शतपथब्राह्मणम्/काण्डम् १०/अध्यायः २/ब्राह्मण ६

विकिस्रोतः तः
Jump to navigation Jump to search

संवत्सररूपप्रजापतेरेकशतविधत्वस्य सोपपत्तिकं सम्पादनम्

१०.२.६

संवत्सरो वै प्रजापतिरेकशतविधः तस्याहोरात्राण्यर्धमासा मासा ऋतवः षष्टिर्मासस्याहोरात्राणि मासि वै संवत्सरस्याहोरात्राण्याप्यन्ते चतुर्विंशतिरर्धमासास्त्रयोदश मासास्त्रय ऋतवस्ताः शतं विधाः संवत्सर एवैकशततमी विधा - १०.२.६.[१]

स ऋतुभिरेव सप्तविधः षडृतवः संवत्सर एव सप्तमी विधा तस्यैतस्य संवत्सरस्यैतत्तेजो य एष तपति तस्य रश्मयः शतं विधा मण्डलमेवैकशततमी विधा - १०.२.६.[२]

स दिग्भिरेव सप्तविधः ये प्राच्यां दिशि रश्मयः सैका विधा ये दक्षिणायां सैका ये प्रतीच्यां सैका य उदीच्यां सैका य ऊर्ध्वायां सैका येऽवाच्यां सैका मण्डलमेव सप्तमी विधा - १०.२.६.[३]

तस्यैतस्य परस्तात्कामप्रो लोकः अमृतं वै कामप्रममृतमेवास्य तत्परस्तात्तद्यत्तदमृतमेतत्तद्यदेतदर्चिर्दीप्यते - १०.२.६.[४]

तदेतद्वसु चित्रं राधः तदेष सविता विभक्ताभ्यः प्रजाभ्यो विभजत्यप्योषधिभ्योऽपि वनस्पतिभ्यो भूयैव ह त्वेकाभ्यः प्रयच्छति कनीय इवैकाभ्यस्तद्याभ्यो भूयः प्रयच्छति ता ज्योक्तमां जीवन्ति याभ्यः कनीयः कनीयस्ताः - १०.२.६.[५]

तदेतदृचाभ्युक्तं विभक्तारं हवामहे वसोश्चित्रस्य राधसः सवितारं नृचक्षसमिति तदेतत्सर्वमायुर्दीर्घमनन्तं हि तद्यदिदमाहुर्दीर्घं त आयुरस्तु सर्वमायुरिहीत्येष ते लोक एतत्तेऽस्त्विति हैवैतत् - १०.२.६.[६]

पश्यन्ती वाग्वदति तदेतदेकशतविधेन वैवाप्तव्यं शतायुतया वा य एवैकशतविधं विधत्ते यो वा शतं वर्षाणि जीवति स हैवैतदमृतमाप्नोति तस्माद्ये चैतद्विदुर्ये च न लोक्या शतायुतेत्येवाहुस्तस्मादु ह न पुरायुषः स्वकामी प्रेयादलोक्यं हैत उ वाव लोका यदहोरात्राण्यर्धमासा मासा ऋतवः संवत्सरः - १०.२.६.[७]

तद्येऽर्वाग्विंशेषु वर्षेषु प्रयन्ति अहोरात्रेषु ते लोकेषु सज्यन्तेऽथ ये परोविंशेष्वर्वाक्चत्वारिंशेष्वर्धमासेषु तेऽथ ये परश्चत्वारिंशेष्वर्वाक्-षष्टेषु मासेषु तेऽथ ये परःषष्टेष्वर्वागशीतेष्वृतुषु तेऽथ ये परोऽशीतेष्वर्वाक्शतेषु संवत्सरे तेऽथ य एव शतं वर्षाणि यो वा भूयांसि जीवति स हैवैतदमृतमाप्नोति - १०.२.६.[८]

बहुभिर्ह वै यज्ञैः एकमहरेका रात्रिर्मिता स य एवैकशतविधं विधत्ते यो वा शतं वर्षाणि जीवति स हैवैनदद्धातमामाप्नोत्येष वा एकशतविधं विधत्ते य एनं संवत्सरं बिभर्ति तस्मादेनं संवत्सरभृतमेव चिन्वीतेत्यधिदेवतम् - १०.२.६.[९]

अथाधियज्ञम् यानमूनेकशतमुद्बाहून्पुरुषान्मिमीते स विधैकशतविधः स चितिभिरेव सप्तविधः षडृतव्यवत्यश्चितयोऽग्निरेव सप्तमी विधा - १०.२.६.[१०]

स उ वा इष्टकैकशतविधः याः पञ्चाशत्प्रथमा इष्टका याश्चोत्तमास्ताः शतं विधा अथ या एतदन्तरेणेष्टका उपधीयन्ते सैवैकशततमी विधा - १०.२.६.[११]

स उ एव यजुस्तेजाः यजुरेकशतविधो यानि पञ्चाशत्प्रथमानि यजूंषि यानि चोत्तमानि ताः शतं विधा अथ यान्येतदन्तरेण यजूंषि क्रियन्ते सैवैकशततमी विधैवमु सप्तविध एकशतविधो भवति स यः शतायुतायां कामो य एकशतविधे सप्तविधेन हैव तमेवंविदाप्नोति - १०.२.६.[१२]

एवं वाव सर्वे यज्ञाः एकशतविधा आऽग्निहोत्रादृग्भिर्यजुर्भिः पदैरक्षरैः कर्मभिः सामभिः स यः शतायुतायां कामो य एकशतविधे यः सप्तविधे यज्ञेनयज्ञेन हैव तमेवंविदाप्नोतीत्यु एवाधियज्ञम् - १०.२.६.[१३]

अथाध्यात्मम् । पञ्चेमाश्चतुर्विधा अङ्गुलयो द्वे कल्कुषी दोरंसफलकं चाक्षश्च तत्पञ्चविंशतिरेवमिमानीतराण्यङ्गानि ताः शतं विधा आत्मैवैकशततमी विधोक्तं सप्तविधतायै - १०.२.६.[१४]

स उ एव प्राणतेजाः प्राणैकशतविधोऽन्वङ्गमङ्गेऽङ्गे हि प्राणः स यः शतायुतायां
कामो य एकशतविधे यः सप्तविधे यः सर्वेषु यज्ञेषु विद्यया हैव तमेवंविदाप्नोति सर्वैर्हि यज्ञैरात्मानं सम्पन्नं विदे - १०.२.६.[१५]

त्रीणि वा इमानि पञ्चविधानि संवत्सरोऽग्निः पुरुषस्तेषां पञ्च विधा अन्नं पानं श्रीर्ज्योतिरमृतं यदेव संवत्सरेऽन्नं तदन्नं या आपस्तत्पानं रात्रिरेव श्रीः श्रियां हैतद्रात्र्यां सर्वाणि भूतानि संवसन्त्यहर्ज्योतिरादित्योऽमृतमित्यधिदेवतं - १०.२.६.[१६]

अथाधियज्ञम् यदेवाग्नावन्नमुपधीयते तदन्नं या आपस्तत्पानं परिश्रित एवश्रीस्तद्धि रात्रीणां रूपं यजुष्मत्यो ज्योतिस्तद्ध्यह्नां रूपमग्निरमृतं तद्ध्यादित्यस्य रूपमित्यु एवाधियज्ञम् - १०.२.६.[१७]

अथाध्यात्मम् यदेव पुरुषेऽन्नं तदन्नं या आपस्तत्पानमस्थीन्येव श्रीस्तद्धि परिश्रितां रूपं मज्जानो ज्योतिस्तद्धि यजुष्मतीनां रूपं प्राणोऽमृतं तद्ध्यग्नेरूपं प्राणोऽग्निः प्राणोऽमृतमित्यु वा आहुः - १०.२.६.[१८]

अन्नाद्वा अशनाया निवर्तते पानात्पिपासा श्रियै पाप्मा ज्योतिषस्तमोऽमृतान्मृत्युर्नि ह वा अस्मादेतानि सर्वाणि वर्तन्तेऽप पुनर्मृत्युं जयति सर्वमायुरेति य एवं वेद तदेतदमृतमित्येवामुत्रोपासीतायुरितीह प्राण इति हैक उपासते प्राणोऽग्निः प्राणोऽमृतमिति वदन्तो न तथा विद्यादध्रुवं वै तद्यत्प्राणस्तं ते विष्याम्यायुषो न मध्यादिति ह्यपि यजुषाभ्युक्तं तस्मादेनदमृतमित्येवामुत्रोपासीतायुरितीह तथो ह सर्वमायुरेति - १०.२.६.[१९]