शतपथब्राह्मणम्/काण्डम् १०/अध्यायः २

विकिस्रोतः तः
Jump to navigation Jump to search

ब्राह्मण १ चित्याग्निविषयकविचारः

१ चित्याग्निविषयकविचार:--तत्र प्रथमं चित्याग्नेः पक्षिरूपत्वस्य पक्षपुच्छयोः प्रमाणस्य च विधानं, तत्र चित्याग्नेरङ्गुलिपरिमाणस्य सार्थवादं प्रदर्शनं, सप्तपुरुषाष्टपुरुषादिपरिमाणानामग्नीनामङ्गुलीभिः परिमाणं न शक्यमित्यरत्नि परिमाणस्य विधानं, अङ्गुलिगतायाः संख्यायाः प्रशंसनं, पक्षपुच्छकरणे कस्यचिद्विशेषस्य विधानं, पक्षयोनिर्णमनं विधाय तत्र प्रदेशं चाभिधाय निर्णमनकरणप्रकारस्य निरूपणं, निर्णाम इष्टकोपधानं विधाय तस्य पक्षिपक्षमध्यगतनाडीत्वेन प्रशंसनं, पक्षयोर्वक्रत्वनिरूपणं, पञ्चेष्टकाचित्युपधानानन्तरमात्ममध्ये पक्षद्वये च ऋज्वालिखितदक्षिणावृत्सव्यावृतः सहस्रत्रयसंख्याका इष्टका उपधेयाः सन्ति तासामुपधानस्य प्रशंसनं, तासामुपधाने कालप्रदेशयोः प्रदर्शनं, त्रिविधेष्टकागतां त्रित्वसंख्यामनूद्य तस्याः प्रशंसनं चेत्यादि.


ब्राह्मण २ चित्याग्नेः सप्तपुरुषप्रमाणताया विधानम्

२ चित्याग्नेः सप्तपुरुषप्रमाणताया विधानं, अत्रार्थे मन्त्रसंवादप्रदर्शनं, यज्ञार्हस्य यज्ञेन यजनकरणे मन्त्रसंवादप्रदर्शनं, उक्तं मंत्रं प्रतिपदमनूद्य तस्य व्याख्यानं, सृष्ट्यादौ प्रजापतिव्यतिरिक्तस्य यष्टव्यदेवजातस्य विरहात्सूर्य एव पक्ष्यात्मकप्रजापतिरूपेण यष्टव्य इत्यमुमर्थं प्रतिपादयितुं तात्पर्योपेतं मंत्रान्तरप्रदर्शनं, तस्य चित्याग्नेः सप्तपुरुषात्मकत्वाभिधानं समस्थितेन प्रपदोच्छ्रितेन वा यजमानेनोर्ध्वबाहुना चित्याग्नेर्मानं कुर्यादिति सार्थवादं पुरुषप्रमाणविधानं, पक्षौ अरत्नी च प्रशस्य पुच्छे वितस्तिप्रमाणोपधानविधानमर्थादवशिष्टस्याधिकस्यार्धपुरुषप्रमाणस्य विधानं, पुच्छे पक्षप्रमाणान्न्यूनप्रमाणकरणस्य प्रतिष्ठाहेतुत्वेन प्रशंसनं, अरत्निवितस्तिप्रमाणं सम्भूय तत्प्रशंसनं चेत्यादि.

ब्राह्मण ३ प्राकृतस्य सप्तविधस्याग्नेर्वैकृतेष्वन्त्यस्यैकशतविधस्याग्नेश्च वेदिमानम्

३ प्राकृतस्य सप्तविधस्याग्नेर्वैकृतेष्वन्त्यस्यैकशतविधस्याग्नेश्च वेदिमानम् -- तत्र महावेदेर्मानं विधातुं प्राचीनवंशगतवेदेर्मानस्य सेतिकर्तव्यताकस्य विधानं, पूर्वं गार्हपत्यादारभ्य प्राञ्चः सप्त प्रक्रमा गार्हपत्याद्भविष्यत आहवनीयस्य पूर्वार्धात्प्राञ्चस्त्रयः प्रक्रमास्ते दशव्याम एकादशस्तामेकादशसंख्यामनूद्य तस्यात्रिष्टुबात्मना प्रशंसनं, व्यामैकादशप्रक्रमकृताया वेदेर्महावेदियोनित्वेन प्रशंसनं, महावेदेर्मानविधानं, नवतिप्रक्रमवेदेः सप्तविधाग्नेश्च संख्यासम्पत्तेर्वेदवादिविचारमुखेन प्रदर्शनं, अष्टविधनवविधादिपुरुषप्रमाणानामेकशतविधपर्यन्तानामग्नीनां व्यामैकादशप्रक्रमा प्राकृती वेदिः किं पुरुषसंख्यया वर्धयितव्या आहोस्विन्न वेति संशयं व्युदसितुं सहेतुकयोः पूर्वोत्तरपक्षयोः प्रतिपादनं, उक्तस्य योनिभूताया वेदेरुत्तरत्र वर्धमानाभावस्यैव पुनर्व्यतिरेकमुखेन प्रदर्शनं, सप्तविधप्राकृताग्निवेदेरावृत्तिविशेषणस्य विधानं, अग्निमानं वक्तुं सर्वेषां सप्तविधाद्येकशतपर्यन्तानामग्नीनामिष्टकोपधानप्रदेश एतावान्महावेदिषु भवतीति सङ्ग्रहेण प्रदर्शनं, अग्निविषयकवेदिमानस्योपसंहारः, चित्याग्नेः प्रकारान्निरूपयितुं प्रतिज्ञाकरणं, तत्राष्टनवतिपुरुषप्रमाणस्याग्नेरेतावदात्मपक्षपुच्छप्रमाणमिति प्रदर्शनं, एकशतविधाग्नेः सविशेषं प्रकारप्रदर्शनं, एतस्यैकशतपुरुषप्रमाणस्याग्नेर्नवतिप्रक्रमाया वेद्याः संख्यासम्पत्तेः प्रदर्शनं, अस्तु प्रतिपुरुषं पञ्चदशसंख्यया षट्सु षट्सु पुरुषेषु नवतिसंख्यासम्पत्तिः न त्वधिकेषु त्रयोदशपर्यायाणामन्तिमेषु त्रयोदशसु पुरुषेषु-इत्येवंरूपं वेदवादिविचारमुद्भाव्य तत्रापि पूर्ववत्सप्तमपुरुषस्य वेदिगतपञ्चसंख्ययैव सम्पत्तेः प्रदर्शनं प्रकारान्तरेण सम्पत्तेः प्रदर्शनं, सर्वेषां चित्याग्नीनां सप्तविध एव प्राकृत एकशतविध एवान्तिम इति सिद्धान्तयितुं पूर्वपक्षं प्रतिपाद्य तस्य सकारणं दूषणं चेत्यादि.

ब्राह्मण ४

४ एकशतविधस्याग्नेः सर्वकामरूपत्वेनादित्यात्मना प्रशंसनं, तस्य सप्तविधप्राकृताग्निसंख्यायाः सम्पत्तिप्रकारनिरूपणं, सप्तविधस्य चैकशतविधसंख्यासम्पत्तेः प्रदर्शनं, अग्निविधाविषयकविचारस्योपसंहारश्चेति.

ब्राह्मण ५ चयनमीमांसा

५ चयनमीमांसा--तत्र पूर्वं चयनविषयिणी मीमांसा क्रियत इति प्रतिज्ञाकरणं, तत्रादौ चयनकालस्य सार्थवादं विधानं, प्रकारान्तरेण तस्य कालस्य प्रशंसनं, तापश्चितेऽग्नौ उपसत्संख्यायाः प्रदर्शनं, उपसत्सु प्रवर्ग्यचरणस्य प्रशंसनं. न केवलमत्रैव तापश्चितीषु किन्तु यत्र यत्राऽधिका न्यूना वा उपसदस्तत्र तत्र प्रवर्ग्यचरणेनादित्यस्थापनं कृतं भवतीति निरूपणम् .
चितिपुरीषाणां मीमांसा--तत्र तापश्चिताख्ये क्रतावुपसदां मध्येऽनुष्ठातव्यस्य चयनस्येष्टकाचितिपुरीषनिवपनयोरनुष्ठानप्रकारनिरूपणं, पञ्चम्याञ्चिताविष्टकोपधाने विशेषाभिधानं, पुरीषचितौ विशेषप्रदर्शनं, सर्वमासगतसंख्यायाः सम्भूय प्रशंसनं, पुरीषचितेरतिरिक्तेषु त्रिष्वहःसु क्रमेण कर्तव्यस्य शतरुद्रियस्यौपवसथ्यप्रयोगस्य सोमामिषवस्य चाभिधानं, तेष्वहःसु यत्प्रवर्ग्योपसदामनुष्ठानं तेन तस्य संसर्पाहस्पतिसंज्ञकस्य त्रयोदशमासात्मकस्य सम्बन्धिष्वहोरात्रेषु आदित्यात्मकस्य सप्तमर्तोः स्थापनं कृतं भवतीति प्रतिपादनं, उक्तत्रयोदशमाससाहित्येन पूर्वोक्तायाः संख्यायाः प्रशंसनं, तत्र सुत्यानां संख्याया विधानं, तत्र तापश्चिते कर्तव्यमग्निविशेषं प्रदर्श्य तत्प्रशंसनं, संवत्सरं सोमयागकरणाशक्तौ विश्वजिता सर्वपृष्ठेनातिरात्रेण यजेतेति पक्षान्तरप्रदर्शनं, तत्र दक्षिणाविधानं, एतस्य यज्ञकरणस्य सर्वप्राप्तिहेतुत्वेन प्रशंसनं चेति.


ब्राह्मण ६ संवत्सररूपप्रजापतेरेकशतविधत्वस्य सोपपत्तिकं सम्पादनम्

६ संवत्सररूपप्रजापतरेकशतविधत्वस्य सोपपत्तिकं सम्पादनं, पुनस्तस्यैव संवत्सररूपस्यैकशतविधस्य सप्तविधाग्निना सम्पत्तेर्ऋतुभिः प्रदर्शनं, प्रकारान्तरणैतस्याः सम्पत्तेरभिधानं, सप्तविधाद्येकशतपर्यन्ताग्निचयनस्य सूर्यलोकः फलमिति प्रतिपादनं, अर्चिषोऽमृतफलत्वस्य सवितृसम्बन्धित्वस्य च प्रदर्शनं, सवितैव सर्वाभ्यः प्रजाभ्यो नानारूपं कामं ददातीत्यर्थस्य दाशतय्या मन्त्रसंवादेन दृढीकरणं, उक्तमन्त्रस्याभिप्रायाविष्करणं, एतदुक्तमर्थजातं पश्यन्त्या वाचोऽमृतत्वफलसाधनत्वस्य प्रदर्शनं, शतवर्षजीवनस्य पुण्यलोकहेतुत्वं तदर्वाचीनेषु वर्षेषु मरणस्यालोक्यत्वं चेत्येतन्निरूपणं, तत्रैतादृशेषु वर्षेषु मरणमहोरात्रार्धमासाद्यात्मकलोकहेतुः न त्वमृतत्वफलप्रापकमित्याद्यभिधानं, शतवर्षजीवनस्य सूक्तमेव फलमिति निगमनं, बहुभिर्यज्ञैरेकमहरेका रात्रिरपि मिताऽत एकदिनजीवनमेकरात्रिजीवनमपि बहुयज्ञफलं किमुत शतवर्षाणि जीवनवतोऽमृतत्वप्राप्तिरिति वक्तव्यमित्यभिधानं, एवमग्नेरमृतत्वं फलमित्युक्त्वा एकशतविधस्याग्नेः संवत्सरोख्यधारणं नियतमित्यभिधानं, अधियज्ञस्यैकशतविधत्वस्य सोपपत्तिकं बहुभिः प्रकारैः प्रतिपादनं, तेषामेव मेकशतविधानां सर्वेषां यज्ञानां अध्यात्मस्यैकशतविधत्वस्य प्रकारद्वयेन निरूपणं, यदुक्तमेकशतविधं विधत्ते इत्यत्राधिदैवाधियज्ञाध्यात्मत्रयविषये संवत्सरचित्याग्निपुरुषा इति तत्र तेषां संवत्सरचित्याग्निपुरुषाणां पञ्चविधत्वस्य निरूपणं, तत्रान्नादिपञ्चकस्याधियज्ञरूपेणाध्यात्मरूपेण चार्थप्रदर्शनं, अन्नादिपञ्चकेन निवर्त्याशनायादिपञ्चकस्य प्रदर्शनं, अन्नादिपञ्चकं विदुषां फलाभिधानम्, एके " प्राणोऽग्निः प्राणो ऽमृतम्" इति समाम्नातत्वादमृतशब्दस्य प्राणोऽर्थ 'इति मत्वा तस्यैवोपासनं चित्याग्नौ मन्यन्ते तन्मतस्यानुवादपुरःसरं निराकरणं, तत्र प्राणस्यानित्यत्वाभिधानाय यजुर्मन्त्रस्य संवादप्रदर्शनं, तस्मादुक्त एवार्थः सम्यगिति निगमनं चेति.