शतपथब्राह्मणम्/काण्डम् १३/अध्यायः ८/ब्राह्मण २

विकिस्रोतः तः

१३.८.२

अन्तर्द्धायो हैके निवपन्ति देवाश्चासुराश्चोभये प्राजापत्या अस्मिंलोकेऽस्पर्धन्त ते
देवा असुरान्त्सपत्नान्भ्रातृव्यानस्माल्लोकादनुदन्त तस्माद्या दैव्यः प्रजा अनन्तर्हितानि ताः श्मशानानि कुर्वतेऽथ या आसुर्यः प्राच्यास्त्वद्ये त्वदन्तर्हितानि ते
चम्वां त्वद्यस्मिंस्त्वत् - १३.८.२.१

अथैनत्परिश्रिद्भिः परिश्रयति। या एवामूः परिश्रितस्ता एताः। यजुषा ताः परिश्रयति।
तूष्णीमिमाः। दैवं तत्पित्र्यं च व्याकरोत्यपरिमिताभिरपरिमितो ह्यसौ लोकः - १३.८.२.२

अथैनत्पलाशशाखया व्युदूहति यदेवादो व्युदूहनं तदेतदपेतो यन्तु पणयोऽसुम्ना देवपीयव इति पणीनेवैतदसुम्नान्देवपीयूनसुररक्षसान्यस्माल्लोकादपहन्त्यस्य लोकः
सुतावत इति सुतवान्हि य ईजानो द्युभिरहोभिरक्तुभिर्व्यक्तमिति तदेनमृतुभिश्चाहोरात्रैश्च सलोकं करोति - १३.८.२.३

यमो ददात्ववसानमस्मा इति यमो ह वा अस्यामवसानस्येष्टे तमेवास्मा अस्यामवसानं याचति तां दक्षिणोदस्यत्युदगितरां दैवं चैव तत्पित्र्यं च व्याकरोति - १३.८.२.४

अथ दक्षिणतः सीरं युनक्ति उत्तरत इत्यु हैक आहुः स यथा कामयेत तथा कुर्याद्युङ्क्तेति सम्प्रेष्याभिमन्त्रयते सविता ते शरीरेभ्यः पृथिव्यां लोकमिच्छत्विति सवितैवास्यैतच्छरीरेभ्यः पृथिव्यां लोकमिच्छति तस्मै युज्यन्तामुस्रिया इत्येतस्मा उ हि कर्मण उस्रिया युज्यन्ते - १३.८.२.५

षङ्गवं भवति षडृतवः सम्वत्सर ऋतुष्वेवैनमेतत्सम्वत्वरे प्रतिष्ठायां प्रतिष्ठापयति तदपसलवि पर्याहृत्योत्तरतः प्रतीचीं प्रथमां सीतां कृषति वायुः पुनात्विति जघनार्धेन दक्षिणाग्नेर्भ्राजसेति दक्षिणार्धेन प्राचीं सूर्यस्य वर्चसेत्यग्रेणोदीचीम् - १३.८.२.६

चतस्रः सीता यजुषा कृषति तद्यच्चतसृषु दिक्ष्वन्नं तस्मिन्नेवैनमेतत्प्रतिष्ठापयति तद्वै यजुषाऽद्धा वै तद्यद्यजुरद्धो तद्यदिमा दिशः - १३.८.२.७

अथात्मानं विकृषति तद्यदेव सम्वत्सरेऽन्नं तस्मिन्नेवैनमेतत्प्रतिष्ठापयति तूष्णीमपरिमिताभिरपरिमितो ह्यसौ लोकः - १३.८.२.८

अथैनद्विमुञ्चति कृत्वा तत्कर्म यस्मै कर्मण एनद्युङ्क्ते विमुच्यन्तामुस्रिया इत्येतस्मा उ हि कर्मण उस्रिया युज्यन्ते तद्दक्षिणोदस्यत्युदगितरद्दैवं चैव तत्पित्र्यं च व्याकरोति - १३.८.२.९