्यावेदकमन्त्रशेषस्य संवादप्रदर्शनं, ततोऽन्यदीयं मतं स्वयंज्योतिष्ट्वविघातकं दुष्टमिति बोधयितुं स्वमतपरिशुद्धये च तदुपन्यसनं, ततो मोहत्रासाद्यभावप्रदर्शनपुरःसरं तत्कारणभूतः कर्मलक्षणो मृत्युर्नात्मनः स्वभाव इति दर्शयितुं स्वप्नस्थानाज्जागरितदेशागमनस्य सहेतुकं सोपपत्तिकं प्रतिपादनं, उक्तेऽर्थे महामत्स्यादिदृष्टान्तदार्ष्टान्तिकयोर्योजनं, श्ये नादिदृष्टान्तदार्ष्टान्तिकाभ्यां सुषुप्तौ तद्विलक्षणत्वस्य प्रतिपादनं, ततो जाग्रत्स्वप्नोपाध्यपगमेन सुषुप्तिगतस्याप्यात्मनो न ब्रह्मैकत्वं तत्रापि भेदहेतोरविद्यायाः सत्त्वादित्याशङ्क्य न तावदविद्याऽऽत्मनः स्वभावः- तथा सति चैतन्यवत्तदनिवृत्तेरमोक्षापत्तेः-- अस्वभावत्वे तु कामकर्मादिवत्तन्निवृत्तेर्मोक्ष उपपद्यते इत्यादिविचारपुरःसरमस्वभावत्वकथनद्वारा विद्याकामकर्मादिहीनतया निरूपितात्मस्वरूपस्य प्रत्यक्षेण प्रदर्शनं, तत्र विशेषतो धर्मसहकारिकायास्तस्याः शुभवासनात्मिकाया अनात्मभूताया अविद्यायास्तत्कार्यप्रदर्शनद्वारा निरूपणं, सत्य एवात्मनि विद्योत्कर्षवशादविद्याया विनश्यमानत्वादपि तस्या अनात्मस्वभावतेत्यभिप्रेत्यात्मविद्योत्कर्षवता सर्वात्मभावलक्षणं मोक्षफलमात्मस्वरूपमपि स्वप्ने प्रत्यक्षत अनुभूयत इत्याद्यभिधानं, ततो व्यक्ताविद्याविहीनायाः सुषुप्त्यवस्थाया दृष्टान्तदार्ष्टान्तपुरःसरं विशदीकरणं, ततः सुषुप्तिमुपेयुषः पुरुषस्य विशेषविज्ञानाभावे स्वाभाविकात्मैकत्वमेव हेतुः-न स्वयंज्योतिष्ट्वाभाव इति दृष्टान्तेनोपादानान्नात्मनः कामादिवत्स्वयंज्योतिष्ट्वमस्वभाव इति प्रासङ्गिकं परिसमाप्याधुना प्रकृतिरूपस्य स्पष्टीकरणं, तत एवमविद्यककामादिरहितमात्मस्वरूपं प्रत्यक्षतः प्रदर्श्याधुना तद्धेतुभूतकर्माख्याविद्यासम्बन्धरहितत्वमत्यात्मनः सुषुप्तौ प्रत्यक्षमित्याद्यभिधानं, उक्तार्थस्यानुवादपूर्वकमनेकैः पर्यायैरतितरां स्पष्टीकरणं, ततः "यद्वै तन्न पश्यति" इत्यादिविस्तरेणोक्तरूपस्य प्राज्ञेनात्मना सम्परिष्वक्तस्यात्मन उपसंहारकरणं, यथा लोके लवणावयवैर्लवणाब्धिं लोको बोधयति तथा मानुषानन्दमारभ्य ब्रह्मानन्दपर्यन्तमुत्तरोत्तरशतगुणितातिशयशालिनां परब्रह्मानन्दावयवानां प्रतिपादनद्वारेणावयविनो निवृत्तगुणितभेदस्यानतिशयस्य ब्रह्मानन्दस्य सोपपत्तिकं सविशेषं विवरणं, विवृताया आनन्दमीमांसाया उपसंहारकरणं,एवं सुषुप्तिविषय आत्मा निरूपितः सुषुप्तौ च दार्ष्टान्तिकसम्बन्धस्यात्यन्तं स्पष्टयितुमशक्यत्वाद्यदभिप्रेत्यात्मनः सुषुप्तिस्थानाज्जागरितस्थाने प्राप्तिर्भवतीति तस्य दार्ष्टान्तिकस्यातितरां स्पष्टीकरणं, ततः स्वप्नाज्जागरणप्राप्तिवल्लोकान्तरं गच्छत्यात्मा इत्यस्यार्थस्य यथा सुखेन प्रतिपत्तिः स्यात्तथा सोपोद्घातं सोपपत्तिकं सप्रयोजनं दृष्टान्तदार्ष्टान्तिकसहितमभिधानं, एवमात्मनो वर्तमानदेहं हित्वा देहान्तरं जिगमिषतस्तन्निर्माणे सहायसम्पत्तिमुक्त्वेदानीं गच्छन्तं संसारिणं केऽनुगच्छन्ति-अनुगच्छन्तं संसारिणं केऽनुगच्छन्ति अनुगच्छन्तोऽपि किं स्वातंत्र्येणोक्तसंसारिकर्मप्रयुक्त्याऽनुगच्छन्तीति जिज्ञासायां संसारिकर्मप्रेरिता एव वागादयोऽनुगच्छन्तीति निर्णयस्य दृष्टान्तदार्ष्टान्तिकसहितं सप्रयोजनं सोपपत्तिकमभिधानं चेत्यादि.


ब्राह्मणम् २ शारीरकब्राह्मणम्

२ शारीरकब्राह्मणम्- तत्र च पूर्वत्र ब्राह्मणे प्रस्तुते संसारोपवर्णने " अयं शारीर आत्मा एभ्योऽङ्गेभ्यः सम्प्रमुच्य पुनः" इत्यादिना साकल्येन सम्प्रमोक्षणादि सूचितं तदिदानीं कस्मिन्काले कथं वेति जिज्ञासायां संसरणस्योपपत्तिसहितं वर्णनं, तत्रादौ हृदि करणोपसंहरणेन स्वात्मोपसंहरणम् अभिधाय तेन करणानुग्राहकनिवृत्तिनिमित्तकं रूपाद्यदर्शनं स्यादित्याद्यर्थस्थ प्रतिपादनं, ततः करणेषूपसंहृतेषु सत्सु निष्क्रमणसाधनीभूतो योऽन्तर्व्यापारो भवति तस्याभिधानम्, उक्तप्रद्योतेन कर्मार्जितं लोकं पश्यन्नात्मा मरणकाले हृदयात्केन मार्गेण निर्गच्छतीति जिज्ञासायां तस्य मार्गस्याभिधानम्, निर्गच्छतां प्राणानां मध्ये कस्य प्राधान्यमित्यपेक्षायां तस्याभिधानम्, म्रियमाणस्य यदर्थसिद्धं तस्याभिधानम् , परलोकाय प्रस्थितस्यात्मनः पाथेयं पुनःशरीराद्यारम्भकं च किमित्यपेक्षायां तस्य निरूपणम् , एवं सम्भृतसम्भारो देहान्तरं प्रतिपद्यमानः कथं तत्प्रतिपद्यत इत्यस्मिन्नर्थे दृष्टान्तदार्ष्टान्तिकयोरभिधानम् , योऽयमात्मनः संसारसम्बन्धः स वास्तवो न भवति-किन्त्वौपाधिक एवेति तदुपाधीन् दर्शयितुमात्मनो वास्तवस्वरूपस्याभिधानम् , तत्र विज्ञानमयादिवाक्यार्थस्य संक्षेपेणाभिधानं च, पुण्यपापयोरेव संसारासाधारणकारणत्वमित्यमुं पक्षं पूर्वपक्षीकृत्य कामस्यैवासाधारणकारणत्वमिति सिद्धान्तस्योपपत्तिसहितमभिधानम्, उक्तेऽर्थे मन्त्रसंवादनिरूपणम् , ततोऽज्ञानकारणकः काम एव संसारासाधारणकारणमित्युक्तमुपसंहृत्य योषिदालिङ्गनेनेव पुंसः सुषुप्तिप्राप्तस्यात्मनः कामादिहीनं रूपं मोक्षदृष्टान्तभूतं यदतिच्छन्दोवाक्येनोक्तं तस्य दार्ष्टान्तिकभूतस्य सोपायस्य मोक्षस्वरूपस्य सोपपत्तिकं निरूपणम्, अत्राप्युक्तेऽर्थे मन्त्रसंवादस्य निरूपणं, ततो विदुषः सर्वात्मविद्ययाऽऽत्ममात्रत्वेन प्राणादिषु बाधितेष्वपि-असौ देहे वर्तते चेत्ततोऽस्य पूर्ववद्देहं हित्वा द्विधा वैयर्थ्यमेवेत्याशङ्कायां तस्या निराकरणाय दृष्टान्तदार्ष्टान्तिकयोः प्रतिपादनम् ," अथाकामयमानः " इत्यादिब्राह्मणेन " यदा सर्वं प्रमुच्यते " इति मन्त्रेण च ज्ञानादेव मुक्तिरिति यः संक्षिप्तोऽर्थोऽभ्यधायि तस्यैव विवरणार्थं श्लोकानामुदाहरणं, तेषु विप्रतिपत्तिनिराकरणपुरःसरं मोक्षमार्गं निश्चित्य तन्निगमनं, प्रस्तुतज्ञानमार्गस्य स्तुत्यर्थं मार्गान्तरस्य निन्दाकरणं, न केवलं ब्रह्मविदो विद्यया कृतकृत्यत्वे श्रुतिसम्प्रतिपत्तिरेव किन्तु स्वानुभवसंवादोऽप्यस्तीत्यभिधानं, उक्तात्मज्ञानमार्गनिष्ठस्य कायक्लेशराहित्यं कृतकृत्यता चास्ते इत्यभिधानं, विदुषो विहिताकरणादिप्रयुक्तं भयं नास्तीति विद्यायाः प्रशंसन, तस्य तस्यात्मनोऽमृतत्वं सर्वाधिष्ठानत्वेन सिध्यतीत्याद्यर्थस्य निरूपणं, ईश्वरोऽपि कालावच्छिन्नोऽतो न कालत्रयं प्रत्यस्येश्वरत्वसम्भव इत्याशंकायां तस्या निराकरणम्, पूर्वमन्त्रेणोक्तं यत्पञ्चजनप्रतिष्ठाभूतब्रह्मविदमृतो भवतीति-तत्कथं पुनरेवंविधब्रह्मविद्योदयः स्यादित्यपेक्षायां तदुदयप्रकारस्य निरूपणम् , भेददर्शननिन्दया नानात्वाभावस्य दृढीकरणम् , अनुदर्शनप्रकारस्योपवर्णनम्, उक्तस्य ध्रुवत्वस्य सोपस्करमुपपादनं, यथोक्तवस्तुदर्शनस्य निगमनम्, प्रसङ्गाद्बहुशास्त्राध्ययने दोषाभिधानं च, ततो विविदिषावाक्येन ब्रह्मात्मनि कृत्स्नस्य वेदस्य काम्यराशिवर्जितस्य विनियोगकथनार्थमस्मिन्नध्याये उक्तस्य सकळस्यात्मज्ञानस्यास्यानुवादकरणम् , तत्र पूर्वं सशब्देन ज्योतिर्ब्राह्मणोक्तं विज्ञानलक्षणमयं जीवं परामृश्य तमेव वैशब्देन स्मारयित्वा तस्य " विरजः पर आकाशादज आत्मा " इत्यव्यवहितेनोक्तेन परमात्मना सहैक्यस्येतिशब्देन श्रुतिमुखतो निदर्शनम् , उक्तात्मज्ञानफलकथनं च, यदर्थमेषा विहिता सफला ब्रह्मविद्याऽस्मिन्नध्यायेऽनूदिता तस्य काम्यैकदेशवर्जितस्य कृत्स्नस्य कर्मकाण्डस्याविद्यायां परम्परया विनियोगस्य प्रदर्शनं, ततोऽर्थोक्तस्य सन्न्यासस्य मुनिप्राप्यमात्मलोकमिच्छतां तत्साधनत्वेन विधानं, तत्र कथमयं सन्न्यासे विधिरिति निश्चेतुं शक्यते "प्रव्रजन्तीति" वर्तमानोपदेशादिति संशये--अनन्यथासिद्धार्थवादवशाद्विधिरेव निश्चेय इत्यभिप्रायेण तस्य विधित्वनिर्णयहेतोरर्थवादस्याभिधानम् , एवमपि किमित्यात्मलोकार्थिनां नियमेन पारिव्रज्यं विधीयते कर्मणामपि तत्साधनत्वेनानुष्ठेयत्वादित्यां शङ्कायां तस्यात्मलोकस्योत्पाद्यादिविलक्षणत्वेन कर्मासम्बन्धान्न कर्म तदर्थिनामनुष्ठेयमित्याद्यर्थस्य सफलं निरूपणं, एवमुक्ते ब्रह्मविद्याफले मन्त्रसंवादस्य प्रदर्शनं, एवमुपास्यस्वरूपं दर्शयित्वा तदुपासनाफलकथनं, एवं निरुपाधिकब्रह्मज्ञानात्कैवल्यफलमभिधाय सम्प्रति सोपाधिकब्रह्मध्यानादभ्युदयफलदर्शनद्वारा तत्स्वरूपस्याभिधानं, एवमुपास्यस्वरूपं दर्शयित्वा तदुपासनाफलकथनं, ततो मन्त्रब्राह्मणाभ्यामुपदिष्टायाः सफलाया विद्याया उपसंहारस्य प्रतिपादनं, एवं राजा जनको याज्ञवल्क्यादात्मज्ञानं प्राप्यात्मीयमशेषविद्यालाभं द्योतयितुं सर्वस्वदानं प्रतिजज्ञे इति प्रतिपादनं, ततः “तिष्ठमानस्य तद्विदः परायणं" इत्युक्तस्यैव ब्रह्मात्मैक्यज्ञानफलस्योप
संहाराभिधानं चेत्यादि.


ब्राह्मणम् ३ याज्ञवल्क्यमैत्रेयीसंवादब्राह्मणम्

३ याज्ञवल्क्यमैत्रेयीसंवादब्राह्मणम् -- तत्र च एतद्य्व्तध्यायोक्तार्थस्य निगमनमथवा मधुकाण्डोक्तेन मैत्रेयीब्राह्मणेनागमबलान्मुक्तिसाधनभूता या सन्न्याससहिताऽऽत्मविद्या प्रतिपादिता सैवाधुना न्यायप्रधाने मुनिकाण्डेऽपि मुक्तिहेतुत्वेन न्यायतो मन्तव्येत्याद्यर्थस्य याज्ञवल्क्यमैत्रेय्योः संवादात्मिकया ख्यायिकया विवरणं, तत्रानेकैः पर्यायैः सर्वमात्मनः कामाय प्रियं भवतीति प्रतिपादनं, तत आत्मदर्शनं कर्तव्यतयाऽभिधाय तत्साधनत्वेन श्रवणमनननिदिध्यासानां सफलमभिधानं, ततोऽनेकैर्दृष्टान्तरात्मतत्त्वस्य सोपपत्तिकं निरूपणं, ततोऽविद्योत्थद्वैते सत्येवं विशेषविज्ञानमात्मनस्तदभावे तु तदभाव इत्यन्वयव्य तिरेकाभ्यामौपाधिकमात्मनो विशेषविज्ञानमिति प्रदर्शनं, ततः " महद्भूतमनन्तमपारं" इत्यादिना सूचितस्य ब्रह्मदर्शनस्य व्याचिख्यासया भूतोपाध्यभावेन विशेषविज्ञानलक्षणसंसाराभाव इति पुनर्व्यतिरेकस्याभिधानं, ततो याज्ञवल्कीयकाण्डप्रवर्तकगुरुशिष्यपरम्परावेदकवंशस्य प्रतिपादनं चेत्यादि.