शतपथब्राह्मणम्/काण्डम् १०/अध्यायः ३/अग्नेः सर्वदेवतात्मकत्वम्

विकिस्रोतः तः
Jump to navigation Jump to search

१०.३.३

धीरो ह शातपर्णेयः महाशालं जाबालमुपोत्ससाद तं होवाच किं माविद्वानुपोदसद इत्यग्निं वेदेति कमग्निं वेत्थेति वाचमिति यस्तमग्निं वेद किं स भवतीति वाग्मी भवतीति होवाच नैनं वाग्जहातीति - १०.३.३.[१]

वेत्थाग्निमिति होवाच किमेव मा विद्वानुपोदसद इत्यग्निं वेदेति कमग्निं वेत्थेति
चक्षुरिति यस्तमग्निं वेद किं स भवतीति चक्षुष्मान्भवतीति होवाच नैनं चक्षुर्जहातीति - १०.३.३.[२]

वेत्थाग्निमिति होवाच । किमेव मा विद्वानुपोदसद इत्यग्निं वेदेति कमग्निं वेत्थेति
मन इति यस्तमग्निं वेद किं स भवतीति मनस्वी भवतीति होवाच नैनं मनो जहातीति - १०.३.३.[३]

वेत्थाग्निमिति होवाच। किमेव मा विद्वानुपोदसद इत्यग्निं वेदेति कमग्निं वेत्थेति
श्रोत्रमिति यस्तमग्निं वेद किं स भवतीति श्रोत्रवान्भवतीति होवाच नैनं श्रोत्रं जहातीति - १०.३.३.[४]

वेत्थाग्निमिति होवाच किमेव मा विद्वानुपोदसद इत्यग्निं वेदेति कमग्निं वेत्थेति
य एतत्सर्वमग्निस्तं वेदेति तस्मिन्होक्त उपावरुरोहाधीहि भोस्तमग्निमिति - १०.३.३.[५]

स होवाच प्राणो वाव सोऽग्निर्यदा वै पुरुषः स्वपिति प्राणं तर्हि वागप्येति प्राणं
चक्षुः प्राणं मनः प्राणं श्रोत्रं यदा प्रबुध्यते प्राणादेवाधि पुनर्जायन्त इत्यध्यात्मम् - १०.३.३.[६]

अथाधिदेवतम् या वै सा वागग्निरेव स यत्तच्चक्षुरसौ स आदित्यो यत्तन्मन एष
स चन्द्रमा यत्तच्छ्रोत्रं दिश एव तदथ यः स प्राणोऽयमेव स वायुर्योऽयं पवते - १०.३.३.[७]

यदा वा अग्निरनुगच्छति वायुं तर्ह्यनूद्वाति तस्मादेनमुदवासीदित्याहुर्वायुं ह्यनूद्वाति यदादित्योऽस्तमेति वायुं तर्हि प्रविशति वायुं चन्द्रमा वायौ दिशः प्रतिष्ठिता वायोरेवाधि पुनर्जायन्ते स यदैवंविदस्माल्लोकात्प्रैति वाचैवाग्निमप्येति चक्षुषाऽऽदित्यं मनसा चन्द्रं श्रोत्रेण दिशः प्राणेन वायुं स एतन्मय एव भूत्वैतासां देवतानां यां यां कामयते सा भूत्वेलयति - १०.३.३.[८]