शतपथब्राह्मणम्/काण्डम् १४/अध्यायः ७/ब्राह्मणम् २

विकिस्रोतः तः
Jump to navigation Jump to search

शारीरकब्राह्मणम्

स यत्रायं शारीर आत्मा। अबल्यं नीत्य सम्मोहमिव न्येत्यथैनमेते प्राणा अभिसमायन्ति स एतास्तेजोमात्राः समभ्याददानो हृदयमेवान्ववक्रामति - १४.७.२.[१]

स यत्रैष चाक्षुषः पुरुषः। पराङ्पर्यावर्ततेऽथारूपज्ञो भवत्येकीभवति न पश्यतीत्याहुरेकीभवति न रसयतीत्याहुरेकी भवति न वदतीत्याहुरेकीभवति न शृणोतीत्याहुरेकीभवति न मनुत इत्याहुरेकीभवति न स्पृशतीत्याहुरेकीभवति न विजानातीत्याहुः - १४.७.२.[२]

तस्य हैतस्य हृदयस्याग्रं प्रद्योतते। तेन प्रद्योतेनैष आत्मा निष्क्रामति चक्षुष्टो वा मूर्ध्नो वान्येभ्यो वा शरीरदेशेभ्यस्तमुत्क्रामन्तम्प्राणोऽनूत्क्रामति प्राणमनूत्क्रामन्तं सर्वे प्राणा अनूत्क्रामन्ति संज्ञानमेवान्ववक्रामति स एष ज्ञः सविज्ञानो भवति तं विद्याकर्मणी समन्वारभेते पूर्वप्रज्ञा च - १४.७.२.[३]

तद्यथा तृणजलायुका। तृणस्यान्तं गत्वाऽऽत्मानमुपसंहरत्येवमेवायं पुरुष इदं शरीरं निहत्याविद्यां गमयित्वात्मानमुपसंहरति - १४.७.२.[४]

तद्यथा पेशस्कारी। पेशसो मात्रामपादायान्यन्नवतरं कल्याणतरं रूपं तनुत एवमेवायं पुरुष इदं शरीरं निहत्याविद्यां गमयित्वान्यन्नवतरं रूपं तनुते पित्र्यं वा गान्धर्वं वा ब्राह्मं वा प्राजापत्यं वा दैवं वा मानुषं वान्येभ्यो वा भूतेभ्यः - १४.७.२.[५]

स वा अयमात्मा ब्रह्म। विज्ञानमयो मनोमयो वाङ्मयः प्राणमयश्चक्षुर्मयः श्रोत्रमय आकाशमयो वायुमयस्तेजोमय आपोमयः पृथिवीमयः क्रोधमयोऽक्रोधमयो हर्षमयोऽहर्षमयो धर्ममयोऽधर्ममयः सर्वमयस्तद्यदेदम्मयोऽदोमय इति यथाकारी यथाचारी तथा भवति साधुकारी साधुर्भवति पापकारी पापो भवति पुण्यः पुण्येन कर्मणा भवति पापः पापेनेति - १४.७.२.[६]

अथो खल्वाहुः। काममय एवायं पुरुष इति स यथाकामो भवति तथाक्रतुर्भवति यथाक्रतुर्भवति तत्कर्म कुरुते यत्कर्म कुरुते तदभिसम्पद्यत इति - १४.७.२.[७]

तदेष श्लोको भवति। तदेव सत्तत्सह कर्मणैति लिङ्गं मनो यत्र निषक्तमस्य। प्राप्यान्तं कर्मणस्तस्य यत्किं चेह करोत्ययम्। तस्माल्लोकात्पुनरैत्यस्मै लोकाय कर्मण इति नु कामयमानोऽथाकामयमानो योऽकामो निष्काम आत्मकाम आप्तकामो
भवति न तस्मात्प्राणा उत्क्रामन्त्यत्रैव समवनीयन्ते ब्रह्मैव सन्ब्रह्माप्येति - १४.७.२.[८]

तदेष श्लोको भवति। यदा सर्वे प्रमुच्यन्ते कामा येऽस्य हृदि स्थिताः। अथ मर्त्योऽमृतो भवत्यत्र ब्रह्म समश्नुत इति - १४.७.२.[९]

तद्यथाहिनिर्ल्वयनी। वल्मीके मृता प्रत्यस्ता शयीतैवमेवेदं शरीरं शेतेऽथायमनस्थिकोऽशरीरः प्राज्ञ आत्मा ब्रह्मैव लोक एव सम्राडिति होवाच याज्ञवल्क्यः सोऽहं भगवते सहस्रं ददामीति होवाच जनको वैदेहः - १४.७.२.[१०]

तदप्येते श्लोकाः। अणुः पन्था वितरः पुराणो मां स्पृष्टोऽनुवित्तो मयैव। तेन धीरा
अपियन्ति ब्रह्मविद उत्क्रम्य स्वर्गं लोकमितो विमुक्ताः - १४.७.२.[११]

तस्मिञ्छुक्लमुत नीलमाहुः। पिङ्गलं हरितं लोहितं च। एष पन्था ब्रह्मणा हानुवित्तस्तेनैति ब्रह्मवित्तैजसः पुण्यकृच्च - १४.७.२.[१२]

अन्धं तमः प्रविशन्ति। येऽसम्भूतिमुपासते। ततो भूय इव ते तमो य उ सम्भूत्यां रताः - १४.७.२.[१३]

असुर्या नाम ते लोकाः। अन्धेन तमसावृताः। तांस्ते प्रेत्यापिगच्छन्त्यविद्वांसोऽबुधा जनाः - १४.७.२.[१४]

तदेव सन्तस्तदु तद्भवामो न चेदवेदी महती विनष्टिः। ये तद्विदुरमृतास्ते भवन्त्यथेतरे दुःखमेवोपयन्ति - १४.७.२.[१५]

आत्मानं चेद्विजानीयादयमस्मीति पूरुषः। किमिच्छन्कस्य कामाय शरीरमनुसंचरेत् - १४.७.२.[१६]

यस्यानुवित्तः प्रतिबुद्ध आत्मा। अस्मिन्त्संदेहे गहने प्रविष्टः। स विश्वकृत्स ह सर्वस्य कर्ता तस्य लोकः स उ लोक एव - १४.७.२.[१७]

यदैतमनुपश्यति। आत्मानं देवमञ्जसा। ईशानं भूतभव्यस्य न तदा विचिकित्सति - १४.७.२.[१८]

यस्मिन्पञ्च पञ्चजनाः। आकाशश्च प्रतिष्ठितः। तमेव मन्य आत्मानं विद्वान्ब्रह्मामृतोऽमृतम् - १४.७.२.[१९]

यस्मादर्वाक्संवत्सरोऽहोभिः परिवर्तते। तद्देवा ज्योतिषां ज्योतिरायुर्ह्योपासतेऽमृतम् - १४.७.२.[२०]

प्राणस्य प्राणम्। उत चक्षुषश्चक्षुरुत श्रोत्रस्य श्रोत्रमन्नस्यान्नं मनसो ये मनो विदुः। ते निचिक्युर्ब्रह्म पुराणमग्र्यं मनसैवाप्तव्यं नेह नानास्ति किंचन - १४.७.२.[२१]

मृत्योः स मृत्युमाप्नोति। य इह नानेव पश्यति। मनसैवानुद्रष्टव्यमेतदप्रमयं ध्रुवम् - १४.७.२.[२२]

विरजः पर आकाशात्। अज आत्मा महान्ध्रुवः। तमेव धीरो विज्ञाय प्रज्ञां कुर्वीत
ब्राह्मणः। नानुध्यायाद्बहूञ्छब्दान्वाचो विग्लापनं हि तदिति - १४.७.२.[२३]

स वा अयमात्मा। सर्वस्य वशी सर्वस्येशानः सर्वस्याधिपतिः सर्वमिदं प्रशास्ति यदिदं किं च स न साधुना कर्मणा भूयान्नोऽएवासाधुना कनीयानेष भूताधिपतिरेष लोकेश्वर एष लोकपालः स सेतुर्विधरण एषां लोकानामसम्भेदाय - १४.७.२.[२४]

तमेतं वेदानुवचनेन विविदिषन्ति। ब्रह्मचर्येण तपसा श्रद्धया यज्ञेनानाशकेन चैतमेव विदित्वा मुनिर्भवत्येतमेव प्रव्राजिनो लोकमीप्सन्तः प्रव्रजन्ति - १४.७.२.[२५]

एतद्ध स्म वै तत्पूर्वे ब्राह्मणाः। अनूचाना विद्वांसः प्रजां न कामयन्ते किम्प्रजया करिष्यामो येषां नोऽयमात्मायं लोक इति ते ह स्म पुत्रैषणायाश्च वित्तैषणायाश्च लोकैषणायाश्च व्युत्थायाथ भिक्षाचर्यं चरन्ति या ह्येव पुत्रैषणा सा वित्तैषणा या वित्तैषणा सा लोकैषणोभे ह्येते एषणे एव भवतः - १४.७.२.[२६]

स एष नेति नेत्यात्मा। अगृह्यो न हि गृह्यतेऽशीर्यो न हि शीर्यतेऽसङ्गोऽसितो न सज्यते न व्यथत इत्यतः पापमकरवमित्यतः कल्याणमकरवमित्युभे उभे ह्येष एते
तरत्यमृतः साध्वसाधुनी नैनं कृताकृते तपतो नास्य केन चन कर्मणा लोको मीयते - १४.७.२.[२७]

तदेतदृचाभ्युक्तम्। एष नित्यो महिमा ब्राह्मणस्य न कर्मणा वर्धते नो कनीयान्। तस्यैव स्यात्पदवित्तं विदित्वा न कर्मणा लिप्यते पापकेनेति तस्मादेवंविच्छ्रान्तो दान्त उपरतस्तितिक्षुः श्रद्धावित्तो भूत्वात्मन्येवात्मानम्पश्येत्सर्वमेनं पश्यति सर्वोऽस्यात्मा भवति सर्वस्यात्मा भवति सर्वम्पाप्मानं तरति नैनं पाप्मा तरति सर्वं पाप्मानं तपति नैनं पाप्मा तपति विपापो विजरो विजिघत्सोऽपिपासो ब्राह्मणो भवति य एवं वेद - १४.७.२.[२८]

स वा एष महानज आत्मा। अन्नादो वसुदानः स यो हैवमेतम्महान्तमजमात्मानमन्नादं वसुदानं वेद विन्दते वसु - १४.७.२.[२९]

स वा एष महानज आत्मा। अजरोऽमरोऽभयोऽमृतो ब्रह्माभयं वै जनक प्राप्तोऽसीति होवाच याज्ञवल्क्यः सोऽहं भगवते विदेहान्ददामि मां चापि सह दास्यायेति - १४.७.२.[३०]

स वा एष महानज आत्मा अजरोऽमरोऽभयोऽमृतो ब्रह्माभयं वै ब्रह्माभयं हि वै ब्रह्म भवति य एवं वेद - १४.७.२.[३१]