शङ्करविजयः/चतुर्थस्सगः
अथ चतुर्थस्सगः ।
एवं फलप्रद1मुनीश्वरमीश्वराणा-
मीशं 2भजाव किमितस्सकलार्थसिद्ध्यै ।
तत्रोपमन्युमहिमा परमं प्रमाणं
नो देवतासु जडिमा जडिमा मनुष्ये ॥ १ ॥
एवं कलत्रवचनं स निशम्य 3भक्त्या
सम्पूजनाय गिरिशस्य मनो दधार ।
सा तस्य दुश्चरतपश्चरणोद्यतस्य
तत्रानुकूल्यमकरोद्गृहवाटिकायाम् ॥ २ ॥
तस्योपधाम किल सन्निहितापगैका
स्नात्वा सदाशिवमुपास्त जले स तस्याः ।
कन्दाशनः कतिचिदेव दिनानि पूर्वं
पश्चात्तदाऽऽस शिवपादयुगाब्जभृङ्गः ॥ ३ ॥
जायापि तस्य विमला नियमोपतापै-
श्चिक्लेश कायमनिशं शिवमर्चयन्ती ।
क्षेत्रे वृषस्य निवसन्तमलं सुतार्थं
कालोऽत्यगादति4 तयोस्तपतोरनेकः ॥ ४ ॥
देवः कृपापरवशो द्विजवेषधारी
प्रत्यक्षतश्शिवगुरुं गत आत्तनिद्रम् ।
प्रोवाच भोः किमभिवाञ्छसि किं तपस्ते
पुत्रार्थितेति वचनं स जगाद विप्रः ॥ ५ ॥
1अ. मपीश्वर । 2क. भजाव कमितः ।; का. भवाय किमतः।
3अ. कर्ता । का. भर्ता । 4 अ. °दिति ।देवोऽप्यपृच्छदथ तं द्विजसिद्ध सत्यं
सर्वज्ञमेकमपि सर्वगुणोपपन्नम् ।
पुत्रं ददन्यथ बहून् विपरीतकांस्ते
भूयोयुषस्तनु 1गुणानवदद्द्विजेशः ॥ ६ ॥
पुन्नोऽस्तु मे बहुगुणः प्राथितानुभावः
सर्वज्ञतापदमितीरित आबभाषे ।
दद्यामुदीरितपदं तनयं तपो मा
पूर्णो भविष्यसि गृहं द्विज गच्छ दारैः ॥ ७ ॥
आकर्णयन्निति बुबोध स विप्रवर्य-
स्तञ्चाब्रवीन्निजकलत्रमनिन्दितात्मा ।
स्वप्नं शशंस 2वनितामणिरस्य भार्या
सत्यं भविष्यति तु नौ तनयो महात्मा ॥ ८ ॥
तौ दम्पती शिवपरौ नियतौ स्मरन्तौ
स्वप्नेक्षितै गृहगतौ बहुदक्षिणान्नैः ।
सन्तर्प्य विप्रनिकरं तदुदीरिताभि-
राशीर्भिरापतुरनल्पमुदं विशुद्धौ ॥ ९ ॥
तस्मिन्दिने शिवगुरोरुपयोक्ष्यमाणे
भक्ते प्रविष्टमभवत्किल शैवतेजः ।
मुक्तान्नविप्रवचनादुपयुज्य3 शेषं
सोऽभुङ्क सापि निजभर्तृपदाब्जभृङ्गी ॥ १० ॥
गर्भं दधार शिवगर्भमसौ मृगाक्षी
गर्भोऽप्यवर्धत शनैरभवच्छरीरम् ।
4तेजोविशेषविनिपातितदृष्टिपातं
विश्वं रवेदिवसमद्य इवोग्रतेजः ॥ ११ ॥
1का. गुणान्वद तद्दिजेश । 2का. मुदितास्य ।
3अ. उपयुक्तशेषं ।
4अ. तेजोऽतिरेकविनिवारित ।; का. तेजोऽतिरेकविनिवर्तित ।गर्भालसा 1गतवती गतिमान्द्यमीष-
2दापेति नाद्भुतमिदं धरते शिवं या ।
यो विष्टपानि बिभृते हि चतुर्दशापि
यस्यापि मूर्तय इमा वसुधाजलाद्याः ॥ १२ ॥
संव्याप्तवानपि शरीरमशेषमेव
3नोपास्थिमाविरसकामकृतात्र 4काश्चेत् ।
यत्पूर्वमेव महसा दुरतिक्रमेण
व्याप्तं शरीरमदसीयममुष्य हेतोः ॥ १३ ॥
रम्याणि गन्धकुसुमान्यपि गर्धमस्यै
नाधातुमैशत 5भरात् किमु भूषणानि ।
यद्यद्गुरुत्वपदमस्ति पदार्थजातं
6तत्तद्विधारणविधावलना बभूव ॥ १४ ॥
तां दौहृदं भृशमबाधत 7दुश्शरारिः
8प्रेतः परः किल न मुञ्चति 9मुञ्चतेऽपि [?] ।
10आनीय दुर्लभमपोहति याचतेऽन्यत्
11तद्वाप्यपोह्य पुनरर्दति सान्यवस्तु ॥ १५ ॥
तां बन्धुतागमदुपाश्रितदोहदार्ति-
मादाय दुर्लभमनर्घ्यम 12पूर्ववस्तु ।
आस्वाद्य बन्धुजनदत्तमसौ जहर्ष
हा हस्त गर्भधरणं खलु दुःखहेतुः ॥ १६ ॥
1अ. भगवती । 2का. दाप्नोति ।
3अ. वा ।; क. स्थिताविरस ।; का पास्थिमासुरधिकात्र ।
4अ. काचित् । 5का. पुनः ।
6क. कतत्तद्धि धारण । 7अ. दुःशठारिः ।
8अ. प्रातः ।; का. पूतः । 9का. ऽस्ति |
10अ. आनींत । 11का तञ्चाष्यवाप्य
12का. पूपवस्तु ।उक्ष्णा निसर्गधवलेन महयसा 1सा
चात्मानमैक्षत समूढमुपात्तनिद्रा ।
सङ्गीयमानमपि गीतविशारदाद्यै-
र्विद्याधरप्रभृतिभिर्विनयोपयातैः ॥ १७ ॥
2आकर्णयन् जय जयेति वरं दधाना
रक्षेतिशब्दमवलोकय मादृशेति ।
3आकर्ण्य नोत्थितवती पुनरुक्तशब्दं
सा विस्मिता किल शृणोति निरीक्षमाणा ? ॥ १८ ॥
मानुष्यधर्ममनुसृत्य मयैतदुक्तं
काऽपि व्यथा शिवमहोधरणेन वध्वाः ।
सर्वव्यथास्यतिकरं 4प्रतिकर्तुकामाः
देवं भजन्त इति तच्वविदां प्रवादः ॥ १९ ॥
लग्ने शुभे शुमयुते सुषुवे कुमारं
श्रीपार्वतीव सुखिनी शुभवीक्षिते च ।
जाया सती शिवगुरोर्निजतुङ्गसंस्थे
सूर्ये कुजे रवियुते च गुरौ च केन्द्रे ॥ २० ॥
दृष्ट्वा सुतं शिवगुरुः शिववारिराशौ
मग्नोऽपि धर्ममनुसृत्य जले न्यमाङ्क्षीत् ।
5व्यश्राणयत् बहुधनं वसुधाञ्च गाश्च
जन्मोक्तकर्म विदधे द्विजपुङ्गवेभ्यः ॥ २१ ॥
तस्मिन्दिने मृगतरक्षुकरीन्द्रसिह्म-
सर्पाखुमुख्यवहुजन्तुगणा द्विषन्तः ।
वैरं विहाय सह चेरुरतीव हृष्टाः
कण्डूमपाकृषत साधु मिथो निघुष्टाः ॥ २२ ॥
1अ. असावात्मान । 2अ. आकर्णयत् ।
3अ. आकर्णितोत्थितवती । 4अ. परिहर्तु ।
5का. विश्राणयन् ।वृक्षा लताः कुसुमराशिफलान्यमुञ्चन्
नद्यः प्रसन्नसलिला निखिलास्तदैव ।
जाता जहुर्जलघयोऽपि निजं विकारं
भूभृद्गणादपि जलं सहसोत्पपात ॥ २३ ॥
1अद्वैतवादिविपरीतमतावलम्बि-
2हस्ताग्रवर्तिवस्पुस्तकमप्यकस्मात् ।
उच्चैः पपात जहसुः श्रुतिमस्तकानि
श्रीव्यासचित्तकमलं विकचीबभूव ॥ २४ ॥
सत्कारपूर्वमनुयुक्तमुहूर्तवेदि-
विप्राश्शशंसुरभिवीक्ष्य सुतस्य जन्म ।
सर्वज्ञ 3एष भविता रचयिष्यते च
शास्त्रं स्वतन्त्रमथ 4वागाधपांश्च जेता ॥ २५ ॥
कीर्तिं स्वकां भुविं विधास्यति यावदेष
किं 5वोदितेन बहुना शिशुरेष पूर्णः ।
6नापृच्छि जीवितमनेन च तैर्न चोक्तं
प्रयो विदन्नपि न वक्ति मनोनिरोधि ॥ २६ ॥
तज्ज्ञातिबन्धुसुहृदिष्टजनाङ्गनास्ता-
स्तं सूतिकागृहनिविष्टमथो निदध्युः ।
सोपायनास्तमभिवीक्ष्य यथा निदाघे
चन्द्र क्षुदं ययुरतीव सरोजवक्त्रम् ॥ २७ ॥
7तत्सूतिकागृहमवेक्ष्य तनुप्रदीप्तं
तत्तेजसा यदवभातमभूत् क्षपायाम् ।
आश्चर्यमेतदजनिष्ट समस्तजन्तो-
स्तन्मन्दिरं वितिमिरं यदभूददीपम् ॥ २८ ॥
1अ. वाद । 2क. पर ।
3का एव । 4का. वागधिपां च ।
5अ. चोदितेन । 6का. पृष्टं न ।
7अ. अवैक्षत न प्रदीपम् ।यत्पश्यतां शिशुरसौ कुरुते शमम्यं
तेनाकृतास्य जनकः किल शङ्कराख्याम् ।
यद्वा चिराय किल शङ्करसम्प्रसादात्
जातस्ततो व्याधित शङ्करनामधेयम् ॥ २९ ॥
सर्वं विदन् सकलशक्तियुतोऽपि बालो
मानुष्य 1जातिमनुकृत्य चचार तद्वत् ।
बालश्शनैर्हसितुमारभत क्रमेण
2सृप्तुं शशाक गमनाय पदाम्बुजाभ्याम् ॥ ३० ॥
भाषामवेत्प्रथमहायन एव बालः
वर्णान्पपाठ किल हायनके द्वितीये ।
ग्रस्ताक्षराण्यपि स वाचयितुं प्रगल्भः
काव्यं पुराणमितिहासकथाः पपाठ ॥ ३१ ॥
कर्माणि तस्य जनकः 3श्रुतिचोदितानि
कुर्वञ्जरन्नपि तुतोष सुतेन्द्रदृश्वा ।
तं 4पश्चमाब्द उपनेतुमनास्स एव
पञ्चत्वमाप दुरतिक्रम 5एष कालः ॥ ३२ ॥
आलोक्य वल्लभर्मृतिं करुणं सबाला
वृद्वा रुरोद विललाप च भर्तृशोकात् ।
हा हन्त नाथ शिशुमध्वनि 6मुञ्चमानः
गन्तुं क्व वा समभिवाञ्छसि देहि वाचम् ॥ ३३ ॥
कृच्छ्रेण लब्धशिशुरेष चिरं स जीवेत्
मावाथयान्तमनुयामि भवन्तमद्य ।
बालं विमुच्य जरतीमपि मां प्रियाद्य
यातस्य कि 7नु सफलं वद देहि दृष्टिम् ॥ ३४ ॥
1अ. मनुसृत्य । 2का. स्नप्तुं ।
3अ. बोधितानि । 4अ. मुपनेतुं ।
5का. एव । 6का. मां च मुक्त्वा ।
7अ. किं तव फलं ।तां बन्धुताभ्यधित कालवशं प्रयान्तीं
सन्तोऽपि कालमतिलङ्घयितुं न तेऽपि ।
शक्तास्ततो जरति बालमिमं निसर्गात्
प्राज्ञं प्रपाहि कुरु संस्कृतिमस्य शीघ्रम् ॥ ३५ ॥
कश्चिन्मृतिं व्रजति कश्चन जायतेऽस्मि-
न्संसारमार्ग इति कल्पितकल्पनेयम् ।
तस्मान्न शोच्यमनघ गृहरक्षिका स्या
वालेन साकमधुन त्यज शोकमेनम् ॥ ३६ ॥
एवं स्वबन्धुगदिता 1स्वयमुत्ससर्ज
संस्कारमात्मकमितुः श्रुतिदृष्टमार्गात् ।
साचीकरत्सतनया स्वहितैस्सपिण्डैः
2श्राद्धादि कर्म च सदीक्षमनुक्रमेण ॥ ३७ ॥
दीक्षां समाप्य विधिवत्किल पञ्चमाब्दे
3सौम्ये मुहूर्त उपनीतिमचीकरत्सा ।
बालस्य गृह्यविधिनां श्रुतिषु प्रवीणैः
स्वैर्ब्राह्मणानपि ततर्प विचित्रभोज्यैः ॥ ३८ ॥
स ब्रह्मचर्यमनुरुध्य निजं स्ववेद-
मध्यैष्ट वेदमपरं तदनु क्रमेण !
एवं गुरोः पठितवांश्चतुरोऽपि वेदान्
तन्मूलमस्य कथयन्ति यजुस्समाख्यम् ॥ ३९ ॥
माता क्रमेण जरती व्यठितुं न शक्ता
स्नानादि कर्म न विमुञ्चति सा तथापि ।
ईषद्विदूरगनदीं किल शङ्करोऽसा-
वात्मीयमन्दिरसमीपगतां व्यधत्त ॥ ४० ॥
1अ. कथिता । 2अ. सम्यङ् ।
अद्यापि केरलजनास्समुदीरयन्ति
स्रोतस्विनीं बहुजवां विधुताघपुञ्जाम् ।
अम्बापगेति 1यदियं तनयेन मातु-
स्सौख्यार्थमात्मनिलयान्तिकगा 2व्यधत्त ॥ ४१ ॥
सा शङ्करस्य शरणं स च तज्जनन्या
अन्योन्ययोगविरहस्त्वनयोरसह्यः ।
नोद्वोढमिच्छति तथाप्यमनुष्यभावा-
न्मेरुं गतः किमभिवाञ्छति दुष्प्रदेशम् ॥ ४२ ॥
प्रातश्च सायमपि मज्जनमत्र बालो
नादेयवारिणि करोति स सर्वकालम् ।
स त्वेकदा जलमगाहत मङ्क्तुकाम-
स्तञ्चाग्रहीज्जलचरः किल तीक्ष्णदंष्ट्रः ॥ ४३ ॥
भक्तोऽपि मातरि स संन्यसनं 3चिकीर्षन्
स्रोतस्विनीजलगनक्रगृहीतमाख्यत् ।
आत्मानमक्षततनुं जननीति शोचन्
साप्यागता परवशा स्थितदेहमात्रा ॥ ४४ ॥
साऽब्रूत किं सुत विरोदिषि सोऽभ्यधात्तां
नक्रोऽम्ब मां नयति तीब्रतनुर्बलाढ्यः ।
प्रणान्विधारयितुमुत्सह एव नाद्य
सन्न्यासवेषकरणे मम जीवितं स्यात् ॥ ४५ ॥
सन्यासमेकतनया तनयं कथञ्चि-
न्नो कारयेत 4जननी तदपीह माता ।
सर्वात्मना नशनतो न्यसनं वरं मे
तस्मिस्तु लोचनयुगे न हि दर्शनं स्यात् ॥ ४६ ॥
1अ. यदिमां तनयः स्वमातुः । 2अ. कगां ।
3अ. चिकीर्षुः । 4का. जगतीह न कापि माता ।आलोच्य सा तनयसन्न्यसनाय बुद्धिं
चक्रे ततोऽभ्यधित सन्न्यसनं कुरुष्व ।
सन्यस्तमित्यभिदधौ वचनं तदानीं
नद्यास्तटं सुखमवाप स नक्रमुक्तः ॥ ४७ ॥
उक्त्वा मुमूर्छ जननी पतिता क्षितौ सा
तां चाभिषिच्य पयसा समजीवयत्सः ।
प्रोवाच मा जननि शोकवशं गता भू
वक्ष्याम्युपायमनघे तव रक्षणाय ॥ ४८ ॥
मातर्विधेयमनुशाघि यदत्र कार्यं
सन्या1सिना तदु करोमि न 2सन्दिहेऽहम ।
वस्त्राशने तव यथेष्टममी प्रदद्यु-
र्गृण्हन्ति ये धनमिदं मम पैतृकं यत् ॥ ४९ ॥
देहेऽम्ब रोगवशगे च सनाभयो मे
द्रक्ष्यन्ति शक्तिमनुसृत्य मृतिप्रसङ्गे ।
अर्थग्रहाज्जनभयाञ्च यथावधानं
कुर्युश्च संस्कृतिममी 3न च भेयमीषत् ॥ ५० ।।
यज्जीवितं जलचरस्य मुखात्तदिष्टं
संन्यास 4सङ्गरवशान्मम 5देहपाके ।
संस्कारमेत्य विधिवत्कुरु शङ्कर त्वं
नो चेत्प्रसूय मम किं फलमीरय त्वम् ॥ ५१ ॥
अह्व्यम्ब रात्रिसमये समयान्तरे वा
सञ्चिन्तय स्ववशगाऽवशगाऽथवा माम् ।
एष्यामि तत्र समये सकलं विहाय
विश्वासमाप्नुहि मृतावपि संस्करिष्ये ॥ ५२ ॥
1अ. संन्यासिनां । 2अ. संशयीऽत्र ।
3अ. नविमेयमीषत् । 4अ. सङ्कर ।
5अ. पाते ।संन्यस्तवान् शशुरयं विधवामनाथां
क्षिप्त्वेति मां पथि कदापि न चिन्तनीयम् ।
यावन्मया स्थितवता फलमापनीयं
मातस्ततश्शतगुणं फलमापयिष्ये ॥ ५३ ॥
इत्थं स मातरमनुग्रहणेच्छुरुक्त्वा
प्रोचे सनाभिजनमेष विचक्षणाव्रयः ।
संन्यासकल्पितमना ब्रजितास्मि दूरं
तां निक्षिपामि जननीमधुना भवत्सु ॥ ५४ ॥
एवं सनाभिजनमुत्तममुत्तमाग्र्यः
श्रीमातृकार्यमभिभाष्य करद्वयेन ।
संप्रार्थ्य तां स्वजननीं विनयेन तेषु
निक्षिप्तवान् 1स नयनाम्बु विमुञ्चमानाम् ॥ ५५ ॥
आत्मीयमन्दिरगतां2 भयदामसौ यत्
चक्रे विदूरगनदीं जननीहिताय ।
तत्तीरसंश्रितयद्द्वहधाम किञ्चिन्
सा निम्नगाऽऽरप्रत ताडयितुं तरङ्गैः ॥ ५६ ॥
वर्षासु वर्षति हरौ जलमेत्य किञ्चि-
दन्तः पुरं भगवतोऽपनुनोद मृत्स्ना ।
आरब्घमूर्तिरनघश्चलितुं क्रमेण
3देवो विभेदिव न मुञ्चति मीर्हि साङ्गम् ॥ ५७ ॥
प्रस्थातुकामम4नसं भगवननङ्ग-
वाचावदत्कथमपि प्रणि5पत्य मातुः ।
पादारविन्दयुगलं परिगृह्य चाज्ञां
श्रीशङ्करं जनहितैक6रतं स कृष्णः ॥ ५८ ॥
1अ. नयनजाम्बु । 2अ. समीपगतां यदासौ ।
3का. देवेऽविमेदिव । 4अ. अनघं ।
5अ. प्रतिपत्य । 6 अ. रसं ।आनेष्ट दूरगनदीं कृपया भवान्यां
सा मातिमात्रमनिशं बृहुलोर्मिहस्तैः ।
क्लिश्नाति ताडनपरा वद कोऽभ्युपायो
वस्तुं 1क्षमो न नितरां द्विजपुत्र याति ॥ ५९ ॥
आकर्ण्य वाचमिति तामतनुं गुरुर्नः
प्रोद्धृत्य कृष्णमचलं शनकैर्भुजाभ्याम् ।
प्रातिष्ठिपन्निकट एव स यत्र बाधा
नाभ्येत्युदीर्य सुखमास्व चिरायुरेधि ॥ ६० ॥
तस्मात्स्वमातुरपि भक्तिवशादनुज्ञा-
मादाय 2संसृतिमहाब्धिविरक्तिभाक् सः ।
गन्तुं मनो व्यधित संन्यसनाय दूरं
किं नौस्थितः पतितुमिच्छति वारिराशौ ॥ ६१ ॥
3प्रायाद्गृहात्स्थिरमना मुदितोऽप्रकम्प्य-
स्तुर्याश्रमे कृतमनाः किल दूरदेशम् ।
गोविन्दनाथमुनिमेत्य महानुभाव
संन्यासगृह्यविधिना विरजन् भवेऽस्मिन् ॥ ६२ ॥
व्यासः पराशरसुतः किल सत्यवत्यां
तस्यात्मजश्शुकमुनिः प्रथितानुभावः ।
तच्छिप्यतामुपगनः किल गौडपादो
गोविन्दनाथमुनिरस्य च शिष्यभूतः ॥ ६३ ॥
शुश्राव तस्य निकटे किल शास्त्रजालं
यश्चाश्रुणोद्भुजगसद्मगतस्त्वनन्तात् ।
शब्दाम्बुराशिमखिलं समयं विधाय
यश्चाखिलानि भुवनानि बिभर्ति मूर्ध्ना ॥ ६४ ॥
1क. क्षमे न । 2अ. विरक्तिमान् सः ।
3अ. गत्वा ।श्रीशङ्करोऽष्टमसमश्चतुरोऽपि वेदान्
स द्वादशे सकलशास्त्रकलामवाप ।
संव्याप देशनिचयं निगमप्रसून
सच्छास्त्रसद्विठपकोऽमितशाकपूर्णः1 ॥ ६५ ॥
तीर्थानि सेवितुमनास्स 2ययावुदीचीं
काष्ठां क्षणेन बदरीं 3मुनिसङ्घजुष्टाम् ।
संप्राप तत्र च दिनानि वहून्यवात्सी
द्विद्वज्जनैर्बहुविधैरुपसेव्यमानः ॥ ६६ ॥
श्रीशङ्कराचार्यगभस्तिमाली
श्रीव्याससूत्राम्बुजकुड्मलानि ।
वेदान्तकासारसमुद्भवानि
प्राबूबुघद्ब्रह्ममधुव्रतानि ॥ ६७ ॥
श्रीशङ्कराचार्यरवावुदेत्य
प्रकाशमाने कुमतिप्रणीताः ।
5त्याख्यान्धकाराः प्रलयं समीयु-
र्दुर्वादिचन्द्राः प्रभया वियुक्ताः ॥ ६८ ॥
श्रीशङ्कराचार्य दिवाकरेण
प्रकाशितास्सूत्रपयोजषण्डाः ।
बमौतरा व्यासमुनिस्तटाको
वेदान्त5विद्यो विनिगूढवर्यः ॥ ६९ ॥
आत्मीयसूत्रनिकरस्य 6निबद्धभाष्यं
श्रुत्वा पराशरसुतो मुनिराजगाम ।
दृष्ट्वा मिथो8ऽप्यतनुनामुचितां सपर्यां
तं स्माह शङ्करमुनिर्मुदितो यतीन्द्रः ॥ ७० ॥
1अ. शङ्करद्रुः । 2अ. ययावुदीचीकाष्ठां क्रमेण ।; का. यथाप्रतीचो काष्ठां क्रमेण ।
3अ. वृन्द । 4अ. प्राबोधयत् ।
5अ. व्याख्याप्रकाराः । 6अ. वेद्यो ।; का देहोऽपि निगूढचर्यः ।
7अ. निवन्ध । 8अ. व्यतनुतां ।द्वैपायन स्वागतमस्तु तुभ्न्यं
दृष्ट्वा भवन्तं 1त्वरितो मयार्थः ।
युक्तं तदेतत्त्वयि सर्वकालं
परोपकारव्रतदीक्षितत्वात् ॥ ७१ ॥
मुनेः पुराणानि दशाष्ट साक्षा-
च्छुत्यर्थगर्भीणि सुदुष्कराणि ।
कृतानि पद्यद्वयमत्र कुर्तुं
को नाम 2शक्तोऽतिसुसङ्गतार्थम् ॥ ७२ ॥
वेदार्णवाः प्रतियुगं विहिताश्चतुर्धा
शाखाप्रमेदनवशादपि तान्विभक्तान् ।
मन्दाः कलाै क्षितिसुता जनितार एते
वेदान् ग्रहीतुमलसा इति चिन्तयित्वा ॥ ७३ ॥
एष्यद्विजानासि भवन्तमर्थं
गतञ्च सर्वं न न वेत्सि यत्तत् ।
नो चेत्कथं भूतभवद्भविष्य
3त्कथाप्रबन्धान् रचयेरजानन् ॥ ७४ ॥
अाभासयन्नान्तरमङ्ग बाह्यं
स्थूलञ्च सूक्ष्मं बहिरन्तर4स्थम् |
अपानुदद्भारतशीतरश्मि-
रभूतपूर्वो भगवान्पयोधेः ॥ ७५ ॥
वेदाष्षडङ्गा निखिलञ्च शास्त्रं
महान्महाभारतवारिराशिः ।
त्वत्तः पुराणानि च सम्बभूवु-
स्सर्वे त्वदीयं खलु वाङमयाख्यम् ॥ ७६ ॥
1अ. चरितो मयार्थः । 2अ. शक्रोति ।
3अ. कार्य । 4अ. अन्धम् ।आगच्छतामपि यतां महतां न कार्यं
मुक्त्वा ध्रुवं परमनुग्रहणं परेषाम् ।
पृच्छामि कारणमिहा मने तथापि
प्रष्टुं न चोचतमथापि कुतूहलेन ॥ ७७ ॥
अस्ति प्रयोजनमिहाऽऽगमने यतीन्द्र
वक्ष्यामि तच्छ्रुणु मया कृतसूत्रकाणाम् ।
भाष्यं व्यधायि किल भाष्यमपूर्वमेत-
त्तानि प्रियाणि मम सर्वनिबन्धनेभ्यः ॥ ७८ ॥
तद्द्रष्टुकामो वनमागतोऽह-
मित्युक्तवन्तं यतिरब्रवीत्तम् ।
सत्यं महत्सूनिरीक्षणेन
बुद्धिं पुनामीति न बुद्धिमत्वात् ॥ ७९ ॥
भाष्यं तदुक्त्वार्पिपदस्य हस्ते
हस्तद्वयेनादरतो विनीतः ।
आदाय सर्वत्र निरैक्षतासौ
प्रसादगाम्भीर्यगुणाभिरामम् ॥ ८० ॥
सुत्रानुकारि मृदुवाक्यनिवेदितार्थं
स्वीयैः पदैस्सह निराकृतपूर्वपक्षम्
सिद्धान्तयुक्तिविनिवेशिततत्स्वरूपं
दृष्ट्वाऽभिनन्द्य परितोषवशादवोचत् ॥ ८१ ॥
बह्वर्थगर्भाणि लघूनि यानि
निगूढभावानि चमत्कृतानि ।
त्वामेकमीड्यं विरहय्य नास्ति
यस्तानि सम्यग्विवरीतुमीष्टे ॥ ८२ ॥
बर्षाणि षोडश नवयुरिति प्रक्लुप्तं
तावन्ति ते पुनरहं वितराणि जीवम् ।
अद्वैतदर्शनमिदं कुरु सत्प्र1तिष्ठं
लोके विनोदचरणं 2सहितो विनेयैः ॥ ८३ ॥
निसर्गदुर्ज्ञानतमानि को वा सूत्राण्यलं वेदितुमर्थतस्सन् ।
क्लेशस्तु तावान्विवरीतुरेषां यावान्प्रणेतुर्विदुषो वदन्ति ॥ ८४ ॥
इतीरयन्तं प्रतिवाचमूचे स शङ्करः पावितसर्वलोकः ।
त्वत्सूत्रसम्बन्धवशान्मदीयभाष्यं प्रचारं भुवि यातु विद्वान् ॥ ८५ ॥
इतीरयित्वा चरणौ ववन्दे यतिर्मुनेस्सर्वविदो महात्मा ।
प्रदाय 3संभाष्य परं मुनीशो द्वैपायनस्सोऽ4न्तरधाद्यतात्मा ॥ ८६ ॥
अथाऽऽगमद्भ्राह्मणसूनुरारादधीतवेदोऽधर5यन् स्वभासा।
तेजांसि कश्चित्सरसीरुहाक्षो दिदृक्षमाणः किल देशिकेन्द्रम् ॥ ८७ ॥
आगत्य देशिकपदाम्बुज6योरपप्तत्
संसारवारिधिमनुत्तममुत्तितीर्षुः ।
वैराग्यवानकृतदारपरिग्रहश्च
कारुण्यनावमधिरुह्य दृढां दुरापाम् ॥ ८८ ॥
उत्थाप्य तं गुरुरुवाच गुरुर्द्विजानां
कस्त्वं 7क्व घाम कुत आगत आत्तधैर्यः ।
बालोऽप्यवालधिषणः प्रतिभासि मे त्व-
मेकोऽप्यनेक 8वदनेकशरीरमासा ॥ ८९ ॥
1अ. सप्रतिष्ठं । 2का. महितो ।
3क. संभाव्य वरं । 4अ. सोऽन्तरयान्माहात्मा ।
5अ. अन्तरयन् । 6का. जयोः प्रणम्य ।
7का. क्व यासि । 8का. इव नैकशरीरभासा ।पृष्टो बभाण गुरुमुत्तरमुत्तरज्ञो
विप्रो गुरो मम गृहं बुध चोलदेशे ।
यत्राऽऽपगा वहति पुण्यकवेरकन्या
यस्याः पयो हरिपदाम्बुजभक्तिमूलम् ॥ ९० ॥
अठाट्यमानो महतो दिदृक्षुः
क्रमादिमं देशमुपागतोऽस्मि ।
बिभेमि मज्जन् भववारिराशौ
तत्पारगं मां कृपया विधेहि ॥ ९१ ॥
इत्युक्तवन्तं कृपया महात्मा-
प्यदापयत्संन्यसनं यथावत् ।
यं प्राहुरार्यं प्रथमं विनेयं
श्रीदेशिकेन्द्रस्य सनन्दनाख्यम् ॥ ९२ ॥
अत्रान्तरेऽपि जरतीं जननी तदीया
सस्मार शङ्करपदं निकठस्थमृत्यु- ।
तच्छङ्करो विदितवान् युयुजे विविक्ते
सोऽन्तर्दधे गगनमण्डलमाससाद ॥ ९३ ॥
योगेन गच्छन् स मुहूर्तमात्राः
दवातरत्केरलभूविशेषे ।
तद्देशबुद्ध्या पुनरीक्षमाणः
स्वका1लटिं जन्मभुवं प्रपेदे ॥ ९४ ॥
तत्रातुरां मातरमैक्षतासौ
ननाम तस्याश्चरणौ कृतात्मा ।
सा चैनमुद्वीक्ष्य शरीरतापं
जहौ निदाघार्तं इवाम्वुदेन ॥ ९५ ॥
उपादिशद्ब्रह्म1पदं सनातनं
न यत्र हस्ताङ्घ्रिविभागकल्पना ।
अन्तर्बहिस्संनिहितं यथाम्बरं
निरामयं जन्मजरादिवर्जितम् ॥ ९६ ॥
तत्रोपदिष्टे न विवेदं किञ्चि-
न्मातवदच्छङ्कर न 2क्षमेऽहम् ।
त्वयोदितं वेदितुमन्यदेव
वदेति मात्र गदितो न्यगादीत् ॥ ९७ ॥
नारायणं शङ्खगदा3सिपद्मं
दधानमब्जासनमम्बुजाक्षम् ।
4रमाधर श्लिष्टमदभ्रभूषणं
सनीरनीराम्बुदसंनिकाशम् ॥ ९८ ॥
तं तादृशं निजसुतोदितमम्बुजाक्षं
चित्ते दधार मृतिकाल उपागतेऽपि ।
चित्तेन कञ्जनयनं हृदि भावयन्ती
तत्याज देहमबला किल योगिवत्सा ॥ ९९ ॥
संस्कर्तुकामो जननीं सनाभीन्
जुहाव नायन् किल दुर्विदग्घाः ।
ततो हुताशं प्रतिगेहमार्दत्
तं चापि नास्मै विततार कश्चित् ॥ १०० ॥
स5ञ्छिद्य काष्ठानि सुशुष्कवन्ति
गृहोपकण्ठ धृततोयपात्रः ।
स दक्षिणे दोष्णि ममन्थ वाह्लिं
ददाह तां तेन च संयतात्मा ॥ १०१ ॥
1अ. परं । 2अ. क्षमाऽहम् ।
3अ. अरि । 4अ. धराश्लिष्टमुदग्र ।
5अ. सञ्चित्य ।
Sankara-4न याचिता वह्निमदुर्यदस्मै
शशाप तान् स्वीयजनान् सरोषः ।
अतः परं वेदवह्निकृतास्ते
द्विजा यतीनां न भवेच्च भिक्षा ॥ १०२ ॥
शप्त्वा द्विजातीन्भगवांस्तिरोऽभृद्विहायसासौ बदरीं जगाम ।
अद्यापि तद्देशभवा न वेदमधीयते नो यतिनां च भिक्षा ॥
श्रीशङ्करोत्पत्तिकथाभ्यधायि
तस्यैव जिष्णोर्विजयोऽपि यत्र ।
सर्गश्चतुर्योऽगमदत्र काव्ये
व्यासाचलेनारचिते रसार्द्रे ॥ १०३ ॥
इति श्रीशङ्करविजये व्यासाचलीये चतुर्थस्सर्गः ।