शङ्करविजयः/पञ्चमस्सर्गः
अथ पञ्चमस्सर्गः
पृथ्वीं पृथ्वीं पर्यटन् भाष्यकारः
स्वेच्छाचारी शिष्यसङ्घैः परीतः ।
भाष्यं भाष्यं सन्दधानः स्वहस्ते
तीर्थं 1प्रापत्तीर्थकस्तीर्थमूर्तिः ॥ १ ॥
कलिन्दपुत्र्यास्सजलाभ्रकान्त्या
क्षीराभया जह्नतनूजया च ।
यत्राभवत्सङ्गतिरल्पपुण्यै-
स्सुदुर्लभा मुक्तिपदं जनानाम् ॥ २ ॥
गङ्गाप्रवाहै 2रवरुद्धवेगा
कलिन्दकन्या स्तिमितप्रवाहा ।
अपूर्वसख्या गतलज्जयेव
यत्राधिकं भाति विचित्रपाथाः ॥ ३ ॥
ब्रह्मादयोऽप्यभिमतप्रतिपादशक्ता
यत्रायजन्त पुरुषार्थविशेषसिद्ध्यै ।
अद्यापि यत्र यजनं प्रथितं प्रशस्तं
यस्य प्रयाग इति नाम बभूव लोके ॥ ४ ॥
यत्राप्लुता दिव्यशरीरभाज
आचन्द्रतारं दिवि भोगजातम् ।
संभुञ्जते 3व्याधिकथानभिज्ञाः
प्राहेममर्थं श्रुतिरेव साक्षात् ॥ ५ ॥
1का. प्राप्तस्तीर्थकः । 2अ. उपरुद्धवेगा; का. उपगूढवेगा ।
3का. तेऽत्त्यादिकथा ।
Sankara-4Aभवान्तरोपार्जितपुण्यपूरैर्यत्प्राप्य देहं जहतीह देहिनः ।
बुद्ध्यैव ते ब्रह्मपदं लभन्ते प्राहेममर्थं श्रुतिरेव साक्षात् ॥ ६ ॥
कूपे स्नानं माघमासे प्रशस्तं
तस्माच्छस्तं पुष्करिण्यां ततोऽपि ।
कुल्यास्नानं निम्नगायां ततः स्यात्
यत्र स्नानान्नाधिकं किञ्चिदस्ति ॥ ७ ॥
यत्र मज्जति महामना गले
वालुकाभिरभिपूर्य 1पठं यः ।
सङ्कलय्य समुपैति तमर्थं
यं न्यधाद्धदि पुरार्थितमर्थम् ॥ ८ ॥
सस्नौ प्रयागे सह शिष्यसङ्घै-
स्स्वयं कृतार्थो जनसङ्ग्रहार्थी ।
अस्मारि मातापि च या पुपोष
दयारसा दुःखमसोढ भूरि ॥ ९ ॥
ततस्तुषाग्रौ शयितं महान्तं
स भट्टपादं 2समलोचताग्रे ।
शिष्यैः परीतं ज्वलदग्निकल्पं
जुगोप यो वेदपथं जितारिः ॥ १० ॥
अदृष्टपूर्वं श्रुतपूर्ववृत्तं दृष्ट्वातिमोदं स जगाम भट्ट: ।
अचीकरच्छिष्यगणैस्सपर्यामुपाददे तामपि देशिकेन्द्रः ॥ ११ ॥
1अ घटं । 2अ. दधार था ।
3का. समलोकत ।उपात्तभिक्षः परितुष्टचित्तः प्रदर्शयामास स भाष्यमस्मै ।
सर्वो निबन्धो ह्यमलोऽषि लोके शिष्टेक्षितस्सञ्चरणं प्रयाति ॥ १२ ॥
दृष्ट्वा भाष्यं हृष्टचेताः कुमारः 1प्रोचे वाचं शङ्करं देशिकेन्द्रम् ।
लोके ह्यलवो मत्सर 2ग्रासशाली सर्वज्ञौ तौ नाल्पभावस्य पात्रम् ॥ १३ ॥
अष्टौ सहस्राणि विभान्ति 3विद्वन्
सद्वार्तिकानं प्रथमेऽत्र भाष्ये ।
अहं यदि स्यामगृहतदीक्षो
ध्रुवं विधास्ये सुनिबन्धमस्य ॥ १४ ॥
भवादृशां दर्शनमेव लोके
विशेषतोऽस्मिन्समये दुरापम् ।
पुरार्जितैः पुण्यचयैः कथञ्चित्
त्वमद्य मे दृष्टिपथं 4गतोऽसि ॥ १५ ॥
असारसंसारपयोधिमध्ये
5निमज्जतां सद्भिरुदारवृत्तेः ।
भवादृशैस्सङ्गतिरेव साध्या
नान्यस्तदुत्तारविधावुपाय ॥ १६ ॥
चिरं दिदृक्षे भगवन्तमीड्यं
त्वमेव दैवेन समागतोऽभूः ।
न ह्यत्र संसारपथे नराणां
स्वेच्छाविधेयोऽभिमतेन योगः ॥ १७ ॥
युनार्क्त कालः क्वचिदिष्टवस्तुना
क्वचिच्वनिष्टेन च नीचवस्तुना ।
1का प्रोवाचैवं । 2अ. ग्राम ।
3अ. यद्वत् । 4अ. गताेऽभूः
5अ. निमज्जता ।तथैव संयोज्य वियोजयत्यसौ
सुखासुखे कालकृते 1ह्युपैत्यसौ ॥ १८ ॥
कृतो निबन्धो निरणायि पन्था
न्यरासि नैयायिकयुक्तिजालम् ।
तथान्वबभूवं विषयार्थजातं
न कालमेनं परिहर्तुमीशे ॥ १९ ॥
निरास्थमीशं श्रुतिलोकसिद्धं
श्रुतेरस्वतो मात्वमुदाहरिष्यन् ।
न निह्नुवे येन विना प्रपञ्चः
सौख्याय कल्पेत न जातु विद्वन् ॥ २० ॥
तथागताक्रान्तमभूदशेषं
स वैदिकोऽध्वा विरलीबभूव ।
परीक्ष्य तेषां विजयाय मार्गं
प्रावर्तिषि त्रातुमानाः पुराणम् ॥ २१ ॥
सशिष्यसङ्घाः प्रविशन्ति राज्ञां
गेहं तदादानीं स्ववशे विधातुम् ।
जैना मदीया जनमस्मदी
तदाद्रियध्वं न तु वेदमार्गम् ॥ २२ ॥
वेदोऽप्रमाणं बहुमानबाधात्
परस्परव्याहृतवाचकत्वात्
एवं वदन्तो विचरन्ति लोके
न 2काचिदेषां प्रतिपत्तिरासीत् ॥ २३ ॥
अवेदिषं वेदविघातदृश्वा
तन्नाशकं जेतुमबुध्यमानः ।
तदीयसिद्धान्तरहस्यमर्थं
निषेध्यबोधाद्धि निषेधबोध ॥ २४ ॥
1का .प्रवेद्भ्यतः । 2क. कश्चिदेषां प्रतिपक्ष आसीत् ।
यदा तदीयं शरणं प्रपन्न-
स्सिद्धान्तमश्रौषमनुद्धतात्मा ।
अंददुषद्वैदिकमेव मार्गं
तथागते जातु कुशाग्रबुद्धिः ॥ २५ ॥
तदापतन्मे सहसास्र 1बिन्दु-
स्तच्चाविदुः पार्श्वनिवसिनोऽन्ये ।
तदा प्रभृत्येव विवेश शङ्का
मय्याप्तभावं परिहृत्य तेषाम् ॥ २६ ॥
2विपक्षचोदी बलवान् द्विजातिः
प्रत्यादिशेद्दर्शनमस्मस्मदीयम् ।
उच्चाठनीयः कथमप्युपा3या-
नैतादृशः स्थापयितुं हि योग्यः ॥ २७ ॥
समन्त्र्य चेत्थं कृतनिश्चयास्ते
4वाचावरा हिंसनवादशीलाः ।
व्यपातयन्नञ्चतराप्रमत्तं
मामग्रसौघाद्विनिपातभीरुम् ॥ २८ ॥
पतन्पतन् 5सौधतलादरूरुवं
यदि प्रमाणं श्रुतयो भवन्ति ।
जीवेयमस्मिन्पतितस्समस्थले
मज्जीवनेन 6श्रुतिमानतागतिः ॥ २९ ॥
यदीति सन्देहपदप्रयोगात्
व्याजेन शास्त्रश्रवणाच्च हेतोः ।
ममोच्चदेशात्पततो व्यनाङ्क्षीत्
7तदैव चक्षुर्विधिकल्पना सा ॥ ३० ॥
1अ. श्रु । 2अ. पाटी का पाती ।
3क. उपायैः। 4अ. परा ।
5क. तलान्यरूरुवम् । 6अ. मानिता; क. श्रुतिमानसा ।
7अ. तदैक का यदेक ।एकाक्षरस्यापि गुरुः प्रदाता
शास्त्रोपदेष्टा किमु भाषणीयम् ।
अहञ्च सर्वज्ञगुरोरधीत्य
प्रत्यादिशं 1स्तञ्च गेरुं महागः ॥ ३१ ॥
तस्मादहं तत्परिहारहेतो-
श्शये मुमूर्षुस्तुषवह्निमृले ।
यदीह किञ्चित्समयं व्यतीत्य
त्वमागमिष्ये न भवामि भिक्षो ॥ ३२ ॥
प्रायश्चित्तं जानता पण्डितेन
प्रायश्चित्तं दोषजातस्य कार्यम् ।
नो चेद्दोषो यान्तमेवानुगच्छेत्
बाधेतैनं 2सर्वथा सर्वचित्तम् ॥ ३३ ॥
भगवन्प्रवदाभ्युपायमेकं
भवतो भाष्यनिबन्धने स्फुटम् ।
मगधेषु वसन् ममास्ति शिष्य-
स्स तु तस्मै प्रभवत्यसंशयम् ॥ ३४ ॥
3सदा वदन्योगपदञ्ज सांप्रतं
स विश्वरूपः प्रथितो महीतले ।
महागृही वैदिककर्मतत्परः
प्रवृत्तिशास्त्रे निरतस्स कर्मठः ॥ ३५ ॥
निवृत्तिशास्त्रे न कृतादरः स्वयं
केनाप्युपायेन वशं स नीयताम् ।
वशे गते तत्र भवेन्मनोरथ-
स्तदन्तिकं गच्छतु मा चिरं भवान् ॥ ३६ ॥
1क. प्रत्यादिशं तेन गुरुर्महागः । 2अ. सर्वदा ।
3अ. गदावदादोगदपत्रे । (?); का. गदावताद्यगप चदो ।एतावदुक्त्वा विरराम शङ्करं
स भट्टनामा मरणाय दीक्षितः ।
तत्पार्श्ववर्ती विदितार्थसङ्ग्रह-
स्स मण्डनाख्योऽभिजगाम शङ्करम् ॥ ३७ ॥
निवसति स तु नित्यं यस्य वाणीसरोजे
निपतति कविभृङ्गो यत्र संमाननार्थी ।
परिसरति दिशो यद्वादिवर्गः प्रभग्नो
विहरति परिपुष्टो बन्धुवर्गश्च येन ॥ ३८ ॥
गुरुर्गरीयानपि वित्तहीनो
विद्यासु वृद्धोऽपि गुरुप्रदीपः ।
अयं 1कुरूपी गुरुनित्यवासी
गुरुं विपत्तावपि नो जहाति ॥ ३९ ॥
2गमित एष जनोऽद्य महात्मनो
भगवतस्तव पादसरोरुहम् ।
कुरु दृशं कुपयेति समीपगः
3श्रुतवचास्सहसा स ददौ करम् ॥ ४० ॥
4त्रिमुनिवारमसावपिबज्जलं
रवमयं मुनिवक्त्रबिलोद्भवम् ।
इति मया पुर एव श्रुतोऽप्ययं
नयनगोचरतामधुना गतः ॥ ४१ ॥
इति वचस्सुधयाप्यभिषिक्तवान्
मुनिवरो गृहमेधिशिरोमणिम् ।
5विदितवेद्यमनुद्धतभाषिणं
मुनिजैनरभिवन्द्यपदाम्बुजः ॥ ४२ ॥
1अ. गुरुश्रीः; का. गुरुप्रीः । 2अ. नमित ।
3क. सहसास्य । 4कं. त्रिमुनिसारमसावपि तज्जलं ।
5वितत ।अथ गिरं गृहिराज उपाददे
मम जनिस्सफला भवदीक्षणात् ।
न खलु लोचनमाश्रयते फलं
1घटपठादिभिरीक्षणमात्रतः ॥ ४३ ॥
भवादृशैस्सङ्गतिरेव नो गति-
र्गृहे स्थितानां सुतदारपोषिणाम् ।
2क्रमेण मोक्तुं भवदीयसेवना-
मतो गृहीत्वार्हसि मामितोऽटितुम् ॥ ४४ ॥
एवं वादिनि मण्डने मृदुमनाः प्रोचे दयालिङ्गितः
श्रुत्याचोदितकर्म एव तनुयास्तेनान्तरं शुद्ध्यति ।
शुद्धेऽन्तःकरणे परिस्फुरति तत् सौख्यात्मकं ब्रह्म ते
शुद्धे दर्पणमण्डले मुखमिव स्वात्मप्रभं सर्वगम् ॥ ४५ ॥
त्यक्त्वा मण्डन भेदगोचरधियं मिथ्याभिमानात्मिका-
मद्वैते भव निष्ठतो मम वचस्ते रोचते यद्यदः ।
तीर्त्वा संसृतिवारिधिं परपदे ज्ञानप्लवारोहणात्
पारे स्थास्यसि निर्वृतस्सुखमये संसार3वार्तोज्झिते ॥ ४६ ॥
एवमेनमनुनीय सत्पदै-
र्ब्रह्मवादनपरैर्गुरुवर्यः ।
मण्डनं निजपदे स्थिरभक्तिं
संविधाय गमनाय मनोऽधात् ॥ ४७ ॥
त्राद्धा महिमा प्रयागविषयो भट्टेडिताचार्ययो-
स्संवादेऽप्यघनोदनो निजगदे व्यावर्णितं सौगतम् ।
ास्त्रस्य श्रवणं विजेतुमपि तान् व्यासाद्रिसंप्रोदिते
श्रीमच्छङ्करदेशिकेन्द्रविजये सर्गोऽगमत्पञ्चमः ॥ ४८ ॥
॥ इति श्रीशङ्करविजये व्यासाचलीये पचंमस्सर्गः ॥
1अ. क्षण । 2अ. क्षमे न । 3का. वातो ।