शतपथब्राह्मणम्/काण्डम् १४/अध्यायः ७/ब्राह्मणम् १

विकिस्रोतः तः
Jump to navigation Jump to search

ज्योतिर्ब्राह्मणम्

जनकं ह वैदेहं याज्ञवल्क्यो जगाम। स मेने न वदिष्य इत्यथ ह यज्जनकश्च वैदेहो याज्ञवल्क्यश्चाग्निहोत्रे समूदतुस्तस्मै ह याज्ञवल्क्यो वरं ददौ स ह कामप्रश्नमेव वव्रे तं हास्मै ददौ तं ह सम्राडेव पूर्वः पप्रच्छ - १४.७.१.[१]

याज्ञवल्क्य किंज्योतिरयं पुरुष इति। आदित्यज्योतिः सम्राडिति होवाचादित्येनैवायं
ज्योतिषाऽऽस्ते पल्ययते कर्म कुरुते विपर्येतीत्येवमेवैतद्याज्ञवल्क्य - १४.७.१.[२]

अस्तमित आदित्ये याज्ञवल्क्य। किंज्योतिरेवायं पुरुष इति चन्द्रज्योतिः सम्राडिति
होवाच चन्द्रेणैवायं ज्योतिषाऽऽस्ते पल्ययते कर्म कुरुते विपर्येतीत्येवमेवैतद्याज्ञवल्क्य - १४.७.१.[३]

अस्तमित आदित्ये याज्ञवल्क्य। चन्द्रमस्यस्तमिते किंज्योतिरेवायं पुरुष इत्यग्निज्योतिः सम्राडिति होवाचाग्निनैवायं ज्योतिषास्ते पल्ययते कर्म कुरुते विपर्येतीत्येवमेवैतद्याज्ञवल्क्य - १४.७.१.[४]

अस्तमित आदित्ये याज्ञवल्क्य। चन्द्रमस्यस्तमिते शान्तेऽग्नौ किं ज्योतिरेवायं पुरुष इति वाग्ज्योतिः सम्राडिति होवाच वाचैवायं ज्योतिषाऽऽस्ते पल्ययते कर्म कुरुते विपर्येतीति तस्माद्वै सम्राडपि यत्र स्वः पाणिर्न विनिर्ज्ञायतेऽथ यत्र वागुच्चरत्युपैव तत्र न्येतीत्येवमेवैतद्याज्ञवल्क्य - १४.७.१.[५]

अस्तमित आदित्ये याज्ञवल्क्य। चन्द्रमस्यस्तमिते शान्तेऽग्नौ शान्तायां वाचि किंज्योतिरेवायं पुरुष इत्यात्मज्योतिः सम्राडिति होवाचात्मनैवायं ज्योतिषाऽऽस्ते पल्ययते कर्म कुरुते विपर्येतीति - १४.७.१.[६]

कतम आत्मेति। योऽयं विज्ञानमयः पुरुषः प्राणेषु हृद्यन्तर्ज्योतिः स समानः सन्नुभौ लोकौ संचरति ध्यायतीव लेलायतीव सधीः स्वप्नो भूत्वेमं लोकमतिक्रामति - १४.७.१.[७]

स वा अयं पुरुषो जायमानः शरीरमभिसम्पद्यमानः पाप्मभिः संसृज्यते स उत्क्रामन्म्रियमाणः पाप्मनो विजहाति मृत्यो रूपाणि - १४.७.१.[८]

तस्य वा एतस्य पुरुषस्य। द्वे एव स्थाने भवत इदं च परलोकस्थानं च संध्यं तृतीयं स्वप्नस्थानं तस्मिन्त्संध्ये स्थाने तिष्ठन्नुभे स्थाने पश्यतीदं च परलोकस्थानं च - १४.७.१.[९]

अथ यथाक्रमोऽयं परलोकस्थाने भवति। तमाक्रममाक्रम्योभयान्पाप्मन आनन्दांश्च पश्यति स यत्रायं प्रस्वपित्यस्य लोकस्य सर्वावतो मात्रामपादाय स्वयं विहत्य स्वयं निर्माय स्वेन भासा स्वेन ज्योतिषा प्रस्वपित्यत्रायं पुरुषः स्वयंज्योतिर्भवति - १४.७.१.[१०]

न तत्र रथा न रथयोगा न पन्थानो भवन्ति। अथ रथान्रथयोगान्पथः सृजते न तत्रानन्दा मुदः प्रमुदो भवन्त्यथानन्दान्मुदः प्रमुदः सृजते न तत्र वेशान्ताः स्रवन्त्यः पुष्करिण्यो भवन्त्यथ वेशान्ताः स्रवन्तीः पुष्करिणीः सृजते स हि कर्ता - १४.७.१.[११]

तदप्येते श्लोकाः। स्वप्नेन शारीरमभिप्रहत्यासुप्तः सुप्तानभिचाकशीति। शुक्रमादाय पुनरैति स्थानं हिरण्मयः पौरुष एकहंसः - १४.७.१.[१२]

प्राणेन रक्षन्नपरं कुलायं। बहिष्कुलायादमृतश्चरित्वा। स ईयते अमृतो यत्रकामं हिरण्मयः पौरुष एकहंसः - १४.७.१.[१३]

स्वप्नान्त उच्चावचमीयमानो रूपाणि देवः कुरुते बहूनि। उतेव स्त्रीभिः सह मोदमानो जक्षदुतेवापि भयानि पश्यन् - १४.७.१.[१४]

आराममस्य पश्यन्ति। न तं कश्चन पश्यतीति तं नायतम्बोधयेदित्याहुर्दुर्भिषज्यं हास्मै भवति यमेष न प्रतिपद्यते - १४.७.१.[१५]

अथो खल्वाहुः। जागरितदेश एवास्यैष यानि ह्येव जाग्रत्पश्यति तानि सुप्त इत्यत्रायं पुरुषः स्वयंज्योतिर्भवतीत्येवमेवैतद्याज्ञवल्क्य सोऽहं भगवते सहस्रं ददाम्यत ऊर्ध्वं विमोक्षायैव ब्रूहीति - १४.७.१.[१६]

स वा एष एतस्मिन्त्स्वप्नान्ते। रत्वा चरित्वा दृष्ट्वैव पुण्यं च पापं च पुनः प्रतिन्यायं प्रतियोन्याद्रवति बुद्धान्तायैव स यदत्र किंचित्पश्यत्यनन्वागतस्तेन भवत्यसङ्गो ह्ययं पुरुष इत्येवमेवैतद्याज्ञवल्क्य सोऽहं भगवते सहस्रं ददाम्यत ऊर्ध्वं
विमोक्षायैव ब्रूहीति - १४.७.१.[१७]

तद्यथा महामत्स्यः। उभे कूले अनुसंचरति पूर्वं चापरं चैवमेवायं पुरुष एता उभावन्तावनुसंचरति स्वप्नान्तं च बुद्धान्तं च - १४.७.१.[१८]

तद्यथास्मिन्नाकाशे। श्येनो वा सुपर्णो वा विपरिपत्य श्रान्तः संहत्य पक्षौ सँल्लयायैव ध्रियत एवमेवायं पुरुष एतस्मा अन्ताय धावति यत्र सुप्तो न कंचन कामं कामयते न कं चन स्वप्नं पश्यति - १४.७.१.[१९]

ता वा अस्यैता। हिता नाम नाड्यो यथा केशः सहस्रधा भिन्नस्तावताणिम्ना तिष्ठन्ति शुक्लस्य नीलस्य पिङ्गलस्य हरितस्य लोहितस्य पूर्णा अथ यत्रैनं घ्नन्तीव जिनन्तीव हस्तीव विच्छाययति गर्तमिव पतति यदेव जाग्रद्भयं पश्यति तदत्राविद्यया भयं मन्यतेऽथ यत्र राजेव देवइवाहमेवेदं सर्वमस्मीति मन्यते सोऽस्य परमो लोकोऽथ यत्र सुप्तो न कं चन कामं कामयते न कंचन स्वप्नं पश्यति - १४.७.१.[२०]

तद्वा अस्यैतत्। आत्मकाममाप्तकाममकामं रूपं तद्यथा प्रियया स्त्रिया सम्परिष्वक्तो न बाह्यं किं चन वेद नान्तरमेवमेवायं शारीर आत्मा प्राज्ञेनात्मना सम्परिष्वक्तो न बाह्यं किं चन वेद नान्तरम् - १४.७.१.[२१]

तद्वा अस्यैतत्। अतिच्छन्दोऽपहतपाप्माऽभयं रूपमशोकान्तरमत्र पिताऽपिता भवति माताऽमाता लोका अलोका देवा अदेवा वेदा अवेदा यज्ञा अयज्ञा अत्र स्तेनोऽस्तेनो भवति भ्रूणहाऽभ्रूणहा पौल्कसोऽपौल्कसश्चाण्डालोऽचाण्डालः श्रमणोऽश्रमणस्तापसोऽतापसोऽनन्वागतं पुण्येनान्वागतं पापेन तीर्णो हि तदा सर्वाञ्छोकान्हृदयस्य भवति - १४.७.१.[२२]

यद्वै तन्न पश्यति। पश्यन्वै तद्द्रष्टव्यं न पश्यति न हि द्रष्टुर्दृष्टेर्विपरिलोपो विद्यतेऽविनाशित्वान्न तु तद्द्वितीयमस्ति ततोऽन्यद्विभक्तं यत्पश्येत् - १४.७.१.[२३]

यद्वै तन्न जिघ्रति। जिघ्रन्वै तद्घ्रातव्यं न जिघ्रति न हि घ्रातुर्घ्राणाद्विपरिलोपो विद्यतेऽविनाशित्वान्न तु तद्द्वितीयमस्ति ततोऽन्यद्विभक्तं यज्जिघ्रेत् - १४.७.१.[२४]

यद्वै तन्न रसयति। विजानन्वै तद्रसं न रसयति न हि रसयितू रसाद्विपरिलोपो
विद्यतेऽविनाशित्वान्न तु तद्द्वितीयमस्ति ततोऽन्यद्विभक्तं यद्रसयेत् - १४.७.१.[२५]

यद्वै तन्न वदति। वदन्वै तद्वक्तव्यं न वदति न हि वक्तुर्वचो विपरिलोपो विद्यतेऽविनाशित्वान्न तु तद्द्वितीयमस्ति ततोऽन्यद्विभक्तं यद्वदेत् - १४.७.१.[२६]

यद्वै तन्न शृणोति। शृण्वन्वै तच्छ्रोतव्यं न शृणोति न हि श्रोतुः श्रुतेर्विपरिलोपो विद्यतेऽविनाशित्वान्न तु तद्द्वितीयमस्ति ततोऽन्यद्विभक्तं यच्छृणुयात् - १४.७.१.[२७]

यद्वै तन्न मनुते। मन्वानो वै तन्मन्तव्यं न मनुते न हि मन्तुर्मतेर्विपरिलोपो विद्यतेऽविनाशित्वान्न तु तद्द्वितीयमस्ति ततोऽन्यद्विभक्तं यन्मन्वीत - १४.७.१.[२८]

यद्वै तन्न स्पृशति। स्पृशन्वै तत्स्प्रष्टव्यं न स्पृशति न हि स्प्रष्टुस्पृष्टेर्विपरिलोपोऽविनाशित्वान्न तु तद्द्वितीयमस्ति ततोऽन्यद्विभक्तं यत्स्पृशेत् - १४.७.१.[२९]

यद्वै तन्न विजानाति। विजानन्वै तद्विज्ञेयं न विजानाति न हि विज्ञातुर्विज्ञानाद्विपरिलोपो विद्यतेऽविनाशित्वान्न तु तद्द्वितीयमस्ति ततोऽन्यद्विभक्तं यद्विजानीयात् - १४.७.१.[३०]

सलिल एको द्रष्टाद्वैतो भवति। एष ब्रह्मलोकः सम्राडिति हैनमुवाचैषाऽस्य परमो लोक एषोऽस्य परम आनन्द एतस्यैवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्ति - १४.७.१.[३१]

स यो मनुष्याणां राद्धः समृद्धो भवति। अन्येषामधिपतिः सर्वैर्मानुष्यकैः कामैः सम्पन्नतमः स मनुष्याणां परम आनन्दः - १४.७.१.[३२]

अथ ये शतं मनुष्याणामानन्दाः। स एकः पितॄणां जितलोकानामानन्दः - १४.७.१.[३३]

अथ ये शतं पितॄणां जितलोकानामानन्दाः। स एकः कर्मदेवानामानन्दो ये कर्मणा
देवत्वमभिसम्पद्यन्ते - १४.७.१.[३४]

अथ ये शतं कर्मदेवानामानन्दाः। स एक आजानदेवानामानन्दो यश्च श्रोत्रियोऽवृजिनोऽकामहतः - १४.७.१.[३५]

अथ ये शतमाजानदेवानामानन्दाः। स एको देवलोक आनन्दो यश्च श्रोत्रियोऽवृजिनोऽकामहतः - १४.७.१.[३६]

अथ ये शतं देवलोक आनन्दाः। स एको गन्धर्वलोक आनन्दो यश्च श्रोत्रियोऽवृजिनोऽकामहतः - १४.७.१.[३७]

अथ ये शतं गन्धर्वलोक आनन्दाः। स एकः प्रजापतिलोक आनन्दो यश्च श्रोत्रियोऽवृजिनोऽकामहत । - १४.७.१.[३८]

अथ ये शतम्प्रजापतिलोक आनन्दाः। स एको ब्रह्मलोक आनन्दो यश्च श्रोत्रियोऽवृजिनोऽकामहत एष ब्रह्मलोकः सम्राडिति हैनमनुशशासैतदमृतं सोऽहं भगवते सहस्रं ददाम्यत ऊर्ध्वं विमोक्षायैव ब्रूहीति - १४.७.१.[३९]

स वा एषः। एतस्मिन्त्सम्प्रसादे रत्वा चरित्वा दृष्ट्वैव पुण्यं च पापं च पुनः प्रतिन्यायं प्रतियोन्याद्रवति बुद्धान्तायैव स यदत्र किंचित्पश्यत्यनन्वागतस्तेन भवत्यसङ्गो ह्ययं पुरुष इत्येवमेवैतद्याज्ञवल्क्य सोऽहं भगवते सहस्रं ददाम्यत ऊर्ध्वं
विमोक्षायैव ब्रूहीति - १४.७.१.[४०]

अत्र ह याज्ञवल्क्यो बिभयांचकार। मेधावी राजा सर्वेभ्यो मान्तेभ्य उदरौत्सीदिति स यत्राणिमानं न्येति जरया वोपतपता वाणिमानं निगच्छति यथाम्रं वोदुम्बरं वा पिप्पलं वा बन्धनात्प्रमुच्येतैवमेवायं शारीर आत्मैभ्योऽङ्गेभ्यः सम्प्रमुच्य पुनः प्रतिन्यायं प्रतियोन्याद्रवति प्राणायैव - १४.७.१.[४१]

तद्यथानः सुसमाहितम्। उत्सर्जद्यायादेवमेवायं शारीर आत्मा प्राज्ञेनात्मनान्वारूढ उत्सर्जद्याति - १४.७.१.[४२]

तद्यथा राजानमायन्तम्। उग्राः प्रत्येनसः सूतग्रामण्योऽन्नैः पानैरावसथैः प्रतिकल्पन्तेऽयमायात्ययमागच्छतीत्येवं हैवंविदं सर्वाणि भूतानि प्रतिकल्पन्त इदं ब्रह्मायातीदमागच्छतीति - १४.७.१.[४३]

तद्यथा राजानं प्रयियासन्तम्। उग्राः प्रत्येनसः सूतग्रामण्य उपसमायन्त्येवं हैवंविदं सर्वे प्राणा उपसमायन्ति यत्रैतदूर्ध्वोच्छ्वासी भवति - १४.७.१.[४४]