शतपथब्राह्मणम्/काण्डम् ३/अध्यायः ४/ब्राह्मण ४

विकिस्रोतः तः
Jump to navigation Jump to search


३.४.४

ग्रीवा वै यज्ञस्योपसदः शिरः प्रवर्ग्यः । तस्माद्यदि प्रवर्ग्यवान्भवति प्रवर्ग्येण प्रचर्याथोपसद्भिः प्रचरन्ति तद्ग्रीवाः प्रतिदधाति - ३.४.४.[१]

तद्याः पूर्वाह्णेऽनुवाक्या भवन्ति । ता अपराह्णे याज्या या याज्यास्ता अनुवाक्यास्तद्व्यतिषजति तस्मादिमानि ग्रीवाणां पर्वाणि व्यतिषक्तानीमान्यस्थीनि - ३.४.४.[२]

देवाश्च वा असुराश्च । उभये प्राजापत्याः पस्पृधिरे ततोऽसुरा एषु लोकेषु पुरश्चक्रिरेऽयस्मयीमेवास्मिंलोके रजतामन्तरिक्षे हरिणीं दिवि - ३.४.४.[३]

तद्वै देवा अस्पृण्वत । त एताभिरुपसद्भिरुपासीदंस्तद्यदुपासीदंस्तस्मादुपसदो नाम ते पुरः प्राभिन्दन्निमांल्लोकान्प्राजयंस्तस्मादाहुरुपसदा पुरं जयन्तीति यदहोपासते तेनेमां मानुषीं पुरं जयन्ति - ३.४.४.[४]

एताभिर्वै देवा उपसद्भिः । पुरः प्राभिन्दन्निमांल्लोकान्प्राजयंस्तथो एवैष एतन्नाहैवास्मा अस्मिँलोके कश्चन पुरः कुरुत इमानेवैतल्लोकान्प्रभिनत्तीमांल्लोकान्प्रजयति तस्मादुपसद्भिर्यजते - ३.४.४.[५]

ता वा आज्यहविषो भवन्ति । वज्रो वा आज्यमेतेन वै देवा वज्रेणाज्येन पुरः प्राभिन्दन्निमांल्लोकान्प्राजयंस्तथो एवैष एतेन वज्रेणाज्येनेमांल्लोकान्प्रभिनत्तीमांल्लोकान्प्रजयति तस्मादाज्यहविषो भवन्ति - ३.४.४.[६]

स वा अष्टौ कृत्वो जुह्वां गृह्णाति । चतुरुपभृत्यथो इतरथाऽऽहुश्चतुरेव कृत्वो जुह्वां गृह्णीयादष्टौ कृत्व उपभृतीति - ३.४.४.[७]

स वा अष्टावेव कृत्वो जुह्वां गृह्णाति । चतुरुपभृति तद्वज्रमभिभारं करोति तेन
वज्रेणाभिभारेणेमांल्लोकान्प्रभिनत्तीमांल्लोकान्प्रजयति - ३.४.४.[८]

अग्नीषोमौ वै देवानां सयुजौ । ताभ्यां सार्धं गृह्णाति विष्णव एकाकिनेऽन्यतरमेवाघारमाघारयति यं स्रुवेण प्रतिक्रामति वाऽउत्तरमाघारमाघार्याभिजित्या अभिजयानीति तस्मादन्यतरमेवाघारमाघारयति यं स्रुवेण - ३.४.४.[९]

अथाश्राव्य न होतारं प्रवृणीते । सीद होतरित्येवाहोपविशति होता होतृषदन उपविश्य प्रसौति प्रसूतोऽध्वर्युः स्रुचावादत्ते - ३.४.४.[१०]

स आहातिक्रामन्नग्नयेऽनुब्रूहीति । आश्राव्याहाग्निं यजेति वषट्कृते जुहोति - ३.४.४.[११]

अथाह सोमायानुब्रूहीति । आश्राव्याह सोमं यजेति वषट्कृते जुहोति - ३.४.४.[१२]

अथ यदुपभृत्याज्यं भवति । तत्समानयमान आह विष्णवेऽनुब्रूहीत्याश्राव्याह विष्णुं यजेति वषट्कृते जुहोति - ३.४.४.[१३]

स यत्समानत्र तिष्ठन्जुहोति । न यथेदं प्रचरन्त्संचरत्यभिजित्या अभिजयानीत्यथ यदेता देवता यजति वज्रमेवैतत्संस्करोत्यग्निमनीकं सोमं शल्यं विष्णुं कुल्मलं - ३.४.४.[१४]

संवत्सरो हि वज्रः । अग्निर्वा अहः सोमो रात्रिरथ यदन्तरेण तद्विष्णुरेतद्वै परिप्लवमानं संवत्सरं करोति - ३.४.४.[१५]

संवत्सरो वज्रः । एतेन वै देवाः संवत्सरेण वज्रेण पुरः प्राभिन्दन्निमांल्लोकान्प्राजयंस्तथो एवैष एतेन संवत्सरेण वज्रेणेमांल्लोकान्प्रभिनत्तीमांल्लोकान्प्रजयति तस्मादेता देवता यजति - ३.४.४.[१६]

स वै तिस्र उपसद उपेयात् । त्रयो वा ऋतवः संवत्सरस्य संवत्सरस्यैवैतद्रूपं क्रियते संवत्सरमेवैतत्संस्करोति द्विरेकया प्रचरति द्विरेकया - ३.४.४.[१७]

ताः षट् सम्पद्यन्ते । षड्वा ऋतवः संवत्सरस्य संवत्सरस्यैवैतद्रूपं क्रियते संवत्सरमेवैतत्संस्करोति - ३.४.४.[१८]

यद्यु द्वादशोपसद उपेयात् । द्वादश वै मासाः संवत्सरस्य संवत्सरस्यैवैतद्रूपं क्रियते संवत्सरमेवैतत्संस्करोति द्विरेकया प्रचरति द्विरेकया - ३.४.४.[१९]

ताश्चतुर्विंशतिः सम्पद्यन्ते । चतुर्विंशतिर्वै संवत्सरस्यार्धमासाः संवत्सरस्यैवैतद्रूपं क्रियते संवत्सरमेवैतत्संस्करोति - ३.४.४.[२०]

स यत्सायम्प्रातः प्रचरति । तथा ह्येव सम्पत्सम्पद्यते स यत्पूर्वाह्णे प्रचरति तज्जयत्यथ यदपराह्णे प्रचरति सुजितमसदित्यथ यज्जुहोतीदं वै पुरं युद्ध्यन्ति तां जित्वा स्वां सतीं प्रपद्यन्ते - ३.४.४.[२१]

स यत्प्रचरति तद्युध्यत्यथ यत्संतिष्ठते तज्जयत्यथ यज्जुहोति स्वामेवैतत्सतीं प्रपद्यते - ३.४.४.[२२]

स जुहोति । यया द्विरेकस्याह्नः प्रचरिष्यन्भवति या ते अग्नेऽयःशया तनूर्वर्षिष्ठा गह्वरेष्ठा उग्रं वचो अपावधीत्त्वेषं वचो अपावधीत्स्वाहेत्येवंरूपा हि सासीदयस्मयी हि साऽऽसीत् - ३.४.४.[२३]

अथ जुहोति । यया द्विरेकस्याह्नः प्रचरिष्यन्भवति या ते अग्ने रजःशया तनूर्वर्षिष्ठा गह्वरेष्ठा उग्रं वचो अपावधीत्त्वेषं वचो अपावधीत्स्वाहेत्येवंरूपा हि साऽऽसीद्रजता हि साऽऽसीत् - ३.४.४.[२४]

अथ जुहोति । यया द्विरेकस्याह्नः प्रचरिष्यन्भवति या ते अग्ने हरिशया तनूर्वर्षिष्ठा गह्वरेष्ठा । उग्रं वचो अपावधीत्त्वेषं वचो अपावधीत्स्वाहेत्येवंरूपा हि साऽऽसीद्धरिणी हि साऽऽसीद्यद्यु द्वादशोपसद उपेयाच्चतुरहमेकया प्रचरेच्चतुरहमेकया - ३.४.४.[२५]

अथातो व्रतोपसदामेव । पर उर्वीर्वा अन्या उपसदः परोऽह्वीरन्याः स यासामेकम्प्रथमाहं दोग्ध्यथ द्वावथ त्रींस्ताः परउर्वीरथ यासां त्रीन्प्रथमाहं दोग्ध्यथ द्वावथैकं ताः परोऽह्वीर्या वै परोऽह्वीस्ताः परउर्वीर्याः परउर्वीस्ताः परोऽह्वीः - ३.४.४.[२६]

तपसा वै लोकं जयन्ति । तदस्यैतत्परः पर एव वरीयस्तपो भवति परःपरः श्रेयांसं लोकं जयति वसीयानु हैवास्मिंल्लोके भवति य एवं विद्वान्परोऽह्वीरुपसद उपैति तस्मादु परोऽह्वीरेवोपसद उपेयाद्यद्यु द्वादशोपसद उपेयात्त्रींश्चतुरहं दोहयेद्द्वौ चतुरहमेकं चतुरहम् - ३.४.४.[२७]