शङ्करविजयः/षष्टस्सर्गः
॥ अथ षष्ठस्सर्गः ॥
अथ प्रतस्थे भगवान्प्रयागात्
दिदृक्षमाणो गृहिविश्वरूपम् ।
विहायसा योगबलेन गच्छन्
अवातरत्तस्य गृहाङ्कणान्तः ॥ १ ॥
स विश्वरूपः कृतवह्निकार्यः
प्रतीक्षमाणोऽतिथिमातिथेयः ।
उदैक्षतैनं स्वशरीरभाभिः
प्रकाशयन्तं विदिशो दिशश्च ॥ २ ॥
स भिक्षवेऽदृष्टचराय तस्मै
सङ्कल्प्य भिक्षां पदयोरमुष्य ।
चिक्षेप पुष्पं चरणावनेजत्
तत्पाथसात्मानमसिञ्चताद्धा ॥ ३ ॥
प्रक्षालितङ्घ्रिः प्रविवेश काश्चित्
व्यतीत्य 2कक्ष्या गृहमध्यभूमिम् ।
दीपप्रभानिस्सरदन्धकार-
मध्यास्त पीठं परमं मुनीन्द्रः ॥ ४ ॥
आयन्मार्गे देशिकेन्द्रो जनानां
दृष्टेर्मार्गं नाप पापापनोदी ।
ईक्षाञ्चक्रे मन्दिरान्तः प्रविष्ट-
स्तेनैतस्मिन्विस्मयोऽभूत्स तेषाम् ॥ ५ ॥
1क. अनेजेत् । 2अ. कक्षा ।
रौप्यं पात्रं दीप्यमानं तदग्रे
न्यस्या1ज्यादेः पात्रजातं पृथक् च ।
शुभ्रैर्वस्त्रैरूर्ध्वदेशं2 वितेने
शङ्कावर्जे भिक्षितुं जोषमन्तः ॥ ६ ॥
आनर्च पुष्पाक्षतधूपदीपैः
3परं गृहेशो यतिवर्यमेनम् ।
आतिष्ठतां पार्श्वगतौ वटू द्वौ
सचामरौ वीजनकर्म चक्रतुः ॥ ७ ॥
यथोचितं पात्रनिकायमध्ये
तदीयभार्या सुकुमारहस्ता ।
अन्नं घृतं पक्कविशेषजातं
तथोपदंशान् गुडवैकृतानि ॥ ८ ॥
भक्तानि चिक्षेप 4वराभिधान
5यस्यां बभूवोभयभारतीति ।
6पुरा किलाध्यैषत धातुरन्तिके
सर्वज्ञकल्पा मुनयो निजं निजम् ॥ ९ ॥
वेदं तदा दुर्वसनोऽतिकोपनो
वेदानधीयन् क्वचिदस्खलत्स्वरे ।
तदा जहासेन्दुमुखी सरस्वती
यदङ्गमणद्वशब्दसन्ततिः ॥ १० ॥
1का. स्याज्योदः । 2अ. देशे । का. देशान् ।
3अ. भक्तया गृहीशो । 4अ. पराभिधानं ।
5अ. यस्या ।
6इतः पूर्वमयं श्लोकार्धः अ. पुस्तकेऽधिको दृश्यते यथा -- "सरस्खती सा खलु
वस्तुवृत्त्या लोकोऽपि तां वक्ति सरस्वतीति” ॥ इति ।चुकोप तस्यै दहनानुकारिणा
निरैक्षताक्ष्णा मुनिरुग्रशासनः ।
शशाप तां दुर्विनयेऽवनीतले
जायस्व मर्त्येत्यबिभत्सरस्वती ॥ ११ ॥
प्रसादयामास निसर्गकोपनं
तत्पादमूले पतिता विषादिनी ।
दृष्टा विषण्णा मुनयस्सरस्वतीं
प्रसादयाञ्चक्रुरिमं तमादरात् ॥ १२ ॥
कृतापराधां भगावन् क्षमस्व तां
पितेब पुत्रं विहितागसं मुने ।
प्रसादितोऽभूदथ संप्रपन्नो
वाण्या मुनीन्द्रैरपि शापमोक्षम् ॥ १३ ॥
ददौ यदा मानुषशङ्करस्य
सन्दर्शनं स्याद्भवितास्यमर्त्या ।
सा शोणतीरेऽजनि विप्रकन्या
सर्वार्थवित्सर्वगुणोपपन्ना ॥ १४ ॥
यस्या बभूवुस्सहजाश्व विद्या
श्शिरोगतं के परिहर्तुमीशाः !
सर्वाणि शास्त्राणि षडङ्गवेदान्
काव्यादिकान्वेत्ति परञ्च सर्वम् ॥ १५ ॥
तन्नास्ति नो वेत्ति यदत्र बाला
तस्मादभूच्चित्रपदं जनानाम् ।
सा विश्वरूपं गुणिनं गुणज्ञा
मनोभिरामं द्विजपुङ्गवेभ्यः ॥ १६ ॥
शुश्राव ताञ्चापि स विश्वरूपो
जातं तयोर्दर्शनलालसं मनः ।
अन्योन्यसंदर्शनलालसौ तौ
चिन्ताप्रकर्षादधिगम्य निद्राम् ॥ १७ ॥
अवाप्य सन्दर्शनभाषणानेि
पुनः प्रबुद्धौ विरहाग्नितप्तौ ।
दिदृक्षमाणावापि नेक्षमाणा-
वन्याेन्यवार्ताहृतमानसौ तौ ॥ १८ ॥
यथोचिताहारविहारहीनौ-
तनोस्तनुत्वं स्मरणादुपैताम्1 ।
दृष्ट्वा तदीयौ पितरौ कदाचि-
दपृच्छतां तौ परिकार्शितङ्गौ ॥ १९ ॥
वपुःकृशं ते मनसोऽप्यगर्वो
न व्याधिमीक्षे न च हेतुमभ्यम् ।
इष्टस्य हानेरनभीष्टयोग-
द्भवन्ति दुःखानि शरीरभाजाम् ॥ २० ॥
वीक्षे न तौ द्वावपि 2वीक्षमणो
विना निदानं न हि कार्यजन्म ।
न तेऽत्यगादुद्वहनस्य कालः
परावमनो न च निःस्वता वा ॥ २१ ॥
कुटुम्बभारो मयि दुस्सहोऽयं
कुमारवृत्तेस्तव कात्र पीडा ।
न मूढभावः परितापहेतुः
पराजितिर्वा तव तन्निदानम् ॥ २२ ॥
1अ. पेत्रौ । 2अ. वीक्ष्यमाणौ ।
विद्वत्सु विद्वत्तरताग्रपाठात्
सुदुर्जयोऽर्थादपि तर्कविद्भिः ।
आजन्मना विहितकर्मनिषेवणं ते
स्वप्नेऽपि नास्ति विहितेतरकर्मसेवा ? ॥ २३ ॥
तस्मान्न भेयमाप नारकयातनाभ्यः
किन्ते मुखं प्रतिदिनं गतशोभमास्ते ।
निर्बन्धतो 1वहुदिनं प्रतिपाद्यमानौ
वाक्यं त्रपाभरयुताविदमूचतुः स्म ॥ २४ ॥
निर्बन्धतस्तव वदामि मनोगतं मे
वाच्यन्न वाच्यमिति यद्वितनोति लज्जाम् ।
शोणाख्यपुंनदतटीवसतेर्द्विजस्य
कन्या श्रुतिं गतवती द्विजपुङ्गवेभ्यः ॥ २५ ॥
सर्वज्ञतापदमनुत्तमरूपवेषा
तामुद्विवक्षति मनो भगवन्मदीयम् ।
पुत्रेण सन् सविनयं गदितोऽन्वशाद्द्वौ
विप्रौ वधूवरणकर्मणि सम्प्रवीणौ ॥ २६ ॥
तावापतुर्द्विजगृहं द्विजसन्दिदृक्षू
देशानतीत्य बहुलान्निजकार्यसिद्ध्यै ।
भूभृन्निकेतनगत श्रुतविश्वशास्त्रः
श्रीविश्वरूप इति यः प्रथितः पृथिव्याम् ॥ २७ ॥
तत्पादपद्मरजसं स्पृहयामि नित्यं
साहाय्यमत्र यदि तात भवान्विदध्यात् ।
2पुत्र्या वचः पिबति कर्णपुठेन ताते
श्रीविश्वरुपगुरुणा गृरूण द्विजानाम् ॥ २८ ॥
1का. वहुतिथ | 2अ. पुत्री ।
आजग्मतुस्सुवसनौ विशदाङ्गयष्टी
संप्रेषितौ सुतवरोद्वहनक्रियायै ।
1तावार्चिचद्द्विजवरो विहितोपचारै-
रायानकारणमथो शनकैरपृच्छत् ॥ २९ ॥
श्रीविश्वरूपगुरुवाक्यत आगतौ स्व
इत्यूचतुर्वरणकर्मणि कन्यकायाः ।
संप्रेषितौ श्रुतवयःकुलधर्मवृत्तै-
स्साधारणीं श्रुतवता स्वसुतस्य तेन ॥ ३० ॥
याचावहे तव सुतां द्विज तस्य हेतो-
रन्योन्यसङ्घटनमेतु मणिद्वयं तत् ।
मह्यं तदुक्तमभिरोचत एव विप्रौ
3दृष्टा वधूर्मम पुनः करवाणि नित्यम् ॥ ३१ ॥
कन्याप्रदानमिदमदधते3 वधूषु
नो चेदमर्व्यसनसक्तिषु पीडयेयुः
भार्यामपृच्छदथ किं 4करवाव भद्रे
विप्रौ वरीतुमनसौ द्विजराजगेहात् ॥ ३२ ॥
एतां सुतां सुतनया तव सा च कन्या
ब्रूही त्वमेकमनुमाय पुनर्न वाच्यम् ।
दूरे स्थितिः श्रुतवयःकुलवृत्तजातं
न ज्ञायते दयित किं प्रवदामि तुभ्यम् ॥ ३३ ॥
5वृत्तान्विताय कुलवृत्तिसमन्विताय
देयः सुतेति विदितं श्रुतिलोकयोश्च ।
नैवं नियन्नुमनघे तव शक्यमेत-
त्तां रुक्मिणीं 6यदुवराय कुशस्थलीशः ॥ ३४ ॥
1अ. तावागतौ द्विजवरौ विहितोपचारौ । 2का. पृष्टा ।
3अ. आयतते । 4का. करवाणि ।
5अ. विद्यान्विताय । 6क. यदुकुलाय ।प्रादात्स भीष्मकसुतः खलु कुण्डिनेश-
स्तीर्थापदेशमठतेऽन्वपरीक्षिताय ।
किं केन सङ्गतमिदं सति मा विचारी-
र्यो वैदिकीं सरणिमप्रहतां प्रयत्नात् ॥ ३५ ॥
प्रातिष्ठिपत्सुगदुर्जयनिर्जयेन
शिष्यं यमेनमशिषत्स च भट्टपादः ।
किं वर्ण्यते सुदति यो भविता वरो 1नो
विद्याधनं द्विजवरस्य न बाह्यवित्तम् ॥ ३६ ॥
याऽन्वेति सन्ततमनन्तदिगन्तभाजो
यां 2राजचोरवनिता न च हर्तुमीशाः ।
संक्षीयते न तु सदा प्रतिपादने या
वध्वार्जनावनपरिव्ययगानि तानि ॥ ३७ ॥
वित्तानि चित्तमनिशं परिखेदयन्ति
चोरान्नृपात्खजनतश्च भयं धनानाम् ।
शर्मेति जातु न गुणः खलु बालिशस्य
केचिद्धनं निदधते भुवि नोपभोगम् ॥ ३८ ॥
कुर्वन्ति लोभवशगा न विदन्ति केचि-
दन्येन गोपितमुतान्यजना हरन्ति ।
तच्चेन्नदीपरिसरे जलमेव हर्तु
सर्वात्मना दुहितरो न गृहे विधेयाः ॥ ३९ ॥
ताश्चेत्पुरा परिणयाद्रज उद्गतं स्वं
पश्येयुरात्मपितरौ बत पातयन्ति ।
दुःखेषु 3घोरनिरयेष्विति धर्मशास्त्रं
मा भूदयं मम सुताकलहः कुमारीम् ॥ ४० ॥
1अ. नौ । 2 अ. गणिका ।
3अ. घोरनरकेष्विति ।
Sankara-5पृच्छाव सा वदति यं भविता वरोऽस्या
एवं विधाय समयं पितरौ कुमार्याः ।
अभ्याशमीयतुरितो गदितेष्टकार्यौ
श्रीविश्वरूपगुरुण प्रहितौ द्विजौ द्वौ ॥ ४१ ॥
कन्यार्थिनौ सुतनु किं करवाव वाक्यात्
तस्याः प्रमोदनिचयो न ममाै शरीरे ।
रोमाञ्चपूरमिषतो बहिरुज्जगाम
तेनैव सा प्रतिवचः प्रददौ पितृभ्याम् ॥ ४२ ॥
तेनैव तावपि तयोर्युगलाय सत्य-
मादाय विप्रमपरं पितृगेहतोऽस्याः ।
तौ जग्मतुर्द्विजवरौ स्वनिकेतनाय
................ ? ॥ ४३ ॥
अस्माच्चतुर्दशदिने भविता दशम्यां
1जामित्रतादिगुणपूगयुतो मुहूर्तः ।
एवं विलिख्य गणितादिषु कौशलस्य
विख्यापनाय दिशति स्म सरस्वती सा ॥ ४४ ॥
तौ हृष्टपुष्टमनसौ विहितेष्टकार्यो
श्रीविश्वरूपगुरुमुत्तममैक्षिषाताम् ।
सिद्धं समीहितमिति 2प्रथितानुभावौ
दृष्टै्वव तन्मुखमसावथ निश्रिकाय ॥ ४५ ॥
अन्यः स्वहस्तगतपत्रमथार्पिपत्तत्
दृष्ट्वा जहास सुखवारिनिधौ ममज्ज ।
विप्रान् यथोचितमपुपुजदागतांस्तान्
रत्नांशुकादिभिरयं बहुविप्तलभ्यैः ॥ ४६ ॥
1क. शामित्र । 2अ. भावो ।
पित्रानुशिष्टवसुधासु-संहितेन
विज्ञापितस्सुखमवाप स विश्वरूपः ।
कार्याण्यवीवददथाऽऽत्मजनान् समेतान्
बन्धुप्रियः परिणयोचितसाधनाय ॥ ४७ ॥
मौहूर्तिका बहव एत्य मुहूर्तजातं
1संप्रार्थिता द्विजवरैर्बहुविद्भिरिष्टैः ।
माङ्गल्यवस्तुसहितोऽखिलभूषणाढ्य-
स्संप्रापदक्षततनुः पृथुशोणतीरम् ॥ ४८ ॥
शोणस्य तीरमुपयात2मुपाशृणोत्स
जामातरं बहुविदं किल विष्णुमित्र ।
प्रत्युञ्जगाम मुमुदे प्रियदर्शनेन
प्रावींविशद्गृहममुं बहुवाद्यघोषैः ॥ ४९ ॥
दत्वासनं मृदुवचस्समुदीर्य तस्मै
पाद्यं ददौ स मधुपर्कमनर्घ्यपात्रे ।
अर्घ्यं ददावहमियं तनया ग्रहास्ते
गावौ हिरण्यमखिलं भवदीयमूचे ॥ ५० ॥
अस्माकमद्य पवितं कुलमदृताः स्म
सन्दर्शनं परिणयव्यपदेशतोऽभूत् ।
नो चेद्भवान् बहुविदग्रसरः क्व चाहं।
भद्रेण भद्रमुपयानि पुमान्विपाकात् ॥ ५१ ॥
यद्यद्गृहेऽत्र भगवन्निह रोचते ते
तत्तन्निवेद्यमखिलं भवदीयमेतत् ।
वक्ष्यामि सर्वमभिलाषपदं त्वदीयं
युक्तं हि सन्ततमुपासितवृद्धपूगे ॥ ५२ ॥
1अ. संप्रार्थितं । 2अ. उपयान्तम् ।
Sankara--5Aएवं मिथः परिणिगद्य विशेषमृद्वी
वाचायुतौ मृदमवापतुरुत्तमां तौ ।
अन्ये च संमुमुदिरे प्रियसत्कथाभिः
स्वेच्छाविहारहसनैरुभयोर्विधेयाः ॥ ५३ ॥
कन्यावरौ प्रकृतिसिद्धसुरूपवेषौ
दृष्ट्वा द्वयेऽपि परिकर्म विलम्बमानाः ।
चक्रुर्विधेयमिति 1कृत्यमनीश्वरास्ते
शोभाविशेषमपि मङ्गलवासरेऽस्मिन् ॥ ५४ ॥
एतत्प्रभाप्रतिहतात्मविभूतिभावात्
आकल्पजातमापि नातिशयं वितेने ।
लोकप्रसिद्धिमनुसृत्य विधेयबुद्ध्या
भूषां व्यधुस्तदुभये न विशेषबुद्ध्या ॥ ५५ ॥
मौहूर्तिका बहुविदोऽपि मुहूर्तकालं
अप्राक्षुरक्षतधियं 2किल तां 3सखीभिः ।
पश्चात्तदुक्तशुभयोगयुते शुभांशे
मौहूर्तिकाः स्वमतितो जगृहुर्मुहूर्तम् ॥ ५६ ॥
जग्राह पाणिकमलं हिममित्रसूनुः
श्रीविष्णुमित्रदुहितुः करपल्लवेन ।
भेरीमृदङ्गपटहाध्ययनाब्जघोषै-
र्दिङ्मण्डलेषु परिमूर्छति 4दिव्यकाले ॥ ५७ ॥
यं यं पदार्थमभिकामयते पुमान्यः
तं ते प्रदाय समतूतुषतां तदीड्यौ ।
देवद्रुमाविव महासुमनस्त्वयुक्तौ
संभूषितौ सदसि चेरतुराप्तलाभौ ॥ ५८ ॥
1अ. कर्तुं । 2अ. खलु ।
3का. सखीभ्यः । 4अ. दानकाले ।आधाय वह्निमथ तत्र जुहाव सम्य-
ग्गृह्योक्तमार्गमनुसृत्य स विश्वरूपः ।
लाजान् जुहाव च वधूः परिजिघ्रति स्म
धूमं प्रदक्षिणमथाकृत सोऽपि चाग्निम् ॥ ५९ ॥
होमावसानपरितोषितविप्रवर्यः
प्रस्थापिताखिलसमागतबन्धुवर्गः ।
संरक्ष्य वह्नि1ममुया सममग्निगेहे
दीक्षाधरो दिनचतुष्कमुवास हृष्टः ॥ ६० ॥
प्रातिष्ठमाने दयिते वरेऽस्मि-
न्नुपेत्य मातापितरौ वराय ।
अभाषिषातां श्रुणु सावधानो
बालैव बाला न तु वेत्ति किञ्चित् ॥ ६१ ॥
बालैरियं क्रीडति कन्दुकाद्यै-
र्जातक्षुध गेहमुपैति दुःखात् ।
एकेति बाला गृहकर्म नोक्ता
संरक्षणीया निजपुत्र2तुल्यम् ॥ ६२ ॥
बालेयमङ्ग वचनैर्मृदुभिर्विधेया
कार्या न रूक्षवचनैर्न करोति रुष्टा ।
केचिन्मृदूक्तिवशगा विपरीतभावाः
केचिद्विहातुमनलं प्रकृतिं जनो हि ॥ ६३ ॥
कश्चिद्द्विजातिरधिगम्य कदाचिदेना-
मुद्वीक्ष्य लक्षणमवोचदनिन्दितात्मा ।
मानुष्यमात्रजननं निजदेहभावे-
त्यस्माच्च वो वचनमुग्रमयोज्यमस्याम् ॥ ६४ ॥
1अ. अनथा । अ. तुल्या ।
सर्वज्ञतालक्षणमस्ति पूर्णमेषा कदाचिद्वदतोः कथायाम् ।
तत्साक्षिभावं व्रजितानवद्या सन्दिश्य नावेवमसौ जगाम ॥ ६५ ॥
श्वश्रूर्वराया वचनेन वाच्या
स्नुषाभिरक्ष्या यतते हि तस्याम् ।
निक्षेपभूता तव सुन्दरीयं
कार्या गृहे कर्म शनैः शनैस्ते ॥ ६६ ॥
बालेषु वाल्यात्सुलभोऽपराध-
स्स नेक्षणीयो गृहिणीजनेन ।
वयं सुतीभूय हि सर्व एव
पश्चाद्गुरुत्वं शनकैः प्रयाताः ॥ ६७ ॥
दृष्ट्वाभिधातुञ्च मनोऽस्मदीयं ?
गेहाभिरक्षणविधौ न हि दृश्यतेऽन्यः ।
दृष्ट्वाभिधानफलमेव भवेद्यथा नौ
भूयात्तदेष्टजनतां जननीं वरस्य ॥ ६८ ॥
वत्से त्वमद्य गमितासि दशामपूर्वां
तद्रक्षणे निपुणधीर्भव सुभ्रु नित्यम् ।
कुर्यान्न बालविहृतिं जनतोपहास्यां
सा नाविवापरमियं 1परितोषयेत्ते ॥ ६९ ॥
पाणिग्रहात्स्वामियुतं समीरितं
पुरा कुमार्याः पितरौ ततः परम् ।
पतिस्तमेकं शरणं व्रजानिशं
लोकद्वयं जेष्यसि येन दुर्जयम् ॥ ७० ॥
1अ. परिपोषयेत्ते ।
पत्यावभुक्तवति सुन्दरि माशु भुङ्क्थाः
याते प्रवासमपि मा स्म भवद्विभूषा ।
पूर्वापरादिनियमोऽस्ति निमज्जनादौ
वृद्धाङ्गनाचरितमेव परं प्रमाणम् ॥ ७१ ॥
रुष्टे घवे ह युयुजे ह न वाच्यमेकं
क्षन्तव्यमेव निखिलं स तु शाम्यतीत्थम् ।
तस्मिन्प्रसन्नवदने 1चकितेव वग्धि
सिद्ध्यत्यभीष्टमनघे क्षमयैव सर्वम् ॥ ७२ ॥
भर्तुस्समक्षमपि तद्वदनं समीक्ष्य
वाच्यो न जातु सुभगे परपूरुषस्ते ।
किं वाच्य एष रहसीति तवोपदेश-
श्शङ्का वधूपुरुषयोः क्षपयेद्धि हार्दम् ॥ ७३ ॥
आयाति भर्तरि तु पुत्रि विहाय कार्य-
मुत्थाय शीघ्रमुदकेन 2पदावनेन ।
कार्यं यथाभिरुचितं सति जीवनं वा
नोपेक्षणीयमणुमात्रमपीह कान्ते ॥ ७४ ॥
घवे परोक्षेऽपि कदाचिदेयुर्गुहं तदीया अपि वा महान्तः ।
ते पूजनीया बहुमानपूर्वं नो चेत् निराशाः कुलदाहकाः स्युः ॥ ७५ ॥
पित्रोरिव श्वशुरयोरनुवर्तितव्यं
तद्वन्मृगाक्षि सहजेष्विव देवरेषु ।
ते स्नेहिनोऽपि कुपिता इतरेतरस्य
योगं विभिन्द्युरिति में मनसि प्रतर्कः ॥ ७६ ॥
1अ. चकिते च भद्रे ।; का. चकितेव भूयाः ।
2अ. अनेजः ।; का वसेकम् ।हितोपदेशे विनिविष्टमानसौ
वधूवरौ राजपुरं समीयतुः ।
लब्धानुमानौ गुरुबन्धुवर्गतो
बभूव संज्ञोभयभारतीति ॥ ७७ ॥
सा भारती चुलुकिते भगवत्पदस्य
हस्ते जलं समदिता1च्छमनोहराङ्गी ।
तस्थौ मुनेस्तदनु कारणमानुषस्य
मूर्तिं शिवस्य मुदिता समुदीक्षमाणा ॥ ७८ ॥
पाथश्चिरं संदधदेव शङ्करो
न चापिबन्नापि मुमोच चिन्तया ।
तदा मनः क्षोभमियाय गेहिनः
किमेतदासीदिति चिन्तयाकुलम् ॥ ७९ ॥
भृत्यापराधोऽयमथात्मनो वा
केनेदमानायि जलं कुतो वा ।
को वार्पिपद्भिक्षुपदेऽमलेऽस्मिन्
न चिन्तयन् हेतुमवैक्षतासौ ॥ ८० ॥
आनाय चैत्रेण जलं सरस्या-
स्समार्पिपत्सोभयभारतीति ।
अवादिषुस्तत्र जनास्समक्षं
ततश्शशङ्गे किल विश्वरूपः ॥ ८१ ॥
नागस्कृतः परिजना न जलं न पेयं
पानीयमेव भवति ध्रुवमस्य कोपः ।
जायेत सस्मितमुखं मुनिमेनमीक्षे
हेत्वन्तरं न च यतोऽस्य पयः प्रकल्प्यस् ॥ ८२ ॥
1अ. अतिमनोहराङ्गी ।
इत्थं विचिन्त्य मुनिमेव पुनः प्रपेदे
निर्बन्धतोऽस्य मुनिराख्यदमुष्य हेतुम् ।
कार्यं ममास्ति यदि चात्र भवान्विदध्यात्
भुञ्जेऽन्नमक्षयमिदं प्रपिबामि पाथः ॥ ८२ ॥
कुर्वे तदत्र भवने यदि शक्यमेतत्
कर्तुं ब्रवीतु तदशङ्कितमेव भिक्षो ।
सार्धे त्वया वदितुमिच्छति मे मनोऽर्हन्
तच्चेत्प्रदास्यति भवान्प्रपिबामि पाथः ॥ ८३ ॥
1अत्यन्तमेतद्भवतेरितं मुने
पास्यामि पाथो यदि वाददित्सुता ।
कृतोद्यमोऽहं श्रुतवादवार्तया
चिरेप्सितोऽयं वदिता न कश्चन ॥ ८४ ॥
वादं करिष्यामि न सन्दिहेऽत्र
जयाजयौ नौ वदिता न कश्चित् ।
न कण्ठशोषैकफलो विवादो
मिथो जिगीषु कुरुतस्तु वादम् ॥ ८५ ॥
वादे हि वादिप्रतिवादिनौ द्वौ
विपक्षपक्षग्रहणं विधत्तः ।
का नौ प्रतिज्ञा वदतोश्च तस्यां
किं मानमिष्टं वद किंस्वभावम् ॥ ८६ ॥
कः प्राश्निकोऽहं गृहमेधिसत्तम-
स्त्वं भिक्षुराजो वदतामनुत्तमः ।
जयाजयौ नौ सपणौ विधीयतां
ततः परं साधु वदाव सस्मितौ ॥ ८७ ॥
1अ. अत्यल्पं ।
श्रीविश्वरूपेण समीरितं वचः
श्रुत्वा मुनीन्द्रो मुदितोऽमृतं पपौ ।
पीत्वा यथेष्टं बुभुजेऽमृताशनं
सरस्वती सार्पयति स्म शोभना ॥ ८९ ॥
सुखोपविष्टस्य विघाय भिक्षां
पदे गृहीत्वानुमतस्स तेन ।
अभुङ्क्त शिष्टाशनमिष्टभोजी
पश्चादभुङ्क्तोभयभारती सा ॥ ९० ॥
ब्रह्मैकं परमार्थसच्चिदमलं विश्वप्रपञ्चात्मना
शुक्ती रूप्यपरात्मनेव बहुलाज्ञानावृतं भासत ।
तज्ज्ञानान्निखिलप्रपञ्चविलयात्स्वात्मन्यवस्था परं
निर्वाणार्जनमुक्तमभ्युपगतं मानं श्रुतेर्मस्तकम् ॥ ९१ ॥
बाढं जये यदि पराजयभागहं स्यां
संन्यासमङ्ग परिहृत्य कषायचैलम् ।
शुक्लं वसीय वसनं द्वयभारतीयं
वादे 1पराजयजयप्रतिपादिकास्तु ॥ ९२ ॥
इत्थं प्रतिज्ञां कृतवत्युदारां
श्रीशङ्करे भिक्षुवरे स्वकीयाम् ।
स विश्वरूपो गृहमेधिवर्य-
श्चक्रे प्रतिज्ञां स्वमतप्रतिष्ठाम् ॥ ९३ ॥
वेदान्तो न प्रमाणं त्वतिवपुषि पदे तत्र 2संपत्तियोगात्
पूर्वो भागः प्रमाणं पदचयगमिते कार्यवस्तुन्यशेषे ।
शब्दानां कार्यमात्रं प्रति समधिगता शक्तिरभ्युन्नतानां
कर्मभ्यो मुक्तिरिष्टा तदिह तनुभृतामायुषः स्यात्समाप्तिः ॥ ९४ ॥
1का. जयाजयफलप्रतिपादिकास्तु । 2अ. सम्यत्प्रयोगात् ।
वादे कृतेऽस्मिन्यदि मे पराजय-
स्त्वयोदितात्स्याद्विपरीत भावः ।
येयं त्वयाऽभूद्गदितात्र1 साक्ष्ये
जानाति चेत्सा भविता वधूर्मम ॥ ९५ ॥
2इति प्रतिज्ञां 3सपणां विधाय
वादं व्यधत्तां किल देशिकेन्द्रौ ।
कृत्वा तु वाणीमथ साक्षिभावे
जयाजयप्राप्तिविधानदक्षाम् ॥ ९६ ॥
आवश्यकं परिसमाप्य दिनेदिने तौ
वादं समं व्यतनुतां किल सर्ववेदौ ।
एवं विजेतुमनसोरुपविष्टयोस्तां
मालां गले व्यधित सोभयभारतीयम् ॥ ९७ ॥
माला यदा मलिनभावमुपैति कण्ठे
यस्यापि तस्यविजयेतरनिश्चयः स्यात् ।
उक्त्वा गृहं गतवती गृहकर्मसक्ता
4भिक्षाशने वितरितुं गृहिमस्करिभ्याम् ॥ ९८ ॥
अन्योन्यसञ्जयफले विहितादरौ तौ
वादं 5विवादपरिनिर्णयमात्रनिष्ठम् ।
ब्रह्मादयस्सुरवरा अपि वाहनस्थाः
श्रोतुं तदीयसदनं स्थितवन्त ऊर्ध्वम् ॥ ९९ ॥
दिनेदिने वासरमध्यमे सा
ब्रूते पतिं भोजनकालमेव ।
समेत्य भिक्षुं समयञ्च भैक्षे
दिनान्यभूवन्निति पञ्चषाणि ॥ १०० ॥
1का. गदिता प्रसाक्ष्ये । 2अ. इत्थं ।
3अ. सपणं । 4का. भिक्षाशनेऽपि कलितुं ।
5क. विवादपदनिर्णयमातनिष्टाम् ।; का. विवादपणनिर्णयमातनिष्ठाम् ।अन्योन्यमुत्तरमखण्डयतां 1प्रगल्भौ
बद्धासनौ स्मितविकासिमुखारविन्दौ ।
न स्वेदवारिगगनेक्षणशालिनौ वा
न क्रोधवाकूछलमवादि निरुत्तराभ्याम् ॥ १०१ ॥
सा सप्तमे दिन उपेत्य सरस्वती तौ
संवीक्ष्य भिक्षितुमभूदुभयो2रनेहा ।
उक्त्वेत्थमादरधिया वचनं स्वभर्तु-
रन्तर्दधे 3सुवदना किल शापमुक्ता ॥ १०२ ॥
स विश्वरूप बत सत्यवादी
पपात पादाम्बुजयोर्यतीशः ।
गृहं शरीरं मम यच्च सर्वं
तवेतिवादी मुदितो महात्मा ॥ १०३ ॥
सन्यासपूर्वं विधिवद्बिभिक्षे
पश्चादुपादिक्षदथात्मतत्वम् ।
आचार्यवर्यः श्रुतिमसकस्थं
तदादिवाक्यं पुनराबभाषे ॥ १०४ ॥
भूभृद्गेहनिवेशनं गृहपतेर्गेहस्थभिक्षा क्रिया
वागीशाजनिपाणिपीडनमथो वादश्च तत्साक्षिकः ।
यत्राऽभाणि च 4शङ्करेऽत्र विजये व्यासाचलप्रोदिते
षष्ठस्सर्ग उपारमद्बहुकथासम्बन्धहृद्योऽनघः ॥ १०५ ॥
॥ इति श्रीशङ्करविजये व्यासाचलीये षष्ठस्सर्गः ॥