शतपथब्राह्मणम्/काण्डम् १३/अध्यायः ८

विकिस्रोतः तः
Jump to navigation Jump to search

ब्राह्मण १

१ पितृमेधः-तत्र च प्रथमं सप्रयोजनं श्मशानकरणं श्मशानशब्दनिर्वचनं च, एष च पितृमेधः क्षिप्रं न कर्तव्यः किन्तु पितुः संवत्सरास्मृतौ कर्तव्य इति सकारणं निरूपणं, बहुकालातिक्रमणोत्तरमपि पितुर्मरणसंवत्सरस्य स्मृतौ सत्यां समेषु संवत्सरेषु-अस्मृतौ च सत्यामयुग्मेषु संवत्सरेषु पितृमेध: कार्य इति व्यवस्थितविकल्पपुरःसरमभिधानं, तद्वदयं पितृमेधः एकतारके नक्षत्रेऽथवाऽमावास्यारूपे एकनक्षत्रे कर्तव्य इति सोपपत्तिकं सप्रयोजनं निरूपणं, तत्राप्ययं पितृमेधः शरदि माघे निदाघे वा कार्य इति सकारणं प्रतिपादन, पूर्वं श्मशानकरणं विहितमिदानीं तच्छ्मशानं चतुर्दिक्षु चतुःस्रक्ति कर्तव्यमिति देवासुरस्पर्द्धाया इतिहासद्वारा प्रकथनं, प्रसङ्गाद्दैव्यः प्रजा देवानुकारेण श्मशानं चतुःस्रक्ति कुर्वन्त्यासुर्यः प्रजा असुरानुकारेण परिमण्डलाकारं श्मशानं कुर्वन्तीति प्रतिपादनम् , एतच्च श्मशानं ग्रामाद्दक्षिणपूर्वस्यां दिशि कर्तव्यमिति सकारणमभिधानं, ततः श्मशानकरणार्थं भूमिजोषणोपक्रमणं, तथा चैतच्छ्मशानमुदीचीनप्रवणं कर्तव्यमिति सोपपत्तिकं सार्थवादं विधानं, तत्र दक्षिणाप्रवणं कार्यमिति सकारणं केषाञ्चिन्मतमनूद्य तस्यानिष्टफलप्रदर्शनद्वारा निराकरणं, दक्षिणाप्रवणस्य प्रत्यासन्नं कुर्यादिति सकारणं पुनः केषाञ्चिन्मतमनूद्य तस्योदक्प्रवणत्वतीति कारणनिर्देशपुरःसरं प्रत्याख्यानं, पुनरेतच्छ्मशानं समभूमौ-तत्रापि रमणीये सुखनीये च प्रदेशे-तत्रापि दूराध्वनि प्रदेशे-तत्रापि वृक्षगुल्माद्याकाशवर्जिते प्रदेशे-तत्रापि वृक्षगुल्मादिभिः समन्तात्संवृते सत्यधस्तापिनि प्रदेशे-तत्रापि पार्श्वतोऽवकाशवर्जिते प्रदेशे-तत्रपि वनगिरिदेवगृहादिना चित्रेऽर्थाद्दर्शनीये प्रदेशे तत्राप्यूषरे प्रदेशे-तत्रापि वीरिणमिश्रे औषधिमूलसहित प्रदेशे-तत्रापि विशाखशराश्वगन्धापृश्निपर्ण्यध्याण्डादिविवर्जिते प्रदेशे तत्राप्यश्वत्थविभीतकतिल्वकस्फूर्जकहरिद्रुन्यग्रोधानां ये च पापनामानो वृक्षास्तेषामनन्तिके प्रदेशे कर्तव्यमिति प्रतिपर्यायं सोपपत्तिकं सार्थवादं श्मशानोचितप्रदेशप्रदर्शनम्, पुनस्तच्छ्मशानमग्निचितोऽग्निविधया कुर्यादिति सोपपत्तिकं सार्थवादमभिधानं, पुनरप्येतच्छ्मशानं महन्न कुर्यात्किन्तु यावानपक्षपुच्छोऽग्निस्तावन्मितं कुर्यादिति सकारणं केषाञ्चिन्मतमुपन्यस्य पुरुषमात्रं पश्चादुत्तरतश्च पृथुतरं च कुर्यादिति सार्थवादं सप्रयोजनं विधाय तदप्रदक्षिणं वलिताभी रज्जुभिः पर्यातन्यादिति सहेतुकं निरूपणं, तत्र श्मशाने यावति प्रदेशेऽस्थिनिवापः सम्भवेत्तावन्तं प्रदेशं लाङ्गलेनोद्धन्यादित्येकीयं मतमुपन्यस्य पुरुषमात्रमेवोद्धन्यादिति स्वमतस्य सार्थवादमभिधानं चेत्यादि.

ब्राह्मण २

२ तत्र पृथिव्यां किञ्चिद्वस्त्रैरिष्टकान्तर्द्धानं कृत्वाऽस्थीनि निवपन्तीत्येकीयं मतमुपन्यस्यानन्तर्द्धाय निवपन्तीति पुनरन्यदीयस्य मतस्य सेतिहासं निरूपणं, ततः श्मशानक्षेत्रं गार्हपत्यचितिपरिश्रिदपेक्षयाऽपरिमिताभिः परिश्रिद्भिः परिश्रयति -- तत्राग्निकीनां परिश्रितां यजुषा परिश्रयणमेतासां पैतृमेधिकीनां परिश्रितां तु तूष्णीं परिश्रयणं-यदेवाग्निकीनां परिश्रितां प्रयोजनं तदेवैतासां पैतृमेधिकीनां परिश्रितामित्येतत्सार्थवादं निरूपणं, ततः पलाशशाखया श्मशानक्षेत्रस्य व्युदूहनमर्थात्तृणपर्णादिभिर्विहीनीकरणं विधाय तत्रर्ग्यजूंषी विनियुज्य तयोर्व्याख्यानम् , अस्याः पित्र्यायाः पलाशशाखाया दक्षिणस्यां निरसनमिरतस्यास्तूत्तरस्यामित्यभिधानं, श्मशानक्षेत्रस्य दक्षिणत एकेषां मतेनोत्तरतो वा सीरं युनक्तीति पक्षद्वयस्येच्छाविकल्पत्वं प्रदर्श्य युंक्तेति सम्प्रेष्यामिमन्त्रयत इति विधानं, तत्राभिमन्त्रणमन्त्रं प्रतिपाद्य तस्याभिप्रेतार्थप्रदर्शनम्, तच्च सीरं षड्गवं भवतीति सार्थवादं प्रतिपादनं, ततश्चतुर्भिर्यजुर्भिश्चतसृणां सीतानां कर्षणस्य सप्रकारकं सार्थवादं विधानं, तत आत्मनो विकर्षणस्य सार्थवादं सप्रकारकं विधानम्, एवं सीताविकर्षणं कर्म कृत्वा सीरं विमुञ्चतीति समन्त्रकं सप्रयोजनमभिधायास्य पित्र्यस्य सीरस्य दक्षिणस्यां निरसनं तदितरस्य दैवस्य तूत्तरस्यां निरसनमिति सकारणममिधानं चेत्यादि.

ब्राह्मण ३

३ कृष्टक्षेत्रमध्ये सर्वौषधं वपतीति विधाय यच्चाग्निकं सर्वोषधवपनं तद्बह्वीभिर्ऋम्भिरिदं पैतृमेधिकं च सर्वोषधवपनमेकयर्चा कर्तव्यमिति सकारणं प्रदर्श्य वपनसाधनमन्त्रं च प्रदर्श्य तस्याभिप्रायवर्णनं, ततः सूर्योदयसमकालं कृष्टक्षेत्रमध्ये प्रेतास्थिनिवपनस्य सार्थवादं विधानं, विहिते प्रेतास्थिनिवपने मन्त्रद्वयं विनियुज्य तयोरभिप्रायार्थप्रदर्शनं द्वितीयमन्त्रेऽसौस्थाने नामादेशकरणकथनं च, दक्षिणां दिशं गत्वाऽनुच्छ्वसन्कुम्भं प्रक्षिप्यानपेक्षमाण एहीति कञ्चित्पुरुषं प्रेष्येदिति विधाय यथाप्रेषितं कृत्वा तस्मिन्प्रत्यागते “परं मृत्यो" इतीमं मन्त्रं जपेदिति विधाय च तस्य मन्त्रस्याभिप्रायप्रदर्शनं, कृष्टक्षेत्रमध्ये निहितानामस्थ्नां यथाङ्गं परिकल्पनं कुर्यादिति विधाय तत्र मन्त्रद्वयं विनियुज्य तस्याभिप्रायप्रदर्शनम्, ततस्त्रयोदश पादमात्र्य इष्टका लेखारूपलक्षणवर्जिता भवन्ति--या एवाग्निक्यः पादमात्र्य इष्टकास्ताः एवैताः आग्निकीरिष्टका यजुषोपदधातीमाश्च तूष्णीमुपदधातीति च सार्थवादं सकारणं प्रतिपादनं, तासां विहितानां पादमात्रीणां त्रयोदशानामिष्टकानां कृष्टक्षेत्रमध्ये उपधानप्रकारनिरूपणम्--उपधानद्वाराऽग्निचित्यात्मकत्वसम्पादनं च, प्रदरात्पुरीषाहरणप्रैषप्रदर्शनं, तत्रैकेषां मतेन प्रदरात्पुरीषमाहृत्य पुनरन्येषां मतेन पूर्वदक्षिणावान्तरदेशे कर्षू खात्वा ततः पुरीषमभ्याभ्याहृत्येति पक्षद्वयस्येच्छाविकल्पत्वप्रदर्शनपुरःसरं तेन पुरीषेण दक्षिणतः पश्चादुत्तरतश्च श्मशानकरणविधानं, तच्च पुरीषश्मशानं महन्न कुर्यात्किन्तु क्षत्रियस्योद्बाहुपुरुषसम्मितं -- ब्राह्मणस्य मुखदघ्नं-स्त्रिया उपस्थदघ्नं--शूद्रस्याष्ठीवद्दघ्नं कुर्यादिति सार्थवादं विधानम्, अथवा पुरीषश्मशानं सर्वेषामधोजानुसम्मितं कर्तव्यमिति विधानं, तयाऽपरस्मा अवकाशं न दद्यादिति विधानं, ततस्तस्य क्रियमाणस्य तेजनीमुत्तरतो धारयन्तीति सार्थवादं विधानम्, उत्तरतो धृतां तेजनीं न न्यस्येत्किन्त्वेनां धृत्वा वोढ्वा वा गृहेषूच्छ्रयेदिति सार्थवादं विधानं, तत्र पुरीषश्मशाने यवानामावापं कृत्वा तदवकाभिः कुशैश्च प्रच्छादयेदिति सप्रयोजनं विधानं चेत्यादि.

ब्राह्मण ४

४ पुरस्तात्पालाशेन शङ्कुना-उत्तरतः - शमीमयेन शङ्कुना-पश्चाद्वारणेन
शङ्कुना--दक्षिणतोऽश्ममयेन शङ्कुना एवं चतुर्भिः शङ्कुभिरेनच्छ्मशानं परिणिहन्तीति सप्रयोजनमभिधानं, श्मशानस्य दक्षिणतः कर्षू खात्वा तां क्षीरोदकाभ्यामापूर्योत्तरतश्च सप्त कर्षूः खात्वा ता उदकेनैवापूरयेदिति सप्रयोजनमभिधानं, ततोऽध्वर्युयजमानामात्या उत्तरासु कर्षूषु प्रतिकर्षु त्रींस्त्रीनश्मन आवपन्तीति विधाय तासां कर्षूणामुपरिष्टाद्ग्रामं प्रत्युद्गच्छन्तीति समन्त्रकं विधानं, हस्तगृहीतैरपामार्गैः स्वशरीरमपमृजत इति समंत्रकं सप्रयोजनं विधानं, ततो यत्रोदकं भवति तत्र स्नात्वा “ सुमित्रिया नः" इति मन्त्रेणापोऽञ्जलिनाऽऽदायेति सार्थवादं विधाय "दुर्मित्रियाः" इति मन्त्रेण यो ग्रामस्य दिशं द्वेष्यः स्यात्तमुद्दिश्य तां दिशं परासिञ्चेदिति सप्रयोजनं विधानं, स्नानार्था आपो यदि स्थावरास्तर्हि पापानामनिरसनं, यदि च ताः प्रवहन्त्यस्तदा पापानामपि निरसनमिति स्नानार्थानामपां प्रशंसनं, ततः स्नात्वाऽहतवासांसि परिधायानडुहः पुच्छमन्वारभ्येति सार्थवादमभिधाय “ उद्वयं तमसस्परि" इतीमामृचं जपन्तो ग्रामं प्रतियन्तीति सार्थवादं विधानं, ततस्तेभ्य आगतेभ्य आञ्जनाभ्यञ्जने प्रयच्छन्तीति सार्थवादं विधानं, ततो गृहेष्वग्निमुपसमाधाय तमभितो वारणान्परिधीन्परिधाय तत्र वारणेनैव स्रुवेणाग्नये आयुष्मत आहुतिं जुहुयादिति सार्थवादं विधानम् , विहितामाहुतिमनूद्य तत्र साभिप्रायं मन्त्रस्य विनियोजनं, पुराणोऽनड्वान्पुराणा यवाः पुराणा सोपधानाऽऽसन्दी चास्य पितृमेधस्य दक्षिणाऽन्वादिष्टेति विधानं, तथा यथाकामं यथाश्रद्धं भूयसीरन्याश्च दक्षिणा दद्यादिति च विधानम् “इति न्वग्निचितः" इत्युपसंहरणम् , अथानग्निचितः प्रकृत्य अग्निकरणपरिश्रित्परिधानसर्वौषधवपनेष्टकोपधानेभ्योऽन्यद्भूमिजोषणादि सकलं कर्म समानमित्यभिधानम् , एकेषां मतेनाहिताग्नेः श्मशाने इष्टकास्थाने शर्करोपधानं कुर्यादेकेषां मतेन न कुर्यादिति पक्षद्वयं प्रतिपाद्य तत्र यथाकामं कुर्यादितीच्छाविकल्पप्रदर्शनम्, अध्वर्युर्ग्रामश्मशानयोरन्तरे मर्यादालोष्टं निदध्यादिति समन्त्रकं सप्रयोजनं विधानं चेत्यादि.

इति पितृमेधः।