शतपथब्राह्मणम्/काण्डम् १३/अध्यायः ८/ब्राह्मण १

विकिस्रोतः तः

१३.८.१

अथास्मै कल्याणं कुर्वन्ति अथास्मै श्मशानं कुर्वन्ति गृहान्वा प्रज्ञानं वा यो वै कश्च म्रियते स शवस्तस्मा एतदन्नं करोति तस्माच्छवान्नं शवान्नं ह वै तच्छ्मशानमित्याचक्षते परोक्षं श्मशा उ हैव नाम पितॄणामत्तारस्ते हामुष्मिंलोकेऽकृतश्मशानस्य साधुकृत्यामुपदम्भयन्ति तेभ्य एतदन्नं करोति तस्माच्छ्मशान्नं श्मशान्नं ह वै तच्छ्मशानमित्याचक्षते परोऽक्षम् - १३.८.१.१

तद्वै न क्षिप्रं कुर्यात् नेन्नवमघं करवाणीति चिर एव कुर्यादघमेव तत्तिरः करोति यत्र समा नानु चन स्मरेयुरश्रुतिमेव तदघं गमयति यद्यनुस्मरेयुः - १३.८.१.२

अयुङ्गेषु सम्वत्सरेषु कुर्यात् अयुङ्गं हि पितॄणामेकनक्षत्र एकनक्षत्रं हि पितॄणाममावास्यायाममावास्या वा एकनक्षत्रमेको हि यद्वेतां रात्रिं सर्वाणि भूतानि सम्वसन्ति तेनो तं काममाप्नोति यः सर्वेषु नक्षत्रेषु - १३.८.१.३

शरदि कुर्यात् स्वधा वै शरत्स्वधो वै पितॄणामन्नं तदेनमन्ने स्वधायां दधाति माघे वा मा नोऽघं भूदिति निदाघे वा नि नोऽघं धीयाता इति - १३.८.१.४

चतुःस्रक्ति। देवाश्चासुराश्चोभये प्राजापत्या दिक्ष्वस्पर्धन्त ते देवा असुरान्त्सपत्नान्भ्रातृव्यान्दिग्भ्योऽनुदन्त तेऽदिक्काः पराभवंस्तस्माद्या दैव्यः प्रजाश्चतुःस्रक्तीनि ताः श्मशानानि कुर्वतेऽथ या आसुर्यः प्राच्यास्त्वद्ये त्वत्परिमण्डलानि तेऽनुदन्त ह्येनान्दिग्भ्य उभे दिशावन्तरेण विदधाति प्राचीं च दक्षिणां चैतस्यां ह दिशि पितृलोकस्य द्वारं द्वारैवैनं पितृलोकं प्रपादयति स्रक्तिभिर्दिक्षु प्रतितिष्ठतीतरेणात्मनावन्तरदिक्षु तदेनं सर्वासु दिक्षु प्रतिष्ठापयति - १३.८.१.५

अथातो भूमिजोषणस्य उदीचीनप्रवणे करोत्युदीची वै मनुष्याणां दिक्तदेनम्मनुष्यलोक आभजत्येतद्ध वै पितरो मनुष्यलोक आभक्ता भवन्ति यदेषाम्प्रजा भवति प्रजा हास्य श्रेयसी भवति - १३.८.१.६

दक्षिणाप्रवणे कुर्यादित्याहुः दक्षिणाप्रवणो वै पितृलोकस्तदेनं पितृलोक आभजतीति न तथा कुर्यादामीवद्ध नाम तच्छ्मशानकरणं क्षिप्रे हैषामपरोऽनुप्रैति - १३.८.१.७

दक्षिणाप्रवणस्य प्रत्यर्षे कुर्यादित्यु हैक आहुः तत्प्रत्युच्छ्रितमघं भवतीति नो एव तथा कुर्याद्यद्वा उदीचीनप्रवणे करोति तदेव प्रत्युच्छ्रितमघं भवति - १३.८.१.८

यस्यैव समस्य सतः दक्षिणतः पुरस्तादाप एत्य संस्थायाप्रघ्नत्य एतां दिशमभिनिष्पद्याक्षय्या अपोऽपिपद्येरंस्तत्कुर्यादन्नम्वाऽआपोऽन्नाद्यमेवास्माऽएतत्पुरस्तात्प्रत्यग्दधात्यमृतमु वा आप एषो ह जीवानाम् दिगन्तरेण सप्तर्षीणां चोदयनमादित्यस्य चास्तमयनममृतमेव तज्जीवेषु दधाति तद्धैतत्प्रतिमीवन्नाम श्मशानकरणं जीवेभ्यो हितं यद्वाव जीवेभ्यो हितं तत्पितृभ्यः - १३.८.१.९

कम्वति कुर्यात् कं मेऽसदित्यथो शम्वति शं मेऽसदिति नाधिपथं कुर्यान्नाकाशे नेदाविरघं करवाणीति - १३.८.१.१०

गुहा सदवतापि स्यात् तद्यद्गुहा भवत्यघमेव तद्गुहा करोत्यथ यदवताप्यसौ वा आदित्यः पाप्मनोऽपहन्ता स एवास्मात्पाप्मानमपहन्त्यथो आदित्यज्योतिषमेवैनं करोति - १३.८.१.११

न तस्मिन्कुर्यात् यस्येत्थादनूकाशः स्याद्याचमानं ह नाम तत्क्षिप्रे हैषामपरोऽनुप्रैति - १३.८.१.१२

चित्रं पश्चात्स्यात् प्रजा वै चित्रं चित्रं हास्य प्रजा भवति यदि चित्रं न स्यादापः पश्चाद्वोत्तरतो वा स्युरापो ह्येव चित्रं चित्रं हैवास्य प्रजा भवति - १३.८.१.१३

ऊषरे करोति रेतो वा ऊषाः प्रजननं तदेनं प्रजनन आभजत्येतद्ध वै पितरः प्रजनन आभक्ता भवन्ति यदेषां प्रजा भवति प्रजा हास्य श्रेयसी भवति - १३.८.१.१४

समूले समूलं हि पितॄणां वीरिणमिश्रमेतद्धास्याः पित्र्यमनतिरिक्तमथो अघमेव तद्बद्धृ करोति - १३.८.१.१५

न भूमिपाशमभिविदध्यात् न शरं नाश्मगन्धां नाध्याण्डां न पृश्निपर्णीनाश्वत्थस्यान्तिकं कुर्यान्न बिभीतकस्य न तिल्वकस्य न स्फूर्जकस्य न हरिद्रोर्न न्यग्रोधस्य ये चान्ये पापनामानो मङ्गलोपेप्सया नाम्नामेव परिहाराय - १३.८.१.१६

अथात आवृदेव अग्निविधयाग्निचितः श्मशानं करोति यद्वै यजमानोऽग्निं चिनुतेऽमुष्मै तल्लोकाय यज्ञेनात्मानं संस्कुरुत एतदु ह यज्ञियं कर्मासंस्थितमा श्मशानकरणात्तद्यदग्निविधयाऽग्निचितः श्मशानं करोत्यग्निचित्यामेव तत्संस्थापयति - १३.८.१.१७

तद्वै न महत्कुर्यात् नेन्महदघं करवाणीति यावानपक्षपुच्छोऽग्निस्तावत्कुर्यादित्यु हैक आहुः समानो ह्यस्यैष आत्मा यथैवाग्नेस्तथेति - १३.८.१.१८

पुरुषमात्रं त्वेव कुर्यात् तथाऽपरस्मा अवकाशं न करोति पश्चाद्वरीयः प्रजा वै पश्चात्प्रजामेव तद्वरीयसीं कुरुत उत्तरतो वर्षीयः प्रजा वा उत्तरा प्रजामेवतद्वर्षीयसीं कुरुते तद्विधायापसलवि सृष्टाभि स्पन्द्याभिः पर्यातनोत्यपसलवि पित्र्यं हि कर्म - १३.८.१.१९

अथोद्धन्तवा आह स यावत्येव निवप्स्यन्त्स्यात्तावदुद्धन्यात्पुरुषमात्रं त्वेवोद्धन्यात्तथाऽपरस्मा अवकाशं न करोत्यथो ओषधिलोको वै पितरऽओषधीनां ह मूलान्युपसर्पन्त्यथो नेदस्या अन्तर्हितोऽसदिति - १३.८.१.२०