शतपथब्राह्मणम्/काण्डम् १४/अध्यायः ३/ब्राह्मण १

विकिस्रोतः तः
Jump to navigation Jump to search

घर्मोद्वासनम्

स वै तृतीयेऽहन्। षष्ठे वा द्वादशे वा प्रवर्ग्योपसदौ समस्य प्रवर्ग्यमुत्सादयत्युत्सन्नमिव हीदं शिरस्तद्यदेतमभितो भवति तत्सर्वं समादायाग्रेण शालामन्तर्वेद्युपसमायन्ति - १४.३.१.[१]

अथाग्नीध्रः। आहवनीये त्रीञ्छालाकानुपकल्पयते तेषामेकमुज्ज्वलय्य मुखदघ्ने धारयमाणो जुहोति यज्ञस्य शीर्षच्छिन्नस्य शुगुदक्रामत्सेमांल्लोकानाविशत्तयैवैनमेतच्छुचा समर्धयति कृत्स्नं करोति - १४.३.१.[२]

अथ यन्मुखदघ्ने। उपरीव वै तद्यन्मुखदघ्नमुपरीव तद्यदसौ लोकस्तद्याऽमुं लोकं शुगाविशत्तयैवैनमेतच्छुचा समर्धयति कृत्स्नं करोति - १४.३.१.[३]

या ते घर्म दिव्या शुगिति। यैव दिव्या शुग्या गायत्र्यां हविर्धान इति यैव गायत्र्यां
हविर्धाने सा त आप्यायतां निष्ट्यायतां तस्यै ते स्वाहेति नात्र तिरोहितमिवास्ति - १४.३.१.[४]

अथ द्वितीयमुज्ज्वलय्य। नाभिदघ्ने धारयमाणो जुहोति मध्यमिव वै तद्यन्नाभिदघ्नं मध्यमिवान्तरिक्षलोकस्तद्याऽन्तरिक्षलोकं शुगाविशत्तयैवैनमेतच्छुचा समर्धयति कृत्स्नं करोति - १४.३.१.[५]

या ते घर्मान्तरिक्षे शुगिति। यैवान्तरिक्षे शुग्या त्रिष्टुभ्याग्नीध्र इति यैव त्रिष्टुभ्याग्नीध्रे सा त आप्यायतां निष्ट्यायतां तस्यै ते स्वाहेति नात्र तिरोहितमिवास्ति - १४.३.१.[६]

अथ तृतीयमभ्याधाय। तस्मिन्नासीनो जुहोत्यधऽइव वै तद्यदासीनोऽधऽइव तद्यदयं लोकस्तद्येमं लोकं शुगाविशत्तयैवैनमेतच्छुचा समर्धयति कृत्स्नं करोति - १४.३.१.[७]

या ते घर्म पृथिव्यां शुगिति। यैव पृथिव्यां शुग्या जगत्यां सदस्येति यैव जगत्यां सदस्या सा तऽआप्यायतां निष्ट्यायतां तस्यै ते स्वाहेति नात्र तिरोहितमिवास्ति - १४.३.१.[८]

अथोपनिष्क्रामति। क्षत्रस्य त्वा परस्पायेत्येतद्वै दैवं क्षत्रं य एष तपत्यस्य त्वा मानुषस्य क्षत्रस्य परस्पायत्वायेत्येवैतदाह ब्रह्मणस्तन्वम्पाहीति ब्रह्मण आत्मानं गोपायेत्येवैतदाह विशस्त्वा धर्मणा वयमिति यज्ञो वै विड्यज्ञस्य त्वारिष्ट्या इत्येवैतदाहानुक्रामाम सुविताय नव्यस इति यज्ञस्य त्वारिष्ट्या अह्वलाया इत्येवैतदाह - १४.३.१.[९]

अथाह साम गायेति। साम ब्रूहीति वा गायेति त्वेव ब्रूयाद्गायन्ति हि साम तद्यत्साम गायति नेदिमान्बहिर्द्धा यज्ञाच्छरीरान्नाष्ट्रा रक्षांसि हिनसन्निति साम हि नाष्ट्राणां रक्षसामपहन्ता - १४.३.१.[१०]

आग्नेय्यां गायति। अग्निर्हि रक्षसामपहन्ताऽतिच्छन्दसि गायत्येषा वै सर्वाणि छन्दांसि यदतिच्छन्दास्तस्मादतिच्छन्दसि गायति - १४.३.१.[११]

स गायति। अग्निष्टपति प्रतिदहत्यहावोऽहाव इति तन्नाष्ट्रा वै तद्रक्षांस्यतोऽपहन्ति - १४.३.१.[१२]

त उदञ्चो निष्क्रामन्ति। जघनेन चात्वालमग्रेणाग्नीध्रमेषा हि यज्ञस्य द्वाः स
यस्यां ततो दिश्यापो भवन्ति तद्यन्ति - १४.३.१.[१३]

तं वै परिष्यन्द उत्सादयेत्। तप्तो वा एष शुशुचानो भवति तं यदस्यामुत्सादयेदिमामस्य शुगृच्छेद्यदप्सूत्सादयेदपोऽस्य शुगृच्छेदथ यत्परिष्यन्द उत्सादयति तथो ह नैवापो हिनस्ति नेमां यदहाप्सु न प्रास्यति तेनापो न हिनस्त्यथ यत्समन्तमापः परियन्ति शान्तिर्वा आपस्तेनो इमां न हिनस्ति तस्मात्परिष्यन्द उत्सादयेत् - १४.३.१.[१४]

उत्तरवेदौ त्वेवोत्सादयेत्। यज्ञो वा उत्तरवेदिः शिरः प्रवर्ग्यो यज्ञ एवैतच्छिरः प्रतिदधाति - १४.३.१.[१५]

उत्तरनाभ्या संस्पृष्टम् प्रथमं प्रवर्ग्यमुत्सादयति। वाग्वा उत्तरनाभिः शिरः प्रवर्ग्यः शीर्षंस्तद्वाचं दधाति - १४.३.१.[१६]

चतुःस्रक्तिरिति। एष वै चतुःस्रक्तिर्य एष तपति दिशो ह्येतस्य स्रक्तयस्तस्मादाह
चतुःस्रक्तिरिति - १४.३.१.[१७]

नाभिर्ऋतस्य सप्रथा इति। सत्यं वा ऋतं सत्यस्य नाभिः सप्रथा इत्येवैतदाह स नो
विश्वायुः सप्रथा इति स नः सर्वायुः सप्रथा इत्येवैतदाह - १४.३.१.[१८]

अप द्वेषो अप ह्वर इति। नात्र तिरोहितमिवास्त्यन्यव्रतस्य सश्चिमेत्यन्यद्वा एतस्य व्रतमन्यन्मनुष्याणां तस्मादाहान्यव्रतस्य सश्चिमेत्येवमितरौ प्राञ्चौ तत्त्रिवृत्त्रिवृद्धीदं शिरः - १४.३.१.[१९]

पुरस्तादुपशयां मृदम्। मांसमेवास्मिन्नेतद्दधाति तदभितः परीशासौ बाहूऽएवास्मिन्नेतद्दधात्यभितः परे रौहिणहवन्यौ स्रुचौ हस्तावेवास्मिन्नेतद्दधाति - १४.३.१.[२०]

उत्तरतोऽभ्रिम्। तद्धि तस्या आयतनं दक्षिणतः सम्राडासन्दीं तद्धि तस्याऽआयतनमुत्तरतः कृष्णाजिनं तद्धि तस्यायतनं सर्वतो धवित्राणि प्राणा वै धवित्राणि प्राणानेवास्मिन्नेतद्दधाति त्रीणि भवन्ति त्रयो वै प्राणाः प्राण उदानोव्यानस्तानेवास्मिन्नेतद्दधाति - १४.३.१.[२१]

अथैतद्रज्जुसन्दानम्। उपयमन्यामाधाय पश्चात्प्राचीमासादयत्युदरमेवास्मिन्नेतद्दधाति तदभितः पिन्वनेऽआण्डावेवास्मिन्नेतद्दधात्याण्डाभ्यां हि वृषा पिन्वते पश्चात्स्थूणामयूखमूरूऽएवास्मिन्नेतद्दधाति पश्चाद्रौहिणकपाले जानुनी एवास्मिन्नेतद्दधाति ते यदेककपाले भवत एककपाले इव हीमे जानुनी पश्चाद्धृष्टी पादावेवास्मिन्नेतद्दधाति पादाभ्यां हि धृष्टं प्रहरत्युत्तरतः खरौ प्रचरणीयौ तद्धि तयोरायतनं दक्षिणतो मार्जालीयं तद्धि तस्यायतनम् - १४.३.१.[२२]

अथास्मिन्पय आनयति। घर्मैतत्ते पुरीषमित्यन्नं वै पुरीषमन्नमेवास्मिन्नेतद्दधाति तेन वर्धस्व चा च प्यायस्वेति नात्र तिरोहितमिवास्ति वर्द्धिषीमहि च वयमा च प्यासिषीमहीत्याशिषमेवैतदाशास्ते - १४.३.१.[२३]

स वै न सर्वमिवानयेत्। नेद्यजमानात्परागन्नमसदित्यर्धं वा भूयो वा परिषिनष्टि तस्मिन्नपराह्णे यजमानाय व्रतमभ्युत्सिच्य प्रयच्छति तद्यजमान एवैतदन्नाद्यं दधाति तथो ह यजमानान्न परागन्नं भवति - १४.३.१.[२४]

अथैनमद्भिः परिषिञ्चति शान्तिर्वा आपः शमयत्येवैनमेतत्सर्वतः परिषिञ्चति सर्वत एवैनमेतच्छमयति त्रिष्कृत्वः परिषिञ्चति त्रिवृद्धि यज्ञः - १४.३.१.[२५]

अथाह वार्षाहरं साम गायेति। एष वै वृषा हरिर्य एष तपत्येष उ प्रवर्ग्यस्तदेतमेवैतत्प्रीणाति तस्मादाह वार्षाहरं साम गायेति - १४.३.१.[२६]

अथ चात्वाले मार्जयन्ते। सुमित्रिया न आप ओषधयः सन्त्वित्यञ्जलिनाऽप उपाचति वज्रो वा आपो वज्रेणैवैतन्मित्रधेयं कुरुते दुर्मित्रियास्तस्मै सन्तु योऽस्मान्द्वेष्टि यं च वयं द्विष्म इति यामस्य दिशं द्वेष्यः स्यात्तां दिशं परासिञ्चेत्तेनैव तम्पराभावयति - १४.३.१.[२७]

अथ प्राङिवोदङ्ङुत्क्रामति। उद्वयं तमसस्परीति पाप्मा वै तमः पाप्मानमेव तमोऽपहते स्वः पश्यन्त उत्तरमित्ययं वै लोकोऽद्भ्य उत्तरोऽस्मिन्नेव लोके प्रतितिष्ठति देवं देवत्रा सूर्यमगन्म ज्योतिरुत्तममिति स्वर्गो वै लोकः सूर्यो ज्योतिरुत्तमं स्वर्ग एव लोकेऽन्ततः प्रतितिष्ठत्यनपेक्षमेत्याहवनीये समिधमभ्यादधाति समिदसि तेजोऽसि तेजो मयि धेहीत्याशिषमेवैतदाशास्ते - १४.३.१.[२८]

प्रवर्ग्यशेषो दधिघर्मः

अथ प्रसुते दधिघर्मेण चरन्ति। यज्ञो वै सोमः शिरः प्रवर्ग्यो यज्ञ एवैतच्छिरः प्रतिदधाति माध्यन्दिने सवन एतद्वा इन्द्रस्य निष्केवल्यं सवनं यन्माध्यन्दिनं सवनं स्व एवैनमेतद्भागे प्रीणाति स्तुते माध्यन्दिने पवमाने प्राणो वै माध्यन्दिनः पवमानः प्राणमेवास्मिन्नेतद्दधात्यग्निहोत्रहवण्या मुखं वा एतद्यज्ञानां यदग्निहोत्रं शीर्षंस्तन्मुखं दधाति - १४.३.१.[२९]

स आनीयमान आह। होतर्वदस्व यत्ते वाद्यमिति वदते ह्यत्र होताऽथोपोत्तिष्ठन्नाह श्रातं हविरिति श्रातं हि भवत्यतिक्रम्याश्राव्याह दधिघर्मस्य यजेति वषट्कृते जुहोत्यनुवषट्कृत आहरति भक्षं तं यजमानाय प्रयच्छति - १४.३.१.[३०]

स उपहवमिष्ट्वा भक्षयति। मयि त्यदिन्द्रियं बृहदित्येतद्वा इन्द्रियं बृहद्य एष तपति मयि दक्षो मयि क्रतुरिति क्रतूदक्षावेवात्मन्धत्ते घर्मस्त्रिशुग्विराजतीति घर्मो ह्येष त्रिशुग्विराजति विराजा ज्योतिषा सहेति विराजा ह्येष ज्योतिषा सह ब्रह्मणा तेजसा सहेति ब्रह्मणा ह्येष तेजसा सह पयसो रेत आभृतमिति पयसो ह्येतद्रेत आभृतं तस्य दोहमशीमह्युत्तरामुत्तरां समामित्याशिषमेवैतदाशास्तेऽथ चात्वाले मार्जयन्तेऽसावेव बन्धुः - १४.३.१.[३१]

प्रवर्ग्यांङ्गभूतं दक्षिणाद्रव्यदानम्

अथातो दक्षिणानाम्। सुवर्णं हिरण्यं शतमानं ब्रह्मणे ददात्यासीनो वै ब्रह्मा यशः शयानं हिरण्यं तस्मात्सुवर्णं हिरण्यं शतमानं ब्रह्मणे ददाति- १४.३.१.[३२]

अथ यैषा घर्मदुघा। तामध्वर्यवे ददाति तप्तऽइव वै घर्मस्तप्तमिवाध्वर्युर्निष्क्रामति तस्मात्तामध्वर्यवे ददाति - १४.३.१.[३३]

अथ यैषा यजमानस्य व्रतदुघा। तां होत्रे ददाति यज्ञो वै होता यज्ञो यजमानस्तस्मात्तां होत्रे ददाति - १४.३.१.[३४]

अथ यैषा पत्न्यै व्रतदुघा। तामुद्गातृभ्यो ददाति पत्नीकर्मेव वा एतेऽत्र कुर्वन्ति यदुद्गातारस्तस्मात्तामुद्गातृभ्यो ददाति - १४.३.१.[३५]

अथैतद्वै। आयुरेतज्ज्योतिः प्रविशति य एतमनु वा ब्रूते भक्षयति वा तस्य व्रतचर्या या सृष्टौ - १४.३.१.[३६]