शतपथब्राह्मणम्/काण्डम् १०/अध्यायः ३

विकिस्रोतः तः
Jump to navigation Jump to search


१. सुपर्णचितिः

१ सुपर्णचित्याग्नेर्मध्यदक्षिणोत्तरभागत्रये लोमत्वेन स्तुतास्त्रिसहस्रसंमिताः परित्यज्यावशिष्टानां सप्तसहस्राणां शिरःप्रभृतिपादपर्यन्तमुपहितानामेव शरीररूपत्वेन स्थितानामिष्टकानां गायत्र्यादिसप्तच्छन्दोवीर्यरूपत्वेन प्रशंसनं, अथवाऽष्टमकाण्डे चरमचितौ "छन्दस्या उपदधाति" इति सप्तानां छन्दसामुपधा. नमभिहितं तेषां छन्दसां चित्याग्नेश्चक्षुरादिसप्तावयवत्वेन प्रशंसनं, तत्र प्रसङ्गाच्छन्दःप्रशंसनद्वारा अन्धमूकमूढबधिरनपुंसकादीनां दुश्चिकित्समूलरोगराजयक्ष्मादिपरिगृहीतानां च यजमानानां कर्मण्यनधिकारादग्निचयनमपि न स्यादिति संसूचनं, सप्तानां छन्दसां प्रकारान्तरेण सम्भूय प्रशंसनं, उक्तछन्दःप्रशंसनं वेदितुः फलनिरूपणं चेति.


२. चित्याग्नेः - - -

२ चित्याग्नेः शिरोग्रीवादीनां छन्दोमयत्वस्य वेदवादिप्रश्नोत्तराभ्यां निरूपणं, यदुक्तमग्नेः शिरोग्रीवादिपरिकल्पनेन छन्दोदेवतास्वरूपत्वं तदेतत्पुण्यलोकसाधन. मात्मविद्यैवेति प्रशंसनं चेति.

३. अग्नेः सर्वदेवतात्मकत्वम्

३ अग्नेः सर्वदेवतासमष्टिरूपप्राणवाय्वास्मकत्वस्य धीरमहाशालनाम्नोर्महर्ष्योः संवादेन प्रतिपादनं, तत्रादौ विद्याविषये गुरुशिष्यप्रतिपत्तिः कार्येति तस्याः प्रतिपादनं, उपास्याग्नेरध्यात्माधिदेवतभेदेन सर्वात्मकत्वस्य विशदीकरणं, तेषामग्न्यादीनां वाय्वाधीनताप्रदर्शनं, उक्तार्थं वेदितुः फलाभिधानं चेति.


४. अर्कस्य वनस्पतिरूपग्रहणम्

४ प्रष्टृप्रतिवक्तृनिर्देशपुरःसरं--अग्निवाय्वादित्यपुरुषाणां-औषधिवनस्पत्युदकचन्द्रपशूनां च बहुविधनामव्यपदेश्यत्वेन प्रशंसनं, तत्रापि पुरुषस्यार्करूपत्वेनानेकैः प्रश्नप्रतिवचनैः प्रशंसनं चेति.

५. यजुस्तद्विधायक ब्राह्मणम्

५ यजुस्तद्विधायकब्राह्मणयोर्निर्वचनपुरःसरं--अधिदैवाध्यात्मभेदेनार्थविवरणं, एतमुक्तमर्थं वेदितुः फलाभिधानं, प्रसङ्गाद्विद्वन्निन्दकस्य दोषं प्रदर्श्य तत्स्तावकस्य फलप्रदर्शनं, यजुःशब्दस्य वायुप्राणरूपोऽर्थ उक्तस्तस्य ज्येष्ठब्रह्मात्मना प्रशंसनं, उक्तार्थं वेदितुरपि ज्येष्ठत्वरूपं फलं भवतीत्यभिधानं, अपूर्वापरवद्गुणद्वयविशिष्टस्य ब्रह्मण उपासनस्य फलाभिधानं, पुरुषादधिकं वस्तु दिशस्ता उपासितव्या इति सोपपत्तिकमभिधानं, यजुर्मन्त्रब्राह्मणप्रसङ्गादुपनिषदोऽर्थस्य तत्स्वरूपं वेदितुरानन्दावाप्तिरूपफलस्य च प्रदर्शनं, तत्र प्रसङ्गादुक्तं देवानामानन्दात्मत्वमुपजीव्य यजुरात्मकवायोरानन्दात्मत्वपरिज्ञानफलस्य पुरावृत्तकथनेन प्रदर्शनं, एवं वायुप्राणरूपत्वेन प्रशंसितस्य यजुष उपांश्वनुष्ठानस्य विधानं, उपांशुत्वेनाननुष्ठाने दोषकथनं, उपांशुत्वं प्रशस्य निरुक्तत्वस्य प्रशंसनं चेत्यादि.