वेणीसंहारम् (आङ्गलटिप्पणीसहितम्)/द्वितीयोऽङ्कः

विकिस्रोतः तः
← प्रथमोऽङ्कः वेणीसंहारम् (आङ्गलटिप्पणीसहितम्)
द्वितीयोऽङ्कः
भट्टनारायणः
तृतीयोऽङ्कः →

द्वितीयोङ्कः ।


( ततः प्रविशति कञ्चुकी । )

 कञ्चुकी-- आदिष्टोऽस्मि महाराजदुर्योधनेन–-'विनयंधर! सत्वरं गच्छ त्वम् । अन्विष्यतां देवी भानुमती । अपि निवृत्ता अम्बायाः पादवन्दनसमयान्नवेति । यतस्तां विलोक्य निहताभिमन्यवो राधेयजयद्रथप्रभृतयोऽस्मत्सेनापतयः समरभूमिं गत्वा सभाजयितव्याः' इति । तन्मया द्रुततरं गन्तव्यमित्यहो प्रभविष्णुता महाराजस्य । यन्मम जरसाभिभूतस्य मर्यादामात्रमेवावरोधनिवासः । अथवा किमिति जरामुपालभेय । यतः सर्वांतःपुरिकाणामयमेव व्यावहारिको वेषश्चेष्टा च । तथाहि ।

नोच्चैः सत्यपि चक्षुषीक्षितमलं श्रुत्वापि नाकर्णितं ।
शक्तेनाप्यधिकार इत्यधिकृता यष्टिः समालम्बिता ।
सर्वत्र स्खलितेषु दत्तमनसा यातं मया नोद्धतं ।
सेवास्वीकृतजीवितस्य जरसा किं नाम यन्मे कृतम् ॥ १ ॥

( परिक्रम्य दृष्ट्वा । आकाशे । ) विहङ्गिके! अपि श्वश्रूजनपादवन्दनं कृत्वा प्रतिनिवृत्ता भानुमती ? ( कर्णं दत्वा । ) किं कथयसि–-आर्य ! एषा भानुमती देवी पत्युः समरविजयाशंसया निर्वर्तितगुरुदेवपादवन्दनाद्यप्रभृत्यारब्धनियमा बालोद्याने तिष्ठतीति । तद्भद्रे! गच्छ त्वमात्मव्यापाराय । यावदहमप्यत्रस्थां देवीं महाराजस्य निवेदयामि । ( परिक्रम्य । ) साधु पतिव्रते! साधु । स्त्रीभावेऽपि वर्तमाना वरं भवती न पुनर्महाराजः । योऽयमुद्यतेषु बलवत्स्वबलवत्सु वा वासुदेवसहायेषु पाण्डुपुत्रेष्वरिष्वद्याप्यन्तःपुरविहारसुखमनुभवति । ( विचिंत्य ।) इदमपरमयथातथं स्वामिनश्चेष्टितम् । कुतः ?

आशस्त्रग्रहणादकुण्ठपरशोस्तस्यापि जेता मुने--
स्तापायास्य न पाण्डुसूनुभिरयं भीष्मः शरैः शायितः ।
प्रौढानेकधनुर्धरारिविजयश्रान्तस्य चैकाकिनो
बालस्यायमरातिलूनधनुषः प्रीतोऽभिमन्योर्वधात् ॥ २ ॥

सर्वथा दैवं नः स्वस्ति करिष्यति । तद्यावदत्रस्थां देवीं महाराजस्य निवेदयामि ( इति निष्क्रान्तः ।)

विष्कम्भकः ।


( ततः प्रविशत्यासनस्या देवी भानुमती सखी चेटी च ।)

 सखी--सहि भाणुमदि ! कीस दाणीं तुमं सिविणअदंसणमेत्तस्स किदे अहिमाणिणो महाराअदुज्जोहणस्स महिसी भविअ एव्वं विअलिअधीरभावा आतिमेत्तं संतप्पसि ? (सखि भानुमति ! कस्मादिंदानीं त्वं स्वप्नदर्शनमात्रस्य कृतेऽभिमानिनो महाराजदुर्योधनस्य महिषी भूत्वैवं विगलितधीरभावातिमात्र संतप्यसे ? )

 चेटी-- भट्टिणि ! सोहणं भणादि सुवअणा । सिविणअन्तो जणो किं ण प्पलवदि ? (भट्टिमि ! शोभनं भणति सुवदना । स्वपञ्जनः किं न खलु प्रलपति ? )

 भानुमती–-हञ्जे ! एव्वंण्णेदं । किं णु एदं सिविणअं अदिमेत्तं अकुसलदंसणं मे पडिभादि ? (हञ्जे एवमिदम् । किंन्वयं स्वप्नोऽतिमात्रमकुशलदर्शनो मे प्रतिभाति ? )

 सखी–-जइ एव्वं ता कहेदु पिअसही । जेण अम्हे वि पडिट्ठावअन्तीओ प्पसंसाए देवदासंकित्तणेण अ पडिहरिस्सामो । (यद्येवं तत्कथयतु प्रियसखी । येनावामपि प्रतिष्ठापयन्त्यौ प्रशंसया देवतासंकीर्तनेन च परिहरिष्यावः ।)

 चेटी--देवि ! एन्वंण्णेदं । अकुसलदंसणा वि सिविणआ पंससाए कुसलपरिणामा होन्ति त्ति सुणीअदि । ( देवि ! एवमिदम् । अकुशलदर्शना अपि स्वप्नाः प्रशंसया कुशलपरिणामा भवन्तीति श्रूयते ।)

 भानुमती--जइ एव्वं ता कहइस्सम् । अवहिदा होध । ( यद्येवं तत्कथयिष्ये । अवहिते भवतम् ।)

 सखी—-कहेदु पिअसही। ( कथयतु प्रियसखी )

 भानुमती--मुहुत्तअं चिट्ठ जाव सव्वं सुमरिस्सम् । ( मुहूर्तं तिष्ठ यावत्सर्वं स्मरिष्यामि । ( इति चिन्तां नाटयति ।)

( ततः प्रविशति दुर्योधनः कञ्चुकी च )

 दुर्योधन-- सूक्तमिदं कस्यचित् ।

गुप्त्या साक्षान्महानल्पः स्वयमन्येन वा कृतः ।
करोति महतीं प्रीतिमपकारोऽपकारिणाम् ॥ ३ ॥

येनाद्य द्रोणकर्णजयद्रथादिभिर्हतमभिमन्युमुपश्रुत्य समुच्छ्वसितंमिव नश्चेतसा ।

 कञ्चुकी--देव ! नेदमतिदुष्करमाचार्यशस्त्रप्रभावाणाम् । कर्णजयद्रथयोर्वा कात्र श्लाघा ?

 राजाः--विनयंधर ! किमाह भवान् ? एको बहुभिर्वालो लूनशरासनश्च निहत इत्यत्र का श्लाघा कुरुपुङ्गवानामिति । मूढ ! पश्य ।

हते जरति गाङ्गेये पुरस्कृत्य शिखण्डिनम् ।
या श्लाघा पाण्डुपुत्राणां सैवास्माकं भविष्यति ॥ ४ ॥

 कञ्चुकी--( सवैलक्ष्यम् । ) देव! न ममायं संकल्पः । किं तु वः पौरुषप्रतीघातोऽस्माभिरनालोकितपूर्व इत्यत एवं विज्ञापयामि ।

 राजा-- एवमिदम् ।

सहभृत्यगणं सबान्धवं सहमित्रं ससुतं सहानुजम् ।
स्वबलेन निहन्ति संयुगे न चिरात्पाण्डुसुतः सुयोधनम् ॥ ५ ॥

 कञ्चुकी--( कर्णौ पिधाय । सभयम् ।) शान्तं पापम् । प्रतिहतममङ्गलम् ।

 राजा--विनयंधर ! कि मयोक्तम् ?

 कंचुकी--

सहभृत्यगणं सबान्धवं सहमित्रं ससुतं सहानुजम् ।
स्वबलेन निहन्ति संयुगे न चिरात्पाण्डुसुतं सुयोधनः ॥ ६ ॥

एतद्विपरीतमभिहितं देवेन ।

 राजा-- विनयंधर ! अद्य खलु भानुमती यथापूर्वं मामनामन्त्र्य वासभवनात्प्रातरेव निष्क्रान्तेति व्याक्षिप्तं मे मनः । तदादेशय तमुद्देशं यत्रस्था भानुमती ।

 कंचुकी-- इत इतो देवः ।

(उभौ परिक्रामतः । )

 कचुञ्की--(पुरोऽवलोक्य समन्ततो गन्धमाघ्राय ।) देव ! पश्य पश्य । एतत्तुहिनकणशिशिरसमीरणोद्वेल्लितबन्धच्युतशेफालिकाविरचितकुसुमप्रकरमीषदालोहितमुग्धवधूकपोलपाटललोध्रप्रसूनविजितश्यामलतासौभाग्यमुन्मीलितबहुलकुन्दकुसुमसुरभिशीतलं प्रभातकालरमणीयमग्रतस्ते बालोद्यानम् । तदवलोकयतु देवः । तथाहि ।

 प्रालेयमिश्रमकरन्दकरालकोशैः
  पुष्पैः समं निपतिता रजनीप्रबुद्धैः ।
 अर्कांशुभिन्नमुकुलोदरसान्द्रगन्ध-
  संसूचितानि कमलान्यलयः पतन्ति ॥ ७ ॥

 राजा--( समन्तादवलोक्य । ) विनयंधर ! इदमपरममुष्मिन्नुषसि रमणीयतरम् । पश्य ।

 जृम्भारम्भप्रविततदलोपान्तजालप्रविष्टै--
  र्हस्तैर्भानोर्नृपतय इव स्पृश्यमाना विबुद्धाः ।
 स्त्रीभिः सार्धं घनपरिमलस्तोकलक्ष्याङ्गरागा
  मुञ्चन्त्येते विकचनलिनीगर्भशय्यां द्विरेफाः ॥ ८ ॥

 कञ्चुकी–- देव नन्वेषा देवी सुवदनया तरलिकया च सहोपविष्टा तिष्ठति । तदुपसर्पतु देवः ।

 राजा-- ( दृष्ट्वा । ) आर्य विनयंधर ! गच्छ त्वं साङ्ग्रामिकं मे रथमुपकल्पयितुम् । अहमप्येष देवीं दृष्ट्वानुपदमागत एव ।

 कञ्चुकी--यथाज्ञापयति देवः (इति निष्क्रान्तः ।)

 सखी--पिअसही ! अवि सुमरिदं तुए ? ( प्रियसखि ! अपि स्मृतं त्वया ? )

 भानुमती-- सहि ! सुमरिदम् । अज्ज किल पमदवणे आसीणाए मह अग्गदो एव्व दिव्वरूविणा णउलेण अहिसदं वावादिदम् ( सखि ! स्मृतम् । अद्य किल प्रमदवन आसीनाया ममाग्रत एव दिव्यरूपिणा नकुलेनाहिशतं व्यापादितम् । )

 उभे--( आत्मगतम् ।) सन्तं पावम् । पडिहदं अमङ्गलम् । (प्रकाशम् ) तदो तदो । ( शान्तं पापम् । प्रतिहतममङ्गलम् । ततस्ततः ।)

 भानुमती-- अदिसंदावोवग्गाहिअहिअआए विसुमरिदं मए । ता पुणोविसुमरिअ कहइस्सम् (अतिसंतापोपगृहीतहृदयया विस्मृतं मया । तत्पुनरपि स्मृत्वा कथयिष्ये । )

 राजा--अहो देवी भानुमती सुवदनातरलिकाभ्यां सह किमपि मन्त्रयमाणा तिष्ठति । भवतु अनेन लताजालेनान्तरितः शृणोमि तावदासां विश्रब्धालापम् । ( इति तथा स्थितः )  सखी--सहि ! अलं संदावेण । कहेदु पिअसही । ( सखि ! अलं संतापेन । कथयतु प्रियसखी । )

 राजा–-किं नु खल्वस्याः संतापकारणम् । अथवानामन्त्र्य मामियमद्य वासभवनान्निष्क्रान्तेति समर्थित एवास्या मया कोपः । अयि भानुमति! अविषयः खलु दुर्योधनो भवत्याः कोपस्य ।

 किं कण्ठे शिथिलीकृतो भुजलतापाशः प्रमादान्मया
  निद्राच्छेदविवर्तनेष्वभिमुखं नाद्यासि संभाविता ।
 अन्यस्त्रीजनसंकथालघुरहं स्वप्ने त्वया लक्षितो
  दोषं पश्यसि कं प्रिये परिजनोपालम्भयोग्ये मयि ? ॥ ९ ॥

( विचिन्त्य । ) अथवा ।

 इयमस्मदुपाश्रयैकचित्ता
  मनसा प्रेमनिबद्धमत्सरेण ।
 नियतं कुपितातिवल्लभत्वा-
  त्स्वयमुत्प्रेक्ष्य ममापराधलेशम् ॥ १० ॥

तथापि श्रृणुमस्तावत्किं नु वक्ष्यतीति ।

 भानुमती—- तदो अहं तस्स अदिसइददिव्वरूविणो णउलस्स दंसणेण उच्छुआ जादा हिदहिअआ अ । तदो उज्झिअ तं आसणट्ठाणं लदामण्डवं पविसिदुं आरद्धा । ( ततोऽहं तस्यातिशायितदिव्यरूपिणो नकुलस्य दर्शनेनोत्सुका जाता हृतहृदया च । तत उज्झित्वा तदासनस्थानं लतामण्डपं प्रवेष्टुमारब्धा ।)

 राजा-- ( सवैलक्ष्यम् ।) किं नामातिशयितदिव्यरूपिणो नकुलस्य दर्शनेनोत्सुका जाता हृतहृदया च ? तत्किमनया पापया माद्रीसुतानुरक्तया वयमेवं विप्रलब्धाः? ( सोत्प्रेक्षम् । 'इयमस्मत्'- ( २।१०) इति पठित्वा । ) मूढ दुर्योधन! कुलटाविप्रलभ्यमानमात्मानं बहु मन्यमानोऽधुना किं वक्ष्यसि ? ( 'किं कण्ठे:'( २।९ ) इत्यादि पठित्वा । दिशोऽवलोक्य । ) अहो, एतदर्थमेवास्याः प्रातरेव विविक्तस्थानाभिलाषः सखीजनसंकथासु च पक्षपातः । दुर्योधनस्तु मोहादविज्ञातबन्धकीहृदयसार: क्वापि परिभ्रान्तः । आः पापे! मत्परिग्रहपांसनि !

 तद्भीरुत्वं तव मम पुरः साहसानीदृशानि ।
  श्लाघा सास्मद्वपुषि विनयव्युत्क्रमेऽप्येष रागः ।
 तच्चौदार्यं मयि जडमतौ चापले कोऽपि पन्थाः
  ख्याते तस्मिन्वितमसि कुले जन्म कौलीनमेतत् ॥ ११ ॥

 सखी--तदो तदो । ( ततस्ततः ।)

 भानुमती--तदो सोवि मं अणुसरन्तो एव्व लदामण्डवं पविट्ठो ।

( ततः सोऽपि मामनुसरन्नेव लतामण्डपं प्रविष्टः । )

 राजा--अहो ! कुलटोचितमस्याः पापाया अशालीनत्वम् ।

 यस्मिंश्चिरप्रणयनिर्भरबद्धभाव-
  मावेदितो रहसि मत्सुरतोपभोगः ।
 तत्रैव दुश्चरितमद्य निवेदयन्ती ।
  ह्रीणासि पापहृदये ! न सखीजनेऽस्मिन् ॥ १२ ॥

 उभे--तदो तदो । ( ततस्ततः ।)

 भानुमती--तदो तेण सगव्वं पसारिअकरेण अवहरिदं मे त्थणंसुअम् । ( ततस्तेन सगर्वं प्रसारितकरेणापहृतं मे स्तनांशुकम् ।)

 राजा--( सक्रोधम् । )अलमिदानीमतःपरमाकर्णनेन । भवतु तावत्तस्य परवनितावस्कन्दनप्रगल्भस्य माद्रीसुतहतकस्य जीवितमपहरामि । ( किंचिद्गत्वा । विचिंन्त्य । ) अथवा इयमेव तावत्पापशीला प्रथममनुशासनीया । ( इति निवर्तते ।)

 उभे--तदो तदो । ( ततस्ततः । )

 भानुमती--तदो अज्जउत्तस्स प्पभादमङ्गलतूररवमिस्सेण वारविलासिणीजणसंगीदरवेण पडिबोधिदह्मि । ( तत आर्यपुत्रस्य प्रभातमङ्गलतूर्यरवमिश्रेण वारविलासिनीजनसंगीतरवेण प्रतिबोधितास्मि । )

 राजा--( सवितर्कम् । ) किं नाम ? प्रतिबोधितास्मीति । स्वप्नदर्शनमनया वर्णितं भवेत् ? । अथवा सखीवचनादेव व्यक्तिर्भविष्यति ।

( उभे सविषादमन्योन्यं पश्यतः ।)

 सुवदना--नं एत्थ अच्चाहिदं तं भाईरहीप्पमुहाणं णईणं सलिलेण अवहारीअदु । भअवदाणं वि बम्हणाणं आसीसाए आहुदिहुदेण पज्जलिदेण भअवदा हुदासणेण अ णस्सदु । ( यदिहात्याहितं तद्भागीरथीप्रमुखानां नदीनां सलिलेनापह्रियताम् । भगवतां ब्राह्मणानामप्याशिषा आहुतिहुतेन प्रज्वलितेन भगवता हुताशनेन च नश्यतु । )

 राजा--अलं विकल्पेन । स्वप्नदर्शनमेवैतदनया वर्णितम् । मया पुनर्मन्दधियाऽन्यथैव संभावितम् ।

 दिष्ट्यार्धश्रुतविप्रलम्भजनितक्रोधादहं नो गतो
  दिष्ट्या नो परुषं रुषार्धकथने किंचिन्मया व्याहृतम् ।
 मां प्रत्याययितुं विमूढहृदयं दिष्ट्या कथान्तं गता
  मिथ्यादूषितयानया विरहितं दिष्ट्या न जातं जगत् ॥ १३ ॥

 भानुमती--हला ! कहेहि किं एत्थ प्पसत्यं किं वा असुहसूअअं त्ति । ( हला ! कथय किमत्र प्रशस्तं किं वाऽशुभसूचकमिति । )

 सखी चेटी च--(अन्योन्यमवलोक्य । अपवार्य ।)

एत्थ णत्थि त्थोअं वि सुहसूअअम् । जइ एत्थ अलिअं कहइस्सं ता पिअसहीए अवराहिणी एव्व हुविस्सम् । सो सिणिद्धो जणो जो पुच्छिदो परुसं वि हिदं भणादि । ( प्रकाशम् । ) सहि ! सव्वं एव्व एदं असुहणिवेदणम् । ता देवदाणं पणामेण दुजादिजणपडिग्गहेण अ अन्तरीअदु । णहु दाढिणो णउलस्स वा दंसणं अहिसदवहं अ सिविणए पसंसन्ति विअक्खणाओ । ( अत्र नास्ति स्तोकमपि 'शुभसूचकम् । यद्यलीकं कथयिष्यामि तदा प्रियसख्या अपराधिनी भविष्यामि । स एव स्निग्धो जनो यः पृष्टः परुषमपि हितं भणति । सखि सर्वमेवैतदशुभनिवेदनम् । तद्देवतानां प्रणामेन द्विजातिजनप्रतिग्रहेण चान्तर्यताम् । न खलु दंष्ट्रिणो नकुलस्य वा दर्शनमाहिशतवधं च स्वप्ने प्रशंसन्ति विचक्षणाः ।)

 राजा--अवितथमाह सुवदना । नकुलेन पन्नगशतवधः स्तनांशुकापहरणं च नियतमनिष्टोदर्कं तकेयामि ।

 प्रायेणैव हि दृश्यन्ते स्वप्नाः कामं शुभाशुभाः ।
 शतसंख्या पुनरियं सानुजं स्पृशतीव माम् ॥ १४ ॥

( वामाक्षिस्पन्दनं सूचयित्वा ।) आः, ममापि नाम दुर्योधनस्यानिमित्तानि हृदयक्षोभमावहन्ति । ( सावष्टम्भम् । ) भीरुजनहृदयप्रकम्पनेषु का गणना दुर्योधनस्यैवंविधेषु ? गीतश्चायमर्थोऽङ्गिरसा ।

  ग्रहाणां चरितं स्वप्नोऽनिमित्तौत्पातिकं तथा ।
  फलन्ति काकतालीयं तेभ्यः प्राज्ञा न बिभ्यति ॥ १५ ॥

तद्भानुमत्याः स्त्रीस्वभावसुलभामलीकाशङ्कामपनयामि ।

 भानुमती--हला सुवअणे ! पेक्ख दाव उदअगिरिसिहरन्तरविमुक्करहवरो विअलन्तसंझाराअप्पसण्णदुरालोअमण्डलो जादो भअवं दिवसणाहो । ( हला सुवदने ; पश्य तावदुदयगिरिशिखरान्तरविमुक्तरथवरो विगलत्संध्यारागप्रसन्नदुरालोकमण्डलो जातो भगवान्दिवसनाथः । )

 सखी--सहि ! साणिदकणअपत्तसीरसेण लदाजालन्तरापडिदकिरणनिवहेण पिञ्जरिदोज्जाणभूमिमाओ पूरिदप्पडिण्णो विअ रिउदुप्पेक्खणिज्जो जादो भअवं सहस्सकिरणो । ता समओ दे कुसुमचन्दणगब्भेण अग्घेण पज्जुवठ्ठादुम् । ( सखि ! शाणितकनकपत्रसदृशेन लताजालान्तरापतितकिरणनिवहेन पिञ्जिरितीद्यानभूमिभागः पूरितप्रतिज्ञ इव रिपुदुःप्रेक्षणीयो जातो भगवान्सहस्रकिरणः । तत्समयस्ते कुसुमचन्दनगर्भेणार्घ्येण पर्युपस्थातुम् । )

 भानुमती--हञ्जे तरलिए ! उवणेहि मे अग्घभाअणं जाव भअवदो सहस्सरस्सिणो सुवरिअं णिव्वट्टेमि । ( हञ्जे तरलिके ! उपनय मेऽर्घ्यभाजनं यावद्भगवतः सहस्ररश्मेः सपर्यां निर्वर्तयामि ।)

 चैटी--जं देवी आणवेदि । ( यद्देव्याज्ञापयति ) ( इति निष्क्रान्ता ।)

 राजा--अयमेव साधुतरोऽवसरः समीपमुपगन्तुं देव्याः ।

( प्रविश्य । )

 चेटी--देवि ! एदं अग्घभाअणम् । ता निव्वट्टीअदु भअवदो सहस्सरस्सिणो सवरिआ । ( देवि ! एतदर्घ्यभाजनम् । तन्निर्वर्त्यतां भगवतः सहस्ररश्मेः सपर्या ।)

( राजोपसृत्य संशया परिजनमुत्सार्य स्वयमेवार्घ्यपात्रं गृहीत्वा ददाति ।)

 सखी--( स्वगतम् ) कहं महाराओ समाअदो । हन्त ! किदो से पिअसहीए णिअमभङ्गो रण्णा । ( कथं महाराजः समागतः । हन्त, कृतोऽस्याः प्रियसख्या नियमभङ्गो राज्ञा । )  भानुमती-- (दिनकाराभिमुखी भूत्वा ।)भअवं ! अम्बरमहासरेक्कसहस्सपत्त ! पुव्वदिसावहूमुहमण्डलकुङ्कुमविसेसअ ! सअलभुवणाङ्गणदीवअ ! एत्थ सिविणअदंसणे जं किं वि अच्चाहिदं तं भअवदो प्पणोमण कुसलपरिणामी ससदब्भादुअस्स अज्जउत्तस्स होदु । ( अर्घ्यं दत्वा ।) हला ! उवणेहि मे कुसुमाइं जाव अवराणं वि देवदाणं सवरिअं णिव्वट्टेमि । ( हस्तौ प्रसारयति । ) ( भगवन् ! अम्बरमहासरएकसहस्रपत्र ! पूर्वदिशावधूमुखमण्डलकुङ्कुमविशेषक ! सकलभुवनाङ्गनदीपक ! अत्र स्वप्नदर्शने यत्किमप्यत्याहितं तद्भगवतः प्रणामेन कुशलपरिणामि सशतभ्रातृकस्यार्यपुत्रस्य भवतु । हला ! उपनय मे कुसुमानि यावदपरासामपि देवतानां सपर्यां निर्वर्तयामि ।)

( राजा पुष्पाण्युपनयति । स्पर्शसुखमभिनीय च कुसुमानि भूमौ पतियति ।)

 भानुमती--( सरोषम् ।) अहो प्पमादो परिअणस्स । ( परिवृत्य दृष्ट्वा । ससंभ्रमम् । ) कधं अज्जउत्तो ? ( अहो प्रमादः परिजनस्य । कथमार्यपुत्रः ? )

 राजा--देवि ! अनिपुणः परिजनोऽयमेवंविधे सेवावकाशे । तत्प्रभवत्यत्रानुशासने देवी ।

( भानुमती लज्जां नाटयति ।)

 राजा--अयि प्रिये !

  विकिर धवलदीर्घापाङ्गसंसर्पि चक्षुः
   परिजनपथवर्तिन्यत्र किं संभ्रमेण ? ।
  स्मितमधुरमुदारं देवि मामालपोच्चैः
   प्रभवति मम पाण्योरञ्जलिः सेवितुं त्वाम् ॥ १६ ॥

 भानुमती--अज्जउत्त ! अब्भणुण्णादाए तुए अत्थि मे कस्सिं वि णिअमे अहिलासो । ( आर्यपुत्र ! अभ्यनुज्ञातायास्त्वयास्ति मे कस्मिन्नपि नियमेऽभिलाषः ।)

 राजा--श्रुतविस्तर एवास्मि भवत्याः स्वप्नवृत्तान्तं प्रति । तदलमेनं प्रकृतिसुकुमारमात्मानं खेदयितुम् ।  भानुमती–-अज्जउत्त ! सङ्का मे बाहेदि । ता अणुमण्णदु मं अज्जउत्तो । (आर्यपुत्र ! शङ्का मां बाधते । तदनुमन्वतां मामार्यपुत्रः ।)

 राजा--( सगर्वम् ।) देवि ! अलमनया शङ्कया । पश्य ।

किं नो व्याप्तदिशां प्रकम्पितभुवामक्षौहिणीनां फलं ?
 किं द्रोणेन ? किमङ्गराजविशिखैरेवं यदि क्लाम्यसि ।
भीरु ! भ्रातृशतस्य मे भुजवनच्छायासुखोपास्थिता ।
 त्वं दुर्योधनकेसरीन्द्रगृहिणी शङ्कास्पदं किं तव ? ॥ १७ ॥

 भानुमती--अज्जउत्त ! ण हु मे किं वि आसङ्काकालणं तुम्हेसु सण्णिहिदेसु । किं तु अज्जउत्तस्स एव्व मणोरहसंपत्तिं अहिणन्दामि । ( आर्यपुत्र ! न खलु मे किमप्याशङ्काकारणं युष्मासु संनिहितेषु । किंत्वार्यपुत्रस्यैव मनोरथसंपत्तिमभिनन्दामि ।)

 राजा--अयि सुन्दरि ! एतावन्त एव मे मनोरथा यदहं दयितया संगतः स्वेच्छया विहरामीति । पश्य ।

प्रेमाबद्धस्तिमितनयनापीयमानाब्जशोभं
 लज्जायोगादविशदकथं मन्दमन्दस्मितं वा ।
वक्त्रेन्दुं ते नियममुषितालक्तकाङ्काधरं वा
 पातुं वाञ्छा परमसुलभं किं नु दुर्योधनस्य ? ॥ १८ ॥

( नेपथ्ये महान्कलकलः । सर्वे आकर्णयन्ति ।)

 भानुमती--(सभयं राजानं परिष्वज्य ।) परित्ताअदु परित्ताअदु अज्जउत्तो ।( परित्रायतां परित्रायतामार्यपुत्रः ।)

 राजाः--( समन्तादवलोक्य ।) प्रिये ! अलं संभ्रमेण । पश्य ।

दिक्षु व्यूढाङ्घ्रिपाङ्गस्तृणजटिलचलत्पांशुदण्डोऽन्तरिक्षे
 झाङ्कारी शर्करालः पथिषु विटपिनां स्कंधकोषैः सधूमः ।
प्रासादानां निकुञ्जेष्वभिनवजलदोद्गारगम्भीरधीर-
 श्चण्डारम्भः समीरो वहति परिदिशं भीरु ! किं संभ्रमेण ? ॥ १९ ॥

 सखी--महाराअ ! आरोहीअदु एदं दारुपव्वदुप्पासादम् । उव्वेअकारी क्खु अअं उत्थिदपरुसरअकलुसीकिदणअणो उन्मूलिदतरुवरसद्दवित्त त्थमन्दुरापरिब्भट्टवल्लहतुलङ्गमपज्जाउलीकिदजणपद्धई भीसणो समीरणो । (महाराज ! आरुह्यतामेष दारुपर्वतप्रासादः । उद्वेगकारी खल्वयमुत्थितपरुषरजःकलुषीकृतनयन उन्मूलिततरुवरशब्दविवस्तमन्दुरापरिभ्रष्टवल्लभतुरङ्गमपर्याकुलीकृतजनपद्धतिर्भीषणः समीरणः ।

 राजा--( सहर्षम् । ) उपकारि खल्विदं वात्याचक्रं सुयोधनस्य । यस्य प्रसादादयत्नपरित्यक्तनियमया देव्या संपादितोऽस्मन्मनोरथः । कथमिति?

न्यस्ता न भ्रुकुटिर्न बाष्पसलिलैराच्छादिते लोचने
नीतं नाननमन्यतः सशपथं नाहं स्पृशन्वारितः ।
तन्व्या मग्नपयोधरं भयवशादारब्धमालिङ्गितुं
भङ्क्तास्या नियमस्य भीषणमरुन्नायं वयस्यो मम ॥ २० ॥

तत्संपूर्णमनोरथस्य मे कामचारः संप्रति विहारेषु । तदितो दारुपर्वतप्रासादमेव गच्छामः ।

( सर्वे वात्याबाधां रूपयन्तः परिक्रामन्ति ।)

 राजा--

 कुरु घनेरु ! पदानि शनैः शनैरयि ! विमुञ्च गतिं परिवेपिनीम् ।
 सुतनु ! बाहुलतोपरिबन्धनं मम निपीडय गाढमुरःस्थलम् ॥ २१ ॥

( प्रवेशं रूपयित्वा । ) प्रिये ! अलब्धावकाशः समीरणः संवृतत्वाद्गर्भगृहस्य । विस्रब्धमुन्मीलय चक्षुरुन्मृष्टरेणुनिकरम् ।

 भानुमती--( सहर्षम् । दिट्ठिआ इअ दाव उप्पादसमीरणो ण बाधेइ । ( दिष्ट्येह तावदुत्पातसमीरणो न बाधते ।)

 सखी--आरोहणसंभमणीसहं पिअसहीए ऊरुजुअलम् । ता कीस दाणिं महाराओ आसणवेदीं ण भूसेदि । ( आरोहणसंभ्रमनिःसहं प्रियसख्या ऊरुयुगलम् । तत्कस्मादिदानीं महाराज आसनवेदीं न भूषयति ।)

 राजा--( देवीमवलोक्य । ) भवति ! अनल्पमेवापकृतं वात्यासंभ्रमेण । तथाहि ।

रेणुर्बाधां विधत्ते तनुरपि महतीं नेत्रयोरायतत्वा-
दुत्कम्पोऽल्पोऽपि पीनस्तनभरितमुरः क्षिप्तहारं दुनोति ।

ऊर्वोर्मन्देऽपि याते पृथुजघनभराद्वेपथुर्वर्धतेऽस्या ।
 वात्या खेदं मृगाक्ष्याः सुचिरमवयवैर्दत्तहस्ता करोति ॥ २२ ॥

( सर्वे उपविशन्ति ।)

 राजा--तत्किमित्यनास्तीर्णं कठिनशिलातलमध्यास्ते देवी ? ।

 लोलांशुकस्य पवनाकुलितांशुकान्तं
  त्वद्दृष्टिहारि मम लोचनबान्धवस्य ।
 अध्यासितुं तव चिरं जघनस्थलस्य
  पर्याप्तमेव करभोरु! ममोरुयुग्मम् ॥ २३ ॥

( प्रविश्य पटाक्षेपेण संभ्रान्तः । )

 कञ्चुकी--देव ! भग्नं भग्नम् ।

( सर्वे सातङ्कं पश्यन्ति ।)

 राजा-- केन ?

 कञ्चुकी-- भीमेन ।

 राजा-- कस्य ?

 कञ्चुकी-- भवतः ।

 राजा-–आः किं ! प्रलपसि ?

 भानुमती:--अज्ज ! किं अणिट्ठं मन्तेसि ।( आर्य ! किमनिष्टं मन्त्रयसे ।)

 राजा--धिक्प्रलापिन् ! वृद्धापसद ! कोऽयमद्य ते व्यामोहः ।

 कञ्चुकी-- देव ! न खलु कश्चिद्व्यामोहः । सत्यमेव ब्रवीमि ।

 भग्नं भीमेन भवतो मरुता रथकेतनम् ।
 पतितं किङ्किणीक्वाणबद्धाक्रन्दमिव क्षितौ ॥ २४ ॥

 राजा-- बलवत्समीरणवेगात्कम्पिते भुवने भग्नः स्यन्दनकेतुः । तत्किमित्युद्धतं प्रलपसि भग्नं भग्नमिति ? ।

 कञ्चुकी--देव ! न किंचित् । किं तु शमनार्थमस्यानिमित्तस्य विज्ञापयितव्यो देव इति स्वामिभक्तिर्मां मुखरयति ।  भानुमती–-अज्जउत्त ! अन्तरीअदु एदं पसण्णबम्हणवेदघोसेण ।( आर्यपुत्र ! अन्तर्यतामेतत्प्रसन्नब्राह्मणवेदघोषेण ।)

 राजा--( सावज्ञम् । ) ननु गच्छ । पुरोहितसुमित्राय निवेदय ।

 कञ्चुकी--यदाज्ञापयति देवः । ( इति निष्क्रान्तः । )

( प्रविश्य ।)

 प्रतीहारी--( सोद्वेगमुपसृत्य । ) जअदि जअदि महाराओ । महाराओ । महाराअ महादेवी क्खु एसा सिन्धुराअमादा दुस्सला अं पडिहारभूमीए चिट्ठदि । ( जयति जयति महाराजः । महाराज ! महादेवी खल्वेषा सिन्धुराजमाता दुःशला च प्रतीहारभूमौ तिष्ठति ।)

 राजा--( किंचिद्विचिन्त्यात्मगतम् । ) किं जयद्रथमाता दुःशला चेति ? । कच्चिदभिमन्युवधामर्षितैः पाण्डुपुत्रैर्न किंचिदत्याहितमाचेष्टितं भवेत् । ( प्रकाशम् ) गच्छ । प्रवेशय शीघ्रम् ।

 प्रतीहारी--जं देवो आणवेदि । (यद्देव आज्ञापयति । ) ( इति निष्कान्ता)

( ततः प्रविशति संभ्रान्ता जयद्रथमाता दुःशला च ।)

( उभे सास्रं दुर्योधनस्य पादयोः पततः ।)

 माता--परित्ताअदु परित्ताअदु कुमालो । (परित्रायतां परित्रायतां कुमारः । )

( दुःशला रोदिति ।)

 राजा--( ससंभ्रममुत्थाप्य ।) अम्ब ! समाश्वसिहि समाश्वसिहि । किमत्याहितम् ? अपि कुशलं समराङ्गणेष्वप्रतिरथस्य जयद्रथस्य ? ।

 माता--जाद ! कुदो कुसलम् ? । ( जात कुतः कुशलम् ? )

 राजा--कथमिव ?

 माता--( साशङ्कम् । )अज्ज क्खु पुत्तवहामरिसिदेण गाण्डीविणा अणत्थमिदे दिवसणाहे तस्स वहो प्पडिण्णादो । ( अद्य खलु पुत्रवधामर्षितेन गाण्डीविनानस्तमिते दिवसनाथे तस्य वधः प्रतिज्ञातः । )

 राजा--( सस्मितम् ।) इदं तदस्रकारणमम्बाया दुःशलायाश्च ? । पुत्रशोकादुन्मत्तस्य किरीटिनः प्रलापैरेवमवस्था ? । अहो मुग्धत्वमबलानाम् । अम्ब ! कृतं विषादेन । वत्से दुःशले ! अलमश्रुपातेन । कुतश्चायं तस्य धनंजयस्य प्रभावो दुर्योधनबाहुपरिघरक्षितस्य महारथजयद्रथस्य विपत्तिमुत्पादयितुम् ।

 माता--जाद ! ते हि पुत्तबन्धुवहामरिसुंद्दीविदकोवाणला अणपेक्खिदसरीरा वीरा परिक्कामन्ति । ( जात ! ते हि पुत्रबन्धुवधामर्षोद्दीपितकोपानला अनपेक्षितशरीरा वीराः परिक्रामन्ति ।)

 राजा--( सोपहासम् । ) एवमेतत् । सर्वजनप्रसिद्धैवामर्षिता पाण्डवानाम् । पश्य ।

  हस्ताकृष्टविलोलकेशवसना दुःशासनेनाज्ञया
   पाञ्चाली मम राजचक्रपुरतो गौर्गौरिति व्याहृताः ।
  तस्मिन्नेव ततज्यगाण्डिवधरो नासीत्पृथानन्दनो
   यूनः क्षत्रियवंशजस्य कृतिनः क्रोधास्पदं किं न तत् ? ॥ २५ ॥

 माता--असमत्तप्पडिण्णाभारस्स अप्पवहो से प्पडिण्णादो । ( असमाप्तप्रतिज्ञाभारेणात्मवधोऽनेन प्रतिज्ञातः ।)

 राजा--यद्येवमलमानन्दस्थानेऽपि ते विषादेन । ननु वक्तव्यमुत्सन्नः सानुजो युधिष्ठिर इति । मातः ! का शक्तिरस्ति धनंजयस्यान्यस्य वा कुरुशतपरिवारवर्धितमहिम्नः कृपकर्णद्रोणाश्वत्थामादिमहारथपराक्रमद्विगुणीकृतनिरावरणविक्रमस्य नामापि ग्रहीतुं ते तनयस्य ? । अयि सुतपराक्रमानभिज्ञे !

  धर्मात्मजं प्रति यमौ च कथैव नास्ति ।
   मध्ये वृकोदरकिरीटभृतोर्बलेन ।
  एकोऽपि विस्फुरितमण्डलचापचक्रं ।
   कः सिन्धुराजमभिषेणयितुं समर्थः ? ॥ २६ ॥

 भानुमती--अज्जउत्त ! जइवि एव्वं तहवि गुरुकिदप्पडिण्णाभारो ट्ठाणं क्खु सङ्काए ।( आर्यपुत्र ! यद्यप्येवं तथापि गुरुकृतप्रतिज्ञाभारः स्थानं खलु शङ्कायाः ।)

 माता--साहु ! कालोइदं भणिदं भाणुमदीए । ( साधु ! कालोचितं भणितं भानुमत्या ।) राजा--आः ! ममापि नाम दुर्योधनस्य शङ्कास्थानं पाण्डवाः ? । पश्य ।

 कोदण्डज्याकिणाङ्कैरगणितरिपुभिः कङ्कटोन्मुक्तदेहै:
  श्लिष्टान्योन्यातपत्रैः सितकमलवनभ्रान्तिमुत्पादयद्भिः ।
 रेणुग्रस्तार्कभासां प्रचलदसिलतादन्तुराणां बलाना-
  माक्रान्ता भ्रातृभिर्मे दिशि दिशि समरे कोटयः संपतन्ति ॥ २७ ॥

अपि च भानुमति । विज्ञातपाण्डवप्रभावे ! किं त्वमप्येवमाशङ्कसे ? । पश्य ।

  दुःशासनस्य हृदयक्षतजाम्बुपाने ।
   दुर्योधनस्य च यथा गदयोरुभङ्गे ।
  तेजस्विनां समरमूर्धनि पाण्डवानां ।
   ज्ञेया जयद्रथवधेऽपि तथा प्रतिज्ञा ॥ २८ ॥

कः कोत्र भोः ? । जैत्रं मे रथमुपकल्पय तावत् । यावदहमपि तस्य प्रगल्भपाण्डवस्य जयद्रथपरिरक्षणेनैव मिथ्याप्रतिज्ञावैलक्ष्यसंपादितमशस्त्रपूतं मरणमुपदिशामि ।

( प्रविश्य )

 कञ्चुकी--देव !

  उद्धातक्वणितविलोलहेमघण्टः
   प्रालम्बद्विगुणितचामरप्रहासः ।
  सज्जोऽयं नियमितवल्गुवल्गिताश्वः
   शत्रूणां क्षपितमनोरथो रथस्ते ॥ २९ ॥

 राजा--देवि ! प्रविश त्वमभ्यन्तरमेव । ('यावदहमपि तस्य प्रगल्भपाण्डवस्य ' इत्यादि पठन्परिक्रामति ।)

( इति निष्क्रान्ताः सर्वे ।)

इति द्वितीयोऽङ्कः ।