शतपथब्राह्मणम्/काण्डम् १४/अध्यायः ३
ब्राह्मण १
१ घर्मोद्वासनम्-तत्र प्रथमं घर्मोद्वासनकालस्य विधानं, तत्र प्रवर्ग्यमुद्वासयितुं घर्मोपयुक्तानां द्रव्याणामेकीकरणविधानं, ततो घर्मोद्वासस्याङ्गत्वेनाहुतित्रयस्य विधित्सया तदर्थं दर्भमुष्टित्रयस्योपकल्पन निरूपणं, तेषां मध्ये एकं दर्भमुष्टिं प्रज्वाल्य तद्गतेऽग्नौ प्रथमाहुतिर्होतव्येति सप्रकारकं सप्रयोजनं सार्थवादं समन्त्रकं विधाय तस्य मन्त्रस्य भागशोऽनूद्य व्याख्यानम्, पूर्ववद्वितीयाहुतेः सप्रकारकं सप्रयोजनं सार्थवादं समन्त्रकं विधानं, पूर्ववत्तृतीयाहुतेः सप्रकारकं सप्रयोजनं सार्थवादं समन्त्रकं विधानं, घर्मोद्वासनदेशं प्रति गमनं समन्त्रकं विधाय तस्य मन्त्रस्य भागशोऽनूद्य व्याख्यानम् , एवं समन्त्रकं सर्वं प्रवर्ग्यसम्भारमादायोपनिष्क्रम्य प्रस्तोतारं साम गायेति प्रेष्येदिति विधाय तत्र पक्षान्तरमुपन्यस्यास्य पक्षस्यैवान्ततः सकारणं निगमनं, सामगानस्य प्रयोजननिरूपणं, विहितस्य साम्न आधारभूतमन्त्रलिङ्गद्वारेणापि रक्षोनिबर्हकत्वाभिधानम्, तस्याः सामयोन्या ऋचोऽतिच्छन्दस्त्वेन प्रशंसनम, तत्साम्न आद्यं स्तोभपदमुदाहृत्य रक्षोविनाशहेतुत्वप्रतिपादनम्, ततः प्रवर्ग्यमुद्वासयिष्यतामध्वर्युप्रभृतीनां गमनमार्गं विधायोदकसमीपगमनविधानम् , परितो जलयुक्ते द्वीपे घर्मोद्वासनं विधाय विपक्षे बाधोपन्यासपुरःसरं तदुपपाद्य तस्य निगमनम्, इत्थं नदीद्वीपे घर्मोत्सादनमभिधाय तत्र सोपपत्तिकं पक्षान्तरनिरूपणं, ततः प्रथमस्य महावीरस्योत्सादनप्रकारं सार्थवादं समन्त्रकं विधाय तस्य मन्त्रस्य भागशोऽनूद्य व्याख्यानम्, एवमुत्तरयोरपि महावीरयोरुत्सादनं कार्यमिति विधाय संहत्य च तत्प्रशंसनं, ततो या पूर्वं महावीरादिनिर्माणावसरेऽवशिष्टा मृन्निहिताऽऽस्ते तस्या अन्यत्र निधानं विधाय तस्य सोपपत्तिकं प्रशंसनं, ततः क्रमेणाभ्रेः सम्राडासन्द्याः कृष्णाजिनस्य धवित्राणां चोद्वासनस्य विधानम् , उपयमन्या सार्द्धं गवादिबन्धनार्थाया रज्जोरुद्वासनं विधाय दोहनार्थयोः पात्रयोरुद्वासनविधानं, गवादिबन्धनार्थानां स्थूणादीनामुद्वासनं विधाय तन्निर्वर्त्यावयवजातस्य सम्पादनं, खरत्रयस्याप्युद्वासनस्य सविशेषमभिधानं, प्रचरणीये महावीरे पयस आसेचनस्य सार्थवादं समन्त्रकं विधानं तस्य मन्त्रस्य भागशोऽनूद्य व्याख्यानं च, आनेतव्यस्य पयसः परिमाणस्य साभिप्रायमभिधानं, परिशेषितस्य पयसः कदोपयोग इत्याशंक्य तदुपयोगकालस्यार्थवादयुतं प्रतिपादनम् , उद्वासितं घर्मं सर्वदिक्षु त्रिः परिषिञ्चेदिति सहेतुकं सार्थवादं निरूपणं, परिषेचने क्रियमाणे प्रस्तोतारं प्रति सामगानार्थं प्रेष्येदिति सार्थवादं विधानं, चात्वाले प्रवर्ग्यकर्तॄणां मार्जनं विधाय तत्र मन्त्रं विनियुज्य तस्य व्याख्यानं, मार्जनशेषस्योदकस्य मन्त्रतदभिप्राययुतं सप्रकारकं सेचनविधानं, सर्वेषां प्रवर्ग्यकर्तॄणां मार्जनदेशात्समन्त्रकं निर्गमनं विधाय तस्य मन्त्रस्य भागशोऽनूद्य तात्पर्यार्थविवरणम्,
प्रवर्ग्यशेषो दधिघर्मः-तत्रेत्थं प्रवर्ग्यतदुद्वासनयोरभिधानानन्तरं सौत्येऽहनि कर्तव्यस्य दधिघर्माख्ययागस्य विधानं, तस्यैतस्य सोमयागानां मध्येऽनुष्ठेयस्य घर्मानुष्ठानस्य प्रशंसनं, स च दधिघर्मो माध्यन्दिनसवने तत्रापि पवमानस्यानन्तरमनुष्ठेय इति सार्थवादमभिधानं, तस्मिन् दधिघर्मे साधनत्वेन पात्रविशेषं विधाय तस्य प्रशंसनम् , इत्थं दधिघर्मस्य कालसाधने उक्त्वा तस्य यागभक्षणयोर्विधित्सया तत्प्रकारनिरूपणं, तत्र भक्षणस्योपहवयाचनपूर्वकत्वं मन्त्रवत्त्वं चाभिधायोक्तमन्त्रस्य भागशोऽनूद्य व्याख्यानम् स्तावकार्थवादातिदेशसहितं सर्वेषामृत्विजां चात्वाले मार्जनस्य विधानं, प्रवर्ग्याङ्गभूतं दक्षिणाद्रव्यदानम् -- तत्र च तावद्ब्रह्मणो यज्ञभिषक्त्वेन मुख्यत्वात्तस्मै दातव्यस्य दक्षिणाद्रव्यस्य सोपपत्तिकं निरूपणं, तथाऽध्वर्यवे दातव्यां दक्षिणामभिधाय तस्याः सोपपत्तिकं निगमनं, तथा होत्रे प्रदेयां दक्षिणामभिधाय तस्याः सोपपत्तिकं निगमनम्, उद्गातृभ्यो दक्षिणादानं विधाय तदुपपाद्य निगमनं, प्रथमाध्यायस्थप्रथमप्रवर्ग्यसृष्टिप्रतिपादकब्राह्मणस्यावसाने निरूपिताया व्रतचर्याया अत्राप्यतिदेशकरणं चेत्यादि.
ब्राह्मण २
२ घर्मभेदे प्रायश्चित्तनिरूपणम् - तत्र प्रथमं प्रायश्चित्तं विधातुमुपोद्घातत्वेन तस्योपपादनम्, ततो यस्य घर्मो भिद्येत तेन तत्र प्रायश्चित्तिः कर्तव्येति विधानम्, तत्राद्यां पूर्णाहुतिं विधाय तां प्रशस्य च तस्यां मन्त्रं विनियुज्य च तेन मन्त्रेण मिन्नस्य घर्मस्य भैषज्यकरणप्रकारस्योपवर्णनम्, " पृथिव्यै स्वाहा" इत्यादीनां " पूताय स्वाहा" इत्यन्तानां त्रयोदशमन्त्राणां भैषज्यकरणहेतुत्वव्याख्यानेन घर्मभेदप्रायश्चित्ते विनियोजनम् , तत एतैस्त्रयोदशभिर्मन्त्रैस्त्रयोदशाहुतयो होतव्या इति विधाय तासां संवत्सरात्मकप्रजापत्यात्मना प्रशंसनम्, ततः पुनरन्येषां " वाचे स्वाहा ". इत्यादीनां " श्रोत्राय स्वाहा" इत्यन्तानां सप्तानां मन्त्राणां भैषज्यकरणहेतुत्वव्याख्यानेन घर्मभेदप्रायश्चित्ते विनियोजनम्, तत एतैः सप्तभिर्मन्त्रैः सप्तान्या आहुतयो होतव्या इति विधाय तासां सप्तशीर्षण्यप्राणात्मना प्रशंसनम्, तत उत्तमां पूर्णाहुतिं विधाय तां प्रशस्य च तस्यां मन्त्रं च विनियुज्य तस्य भागशोऽनूद्य व्याख्यानम् , एवं महावीरस्य भेदननिमित्तं प्रायश्चित्तं प्रतिपाद्येदानीं पुनस्तस्य निर्माणस्यानुष्ठानप्रकारस्य च प्रतिपादनम्,
प्रवर्ग्यस्तुतिः - तस्यां चैतस्य प्रवर्ग्यस्य क्रमेण संवत्सरात्मना-लोकत्रयात्मना-अग्निवाय्वादित्यात्मना-यजमानात्मना-अग्निहोत्रात्मना-दर्शपूर्णमासात्मना-चातुर्मास्यात्मना-पशुबन्धात्मना-ज्योतिष्टोमात्मना च सोपपत्तिकं प्रशंसनम् , प्रतिपर्यायमुक्तार्थं वेदितुः फलाभिधानं च, इत्थं प्रवर्ग्यसम्बन्ध्युक्तविज्ञानं वेदिता सर्वेष्वपि यज्ञेषूक्तप्रकारेण प्रवर्ग्यस्य सम्पादनात्सप्रवर्ग्येणैव सर्वेण यज्ञजाते. नेष्टवान्भवतीति निरूपणम्, प्रथमाध्यायस्थप्रथमप्रवर्ग्यसृष्टिप्रतिपादकब्राह्मणस्यावसाने निरूपिताया व्रतचर्याया अत्राप्यतिदेशकरणं चेत्यादि.