शङ्करविजयः/तृतीयस्सर्गः

विकिस्रोतः तः
               




   

अथ तृतीयस्सर्गः


अनुनीय स मातरं प्रतस्थे
प्रतिवाक्यैरिति तां निरुत्तैरस्तैः ।
अथ तं तपसे प्रयान्तमारा
जननी वाग्भिरमूभिरार्थयत्सा ॥ १ ॥

जोषं प्रयाहि परिपूजय शङ्करं त्वं
कार्यं विधाय पुनरेहि ममान्तिकाय ।
त्वां पश्यतां सुतमिवौरसमात्तहार्दौ
श्रीपार्वतीपुरहरौ प्रणता 1मरद्रू ॥ २ ॥

त्वं तात पूजय शिवं करुणाम्बुराशिं
पञ्चाक्षरीविधिमुपाश्रय शुद्धचेताः ।
नात्रा2तिनीतिनियमोऽखिलजीवनत्वात्
सर्वाधिकारपदमेनमुशन्ति तन्तः ॥ ३ ॥

अनुयतोऽपि निवर्त्य​ सुहृज्जनान्
स्थिरमतिः स्मितशोभिमुखास्बुजः ।।
परिहरन् ममतां गृहगोचरां
हृदयगेन शिवेन समं ययौ ॥ ४ ॥

किमयमाग्निरथो वनदेवता
पथि जनैरिति चिन्तित एककः ।
व्र​जति भोक्तुमना ​​न​ च याचते
विधिवितीर्णकृतात्म 3तनुस्थितिः ॥ ५ ॥


1का. मरौघौ । 2क. नात्रोपनीति ।

3का. हितःशिशुः ।
13
तृतीयस्सर्गः

ब्रजसि कुत्र वटो कुत आगतः
किमभिवाञ्छसि कस्य 1तनूद्भवः ।
पथि जनैरिति 2पृच्छ्यत एव स
प्रतिगिरं न ददाति 3निराकुलः ॥ ६ ॥

बहुजलास्सरितस्समहीधराञ्-
जनपदानपि कांश्चिदतीत्य सः ।
पथि गतः परितो गतलेचनो
वनमपश्यदयं तरुमण्डितम् ॥ ७ ॥

वरकुरङ्गसमाकुलमेकतो
भयदसूकरयूथनिषेवितम् ।
अपस्तो गजयूथविभीषण
4किलकिलारवधूर्तवलीमुख​म् ॥ ८ ॥

सरणिभुज्झितवान् गहनाटवी-
मुपविवेश समीहितलक्षणाम् ।
अथ सरस्समुदीक्षितवान् पुरो
निवसनाय मनोऽधित बालकः ॥ ९ ॥

विमलनीरसरोवरतीरगः
स्थिरमहीरुह मूलमुपाश्रयत् ।
स्थिरधियां विपिनं सदनायते
सदनमल्पधियां विपिनायते ॥ १० ॥


1का . तनूभवः । 2क. पृच्छत ।

3क. निराकुलम् । 4अ. किलि ।
14
शङ्करविजये

अभिनिमज्य सर1स्सलिले सुखे
स्थिरमहीरुहमूलवसुन्धराम् ।
किसलयोत्तरदर्भतृणाङ्कुरै-
र्व्य​वहितां प्रविधाय मनोरमाम् ॥ ११ ॥

उपनिविश्य ततो हरिदिङ्मुखो
2गदितमन्त्रमुदाहरदैश्वरम् ।
पृथुलदीर्घव3टाङ्घिकृतांशुको
व्यघित वल्लिमसौ कटिसूत्रक्रम् ॥ १२ ॥

मनुवरे शिवदैवतविग्रहे
वि4दधदात्ममनो विषयोपगम् ।
मनुमिमं जपति स्म पुरोदितं
नयनमर्घ​निमीलितमुद्वहन् ॥ १३ ॥

मुनिजनोदितवृत्तिम 5सौ व्यधात्
त्रिषवणं सरमीकृतमज्ज​नः ।
स्थिरनिबद्धसुखासनसंस्थितो
विजनतावनितापरितोषितः ॥ १४ ॥

मितमपीह फलं स निषेवते
न च जहाति भृशं स कदाचन ।
स्वपिति नात्र भृशं न च जागरं
व्रजतेि बालमुनिर्बहुयोगवित् ॥ १५ ॥

क्षुधितसिह्मगणस्सरसीजलं
परिपिपासुरिहाट​ति ख​ण्डधीः ।
शिशुमुनिं समुदीक्ष्य 6नदन् मनाक्
7चकितवत्प्र​पलायति दूरतः ॥ १६ ॥


1क. सुखे सरसीजले । 2क. गदितमैश्वरमन्त्रमुदाहरत् ।

3क. वलाङ्घि का. ममुं तटरोहिणीम् । 4क. व्यदधत् ।

5क. वृत्तिरसौ सुकृत् । 6अ. न दिङ्मना । 7अ श्र​ ।
15
तृतीयस्सर्गः

मृगगणा बहुकालमुदक्षिणात्
परिचयं ययुरन्तिकसंश्रयाः ।
शिशुमुनिं परिवब्रु1रनुद्धताः
परिचयः खलु सौहृदकारणम् ॥ १७ ॥

अथ तरक्षुरुपागमदेकदा
मृगगणानुग​तो मृग​भक्षकः ।
2मृगगणे 3द्रुतवत्यतिरोषणः
शिशुमुनेः पुरतस्स जगर्ज ह ॥ १८ ॥

श्रुतवतः श्रुतिभेदि च 4गर्जितं
शिशुमुनेरुदियाय भयं मनाक् ।
शिवशिवोति तदाऽस्मरवक्षरं
स पतति स्म 5परासुरथोद्वमन् ॥ १९ ॥

वनगजा बहुबृंहितकारिण-
स्सतृष एव जलाशयमावि6शन् ।
मुखविधुं समुदीक्ष्य 7मुनेरथो
मुदितचित्ततया वितृषोऽभवन् ॥ २० ॥

तत इतो 8ज्वलतीह महावने ।
शिशुसमागमनाज्ज्वलनः पुरा ।
स च शशाम तदागममात्रत-
स्सुख​मभूद्विपिने बहुलद्रुमे ॥ २१ ॥


1अ. परिजहरु । 2का. मृगगणं प्रविहाय तु रोषणः ।

3का. गतवत्य । 4क. विगर्जितं ।

5का रधोमुखः । 6क. आगमन् ।

7का. मुनेः शिशोः ।

8का. ज्वलदत्र​ समुज्वलः शिशुमुनेर्ज्वलनो धुरि यो वने ।
16
शङ्करविजये

मृगमृगेन्द्रतरक्षुगजादय-
स्सहजवैरनिकेतनमानसाः ।
परिजहुर्निजवैरमनश्वरं
त्वथ पपुस्स​हितास्सरसीजलम् ॥ २२ ॥

त्यजति स स्म फलादिकमेकदा
मुनिरयं दिवसान्तर एति तत् ।
अथ तत प्रतिमासमुपाददे
प्रतिसमं तदपाकृत सर्वदा ॥ २३ ॥

अपि जलेन पुरोदितवर्त्म​ना
मुनिरवर्तत योगबलेन सः ।
अथ भुजङ्गमवृत्तिरभून्मुनिः
1शिवपदामृतसेवनतत्परः ॥ २४ ॥

अथ जपं विरहय्य समाधिना
शिवमुपासितुमारभतोत्तमः ।
करपदादियुतं तरूणेन्दुकं
भसितभासितमुज्ज्वलभूषणम् ॥ २५ ॥

दधतमूर्ध्व​करे परशुं मृगं
वरमभीतिमधस्तनदोर्युगे ।
विशदवर्णमहाम्बुजविष्टरं
परिहितं मृग2भक्षणचर्मणा ॥ २६ ॥

स्मितविकासिमुखाम्बुजशो3भनं
रविहुताशनिशाकरलोचनम् ।
विदधतं प्रभयाऽतिमिरा दिशो
गरलकालिमवासितकन्धरम् ॥ २७ ॥


1का. खजलदा । 2का भक्षक ।

3क. शोभिनं ।
17
तृतीयस्स​र्गः

व​सुमतीगतमेकपदं न्यधा-
दपरमूर्ध्व​गतं प्रविधाय सः ।
दिनकरे नयने समुपास्त ते
1शिवमधोधृतदोर्युगलश्शिशुः ॥ २८ ॥

स शिशुरत्व​शयिष्ट 2तपश्चरन्
मुनिजनांस्तषसापि पुरातनान् ।
मुनिजना अपि वीक्ष्य 3शिशुं भृशं
तपसि 4विष्ठितमेत्य सुविस्मिताः ॥ २९ ॥

5उदभवत्तनुतोऽस्य महामहः
6स तु जगत्त्रयमूर्जितमानशे ।
प्रतिहता ह्भगुरूर्ध्व​मधोमुरवा
दिनकरस्य करा मुनितेजसा ॥ ३० ॥

वसुमती नमति स्म च तद्दिशि
7व्यधित पादतलं स तु यद्दिशि ।
नगनदीवनवारिधिसंहिता
हरिहयः श्रुतवानिदमद्भुतम् ॥ ३१ ॥

स च बिभाव​ भृशं मुनिपुत्रका-
दतिसुरासुरकर्मणि विष्ठितात् ।
8किमभिलष्य 9तपश्चरतीत्यसौ
मम पदं प्रतिलित्सुरूता10परम् ॥ ३२ ॥


1अ. अथो ।; क. अथोद्भुत । 2तपश्चरान् ।

3क. तपश्वराः । 4निष्ठित ।

5क. उदितवत् । 6क. तदु ।

7क. न्यधित । 8का. समभिचिन्त्या ।

9श्च​रति ह्यसौ । 10उतावरं ।

Sankara-2
18
शङ्करविजये

हरिहयोऽप्सरसां गणमब्रवीत्
व्रजत यत्र मुनिस्तप​ 1आचरन् ।
वसति तत्र जगत्त्रयमीदृशं
सुचकितं चकितैणदृशो2बलात् ॥ ३३ ॥

शिवमुदीक्ष्य तपश्चरतीत्यसौ
श्रुतमिदं 3हि पुरैव मया परात् ।
स परवान् स्वपदाब्जनिषेविणो
मृगदृशस्सकलं परिदास्यति ॥ ३४ ॥

द्रुतमुमेत्य कुमारवन4स्थलीं
विहत तत्तप आदरतः स्त्रियः ।
मुनिवरं तपसो विनिवर्त्य​ तं
5पुनरिहायत यातनया भृशम् ॥ ३५ ॥

निगदिता हरिणेति सुराङ्गना
हरिहयाय ददुर्वचनं स्फुटम् ।
अवहितश्शृणु नो वचनं प्रभो
वयममूर्व​चने तव संस्थिताः ॥ ३६ ॥

युवसु लब्धपदा वयमीदृश-
स्स हि न वेत्ति विभो युवतीहितम् ।
स किल पञ्चसमस्तपसाधिको
ध्रुवमसौ वितरिष्यति शापकम् ॥ ३७ ॥

न हि वयं शलभायितुमीश्महे
मुनिवरस्य रुडुग्रहुताशने ।
निपतिता बहवोऽपि पुरातना
6मुनिजनान् परिपीड्य तपस्यतः ॥ ३८ ॥


1क. आचरत् । 2अ. दृशोऽबलाः।

3अ. दं पुर एव ।; का. दं पुर एवमथापरात् ।

4क. स्थलं । 5क. पुनरिहेत यथायतनं भृशम् ।

6अ भुवि जनान् हि निपीड्य ।; का मुनिजनानभिविश्य ।
19
तृतीयस्सर्गः

स तव किं प्रविधास्यति बालकः
स्पृहयति 1प्रथिताय पदाय नः ।
अपदसं2भ्रमिता 3परभीरूता
प्रकृतिसिद्धमिदं 4स्व​यमिन्द्र ते ॥ ३९ ॥

इति वचः श्रुतवान् वलसूदनः
प्रतिजगाद चलाधरपल्लवः ।
भगधना भजताशु 5विगद्य​ मा
कुठिलचारुवचोहृत 6मानसाः ॥ ४० ॥

प्रथितमस्त्रमिदं स्वयमेव मे
कुलिशमेकमरातिषु दुर्जयं ।
मुनिजनेषु तपस्विषु वो वपु-
स्तदपि कुण्ठितमद्य 7भयाकरम् ॥ ४१ ॥

व्यसनकालबहिःस्थितशालिभिः
परिजनैः फलमस्ति न किञ्चन ।
द्रुत​मितोऽपसरन्तु वराङ्गना
न मम दृष्टिपथे 8विचरन्तु ताः ॥ ४२ ॥

इति वचस्समुदीर्य पुरन्दरः
परिजनैस्सहिते विधिविष्टपम् ।
उपययौ स ददर्श चतुर्मुखं
व्यसनमेतदसूचयदुत्थितम् ॥ ४३ ॥


1अ. प्रहिताय । 2अ. संभ्रमता ।

3वद । 4अ. द्वयमिन्धते ।; का. द्वयमिन्द्र ते ।

5अ. विगाद्य ।; क. विटाधमाः; का विगायनाः । 6हृतमाशु मे ।

7का. भयङ्करम् । 8का. चरताधुना ।

Sankara— 2A
20
शङ्करविजये

मुनिशिशुर्भगवन्नतिमानुषं
चरति तीव्रतपस्तत उत्थितम् ।
मह इदं भुवनं 1हि निब घते
न परिसञ्चरितुं क्षमते जनः ॥ ॥ ४४ ॥

भुवनसृष्टिमिमां भगवंस्त्वया
कृतवता परिरक्षणमण्वपि ।
2खलु विधेयममुष्य न चेप्सितं
श्रुति 3निपाठपरेण विधीयते ॥ ४५ ॥

हरिहयेन गिरं समुदीरितां
श्रुतवता प्रतिवाक्यमुपाददे ।
कमलजेन जगन्ति यतोऽभवन्
4यत इमाः श्रुतयश्च बभासिरे ॥ १६ ॥

सृष्टिमात्रकरणे न्ययुङ्क मा-
मीश्वरो हरिमतिष्ठिपत् स्थितौ ।
तद्वयं भुजगशायिनं हरिं
याम दुग्घजलधिं समीक्षितुम् ॥ ४७ ॥

विधित्रचः 5परिगृह्य पुरन्दर-
प्रभृतयो विधिनापि 6ततस्सह ।
अभिययुर्हरिदर्श​नलालसा
7जलनिधिं पयसां निचिमुद्धतम् ॥ ४८ ॥


1अ. निविवाधते ।; क. विवाधते । 2क. खलधियं मम वज्रिपदे स्थितं ।

3अ. विपाठपरेण । 4क. वत ।

5अ. प्रतिगृह्म । 6क. सुराः ।

7का. अमृतवारिनिधिं सहिता तदा ।
21
तृतीयस्सर्गः

1स वुवुधे विबुधाधिपतिर्हरिः
सुरवरागमनेन समं समः ।
तदिह शक्रमनोरथसूचितं
यदनिशं शयितोऽपि विबुद्धवान् ॥ ४९ ॥

2तत उदैक्षत देवमनिन्दितं
सुरगणमुरवर्यपुरस्सरः ।
भुजगभोगनिविष्टममीष्टदं
सजलनीरदवर्ण​सभद्युतिम् ॥ ५० ॥

3तत उदीरितवान्कमलाधिपं
गुरुरुपस्थितकार्यविशेषवित् ।
शृणु हरे व्यसने समुपस्थिते
वयमिहागमने विहितोद्यमाः ॥ ५१ ॥

न ख​लु विद्म वयं व्यसनान् पुरा
न च पुनर्विहिते4ऽभिमते प्रभो ।
न हि शिशोरपराधमुदीक्षते
गुरुजनः 5कृपया परया युतः ॥ ५२ ॥

अविदितं तव​ नास्ति जगत्त्रये
सकलबुद्धिगुहागृहवासिनः ।
तदपि किञ्चिदुदीर्यत एव ते
व्यसनमागतमन्यत एव नः ॥ ५३ ॥

मुनिसुतः प्रथमे वयसि स्थित-
श्चरति घोरतपः स्थिरमानसः ।
न किल 6केऽपि पुरेदृशमाचर-
न्न च पुनश्चरितार इति श्रुतम् ॥ ५४ ॥


1क. विबुबुधे । 2का सतमुदैक्षत ।

3का. इदमुदी । 4अ. विदिते ।

5क. कृशया कृपया । 6क. के च ।
22
शङ्करविजये

स हि 1जगन्ति तनूत्थिततेजसा
पारिदहन्नभिभूय भहांस्यपि ।
वसति तत्तपसो विनिवर्त्य​ तं
जगदिदं परिपालय पूर्ववत् ॥ ५५ ॥

किमपि वाञ्छति वा 2हितमुद्दिशन्
चरति घोरतमं तप 3उत्तमम् ।
शिवत एव ततो विनि4वर्तयेः
न हि वयं तमुदीक्षितुमीश्वराः5 ॥ ५६ ॥

6मदभिवाञ्छितमेतदनुत्तमं
सुरगणै7र्ब​लशत्रुपुरोगमैः ।
यदुत पालनकर्म​ ममेरितं
त्वहमयानि शिवं सशिवं सुराः ॥ ५७ ॥

मम तु कार्यमिदं परिपालनं
कमलजन्मन एव वृजिक्रिया ।
हरणकर्म हरस्य समीरितं
तदपि नैकत एव हि जायते ॥ ५८ ॥

मम वचः 8परिपालयतां शिवं
9तमभिगत्य हिताहितबोधकम् ।
10समगताः कथयाम शिवाय 11ते
12व्यसनमाघिदमेतदुपस्थितम् ॥ ५९ ॥


1क. जिगाय । 2आ . वाञ्छित ।

3अ. उत्तम : । 4क विनिवर्तयेत् ।

5का. मीश्महे । 6अ. तदभि ।

7क. विधिशक । 8अ. पालयिता शिवः।

9का. भिगम्य । 10अ. सहगताः ।

11अ. नो । 12का. माततमे ।
23
तृतीयस्सर्गः

इति हरिर्ग​मनाय समुद्यतो
गरुडमस्मरदेष समागमत् ।
1तमधिरुह्म सुरैस्सममेयिवान्
रजतभूधरभूधरमुत्तमम् ॥ ६० ॥

हरिविरिञ्चिपुरोगममाधवः2
शिवपदं गुणपूर्णमरो3चत ।
समवरुह्म ततो निजवाहनात्
4सविनयः प्रतिहारभुवं ययौ ॥ ६१ ॥

कनकवेत्रध​रं स च नन्दिनं
धवलदेहमपृच्छदनेहसम् ।
हरिमयं वदति स्म सदा हरं
समय एव हरे प्रतिपालनम् ॥ ६२ ॥

स च निवेद्य हराय हरिं हरेः
करतलं 5परिगृह्य पुरो ययौ ।
अथ हरस्सहसोत्थितवान् हरेः
करतलं स्वकरेण समग्रहीत् ॥ ६३ ॥

कमलजञ्च सचक्रमुपाचर-
त्त्वथ यथोचितमन्यमुरान् शिवः ।
अथ महर्षिग​णः श्रुतवानिमं
हरिहरद्वयतीर्थसमागमम् ॥ ६४ ॥

मुदितमानस आशु समाययौ
हरिहराववलोकितुमुत्तमौ ।
यदनयोरुभयोरिह सङ्गमः
6स्वगतृषैरपि दुर्लभ एव सः ॥ ६५ ॥


1आ. तमधिगम्य । 2क. वासवः ।

3का. लोकत । 4अ. सविनयं ।

5क. प्रतिगृह्य । 6काः सुरवरैरपि।
24
शङ्करविजये

हरिहरावथ तुष्टवुरादृताः
मुनिगणाः स्तुतिभिः स्तुतिकोविदाः ।
भुवनपालक देव नमोऽस्तु ते
हर नमो हरते त्रिजगन्त्यपि ॥ ६६ ॥

असितकण्ठ नमोऽस्तु विषाशिने
सरसिजाक्ष नमोऽस्तु दिवानिशम् ।
कुरु कृपामनिशं गिरिजापते
सरसिजाक्ष कठाक्षमितः कुरु ॥ ६७ ॥

मुररिपो जय तेऽस्तु नमो नमः
पुररिपो जय तेऽस्तु नमो नमः ॥
गरुडवाहन 1तेऽस्तु नमो नमो
वृषभवाहन देव नमो नमः ॥ ६८ ॥

भुजगभूषण देव नमोऽस्तु ते
मुजगभोगशयाय नमोऽस्तु ते ।
तरुणचन्द्रकिरीठ नमोऽस्तु ते
विविधरत्नकिरीठ नमोऽस्तु ते ॥ ६९ ॥

स्मरणमात्रघुताघचयौ नमो
मुनिजनालिनिषेव्यपदाम्बुजौ ।
हरिहरौ नतिरस्तु सदापि वां
कुरुतमिष्टमनिष्टहनौ 2शिवौ ॥ ७० ॥

पदसरोजविनिर्गतगङ्ग ते
नतिरियं प्रणतार्तिविभंञ्जन ।
हर 3जठापठलीगसरिद्वर
नतिरियं जितकाल नमो नमः ॥ ७१ ॥


1 अ. च । 2अ. हरौ शिवम् ।

3का. परिलीढ ।
25
तृतीयस्सर्गः

पितृवनाधिनिवास नमोऽस्तु ते
1बदरिकावनवास नमोऽस्तु ते ।
जलनिधिप्रिय देव नमोऽस्तु ते
गिरिवरप्रिय देव नमोऽस्तु ते ॥ ७२ ॥

2मुनिगणैः स्तुवतस्सह शङ्करः
सुरगणानवद 3किमिहागमम् ।
वदत कार्यमसंशयमाशु मे
बहुसमागमनं सनिमित्तकम् ॥ ७३ ॥

गुरुरुवाच सुरेन्द्रमतानुगः
पशुपते यदपृच्छदुदारधीः ।
तदिदमत्रभवन् मम मोहनं
विदितसर्वतया 4विदितं नु ते ॥ ७४ ॥

5निवसता भवतेह 6समुत्थितं
विदितमेव 7ततो न निगूहनम् ।
व्यसननिर्गमकारणमुच्यतां
न भवतोऽन्य इदं व्यपनेष्य​ति ॥ ७५ ॥

निगदिते गुरुणेति शिवोऽब्र​वती-
द्विदितकार्यविधित्सुरविक्लबम्8
परिहराणि भयं शिशुकारितं
न हि भये भ​वतां मयि पालके ॥ ७६ ॥

9मुनिसुतं तपसो विनिवर्त्य​ तं
व्यसनतो भवतो विनिवर्तये ।
10न च अयं शिशुतोऽस्ति तपस्यतः
व्रजत घाम यथागतमेव तत् ॥ ७७ ॥


1अ. पद । 2अ. मुनिजने स्तुतवत्यथ ।; का मुनिजनैः ।

3अ. आगमन् ।; का. आगतम् । 4क विदितं न ते ।

5क-इह सदा ।; का. इह सता भव तेन । 6क. समुज्झितं ।

7का. ततोऽपि । 8अ. रवीश्वरम् ।

9अ. सुनिशिशुं । 10अ. हि ।
26
शङ्करविजये

गतवति प्रणिपत्य सुराधिप-
प्रमुखदेवगणे गिरिशं गिरेः ।
पशुपतिर्निरगान्मुनिबालकं
सतपसं तपसो विनिवर्तयन् ॥ ७८ ॥

1अभिसरद्वृषभेण हरोऽभवत्
सुरपतिर्वृषभोऽपि 2चतूरदः ।
गजपतिर्गिरिजापि शची तदा
विविदिषुर्मनसा 3स्थिरतां शिशोः ॥ ७९ ॥

4अपगणस्सरतामभिजग्मिवान्
गणपति5र्न​लकूवरतां गतः ।
रसमुखोऽपि जयन्तवपुर्ध​रो
ऽजनि 6वधूजनिता 7सुरवल्ल​भाः ॥ ८० ॥

अजगवं कुलिशाकृति सद्बभौ
शशिकलां सुमनश्श्वयरूपिणी ।
अहिततिः किल भूषणतां गता
8नठनटीचरितं 9सकलो विभुः ॥ ८१ ॥

उपशिशु स्थितवान् स शचीपतिः
न च विवेद समाधिगतोऽर्मकः ।
शिशुमुखं शनकैरवलोकयन्
स च तुतोष 10हरिः करुणानिधिः ॥ ८२ ॥

न च बुबोध यदा शिशुरग्रतः
स्थितमबूबुधदुत्थितवृह्मितैः ।
नयनवारिरुहे शिशुभानुमान्
किमिदमित्युदमीलयदेकदा ॥ ८३ ॥


1अ. अभिसरन् । 2क. च दुरतः ।; का. चरन्मदः ।

3अ. मनसः । 4अ. अपि गणः सुरतां ।

5का.नलकेश्वरतां । 6का. वधूर्जनिता ।

7अ. सुरवल्लभः । 8अ. नदनदी ।

9का. सकलं । 10क. ह​रः ।
27
तृतीयस्सर्गः

न गणयन् पुनरेव समाधिभाग-
भवदुग्रतपा मुनिबालकः ।
अभिजगाम सुविस्मयमुद्ध​तां
शिशुमनःस्थिरतामुपलभ्य सः ॥ ८४ ॥

शिशुमवोचत वृत्ररिपुर्वचः
क्व च तपस्सुकुमारमिदं वपुः ।
क्व च वयस्तव 1पञ्चसमान्मितं
क्व च तवेयमनल्पविगागिता2 ॥ ८५ ॥

वपुषि वत्स गते किमु 3लप्स्यते
सति हि तत्र पुमर्थगतिर्भवेत् ।
व्रजं सुखं त्यज दुःखतरव्रतं4
तनुदहा तपसा तव किं फलम् ॥ ८६ ॥

यदि सुखं तव लिप्सितमेहि भो
मम पद सुरवर्यनमस्कृतम् ।
यदिह 5वित्तगता वितराणि ते
किमु फलं 6तनुशोषणकर्मणा ॥ ८७ ॥

उपवनेषु वनेषु सुखेषु मे
विहर मत्तनयैस्सह 7सुव्रत ।
सुरभिपुष्परजस्सुसमीरण-
प्रकटसौरभयोगसुगन्धिषु ॥ ८८ ॥


1क. शरन्मितं । 2अ. विरागता ।

3अ. लभ्यते । 4अ. तरं ।

5अ. हतं ।; का. विश्वसुखं ।; क. शतं । 6का. तव शोषण ।

7का. संवृतः ।
28
शङ्करविजये

यदि च भौमतले तव 1वा स्पृहा
सुलभमद्य 2ददामि वदाशु तत् ।
यदि बिभेषि 3सुदुस्सहशात्रवात्
तदपि हन्मि शिशो न विचारणा ॥ ८९ ॥

यदिह कर्म न शर्मण आत्मनो
न च परस्य सुखाय कथञ्चन ।
4विधिसदो न वदन्ति पुरातना-
स्तव च तादृशमेव समीक्ष्यते ॥ ९० ॥

5यदिह पक्ष्मकवाटमिदं द्वयं
नयनयोर्विवृतं कुरू बालक ।
हरिहयोऽस्मि विलोकय मे वधू-
रियमयं गजपश्शुभदर्शनः ॥ ९१ ॥

न च विहन्तु6मिमं तव आगमं
तव शिशुत्वमुदीक्ष्य कृपाभरात् ।
अपि विधातुमिदं सफलं तपो
वद तपो यदि ते 7फलवर्जनम् ॥ ९२ ॥

तव शरीरसमुत्थिततेजसा
जगदिदं परितापमुपैति भोः ।
जगदनिष्टफलाऽविहितक्रिया
मुनिजनः 8परतापहरो मतः ॥ ९३ ॥

शिशुरथो नयने उदमीलयत्
सुरवरान् समुदैक्षत 9विस्मितः ।
अपि जगाद वचस्सुरनायकं
मम तपस्सफलं तव तेन कॅिम् ॥ ९४ ॥


1अ. च​ । 2क. ददानि ।

3अ. दुर्जय । 4अ. पदं ।

5अ. घटित । 6अ. इदं तप ।

7क. वर्ध​नम् । 8अ. परि ।

9का. सस्मितम् ।
29
तृतीयस्सर्गः

हरिहय स्पृहयामि न शर्मणे
यदिह कर्म​ जनैरुपलाल्यते ।
न भवतोऽस्ति मनागपि मद्भयं
व्र​ज सुखं दिवमेव यथासुख​म् ॥ ९५ ॥

नरसुखात् किमु 1भेदकमिष्यते
सुरसुख​स्य कृतत्वसमत्वतः ।
जनिमतोऽध्रृवता ध्रुवभाविनी
दिनविशेषकृतोऽतिशयस्तयोः ॥ ९६ ॥

मनुजदेवगणेषु जनिर्म​ता
जनिमतो मरणञ्च समाहृतम् ।
किमु पदैर्मितकालासिता2 ध्रुवैः
हरिविरिञ्चपदैरुपलालितैः ॥ ९७ ॥

मरणजन्मकथोत्थित3म​त्र यत्
4तदभिवाह्य​मनश्वरमक्षरम् ।
5यदुदिता जनता न हि पीड्यते
मरणजन्मजरादिभिरुल्ब​णैः ॥ ९८ ॥

तपसि भक्तिमतो विजनस्थितिः6
बहुजनैस्सह सङ्गमतो वरा ।
न हि समस्त्य​विघातपरम्परा
परिजनैर्भगवानुपहन्ति माम् ॥ ९९ ॥

यदि न यासि हरे बहुसङ्गत-
स्तपसि विघ्न​करो यदि वर्तसे ।
परममस्त्रमिदं त्वयि निक्षिपे
परिजनैस्सहसा न भविष्यसि ॥ १०० ॥


1अ. मेदक ईक्ष्यते मेदग इष्यते । 2अ. सित [षोऽन्तकर्मणीतिधातोःक्तान्तं रूपम्]

क. कालतयाऽध्रृवैः का. भवा ।

3अ. कथोज्झितं । 4अ. तदभिवाञ्छय​ ।

5अ. यदु गता ; का. यदि गता । 6अ. स्थता ।
30
शङ्करविजये

इति समीरयति स्थिरबालके
कपटवेषमपास्य निजं वपुः ।
सह गणैश्शिवया च समाददे
नयनगोचरताञ्च शिशोरगात् ॥ १०१ ॥

शिशुरपूर्वजनोदयदर्शनात्
जडिमपात्रमभू1दतिविस्मितः ।
प्रणिपतानि पदानि किमष्यमुं
शिरसि वा निदधानि पदाम्बुजम् ॥ १०२ ॥

2मुनिशिशोर्ज​डिमानमवेक्ष्य तं
हरसमीपगतेन स नन्दिना ।
मुनिसुतेहि न सङ्गममादृथाः
प्रणिपतेश्वरपादसरोरुहम् ॥ १०३ ॥

इति समीरित एव शिशुः क्षणात्
प्रणिपपात तदीयपदाम्बुजम् ।
स्नपयति स्म सुरवाक्षिजलैर्वपुः
न च शशाक शिशुः परिभाषितुम् ।। १०४ ॥

प्रणिपतन्तमुवाच सदाशिवो
मुनिसुतेहि ममाङ्क इहास्स्व भोः ।
पारेकृशोऽसि तपःपारि3पालनात्
यदभिवाञ्छितमद्य ददामि ते ॥ १०५ ॥

मम वधूर्गिरिजा 4त्वथ मोदते
सुतधियन्त्व​धि5कां तमिहेच्छति ।
मम सुतत्रयमद्य पुराजनि
स्फुटमुभौ तनयावधुनैककः ॥ १०६ ॥


1क. दिति । 2अ मुनिसुतैहि न सम्भ्रमाद्यथा ।

3अ. परिशीलनात् । 4अ. त्वयि ।

5अ. त्वयि कृर्तुमिह ।
31
तृतीयस्सर्गः

इति शिवेन​ वचस्समुदीरितः
प्रतिजगाद वचः परितोषयन् ।
स्तिमितनेत्रयुगेन 1शिवं पिबन्
पुलकपुष्पितगात्रलतश्शिशुः ॥ १०७ ॥

सुतहितं वदितुं पितरौ युवां
अधिकृतौ न सुतोऽर्हति भाषितुम् ।
अहमिदन्तु वृणे परमार्थत-
स्तव पदाम्बुज​भक्तिमनश्वराम् ॥ १०८ ॥

इति निशम्य वचः परमेश्वरो
मुनिसुतं निजमङ्कमजीगमत् ।
मुनिसुतस्य मुखं परिजिघ्र​वान्
3भवभयाञ्च बहिर्निरगान्मुनिः ॥ १०९ ॥

मुनिपुराचरितन्त्व​4वदच्छिवः
प्रमुदितोदितदुग्धमहार्णवम् ।
मुनिसुताय युताय 5विघाय तं
6मुनिगदुर्दशतापि तिरोदधे ॥ ११० ॥

गिरिसुतापि 7निजाङ्कम​नीनयत्
मुनिसुतं प्रददौ स्तनजं पयः ।
मम सुतोऽसि निजस्त्व​मतः परं
विहर तात यथासुखमूचिषी ॥ १११ ॥

8अपि शिशो 9विदितोऽसि महागमा-
न्मम षडाननपद्मविनिर्ग​तान् ।
सकलवर्ग​निदानविबोधना-10
न्गुरुकृपासुलभान् भवदाहिनः ॥ ११२ ॥


1अ. शिवौ । 2का. जिघ्रिवान् ।

3अ. भवभयं निरगाच्च बहिर्मुनेः । 4क. विदञ्छिवः ।

5अ. धुताघचयाय । 6का. मुनिवपुर्दधतेव तिरोदधे ।

7का. मुपानयत् । 8अ. अयि ।

9का. विदिता । 10अ. विबोधकान् ।
32
शङ्करविजये

उपससार महापयसां निधिः
पशुपतेरनुशासनतश्शिशोः ।
झटिति विश्वसनं जनयन् ब्रुवन्1
निबिडशारदचन्द्रिकया समः ॥ ११३ ॥

विविधपुष्पफलास्सुरपादपा-
श्शिशुमुपासितुमामुरनुत्तमाः ।
मृदुगतिश्ववना2 धुतपल्लवाः
सुख​दपक्षीनिकायनिकूजिताः ॥ ११४ ॥

स्मरति यच्छिशुरस्य पुरः पुरा
पतति तन्मनसोऽपि विकल्पना ।
शिशुरुवाच महागुणसंहति-
3र्मुनिजनैर्विबुधैरपि दुर्लभा ॥ ११५ ॥

इति महागुणसिद्धिमवाप्य 4स-
च्छिवाशिवानुमतेन गृहं ययौ ।
प्रणिपपात स 5मातृपदाम्बुज
शिशुमुदीक्ष्य 6मुमोद जनन्यपि ॥ ११६ ॥

व्यासाचलेन रचिते मधुरेऽनवद्ये
काव्ये ययौ द्रुतविलम्बितवांस्तृतीयः ।
सर्गो निसर्गविमलः परमपिमन्यु-
7माहात्म्य​भाषणपरः 8कथया हि मोदी ॥ ११७ ॥

॥ इति श्रीशङ्करविजये व्यासाचलीये तृतायस्सर्गः ॥


1अ. स्फुटम् । 2का. नायुधपल्ल​वाः ।

3अ. गणैः । 4अ. सन् ।

5का पदाम्बुजम् । 6अ. तुषोष ।

7क. पदः । 8अ. कथयाभिमोदी ।