सम्भाषणम्:शतपथब्राह्मणम्/काण्डम् ३/अध्यायः ४/ब्राह्मण ४
विषयः योज्यताम्उपसद
[सम्पाद्यताम्]उपसद्- (अव्य०) सोमयज्ञेषु प्रकृतिभूतज्योतिष्टोमातिरात्रप्रकरणे प्रथमायां सोमसंस्थायामग्निष्टोमे सप्रवर्ग्येऽप्रवर्ग्ये च तद्विकृतिष्वेकाहाहीनसत्रेषु च १. सोम क्रयादिषु येषु दिवसेषु प्रात:सायं कालयोरुपसदो: प्रवर्ग्ययोश्चानुष्ठानं ते दिवसा उपसद् इत्युच्यन्ते (तु० - तां० ब्रा० सा० १० ।३२) । २. (क) यदा क्रीतं सोमं शकटेऽवस्थाप्य प्राचीनवंशं प्रत्यानयने अभिमुखो यामिष्टिं निर्वपति सेयमातिथ्या । तत ऊर्ध्वं त्रिषु दिनेष्वनुष्ठीयमाना उपसदः । तु० - ऐ० ब्रा० सा० १ । २६) । (ख) उपसदः नाम इष्टयः, आतिथ्याया ऊर्ध्वं त्रिषु दिनेषु अनुष्ठीयन्ते । द्र० मी०को० पृ० ११८२ । ताश्च ‘एकाहानां तिस्रः षड् वा । अहीनानां द्वादश चतुर्विंशतिः संवत्सर इति सत्राणाम्' (आ० श्रौ० ४।८ ।१२- १५) इति संख्यायन्ते । ३. एकाहानां ज्योतिष्टोमादीनां सुत्यासहितपञ्चप्रकृतिविकृतिभूतानां दिनसाध्यानां प्रथमा, द्वितीया, तृतीया चेति तिस्र उपसदः प्रवर्ग्यसहिताः प्रवर्ग्यरहिता वा भवन्ति । तत्र सप्रवर्ग्या अप्रवर्ग्या इति द्विविधासूपसत्सु प्रवर्ग्योपसदोः संबन्धेन सप्रवर्ग्यासु होतुः स्थानाऽचमनप्रपदनानि न भवन्ति । अप्रवर्ग्यासु स्थानाचमन प्रपदनादीनि भवन्त्येव (तु०-आ० श्रौ० ४। ८ ।१ नारायणः) इति विशेषोऽवगन्तव्यः । तत्र सोमक्रयादिषु दिनेषु प्रतिदिनं प्रातः सु- पूर्वाह्णे सायं स्वपराह्णे च द्विरनुष्ठानेन ताः षट् संपद्यन्ते । तत्र यदि क्रतुः प्रवर्ग्यवान् भवति तदानीं प्रवर्ग्येण प्रचर्य उपसद्भिः प्रचरन्ति । ततस्तत्र प्रथमं प्रवर्ग्योऽनन्तरं उपसद इति क्रमः एवं च अग्निष्टोमस्य दीक्षानन्तर विभाविनि द्वितीये दिने प्रथमोपसद्धोतव्या । तत ऊर्ध्वदिने तृतीयदिने द्वितीया, ततोऽप्यूर्ध्वदिने चतुर्थे दिने तृतीया । ता इमास्तिस्रः सतीरुपसदो द्विर्द्विरेकैकामुपायन् (पौर्वाह्णिकापराह्णिकभेदेन) ताः षट् संपद्यन्ते । ता इमा द्वादश सतीरुपसदो द्विर्द्विरेकामुपायन् । ताश्चतुर्विंशति: संपद्यन्ते इति (तु० - ऐ० ब्रा० सा० १ ।२३) । ४. अत्रैकैकस्मिन् दिने द्विर्द्विरनुष्ठेया उपसदो ज्योतिष्टोमे त्रिषु दिनेष्वनुष्ठेयाः । अग्निचयने षट्सु दिनेषु । अहीनसत्रयोर्द्वादशदिनेषु । तथा च तैत्तिरीयैराम्नातम् — तिस्र एव सासाह्नस्योपसदो द्वादशाहीनस्य यज्ञस्य सवीर्याय त्वा' इति । तथा षडुपसदोऽग्नेश्चित्यस्य भवन्ति' इति श्रुत्यन्तरं द्रष्टव्यम् । आश्वलायनस्त्वाह— 'एकाहानां तिस्रः षड् वा अहीनानां द्वादश, चतुर्विंशतिः संवत्सर इति ।' संवत्सरे गवामयनाख्ये संवत्सर इत्यर्थः (तु० - ऐ० ब्रा० सा० १ ।२ ।३) । ५. उपसत् पूर्वाह्णापराह्णयोः अभ्यस्यमानं आग्नेयसौम्यवैष्णवयागत्रयमेका उपसत् । तथाविधानां तिसृणां उपसदां ज्योतिष्टोमे विहितानां अवयवभूता प्रत्येकं आदौ आग्नेयी उपसत् विहिता । ततश्चाऽऽग्नेय्यस्तिस्रो भवन्ति । एवं सौम्यः, एवं वैष्णव्यः । द्र० मी०को० पृ० ११८२) ।
उपसदिष्टि- (आध्व०, हौ०) सोमयज्ञेषु प्रकृतिभूतज्योतष्टोमातिरात्रप्रकरणे सोमप्रथम- संस्थायामग्निष्टोमे सप्रवर्ग्ये प्रवर्ग्यवत्सु तद्विकृतिषु चैकाहाहीनसत्रेषु प्रवर्ग्यानन्तर- मुपसदिष्ट्यां यज्ञ्ये इति कर्ता संकल्पयति । तत्र अग्निः सोमो विष्णुरिति प्रधानदेवताः । आज्यं द्रव्यम् । अध्वर्युः स्फ्यमाददानः आह 'अग्नीत् । मदन्तीरधिश्रय, हविरधिश्रय, एहि उपसीद' इति प्रेष्यति । अत्रेध्माबर्हिषोराहरणं नास्ति । शुल्वप्रभृति कर्म समन्त्रकं प्रकृतिवत् करोति । इध्मसम्भरणमन्त्रे 'तत-
स्त्वां चतुर्दशधा' इत्यूहः । वेदं परिभोजनीयांश्च कृत्वा 'कर्मणे वाम्' इत्यादि करोति । आतिथ्येष्ट्यन्ते एव प्रस्तरे बर्हिः परिधिषु शकलानीत्यादि मन्त्रवत्कृतं चेत् तदेदानीं हविरधिश्रयणादिपूर्वोक्तप्रैषमुक्त्वा 'कर्मणे वाम्' इत्यादि करोति । अग्निपरिस्तरणानन्तरं स्फ्यमग्निहोत्रहवणीं जुहूमुपभृतं स्रुवमाज्यस्थालीं स्रुवसंसादनार्थं पात्रान्तरं वेदं वेदाग्राणीति पात्राणि सादयति । ब्रह्मोपवेशनम् । पृष्ट्यास्तरणम् । पवित्रकरणम् । यजमानवाचं यच्छ' इति प्रैषः । 'वेषाय त्वा' इति अग्निहोत्रहवणीमादाय 'प्रत्युष्टँ रक्षः प्रत्युष्टा अरातय:' इति प्रतितपति । अग्निहोत्रहवण्यां मदन्तीरानीय प्रोक्षणीवत् संस्कृत्य 'शुन्धध्वम्' इत्यादि- प्राकृतमन्त्रेणोत्तानानि पात्राणि प्रोक्ष्य आज्यस्थाल्यां प्राकृतमन्त्रेणाज्यमानीय तथैव पर्यग्निकृत्वा 'अयं वेद:' इत्यादिना मन्त्रेण वेदमादाय प्रकृतवद् वेदिं संमार्ष्टि । 'देवस्य त्वा' इत्यादिना स्फ्यमादाय 'इन्द्रस्य बाहुरसि इत्यादिना संमृश्य 'पृथिव्यै वर्मासि' इत्यादिनाऽऽस्तीर्णबर्हिष उपरि दर्भं निधाय स्तम्बयजुर्हरति । नात्र मन्त्रेण वेदिखननम् । अत एव तन्मन्त्रोऽपि न । स्फ्यं प्रकृतिवत् स्तब्ध्वा 'मदन्तीरासादय, इध्माबर्हिरुपसादय स्रुवं च सम्मृड्ढि हविषो दे३हि ।' इति सम्प्रेष्यति (आग्नीध्रं) । आग्नीध्रः स्रुवं स्रुवमन्त्रेण सम्मृज्य स्रुचौ ध्रौवमन्त्रेण सम्मार्ष्टि । अध्वर्युः ध्रौवमन्त्रेणाष्टकृत्वो जुह्वां गृह्णाति उपभृति चतुर्वारम् । आज्यस्थाल्यामाज्यं पात्रान्तरेऽवनीय तस्यामाज्यस्थाल्यां सकृत् ध्रौवमन्त्रेण गृहीत्वा पात्रान्तरं स्रुवं च वेद्याः पश्चान्निदधाति । ततो वेद्यां स्रुचौ स्वस्वमन्त्रेणासाद्य ध्रौवमन्त्रेण तूष्णीं वाऽऽज्यस्थालीं सादयति । 'एता असदन्' इति मन्त्रे 'एते असदताम्' इति, 'ता विष्णो' इत्यत्र 'ते विष्णो' इति चोहः । पात्रान्तरस्थाज्येन स्रुवमभिपूर्य 'स्योनो मे सीद इत्यादिना स्रुचां दक्षिणतः स्थापनादि करोति । 'ऋषभोऽसि' इत्यादिना आज्यस्थाल्यामाज्यमवनयति । यजमानो 'यन्मे अग्ने' इत्यादि मन्त्रं जपति । अध्वर्युः प्रदक्षिणामावृत्य जघनेन गार्हपत्यमुपविश्य देवपत्नीर्व्याचष्टे - 'सेनेन्द्रस्य, धेना बृहस्पतेः, पथ्या पूष्णः, वाग् वायो:, दीक्षा सोमस्य, पृथिव्यग्ने:, वसूनां गायत्री, रुद्राणां त्रिष्टुप, आदित्यानां जगती, विष्णोरनुष्टुप्, वरुणस्य विराट्, यज्ञस्य पङ्क्तिः, प्रजापतेरनुमतिः, मित्रस्य श्रद्धा, सवितुः प्रसूतिः, सूर्यस्य मरीचिः, चन्द्रमसो रोहिणी, ऋषीणामरुन्धती, पर्जन्यस्य विद्युत्, चतस्रो दिशः, चतस्रोऽवान्तरदिशः अहश्च रात्रिश्च, कृषिश्च वृष्टिश्च, त्विषिश्चापचितिश्च । आपश्चौषधयश्च, ऊर्क च सूनृता च देवानां पत्न्य' इति । तत 'अग्नये समिध्यमानायानुब्रू३हि' इत्यादि । इध्मं सकृद् वा त्रिर्वाऽभ्यादधाति । समिधं न परिशिनष्टि अनुयाजानामभावात् । वेदेनोपवाजयति । आज्यस्थाल्याः स्रुवेणाज्यमादाय स्रौवाधारेण प्रचर्य आग्नीध्रं प्रेष्यति 'अग्नीदग्नीस्त्रिस्त्रिः सम्मृड्ढि' इति । नात्र जौहव आधारः । 'अग्निर्देवो होता देवान् यक्षत् सीद होत: ।' इत्ययमत्र प्रवरमन्त्रः । होतुर्घृतवतीशब्दं श्रुत्वा जुहूपभृतावाददान आह 'अग्नये अनुब्रू३हि' (अग्नये इत्युपांशु, अनुब्रू३हि इत्युच्चैः) अत्याक्रम्याश्राव्य प्रत्याश्राविते 'अग्निं यज' (अग्निम् इत्युपांशु, यज इत्युच्चैराह) होतुर्वषट्कारे आहवनीयस्य पूर्वार्धेऽर्धमाज्यं जुहोति । तत्रैव स्थितः सन् अर्धेनाज्येन मध्ये सोमं यजति । उपभृत्स्थमाज्यं जुह्वां समावपमान आह—- 'विष्णवेऽनुब्रू३हि' इति । वषट्कृते पश्चात् सर्वं जुहोति । सर्वत्र 'दब्धिरसि' इत्यादिना यजमानोऽनुमन्त्रयते । यथालिङ्गं त्यागं च पठति । सेयमुपसदिष्टिरुच्यते । तदेतदुपसत्कर्म प्रयाजानुयाजरहितं भवति । ‘अप्रयाजमननुयाजं भवति' (ऐ०ब्रा० १ ।२६) । द्र० उपसद्उपांशुतन्त्रा-श्रौ० प० नि० पृ० २२९-२३१ ।
उपसदिष्टिप्रधानदेवता- (आध्व०) सोमयज्ञेषु प्रकृतिभूत अग्निष्टोमे तद्विकृतिषु चैकाहाहीनसत्रेषु आतिथ्येष्ट्यन्तरं क्रियमाणायां उपसदिष्टौ अग्निः सोमः विष्णुरिति तिस्रः प्रधानदेवता रज्यन्ते । तु० - ऐ० ब्रा० सा० ३ ।४५ । द्र० उपसदिष्टि — उपसदिष्टि प्रवरमन्त्र- (हौत्र०) सोमयज्ञेषु प्रकृतिभूत अग्निष्टोमे तद्विकृतिषु चैकाहाहीनसत्रेषु उपसदिष्टौ ‘अग्निर्देवो होता देवान् यक्षत् सीद होत:' इत्युपसत्प्रवरः । द्र० श्रौ०प०नि० पृ० २३० । द्र० उपसद् उपसदिष्टि― ।
उपसदिष्टि संस्था – (हौ०) सोमयज्ञेषु प्रकृतिभूत अग्निष्टोमे तद्विकृतिषु चैकाहाहीन- सत्रेषु उपसदिष्टौ तिस्र एव सामिधेनीरनूच्य तिस्रः अग्निः सोमः विष्णुः इति प्रधानदेवता यजन्ति । उपसत्सु प्रयाजा अनुयाजा: स्विष्टकृदादि आज्यभागौ च लुप्यन्ते । तदुक्तम् — 'अप्रयाजमननुयाजं भवति' (ऐ० ब्रा० १ ।२६), ‘तिस्र एव सामिधेनीरनूच्य तिस्रो देवता यजन्ति' ऐ० ब्रा० ३ ।४६) । तथा चाऽऽश्वलायन आह- 'स्विष्टकृदादि लुप्यते प्रयाजा आज्यभागौ च' (आ० श्रौ० ४।८ ।८) इति । तदेवं हौत्रप्रधानयागान्ता एवोपसदिष्टिः । अतः प्रधानदेवतायाग एवोपसदिष्टिसंस्थेत्युच्यते ।
उपसदिष्टि संकल्प - (याज०) सोमयज्ञेषु प्रकृतिभूतज्योतिष्टोमातिरात्रप्रकरणे प्रथमायां सोमसंस्थायां सप्रवर्ग्ये प्रवर्ग्यरहिते चाग्निष्टोमे तद्विकृतिषु चैकाहाहीनसत्रेषु घर्मोत्सादनप्रैषानन्तरं सर्वाणि घर्मपात्राणि संसाद्य शंनोवात:' इत्यादि शान्तिं जपित्वा तत उपसदिष्ट्या यक्ष्ये इति अग्निः सोमो विष्णुरिति प्रधानदेवताः । आज्यद्रव्यमिति संकल्पयति । अयमुपसदिष्टिसंकल्प उच्यते । द्र० श्रौ०प०नि० पृ० २२९ ।
उपसदिष्टि हविरधिश्रयणप्रैष - (आध्व०) सोमयज्ञेषु प्रकृतिभूत 'अग्निष्टोमे तद्विकृतिषु चैकाहाहीनसत्रेषु उपसदिष्टि संकल्पानन्तरं अध्वर्युः स्फ्यमाददान आह-अग्नीन् मदन्तीरधिश्रय हविःधिश्रयोपसीद' इति अयं हविरधिश्रयणप्रैष उच्यते । द्र० श्रौ०प०नि० पृ० २२९ । द्र० उपसदिष्टि, उपसदिष्टि संकल्प-
उपसद्द्रव्य- (आध्व०) सोमयज्ञेषु प्रकृतिभूत अग्निष्टोमे तद्विकृतिषु चैकाहा- हीनसत्रेषु उपसदिष्टौ 'एता उपसद आज्यहविषो भवन्ति' इति उपसदामाज्यं द्रव्यं भवति । (तु० - ऐ० ब्रा० १ । २५) । जामदग्न्यचतूरात्रेऽहीने तु या उपसदस्ताः पुरो- डाशिन्यो भवन्ति नाज्यहविषः (तु० - आ० श्रौ० १०२।२३-२४ नारायणः) । द्र० जामदग्न्यचतूरात्र— ।
उपसद्धोम- (आध्व०) सोमयज्ञेषु प्रकृतिभूत ज्योतिष्टोमातिरात्रप्रकरणे प्रथमायां सोमसंस्थायां सप्रवर्ग्यं प्रवर्ग्यरहिते च अग्निष्टोमे तद्विकृतिषु चैकाहाहीनसत्रेषु स्रुचौ सादयित्वा सोमापतयनादारभ्य सुब्रह्मण्या प्रैषान्तं आतिथ्यावत् कुर्यात् । तत: जुहूय मृदाज्यस्थालीषु प्रस्तरमक्त्वा परिध्यादानात् पूर्वस्रुवेण प्रथमामुपसदं जुहोति—'या ते अग्नेऽयःशया तनूः (मा० सं० ५ ।८) इति मन्त्रेण यजमानेऽन्वारब्धे । प्रथमदिने सायं प्रातश्च आवृत्त्या द्विर्जुहुयादित्यवधेयः । एवं द्वितीयामुपसदं द्वितीये दिने 'या ते अग्ने रजः शया तनू:' (मा०सं० ५ ।८) इति सायं प्रात: द्वि:, तथा तृतीयामुपसदं तृतीयदिने 'या ते अग्ने हरि (रा) शयातनूः' इति सायं प्रातः द्विर्जुहुयादिति । (तु० - का० श्रौ० ८ । २ । ३२-३६ विद्याधरः, श्रौ०को० २ भा० पृ० १३०-१४० । द्र० उपसद् उपसदिष्टि― ।
उपसद्धोम- सोमयज्ञेषु प्रकृतिभूत अग्निष्टोमे तद्विकृतिषु चैकाहाहीनसत्रेषु उपसदिष्ट्यनन्तरं अग्नीन् 'मदन्त्यायाजा३:' इत्यादि निह्नवान्तं पूर्ववत् । तत सव्यहस्तेन प्रस्तरं धृत्वा आज्यस्थाल्यामाज्येन पूर्णं स्रुवं प्रस्तरोपर्यग्रभागे इषुवत् धृत्वा प्रथमामुपसदं जुहोति-'या ते अग्ने अयाशया तनूर्वर्षिष्ठा गह्वरेष्ठोग्रं वचो अपावधीं त्वेषं वचो अपावधीत - स्वाहा' इति । अग्नय इदं मेति यजमानः । परिधिषु शकलानुपसंगृह्णाति । प्रस्तरे यावन्मात्रं संगृह्णाति । तदुभयं स्पन्द्ययाऽविग्रथ्याऽऽहवनीयेऽतिवाल्यादा भरभ्युक्ष्येत्तरतः सादयति । अयमुपसद्धोम उच्यते । (इति प्रथमोपसद्धोमः) । प्रथमायामुपसदि यत्र स्रुचः सादिताः ततः प्राक् द्वितीयायामुपसदि सादनीया: (इति द्वितीयोपसद्धोमः) । ततोऽपि प्राक् तृतीयायां त्वरमाणा इव ऋत्विजः उपसद्भिः प्रचरेयुः (इति तृतीयोपसद्धोमः) । न कृताकृतमाद्रियेरन् । तत: अग्रेण शालां तिष्ठन् (अध्वर्युः) संप्रेष्यति सुब्रह्मण्य सुब्रह्मण्यामाह्वय, त्रिस्तनव्रतं प्रयच्छत' इति त्रिस्तनव्रत प्रैषः । त्रिस्तनव्रत- प्रैषानन्तरं प्रतिप्रस्थाता अध्वर्युरन्यो वा कश्चिद् यजमानाय व्रतं प्रयच्छति । यज- मानो मध्यन्दिने परिश्रित्य व्रतयति—'या ते अग्ने रुद्रियास्तनूस्तया नः पाहि तपस्यास्ते स्वाहा' इति । समानमन्यत् स्थूणा शङ्कु निखननमृदासन्द्यभ्रिखरकरणानि वर्जयित्वा । एवमपराह्णिकीभ्यां प्रवर्ग्योपसद्भ्यां प्रचर्योपनिष्क्रम्य संप्रेष्यति— 'सुब्रह्मण्य सुब्रह्मण्यामाह्वय त्रिस्तनव्रतं दोहयत' इति अयं त्रिस्तनव्रत दोहनप्रैषः । त्रिस्तन व्रत दोहनप्रैषानन्तरं त्रिस्तनव्रतमर्धरात्रे प्रयच्छति । अपररात्रे संप्रेष्यति । द्विस्तनव्रतमर्धरात्रे प्रयच्छति । अपरात्रे संप्रे- ष्यति द्विस्तनव्रतं दोहयत इति 'द्विस्तनव्रतदोहनप्रैषः । स्तनव्रतदोहनप्रैषानन्तरं पुनरग्नीन् ज्योतिष्मत इत्यादि । उदिते आदित्ये विसृष्टायां वाचि मध्यमाभ्यां प्रवर्ग्योपसद्भ्यां प्रचरति ‘याते अग्ने रज:शया तनूः वर्धी स्वाहा' इति मध्यमामुपसदं जुहोति । अयं मध्यमोपद्धोममुच्यते । ततः उपनिष्क्रम्य 'सुब्रह्मण्य सुब्रह्मण्यामाह्वय, द्विस्तनव्रतं प्रयच्छत' इति । कश्चिद्व्रतं प्रददाति इति विशेष: । द्र० श्रौ०प०नि० पृ० ३२१-३२ । द्र० व्रतप्रदानकाल-
उपसद्भेद - (आध्व०, सा०) सोमयज्ञेषु प्रकृतिभूत सप्रवर्ग्येऽप्रवर्ग्ये चाग्निष्टोमे तद्विकृतिषु चैकाहाहीन सत्रेषु प्रयोक्तव्या उपसदः त्रिषु दिनेषु प्रत्यहं द्विरावृत्ताः द्विविधाः पौर्वाह्णिक्य: (प्रातस्तना:) आपराह्णिक्यः (सायंतना:) चेति । या: पौर्वाह्णिक्यास्त: सु पूर्वाह्णे कार्या: । या आपराह्णिक्यः ताः ताः स्वपराह्णे (तु०-आ० श्रौ० ४।८।१२) । तदुक्तं ब्रह्मणे 'सुपूर्वाह्ण एव पूर्वयोपसदो प्रचरितव्यं स्वपराह्णेऽपरया' (ऐ० ब्रा० १ । २३) । इति ।
उपसद्याज्यानुवाक्या— (हौ०) सोमयज्ञेषु प्रकृतिभूत प्रथमायां ज्योतिष्टोमातिरात्रप्रकरणे सोमसंस्थायामग्निष्टोमे तद्विकृतिषु चैकाहाहीनसत्रेषु उपसत्सु अग्न्यादिदेवतानां पूर्वाहणे अग्नेः 'अग्निर्वृत्राणि' (ऋ० ६ । १६ । ३४) इति पुरोनुवाक्या, 'य उग्र इव' (ऋ० ६ । १६ । ३९) इति याज्या । सोमस्य 'त्वं सोमासि' (ऋ० १।९१।५) इति पुरोनुवाक्या, 'गयस्फान:' (ऋ० १ ।९१ ।१२) इति याज्या । विष्णोः - 'इदं विष्णोर्विचक्रमे' (ऋ० १ । २२ ।१) इति पुरोनुवाक्या, 'त्रीणि पदा विचक्रमे' (ऋ० _ १ । २२ । १८) इति याज्या । इत्येता अग्न्यादिदेवानां क्रमेण याज्यानुवाक्या द्रष्टव्याः (तु० - ऐ० ब्रा० सा० १ । २५; आ० श्रौ० ४।८ ।८) । अपराह्णे तु तासामेव देवतानां ता एव याज्यानुवाक्या विपर्यस्ता भवन्ति । अर्थात् या: पूर्वाह्णे पुरोनुवाक्या उक्तास्ता अपराह्णे याज्या: क्रियन्ते, तथा तत्रत्याः या याज्यास्ता अपराह्णे पुरोनुवाक्याः कार्याः । तदुक्तम्— 'विपर्यस्ताभिरपराह्णे यजति (ऐ० ब्रा० १ । २५), ‘विपर्यासो याज्यानुवाक्यानाम्' (आ० श्रौ० ४।८।१०) । इत्येवंरूपो विपर्यासो द्रष्टव्यः ।
उपसद्व्रतदोहन- (आध्व०) सोमयज्ञेषु प्रकृतिभूत अग्निष्टोमे सप्रवर्ग्ये प्रवर्ग्यरहितेषु तद्विकृतिषु चैकाहाहीनसत्रेषु उपसदां प्रयोगे व्रतं पयः उपसद्व्रतमुच्यते । तत्र प्रथमायामुपसदि व्रतदुहः गो: त्रिभ्य एव स्तनेभ्यः व्रतं दुह्यते । द्वितीयायां द्वाभ्यां स्तनाभ्यां तृतीयायामेकस्मात् स्तनात् पयो दुह्यते । एतदेव व्रतं सुब्रह्मण्याऽऽह्वानानन्तरं प्रैषपूर्वकं यजमानाय प्रदीयते तिसृषूपसत्सु । ऐतरेय- ब्राह्मणे तु 'चतुरोऽग्रे स्तनान् व्रतमुपैत्युपसत्सु ' त्रीन स्तनान् व्रतमुपैत्युपसत्सु..द्वौ स्तनौ व्रतमुपैत्युपसत्सु..एकं स्तनं व्रतमुपैत्युपसत्सु इति विशेषः।( तु. ऐ०ब्रा०सा० १।२५) द्र० उपसद्धोमत्रिस्तन- व्रतप्रैषत्रिस्तनव्रतदोहनप्रैषद्विस्तनव्रतदोह नप्रैषाध्यगोपसद्धोम-, व्रतदुहोहन- ।
श्रौतयज्ञप्रक्रियापदार्थानुक्रमकोषः - पं. पीताम्बरदत्त शास्त्री, राष्ट्रियसंस्कृतसंस्थानम्, नई दिल्ली।
संदर्भाः
१. यद्वेषैकैका स्तोत्रियोपशीयते तस्मादुपशदः । जै २,८१ ।।
२. स (कश्यपः) एतं यज्ञमपश्यत् , तमाहरत् , तेनायजत। ततो वै तमुपोप प्रजाः पशवो ऽशीयन्त । जै २,८१ ।
उपसद्
१. अर्धमासा (ऋतव [माश १०,२,५,७) उपसदः । माश १०,२,५,५; ७।।
२. अहोरात्राणि वाऽउपसदः आदित्यः प्रवर्ग्योऽमुं तदादित्यमहोरात्रेषु प्रतिष्ठापयति। माश १०, २,५,४ ।
३. इमे लोका उपसदः । माश १०,२, ५,८ ।।
४. इषुं वा एतां देवाः समस्कुर्वत यदुपसदस्तस्या अग्निरनीकमासीत् सोमः शल्यो विष्णुस्तेजनं वरुणः पर्णानि । ऐ १, २५ ।
५. इषुं वा एतां देवाः समस्कुर्वन् यदुपसदोऽग्निं शृङ्गं सोमं शल्यं विष्णुं तेजनम् । काठ २५,१; क ३८, ४ ।।
६. उपसद्भिर्वै देवा इमांल्लोकान् व्यजयन् (अभ्यजयन् [क.]) । काठ २६,२; क ४०, ५।
७. एतदु ह यज्ञे तपः । यदुपसदस्तपो वाऽउपसदः । माश १०,२,५,३ ।
८. एताभिर्वै देवा उपसद्भिः पुरः प्राभिन्दन्निमाल्लोकान् प्राजयन् । माश ३, ४,४,५।
९. ग्रीवा उपसदः । मै ३,७,९; काठ २४,८; क ३८,१; ऐ १,२५; तैआ ५, ६, १।
१०. ग्रीवा वा एता यज्ञस्य यदुपसदः । काठ २५,१ (तु. माश ३,४,४,१)।
११. जितयो वै नामैता यदुपसदः । ऐ१, २४ ।
१२. त एताभिरुपसद्भिरुपासीदन् ( देवाः) । तद्यदुपासीदंस्तस्मादुपसदो नाम । माश ३,४,४,४ ।
१३. तपो ह्युपसदः । माश ३,६,२,११ ।
१४. ता (उपसदः) वाऽआज्यहविषो भवन्ति । माश ३,४,४,६ ।
१५. ते (देवाः ) ऽब्रुवन्नुपसीदामोपसदा वै महापुरं जयन्तीति त उपासीदंस्तदुपसदामुपसत्त्वम् । मै ३,८,१। ।
१६. पृथिव्युपसद्यन्तरिक्षमुपसदि, द्यौरुपसदि (सोमः) । काठ ३४,१४ ।।
१७. प्रातस्सायन्तनं तान् (असुरान् देवाः) उपसद्भिरेवैभ्यो लोकेभ्यो नुदमाना आयंस्ततो देवा अभवन् परासुराऽभवन् , सर्वेभ्य एवैभ्यो लोकेभ्यो भ्रातृव्यं नुदमान एति य एवं विद्वान् उपसद उपैति । काठ २४, १० ।।
१८. मासा उपसदः । माश १०,२,५,६ ।
१९. यदुपसद उपसद्यन्ते भ्रातृव्यपराणुत्त्यै । तैसं ६,२, ३,२।
२०. वज्रा (वीर्यं [काठ.]) वाऽउपसदः । काठ २९,२; माश १०, २, ५,२ ।
२१. स्थानमुपसदः (प्रायश्चित्तार्थं वेदभागमध्येतुः पुरुषस्य) । तैआ २,१७,२ ।
ग्रीवा वै यज्ञस्योपसदः शिरः प्रवर्ग्यः । तस्माद्यदि प्रवर्ग्यवान्भवति प्रवर्ग्येण प्रचर्याथोपसद्भिः प्रचरन्ति तद्ग्रीवाः प्रतिदधाति – माश ३.४.४.१
तद्याः पूर्वाह्णेऽनुवाक्या भवन्ति । ता अपराह्णे याज्या या याज्यास्ता अनुवाक्यास्तद्व्यतिषजति तस्मादिमानि ग्रीवाणां पर्वाणि व्यतिषक्तानीमान्यस्थीनि - ३.४.४.२ देवाश्च वा असुराश्च । उभये प्राजापत्याः पस्पृधिरे ततोऽसुरा एषु लोकेषु पुरश्चक्रिरेऽयस्मयीमेवास्मिंलोके रजतामन्तरिक्षे हरिणीं दिवि - ३.४.४.३ तद्वै देवा अस्पृण्वत । त एताभिरुपसद्भिरुपासीदंस्तद्यदुपासीदंस्तस्मादुपसदो नाम ते पुरः प्राभिन्दन्निमांलोकान्प्राजयंस्तस्मादाहुरुपसदा पुरं जयन्तीति यदहोपासते तेनेमां मानुषीं पुरं जयन्ति - ३.४.४.४ एताभिर्वै देवा उपसद्भिः । पुरः प्राभिन्दन्निमांलोकान्प्राजयंस्तथो एवैष एतन्नाहैवास्मा अस्मिंलोके कश्चन पुरः कुरुत इमानेवैतल्लोकान् प्रभिनत्तीमांलोकान्प्रजयति तस्मादुपसद्भिर्यजते। संवत्सरो वज्रः । एतेन वै देवाः संवत्सरेण वज्रेण पुरः प्राभिन्दन्निमांलोकान्प्राजयंस्तथो एवैष एतेन संवत्सरेण वज्रेणेमांलोकान्प्रभिनत्तीमांलोकान्प्रजयति तस्मादेता देवता यजति - ३.४.४.५
स वै तिस्र उपसद उपेयात् । त्रयो वा ऋतवः संवत्सरस्य संवत्सरस्यैवैतद्रूपं क्रियते संवत्सरमेवैतत्संस्करोति द्विरेकया प्रचरति द्विरेकया – माश ३.४.४.१७
अथातो व्रतोपसदामेव । परौर्वीर्वा अन्या उपसदः परोऽह्वीरन्याः स यासामेकम् प्रथमाहं दोग्ध्यथ द्वावथ त्रींस्ताः परौर्वीरथ यासां त्रीन्प्रथमाहं दोग्ध्यथ द्वावथैकं ताः परोऽह्वीर्या वै परोऽह्वीस्ताः परौर्वीर्याः परौर्वीस्ताः परोऽह्वीः - ३.४.४.२६
उपसदो दशम्यो देवताः । तत्र पञ्च पुण्डरीकाण्युपप्रयच्छति तां द्वादशपुण्डरीकां स्रज प्रतिमुञ्चते सा दीक्षा तया दीक्षया दीक्षते माश ५.४.५.१३
तेषु प्रेतेषु । उपसदोऽतन्वत ते तिस्र एव सामिधेनीरनूच्य देवता एवायजन्न प्रयाजान्नानुयाजानुभयतो यज्ञस्योदसादयन्भूयिष्ठं हि तत्रात्वरन्त तस्मादुपसत्सु तिस्र एव सामिधेनीरनूच्य देवता एव यजति न प्रयाजान्नानुयाजानुभयतो यज्ञस्योत्सादयति। माश ९.५.१.२२
यद्वेवान्तरोपसदौ चिनोति एतद्वै देवा अबिभयुर्यद्वै न इममिह रक्षांसि नाष्ट्रा न हन्युरिति त एतान्वज्रानपश्यन्नुपसदो वज्रा वा उपसदस्तान्प्रापद्यन्त ।तान्प्रपद्याभयेऽनाष्ट्र एतमात्मानं समस्कुर्वत तथैवैतद्यजमान एतान्वज्रान्प्रपद्याभयेऽनाष्ट्र एतमात्मानं संस्कुरुते।२। एतदु ह यज्ञे तपः यदुपसदस्तपो वा उपसदस्तद्यत्तपसि चीयते तस्मात्तापश्चितस्तद्वै यावदेवोपसद्भिश्चरन्ति तावत्प्रवर्ग्येण संवत्सरमेवोपसद्भिश्चरन्ति संवत्सरं प्रवर्ग्येण।३। अहोरात्राणि वा उपसदः आदित्यः प्रवर्ग्योऽमुं तदादित्यमहोरात्रेषु प्रतिष्ठापयति तस्मादेषोऽहोरात्रेषु प्रतिष्ठितः।४। अथ यदि चतुर्विंशतिः चतुर्विंशतिर्वा अर्धमासा अर्धमासा उपसद आदित्यः प्रवर्ग्योऽमुं तदादित्यमर्धमासेषु प्रतिष्ठापयति तस्मादेषोऽर्धमासेषु प्रतिष्ठितः।५। अथ यदि द्वादश द्वादश वै मासा मासा उपसद आदित्यः प्रवर्ग्योऽमुं तदादित्यं मासेषु प्रतिष्ठापयति तस्मादेष मासेषु प्रतिष्ठितः।६। अथ यदि षट् षड्वा ऋतव ऋतव उपसद आदित्यः प्रवर्ग्योऽमुं तदादित्यमृतुषु प्रतिष्ठापयति तस्मादेष ऋतुषु प्रतिष्ठितः।७। अथ यदि तिस्रः त्रयो वा इमे लोका इमे लोका उपसद आदित्यः प्रवर्ग्योऽमुं तदादित्यमेषु लोकेषु प्रतिष्ठापयति तस्मादेष एषु लोकेषु प्रतिष्ठितः - १०.२.५.८
प्राणा वै प्रयाजाः अपाना अनुयाजास्तस्मात्प्रयाजाः प्राञ्चो हूयन्ते तद्धि प्राणरूपम्। प्रत्यञ्चोऽनुयाजास्तदपानरूपमेता ह वै दर्शपूर्णमासयोरुपसदो यदनुयाजास्तस्मात्त उपसद्रूपेण प्रत्यञ्चो हूयन्ते - ११.२.७.२७
श्रद्धाया वै देवा दीक्षां निरमिमत। अदित्यै प्रायणीयम्। सोमात् क्रयम्। विष्णोरातिथ्यम्। आदित्यात्प्रवर्ग्यम्। स्वधाया उपसदः। अग्नीषोमाभ्यामुपवसथम्। अस्माल्लोकात् प्रायणीयमतिरात्रम्॥१॥ अथ यत् क्रयेण चरन्ति। सोममेव देवतां यजन्ते। सोमो देवता भवन्ति। सोमस्य सायुज्यं सलोकतां जयन्ति॥३॥ अथ यदातिथ्येन यजन्ते। विष्णुमेव देवतां यजन्ते। विष्णुर्देवता भवन्ति। विष्णोः सायुज्यं सलोकतां जयन्ति॥४॥ अथ यत्प्रवर्ग्येण यजन्ते। आदित्यमेव देवतां यजन्ते। आदित्यो देवता भवन्ति। आदित्यस्य सायुज्यं सलोकतां जयन्ति॥५॥ अथ यदुपसद उपयन्ति। एता एव देवता यजन्ते। या एता उपसत्सु। एता देवता भवन्ति। एतासां देवतानां सायुज्यं सलोकतां जयन्ति॥माश १२.१.२.६॥ Puranastudy (सम्भाषणम्) ०३:१९, ११ जून् २०२४ (UTC)