शतपथब्राह्मणम्/काण्डम् १०/अध्यायः २/ब्राह्मण ५

विकिस्रोतः तः

चयनमीमांसा


१०.२.५

अथातश्चयनस्यैव अन्तरोपसदौ चिनोत्येतद्वै देवा अबिभयुर्यद्वै न इममिह रक्षांसि नाष्ट्रा न हन्युरिति त एताः पुरोऽपश्यन्नुपसद इमानेव लोकानिमे वै लोकाः पुरस्ताः प्रापद्यन्त ताः प्रपद्याभयेऽनाष्ट्र एतमात्मानं समस्कुर्वत तथैवैतद्यजमान एताः पुरः प्रपद्याभयेऽनाष्ट्र एतमात्मानं संस्कुरुते - १०.२.५.१

यद्वेवान्तरोपसदौ चिनोति एतद्वै देवा अबिभयुर्यद्वै न इममिह रक्षांसि नाष्ट्रा न हन्युरिति त एतान्वज्रानपश्यन्नुपसदो वज्रा वा उपसदस्तान्प्रापद्यन्त तान्प्रपद्याभयेऽनाष्ट्र एतमात्मानं समस्कुर्वत तथैवैतद्यजमान एतान्वज्रान्प्रपद्याभयेऽनाष्ट्र एतमात्मानं संस्कुरुते - १०.२.५.२

एतदु ह यज्ञे तपः यदुपसदस्तपो वा उपसदस्तद्यत्तपसि चीयते तस्मात्तापश्चितस्तद्वै यावदेवोपसद्भिश्चरन्ति तावत्प्रवर्ग्येण संवत्सरमेवोपसद्भिश्चरन्ति संवत्सरं प्रवर्ग्येण - १०.२.५.३

अहोरात्राणि वा उपसदः आदित्यः प्रवर्ग्योऽमुं तदादित्यमहोरात्रेषु प्रतिष्ठापयति तस्मादेषोऽहोरात्रेषु प्रतिष्ठितः - १०.२.५.४

अथ यदि चतुर्विंशतिः चतुर्विंशतिर्वा अर्धमासा अर्धमासा उपसद आदित्यः प्रवर्ग्योऽमुं तदादित्यमर्धमासेषु प्रतिष्ठापयति तस्मादेषोऽर्धमासेषु प्रतिष्ठितः - १०.२.५.५

अथ यदि द्वादश द्वादश वै मासा मासा उपसद आदित्यः प्रवर्ग्योऽमुं तदादित्यं मासेषु प्रतिष्ठापयति तस्मादेष मासेषु प्रतिष्ठितः - १०.२.५.६

अथ यदि षट् षड्वा ऋतव ऋतव उपसद आदित्यः प्रवर्ग्योऽमुं तदादित्यमृतुषु प्रतिष्ठापयति तस्मादेष ऋतुषु प्रतिष्ठितः - १०.२.५.७

अथ यदि तिस्रः त्रयो वा इमे लोका इमे लोका उपसद आदित्यः प्रवर्ग्योऽमुं तदादित्यमेषु लोकेषु प्रतिष्ठापयति तस्मादेष एषु लोकेषु प्रतिष्ठितः - १०.२.५.८

अथातश्चितिपुरीषाणामेव मीमांसा मासं प्रथमा चितिर्मासम्पुरीषमेतावान्वासन्तिक ऋतौ कामस्तद्यावान्वासन्तिक ऋतौ कामस्तं तत्सर्वमात्मानमभिसंचिनुते - १०.२.५.९

मासं द्वितीया मासं पुरीषमेतावान्ग्रैष्म ऋतौ कामस्तद्यावान्ग्रैष्म ऋतौ कामस्तं तत्सर्वमात्मानमभिसंचिनुते - १०.२.५.१०

मासं तृतीया मासं पुरीषमेतावान्वार्षिक ऋतौ कामस्तद्यावान्वार्षिक ऋतौ कामस्तं तत्सर्वमात्मानमभिसंचिनुते - १०.२.५.११

मासं चतुर्थी मासं पुरीषमेतावाञ्छारद ऋतौ कामस्तद्यावाञ्छारद ऋतौ कामस्तं तत्सर्वमात्मानमभिसंचिनुते - १०.२.५.१२

अथ पञ्चम्यै चितेः असपत्ना विराजश्च प्रथमाहमुपदधाति स्तोमभागा एकैकामन्वहं ताः सकृत्सादयति सकृत्सूददोहसाधिवदति तूष्णीं मासं स्तोमभागापुरीषमभिहरन्त्येतावान्हैमन्तिक ऋतौ कामस्तद्यावान्हैमन्तिक ऋतौ कामस्तं तत्सर्वमात्मानमभिसंचिनुते - १०.२.५.१३

मासं षष्ठी मासं पुरीषमेतावाञ्छैशिर ऋतौ कामस्तद्यावाञ्छैशिर ऋतौ कामस्तं तत्सर्वमात्मानमभिसंचिनुत एतावान्वै द्वादशसु मासेषु कामः षट्स्वृतुषु तद्यावान्द्वादशसु मासेषु कामः षट्स्वृतुषु तं तत्सर्वमात्मानमभिसंचिनुते - १०.२.५.१४

अथ त्रीण्यहान्युपातियन्ति यदहः शतरुद्रियं जुहोति यदहरुपवसथो यदहः प्रसुतस्तद्यत्तेष्वहःसूपसदा चरन्ति तानि तस्य मासस्याहोरात्राण्यथ यत्प्रवर्ग्येण तदु तस्मिन्नृतावादित्यं प्रतिष्ठापयत्येतावान्वै त्रयोदशसु मासेषु कामः सप्तस्वृतुषु तद्यावांस्त्रयोदशसु मासेषु कामः सप्तस्वृतुषु तं तत्सर्वमात्मानमभिसंचिनुते - १०.२.५.१५

स संवत्सरं प्रसुतः स्यात् सर्वं वै संवत्सरः सर्वमेकशतविधः सर्वेणैव तत्सर्वमाप्नोति यदि संवत्सरं न शक्नुयाद्विश्वजिता सर्वपृष्ठेनातिरात्रेण यजेत तस्मिन्त्सर्ववेदसं दद्यात्सर्वं वै विश्वजित्सर्वपृष्ठोऽतिरात्रः सर्वं सर्ववेदसं सर्वमेकशतविधः सर्वेणैव तत्सर्वमाप्नोति - १०.२.५.१६