शतपथब्राह्मणम्/काण्डम् १४/अध्यायः ३/ब्राह्मण २

विकिस्रोतः तः

घर्मभेदे प्रायश्चित्तम्

सर्वेषां वा एष भूतानाम् सर्वेषां देवानामात्मा यद्यज्ञस्तस्य समृद्धिमनुयजमानः प्रजया पशुभिर्ऋध्यते वि वा एष प्रजया पशुभिर्ऋध्यते यस्य घर्मो विदीर्यते तत्र प्रायश्चित्तिः - १४.३.२.१

पूर्णाहुतिं जुहोति। सर्वं वै पूर्णं सर्वेणैवैतद्भिषज्यति यत्किं च विवृढं यज्ञस्य - १४.३.२.२

स्वाहा प्राणेभ्यः साधिपतिकेभ्य इति। मनो वै प्राणानामधिपतिर्मनसि हि सर्वे प्राणाः प्रतिष्ठितास्तन्मनसैवैतद्भिषज्यति यत्किं च विवृढं यज्ञस्य - १४.३.२.३

पृथिव्यै स्वाहेति पृथिवी वै सर्वेषां देवानामायतनं तत्सर्वाभिरेवैतद्देवताभिर्भिषज्यति यत्किं च विवृढं यज्ञस्य - १४.३.२.४

अग्नये स्वाहेति अग्निर्वै सर्वेषां देवानामात्मा तत्सर्वाभिरेवैतद्देवताभिर्भिषज्यति यत्किं च विवृढं यज्ञस्य - १४.३.२.५

अन्तरिक्षाय स्वाहेति। अन्तरिक्षं वै सर्वेषां देवानामायतनं तत्सर्वाभिरेवैतद्देवताभिर्भ्भिषज्ज्यति यत्किञ्च विवृढं यज्ञस्य - १४.३.२.६

वायवे स्वाहेति। वायुर्वै सर्वेषां देवानामात्मा तत्सर्वाभिरेवैतद्देवताभिर्भ्भिषज्ज्यति यत्किञ्च विवृढं यज्ञस्य - १४.३.२.७

दिवे स्वाहेति। द्यौर्वै सर्वेषां देवानामायतनं तत्सर्वाभिरेवैतद्देवताभिर्भ्भिषज्ज्यति यत्किञ्च विवृढं यज्ञस्य - १४.३.२.८

सूर्याय स्वाहेति। सूर्यो वै सर्वेषां देवानामात्मा तत्सर्वाभिरेवैतद्देवताभिर्भ्भिषज्ज्यति यत्किञ्च विवृढं यज्ञस्य - १४.३.२.९

दिग्भ्यः स्वाहेति। दिशो वै सर्वेषां देवानामायतनं तत्सर्वाभिरेवैतद्देवताभिर्भ्भिषज्ज्यति यत्किञ्च विवृढं यज्ञस्य - १४.३.२.१०

चन्द्राय स्वाहेति। चन्द्रो वै सर्वेषां देवानामात्मा तत्सर्वाभिरेवैतद्देवताभिर्भ्भिषज्ज्यति यत्किञ्च विवृढं यज्ञस्य - १४.३.२.११

नक्षत्रेभ्यः स्वाहेति। नक्षत्राणि वै सर्वेषां देवानामायतनं तत्सर्वाभिरेवैतद्देवताभिर्भ्भिषज्ज्यति यत्किञ्च विवृढं यज्ञस्य - १४.३.२.१२

अद्भ्यः स्वाहेति। आपो वै सर्वेषां देवानामायतनं तत्सर्वाभिरेवैतद्देवताभिर्भ्भिषज्ज्यति यत्किञ्च विवृढं यज्ञस्य - १४.३.२.१३

वरुणाय स्वाहेति। वरुणो वै सर्वेषां देवानामात्मा तत्सर्वाभिरेवैतद्देवताभिर्भ्भिषज्ज्यति यत्किञ्च विवृढं यज्ञस्य - १४.३.२.१४

नाभ्यै स्वाहा पूताय स्वाहेति। अनिरुक्तमनिरुक्तो वै प्रजापतिः प्रजापतिर्यज्ञस्तत्प्रजापतिमेवैतद्यज्ञं भिषज्यति - १४.३.२.१५

त्रयोदशैता आहुतयो भवन्ति। त्रयोदश वै मासाः सम्वत्सरस्य सम्वत्सरः प्रजापतिः प्रजापतिर्यज्ञस्तत्प्रजापतिमेवैतद्यज्ञं भिषज्यति - १४.३.२.१६

वाचे स्वाहेति। मुखमेवास्मिन्नेतद्दधाति प्राणाय स्वाहा प्राणाय स्वाहेति नासिके एवास्मिन्नेतद्दधाति चक्षुषे स्वाहा चक्षुषे स्वाहेत्यक्षिणी एवास्मिन्नेतद्दधाति श्रोत्राय स्वाहा श्रोत्राय स्वाहेति कर्णावेवास्मिन्नेतद्दधाति - १४.३.२.१७

सप्तैता आहुतयो भवन्ति। सप्त वा इमे शीर्षन्प्राणास्तानेवास्मिन्नेतद्दधाति पूर्णाहुतिमुत्तमां जुहोति सर्वं वै पूर्णं सर्वेणैवैतद्भिषज्यति यत्किं च विवृढं यज्ञस्य - १४.३.२.१८

मनसः काममाकूतिमिति। मनसा वा इदं सर्वमाप्तं तन्मनसैवैतद्भिषज्यति यत्किं च विवृढं यज्ञस्य - १४.३.२.१९

वाचः सत्यमशीयेति। वाचा वा इदं सर्वमाप्तं तद्वाचैवैतद्भिषज्यति यत्किं च विवृढं यज्ञस्य। पशूनां रूपमन्नस्य रसो यशः श्रीः श्रयतां मयि स्वाहेत्याशिषमेवैतदाशास्ते - १४.३.२.२०

अथ तं चोपशयां च पिष्ट्वा। मार्त्स्नया मृदा संसृज्यावृता करोत्यावृता पचत्युत्सादनार्थमथ य उपशययोर्दृढः स्यात्तेन प्रचरेत् - १४.३.२.२१

प्रवर्ग्यस्तुतिः

संवत्सरो वै प्रवर्ग्यः सर्वं वै संवत्सरः सर्वं प्रवर्ग्यः स यत्प्रवृक्तस्तद्वसन्तो यद्रुचितस्तद्ग्रीष्मो यत्पिन्वितस्तद्वर्षा यदा वै वर्षाः पिन्वन्तेऽथैनाः सर्वे देवाः सर्वाणि भूतान्युपजीवन्ति पिन्वन्ते ह वा अस्मै वर्षा य एवमेतद्वेद - १४.३.२.२२

इमे वै लोकाः प्रवर्ग्यः। सर्वं वा इमे लोकाः सर्वं प्रवर्ग्यः स यत्प्रवृक्तस्तदयं लोको यद्रुचितस्तदन्तरिक्षलोको यत्पिन्वितस्तदसौ लोको यदा वा असौ लोकः पिन्वतेऽथैनं सर्वे देवाः सर्वाणि भूतान्युपजीवन्ति पिन्वते ह वा अस्मा असौ लोको य एवमेतद्वेद - १४.३.२.२३

एता वै देवताः प्रवर्ग्यः। अग्निर्वायुरादित्यः सर्वं वा एता देवता सर्वम्प्रवर्ग्यः स यत्प्रवृक्तस्तदग्निर्यद्रुचितस्तद्वायुर्यत्पिन्वितस्तदसावादित्यो यदा वा असावादित्यः पिन्वतेऽथैनं सर्वे देवाः सर्वाणि भूतान्युपजीवन्ति पिन्वते ह वा अस्मा असावादित्यो य एवमेतद्वेद - १४.३.२.२४

यजमानो वै प्रवर्ग्यः। तस्यात्मा प्रजा पशवः सर्वं वै यजमानः सर्वम्प्रवर्ग्यः स यत्प्रवृक्तस्तदात्मा यद्रुचितस्तत्प्रजा यत्पिन्वितस्तत्पशवो यदा वै पशवः पिन्वन्तेऽथैनान्त्सर्वे देवाः सर्वाणि भूतान्युपजीवन्ति पिन्वन्ते ह वा अस्मै पशवो य एवमेतद्वेद - १४.३.२.२५

अग्निहोत्रं वै प्रवर्ग्यः। सर्वं वा अग्निहोत्रं सर्वं प्रवर्ग्यः स यदधिश्रितं तत्प्रवृक्तो यदुन्नीतं तद्रुचितो यद्धुतं तत्पिन्वितो यदा वा अग्निहोत्रम्पिन्वतेऽथैनत्सर्वे देवाः सर्वाणि भूतान्युपजीवन्ति पिन्वते ह वा अस्मा अग्निहोत्रं य एवमेतद्वेद - १४.३.२.२६

दर्शपूर्णमासौ वै प्रवर्ग्यः। सर्वं वै दर्शपूर्णमासौ सर्वं प्रवर्ग्यः स यदधिश्रितं तत्प्रवृक्तो यदासन्नं तद्रुचितो यद्धुतं तत्पिन्वितो यदा वै दर्शपूर्णमासौ पिन्वेते अथैनौ सर्वे देवाः सर्वाणि भूतान्युपजीवन्ति पिन्वेते ह वा अस्मै दर्शपूर्णमासौ य एवमेतद्वेद - १४.३.२.२७

चातुर्मास्यानि वै प्रवर्ग्यः। सर्वं वै चातुर्मास्यानि सर्वं प्रवर्ग्यः स यदधिश्रितं तत्प्रवृक्तो यदासन्नं तद्रुचितो यद्धुतं तत्पिन्वितो यदा वै चातुर्मास्यानि पिन्वन्तेऽथैनानि सर्वे देवाः सर्वाणि भूतान्युपजीवन्ति पिन्वन्ते ह वा अस्मै चातुर्मास्यानि य एवमेतद्वेद - १४.३.२.२८

पशुबन्धो वै प्रवर्ग्यः सर्वं वै पशुबन्धः सर्वं प्रवर्ग्यः स यदधिश्रितस्तत्प्रवृक्तो यदासन्नस्तद्रुचितो यद्धुतस्तत्पिन्वितो यदा वै पशुबन्धः पिन्वतेऽथैनं सर्वे देवाः सर्वाणि भूतान्युपजीवन्ति पिन्वते ह वा अस्मै पशुबन्धो य एवमेतद्वेद - १४.३.२.२९

सोमो वै प्रवर्ग्यः। सर्वं वै सोमः सर्वं प्रवर्ग्यः स यदभिषुतस्तत्प्रवृक्तो यदुन्नीतस्तद्रुचितो यद्धुतस्तत्पिन्वितो यदा वै सोमः पिन्वतेऽथैनं सर्वे देवाः सर्वाणि भूतान्युपयुञ्जन्ति पिन्वते ह वा अस्मै सोमो य एवमेतद्वेद न ह वा अस्याप्रवर्ग्येण केनचन यज्ञेनेष्टं भवति य एवमेतद्वेद - १४.३.२.३०

अथैतद्वै। आयुरेतज्ज्योतिः प्रविशति य एतमनु वा ब्रूते भक्षयति वा तस्य व्रतचर्या या सृष्टौ - १४.३.२.३१