वेणीसंहारम् (आङ्गलटिप्पणीसहितम्)/प्रथमोऽङ्कः
← उपोद्घातः | वेणीसंहारम् (आङ्गलटिप्पणीसहितम्) प्रथमोऽङ्कः भट्टनारायणः |
द्वितीयोऽङ्कः → |
श्रीशिवः शरणम् ।
वेणीसंहारम् ।
प्रथमोऽङ्कः ।
निषिद्धैरप्येभिर्लुलितमकरन्दो मधुकरैः |
अपि च ।
कालिन्द्याः पुलिनेषु केलिकुपितामुत्सृज्य रासे रसं |
अपि च ।
दृष्टः सप्रेम देव्या किमिदमिति भयात्संभ्रमाच्चासुरीभिः । |
( नान्द्यन्ते )
सूत्रधारः---अलमतिप्रसङ्गेन ।
श्रवणाञ्जलिपुटपेयं विरचितवान्भारताख्यममृतं यः । |
(समन्तादवलोक्य) तत्रभवन्तः परिषदग्रेसराः । विज्ञाप्यं नः किंचिदस्ति ।
कुसुमाञ्जलिरपर इव प्रकीर्यते काव्यबन्ध एषोऽत्र । |
तदिदं कवेर्मुगराजलक्ष्मणो भट्टनारायणस्य कृतिं वेणीसंहारं नाम नाटकं प्रयोक्तुमुद्यता वयम् । तत्र कविपरिश्रमानुरोधाद्वा उदात्तकथावस्तुगौरवाद्वा नवनाटकदर्शनकुतूहलाद्वा भवद्भिरवधानं दीयमानमभ्यर्थये ।
( नेपथ्ये )
भाव, त्वर्यतां त्वर्यताम् । एते खल्वार्यविदुराज्ञया पुरुषाः सकलमेव शैलूषजनं व्याहरन्ति–-‘प्रवर्त्यन्तामपरिहीयमानमातोद्यविन्यासादिका विधयः । प्रवेशकालः किल तत्रभवतः पाराशर्यनारदतुम्बरुजामदग्न्यप्रभृतिभिर्मुनिवृन्दारकैरनुगम्यमानस्य भरतकुलहितकाम्यया स्वयं प्रतिपन्नदौत्यस्य देवकीसूनश्चक्रपाणेर्महाराजदुर्योधनशिबिरं प्रति प्रस्थातुकामस्य' इति ।
सूत्रधारः—(आकर्ण्य सानन्दम्)अहो नु खलु भोः, भगवता सकलजगत्प्रभवस्थितिनिरोधप्रभविष्णुना विष्णुनाद्यानुगृहीतमिदं भरतकुलं सकलं च राजकमनयोः कुरुपाण्डवराजपुत्रयोराहवकल्पान्तानलप्रशमहेतुना स्वयं संधिकारिणा कंसारिणा दूतेन । तत्किमिति पारिपार्श्विकं, नारम्भयसि कुशीलवैः सह संगीतकम् ।
( प्रविश्य )
पारिपार्श्विकः---भवतु । आरम्भयामि । कतमं समयमाश्रित्य गीयताम् ।
सुत्रधारः--नन्वमुमेव तावच्चन्द्रातपनक्षत्रग्रहक्रौञ्चहंससप्तच्छदकुमुदपुण्डरीककाशकुसुमपरागधवलितदिङ्मण्डलं स्वादुजलजलाशयं शरत्समयमाश्रित्य प्रवर्त्यतां संगीतकम् । तथा ह्यस्यां शरदि
सत्पक्षा मधुरगिरः प्रसाधिताशा मदोद्धतारम्भाः । |
पारिपार्श्विकः--(ससंभ्रमम्।)भाव, शान्तं पापम् । प्रतिहतममङ्गलम् । ।
सूत्रधारः--( सवैलक्ष्यस्मितम् ) मारिष, शरत्समयवर्णनाशंसया हंसा धार्तराष्ट्रा इति व्यपदिश्यन्ते । तत्किं शान्तं पापं प्रतिहतममङ्गलम् ?
पारिपार्श्विकः-—न खलु न जाने । किंत्वमङ्गलाशंसयास्य वो वचनस्य यत्सत्यं कम्पितमिव मे हृदयम् ।
सूत्रधारः–-मारिष, ननु सर्वमेवेदानीं प्रतिहतममङ्गलं स्वयं प्रतिपन्नदौत्येन संधिकारिणा कंसारिणा । तथा हि ।
निर्वाणवैरदहनाः प्रशमादरीणां । |
( नेपथ्ये । साधिक्षेपम् । )
आः दुरात्मन्वृथामङ्गलपाठक शैलूषापसद,
लाक्षागृहानलविषान्नसभाप्रवेशैः |
( सूत्रधारपारिपार्श्विकावाकर्णयतः। )
पारिपार्श्विकः—-भाव ! कुत एतत् ।
सूत्रधारः--( पृष्ठतो विलोक्य । ) अये, कथमयं वासुदेवगमनात्कुरुसंधानममृष्यमाणः पृथुललाटतटघटितविकटभ्रुकुटिना दृष्टिपातेनापिबन्निव नः सर्वान्सहदेवेनानुगम्यमानः क्रुद्धो भीमसेन इत एवाभिवर्तते । तन्न युक्तमस्य पुरतः स्थातुम् ।
( इति निष्क्रान्तौ )
प्रस्तावना ।
( ततः प्रविशति सहदेवेनानुगम्यमानः क्रुद्धो भीमसेनः ।)
भीमसेनः--आः दुरात्मन्वृथामङ्गलपाठक शैलूषापसद । ('लाक्षागृहानल-'( १।८ ) इत्यादि पुनः पठति । )
सहदेवः—-( सानुनयम् । ) आर्य, मर्षय मर्षय । अनुमतमेव नो भरतपुत्रस्यास्य वचनम् । पश्य । ('निर्वाणवैरदहनाः' ( १।७ )इति पठित्वान्यथाभिनयति ।)
भीमसेनः--( सोपालम्भम् ।) न खलु न खल्वमङ्गलानि चिन्तयितुमर्हन्ति भवन्तः कौरवाणाम् । संधेयास्ते भ्रातरो युष्माकम् ।
सहदेवः--(सरोषम् ) आर्य !
धृतराष्ट्रस्य तनयान्कृतवैरान्पदे पदे । |
भीमसेनः-–एवमिदम् । अत एवाहमद्यप्रभृति भिन्नो भवद्भ्यः । पश्य ।
प्रवृद्धं यद्वैरं मम खलु शिशोरेव कुरुभि- |
सहदेवः--( सानुनथम् ।) आर्य, एवमतिसंभृतक्रोधेषु युष्मासु कदाचित्खिद्यते गुरुः ।
भीमसेनः--किं नाम, कदाचित्खिद्यते गुरुः ? गुरुः खेदमपि जानाति ? पश्य ।
तथाभूतां दृष्ट्वा नृपसदसि पाञ्चालतनयां |
तत्सहदेव ! निवर्तस्व । एवं चातिचिरप्रवृद्धामर्षोद्दीपितस्य भीमस्य वचनाद्विज्ञापय राजानम् ।
सहदेवः-–आर्य ! किमिति ?
भीमसेनः--
युष्मच्छासनलङ्घनांहसि मया मग्नेन नाम स्थितं |
[ इत्युद्धतं परिक्रामति ।]
सहदेवः--(तमेवानुगच्छन्नात्मगतम् ।) अये कथमार्यः पाञ्चाल्याश्चतुःशालकं प्रति प्रस्थितः । भवतु तावदहमत्रैव तिष्ठामि । [ इति स्थितः ।]
भीमसेनः--[ प्रतिनिवृत्यावलोक्य च । ] सहदेव ! गच्छ त्वं गुरुमनुवर्तस्व । अहमप्यायुधागारं प्रविश्यायुधसहायो भवामि ।
सहदेवः-–आर्य नेदमायुधागारम् । पाञ्चाल्याश्चतुःशालकमिदम् ।
भीमसेनः--किं नाम ? नेदमायुधागारम् ? पाञ्चाल्याश्चतुःशालकामिदम् ? [ विचिन्त्य सहर्षम् ।] आमन्त्रयितव्यैव मया पाञ्चाली । [सप्रणयं सहदेवं हस्ते गृहीत्वा । ] वत्स, आगम्यताम् । यदार्यः कुरुभिः संधानमिच्छन्नस्मान्पीडयति तद्भवानपि पश्यतु ।
(उभौ प्रवेशं नाटयतः।)
सहदेवः--(ससंभ्रमम् ।) आर्य, इदमासनमास्तीर्णम् । अत्रोपविश्यार्यः पालयतु कृष्णागमनम् ।
भीमसेनः--वत्स, कृष्णागमनमित्यनेनोपोद्घातेन स्मृतम् । अथ भगवान्कृष्णः केन प्रकारेण संधिं कर्तुं सुयोधनं प्रति प्रहितः ।
सहदेवः-–आर्य, पञ्चभिर्ग्रामैः ।
भीमसेनः--(कर्णौ पिधाय ।) अहह ! देवस्याजातशत्रोरप्ययमीदृशस्तेजोपकर्ष इति यत्सत्यं कम्पितमिव मे हृदयम् । ( परिवृत्य स्थित्वा ।) तद्वत्स ! न त्वया कथितं न च मया भीमेन श्रुतम् ।
यत्तदूर्जितमत्युग्रं क्षात्रं तेजोऽस्य भूपतेः । |
( नेपथ्ये)
समस्ससदु समस्ससदु भट्टिणी । (समाश्वसितु समाश्वसितु भट्टिनी ।)
सहदेवः--(नेपथ्याभिमुखमवलोक्यात्मगतम् ।) अये कथं याज्ञसेनी मुहुरुपचीयमानबाष्पपटलस्थगितनयना आर्यसमीपमुपसर्पति ? तत्कष्टतरमापतितम् ।
यद्वैद्युतमिव ज्योतिरार्ये क्रुद्धेऽद्य संभृतम् । |
(ततः प्रविशति यथानिर्दिष्टा द्रौपदी चेटी च ।)
[द्रौपदी सास्रं निश्वसिति ।]
चेटी-–समस्ससदु समस्ससदु भट्टिणी | अवणइस्संदि दे मण्णुं णिचा णुबद्धकुरुवेरो कुमालो भीमसेणो (समाश्वसितु समाश्वसितु भट्टिनी । अपनेष्यति ते मन्युं नित्यानुबद्धकुरुवैरः कुमारो भीमसेनः ।)
द्रौपदी--हञ्जे बुद्धिमदिए ! होदि एदं जइ महाराओ पडिऊलो ण भवे । (हञ्जे बुद्धिमतिके ! भवत्येतद्यदि महाराजः प्रतिकूलो न भवेत् ।)
चेटी-–( विलोक्य )एसो कुमालो चिट्ठदि ता णं उवसप्पदु भट्टिणी (एष कुमारस्तिष्ठति । तदेनमुपसर्पतु भट्टिनी)
द्रौपदी--हञ्जे एव्वं करेह्म (हञ्जे एवं कुर्वः )
( इति परिक्रामतः )
द्रौपदी--हञ्जे कहेहि णाहस्स मह आगमणं । (हञ्जे ! कथय नाथस्य ममागनम् ।)
चेटी--जं देवी आणवेदि । ( यद्देव्याज्ञापयति )
( इति परिक्रामति )
(भीमसेनोऽशृण्वन् ‘यत्तदूर्जितम् ( १।१३ ) इति पुनः पठति ।)
चेटी--( परिवृत्य ) भट्टिणि ! पिअं दे णिवेदेमि । परिकुविदो विअ कुमालो लख्खीअदि । ( भट्टिनि ! प्रियं ते निवेदयामि । परिकुपित इव कुमारो लक्ष्यते ।)
द्रौपदी-–हञ्जे ! जइ एव्वं ता अवहीरणा वि एसा मं आसासअदि । ता एअन्ते उवविट्टा भविअ सुणोमि दाव णाहस्स ववसिदं । ( हञ्जे ! यद्येवं तदवधीरणाप्येषा मामाश्वासयति । तदेकान्त उपविष्टा भूत्वा शृणोमि तावन्नाथस्य व्यवसितम् ।
( उभे तथा कुरुतः ।)
भीमसेनः-- (सक्रोधं सहदेवमधिकृत्य । ) किं नाम पञ्चभिर्ग्रामैः संधिः ?
मथ्नामि कौरवशतं समरे न कोपाद्- |
द्रौपदी--( सहर्षं जनान्तिकम् ) णाह, अस्सुदपुव्वं क्खु दे एदिसं वअणं । ता पुणो वि दाव भणाहि । ( नाथ ! अश्रुतपूर्वं खलु ते ईदृशं वचनम् । तत्पुनरपि तावद्भण । )
( भीमसेनोऽशृण्वन्नेव ‘मथ्नामे कौरवशतं ( १।१५) इति पुनः पठति ।)
सहदेवः--आर्य ! किं महाराजस्य संदेशोऽयमार्येणाव्युत्पन्न इव गृहीतः ?
भीमसेनः---का पुनरत्र व्युत्पत्तिः
सहदेवः-–आर्य ! एवं गुरुणा संदिष्टम् ।
भीमसेनः----कस्य ?
सहदेवः--सुयोधनस्य ।
भीमसेनः--किमिति ?
सहदेवः--
इंद्रप्रस्थं वृकप्रस्थं जयन्तं वारणावतम् । |
भीमसेनः--ततः किम् ?
सहदेवः-–तदेवमनया प्रतिनामग्रामप्रार्थनया पञ्चमस्य चाकीर्तनाद्विषभोजनजतुगृहदाहद्यूतसभाद्यपकारस्थानोद्धाटनमेवेदं मन्ये ।
भीमसेनः--( साटोपम् )वत्स ! एवं कृते किं भवति ।
सहदेवः--आर्य ! एवं कृते लोके तावत्स्वगोत्रक्षयाशङ्कि हृदयमाविष्कृतं भवति । कुरुराजस्यासंधेयता च प्रतिपादिता भवति ।
भीमसेनः--मूढ! सर्वमप्येतदनर्थकम् । कुरुराजस्य तावदसंधेयता तदैव प्रतिपादिता यदैवास्माभिरितो वनं गच्छद्भिः सर्वैरेव कुरुकुलस्य निधनं प्रतिज्ञातम् । प्रसिद्धश्च लोकेऽपि धार्तराष्ट्रकुलक्षयः ।
( सहदेवो लज्जां नाटयति )
भीमसेनः-–स किं लज्जाकरो भवताम् ? अपि च रे मूर्ख !
युष्मान्ह्रेपयति क्रोधाल्लोके शत्रुकुलक्षयः ! |
द्रौपदी--( जनान्तिकम् ) णाह, ण लज्जन्ति एदे । तुमं वि दाव माविसुमरेहि । ( नाथ ! न लज्जन्त एते । त्वमपि तावन्मा विस्मार्षीः ।)
भीमसेनः-- ( सस्मरणम् )वत्स ! कथं चिरयति पाञ्चाली ?
सहदेवः--आर्य ! का खलु वेलात्रभवत्याः प्राप्तायाः । किंतु रोषावेशवशादागताप्यार्येण नोपलक्षिता । भीमसेनः--(दृष्ट्वा सादरम् ।) देवि ! समुद्धतामर्षैरस्माभिरागतापि भवती नोपलक्षिता । अतो न मन्युं कर्तुमर्हसि ।
द्रौपदी-–णाह उदासीणेसु तुम्हेसु मह मण्णू, ण उण कुविदेसु । (नाथ उदासीनेषु युष्मासु मम मन्युर्न पुनः कुपितेषु ।)
भीमसेनः--यद्येवमपगतपरिभवमात्मानं समर्थयस्व (हस्ते गृहीत्वा पार्श्वे समुपवेश्य मुखमवलोक्य ।) किं पुनरत्रभवतीमुद्विग्नामिवोपलक्षयामि ।
द्रौपदी-–णाह ! किं उव्वेअकालणं तुम्हेसु सण्णिहिदेसु ! ( नाथ ! किमुद्वेगकारणं युष्मासु सन्निहितेषु ?)
भीमसेनः--किमिति नावेदयसि ? ( केशानवलेक्य) अथवा किमावेदितेन ?
जीवत्सु पाण्डुपुत्रेषु दूरमप्रोषितेष्वपि । |
द्रौपदी--हञ्जे बुद्धिमदिए कहेहि णाहस्स को अण्णो मह परिहवेण खिज्जइ ? (हञ्जे बुद्धिमतिके। कथय नाथाय कोऽन्यो मम परिभवेन खिद्यते ।)
चेटी--जं देवि आणवेदि । (भीममुपसृत्य । अञ्जलिं बद्ध्वा ।) सुणादु कुमालो । इदोवी अहिअदरं अज्ज उव्वेअकालणं आसी देवीए । (यद्देव्याज्ञापयति । शृणोतु कुमारः । इतोऽप्यधिकतरमद्योद्वेगकारणमासीद्देव्याः ।
भीमसेनः--किं नामास्मादप्यधिकतरम् ? बुद्धिमतिके | कथय ।
कौरव्यवंशदावेऽस्मिन्क एष शलभायते ?। |
चेटी--सुणादु कुमालो । अज्ज क्खु देवी अम्बासहिदा सुभद्दाप्पमुहेण सवित्तिवग्गेण परिवुदा अज्जाए गन्धालीए पादवन्दणं कादुं गदा । (शृणोतु कुमारः । अद्य खलु देव्यम्बासहिता सुभद्राप्रमुखेण सपत्नीवर्गेण परिवृता आर्याया गान्धार्याः पादवन्दनं कर्तुं गता ।)
भीमसेनः--युक्तमेतत् । वन्द्याः खलु गुरवः । ततस्ततः ।
चेटी---तदो पडिणिवुत्तमाणा भाणुमदीए दिठ्ठा । (ततः प्रतिनिवर्तमाना भानुमत्या दृष्टा )
भीमसेनः--(सक्रोधम् ।)आः, शत्रोर्भार्यया दृष्टा ? हन्त, स्थानं क्रोधस्य देव्याः । ततस्ततः । चेटी--तदो ताए तेवीं पेक्खिअ सहीजणदिण्णादिठ्ठएि सगव्वं ईति विहसिअ भणिअं । (ततस्तया देवीं प्रेक्ष्य सखीजनदत्तदृष्ट्या सगर्वमीषद्विहस्य भणितम् ।)
भीमसेनः--न केवलं दृष्टा उक्ता च ? अहो किं कुर्मः । ततस्ततः ।
चेटी--अइ जण्णसेणि ! पञ्च ग्गामा पत्थीअन्ति त्तिसुणीअदि । ता कीस दाणीं वि दे केसा ण संजमीअन्ति ? (अयि याज्ञसेनि ! पञ्च ग्रामाः प्रार्थ्यन्त इति श्रूयन्ते तत्कस्मादिदानीमपि ते केशा न संयम्यन्ते ? )
भीमसेनः--सहदेव ! श्रुतम् ?
सहदेवः––आर्य ! उचितमेवैतत्तस्याः । दुर्योधनकलत्रं हि सा । पश्य
स्त्रीणां हि साहचर्याद्भवन्ति चेतांसि भर्तृसदृशानि । |
भीमसेनः--बुद्धिमतिके ! ततो देव्या किमभिहितम् ?
चैटी--कुमाल ! जइ परिजणहीणा भवें तदो देवी भणादि (कुमार ! यदि परिजनहीना भवेत्तदा देवी भणति ।)
भीमसेनः--किं पुनरभिहितं भवत्या ?
चेटी--कुमाल ! एव्वं मए भणिदं अइ भाणुमदि ! तुह्माणं अमुकेसु केसहत्थेसु कधं अह्माणं देवीए केसा संजमीअन्ति त्ति । ( कुमार एवं मया भणितम् । अयि भानुमति ! युष्माकममुक्तेषु केशहस्तेषु कथमस्माकं देव्याः केशाः संयम्यन्त इति ।
भीमसेनः--(सपरितोषम् ) साधु बुद्धिमतिके ! साधु । तदभिहितं यदस्मत्परिजनोचितम् । (इति स्वाभरणानि बुद्धिमतिकायै प्रयच्छति । अधीरमासनादुतिष्ठन् । ) अयि पाञ्चालराजतनये ! श्रूयताम् । अचिरेणैव कालेन
चञ्चद्भुजभ्रमितचण्डगदामिघात- |
द्रौपदी--किं णाह ! दुक्करं तुए परिकुविदेण ? सव्वहा अणुगेह्णन्तु एदं ववसिदं दे भादरो ( किं नाथ ! दुष्करं त्वया परिकुपितेन ? सर्वथानुगृह्णन्त्वेतद्व्यवसितं ते भ्रातरः । ) सहदेवः--अनुगृहीतमेतदस्माभिः ।
(नेपथ्ये महान्कलकलः । सर्वे सविस्मयमाकर्णयन्ति ।)
भीमसेनः--
मन्थायस्तार्णवाम्भःप्लुतकुहरवलन्मन्दरध्वानधीरः
कोणाघातेषु गर्जत्प्रलयघनघटान्योन्यसंघट्टचण्डः ।
कृष्णाक्रोधाग्रदूतः कुरुकुलनिधनोत्पातनिर्घातवातः
केनास्मत्सिंहनादप्रतिरसितसखो दुंदिभिस्ताड्यतेऽयम् ॥ २२ ॥
प्रविश्य संभ्रांतः
कञ्चुकी--कुमार ! एष खलु भगवान्वासुदेवः ।
( सर्वे कृताञ्जलयः समुत्तिष्ठन्ति ।)
भीमसेनः--( ससंभ्रमम् ।) क्वासौ भगवान् ?
कञ्चुकी–-पाण्डवपक्षपातामर्षितेन सुयोधनेन संयन्तुमारब्धः ।
( सर्वे संभ्रमं नाटयन्ति ।)
भीमसेनः--किं संयतः ?
कञ्चुकी–-नहि नहि, संयन्तुमारब्धः ।
भीमसेनः--किं कृतं देवेन ?
कञ्चुकी--ततः स महात्मा दर्शितविश्वरूपतेजःसंपातमूर्छितमवधूय कुरुकुलमस्मच्छिबिरसंनिवेशमनुप्राप्तः कुमारमविलम्बितं द्रष्टुमिच्छति ।
भीमसेनः--( सहासम्) किं नाम दुरात्मा सुयोधनो भगवन्तं संयन्तुमिच्छति ? (आकाशे दत्तदृष्टिः) आः दुरात्मन्कुरुकुलपांसन ! एवमतिक्रान्तमर्यादे त्वयि निमित्तमात्रेण पाण्डवक्रोधेन भवितव्यम् ।
सहदेवः–आर्य ! किमसौ दुरात्मा सुयोधनहतको वासुदेवमपि भगवन्तं स्वरूपेण न जानाति ?
भीमसेनः--वत्स, मूढः खल्वयं दुरात्मा कथं जानातु । पश्य ।
आत्मारामा विहितरतयो निर्विकल्पे समाधौ
ज्ञानोद्रेकाद्विघटिततमोग्रन्थयः सत्त्वनिष्ठाः ।
यं वीक्षन्ते कमपि तमसां ज्योतिषां वा परस्ता-
त्तं मोहांधः कथमयममुं वेत्तु देवं पुराणम् ॥ २३ ॥
कञ्चुकी--स्वयमेव गत्वा महाराजस्याध्यवसितं ज्ञास्यति कुमारः ।
( इति निष्क्रान्तः ।)
( नेपथ्ये । कलकलानन्तरम् । )
भो भो द्रुपदविराटवृष्ण्यन्धकसहदेवप्रभृतयोऽस्मदक्षौहिणीपतयः कौरवचमूप्रधानयोधाश्च, शृण्वन्तु भवन्तः ।
यत्सत्यव्रतभङ्गभीरुमनसा यत्नेन मन्दीकृतं |
भीमसेनः--( आकर्ण्य । सहर्षम् । ) जृम्भतां जृम्भतामप्रतिहतप्रसरमार्यस्य क्रोधज्योतिः ।
द्रौपदी--णाह ! किं दाणीं एसो पलअजलहरत्थणिमंसलो क्खणे क्खणे समरदुन्दुही ताडीअदि ?(नाथ ! किमिदानीमेष प्रलयजलधरस्तनितमांसलः क्षणे क्षणे समरदुन्दुभिस्ताड्यते? )
भीमसेनः--देवि ! किमन्यत् ? यज्ञ: प्रवर्तते ।
द्रौपदी--( सविस्मयम् )को एसो जण्णो ( क एष यज्ञः ? )
भीमसेनः--रणयज्ञः । तथाहि ।
चत्वारो वयमृत्विजः स भगवान्कर्मोपदेष्टा हरिः |
सहदेवः--आर्य ! गच्छामो वयमिदानीं गुरुजनानुज्ञाता विक्रमानुरूपमाचरितुम् ।
भीमसेनः--वत्स ! एते वयमुद्यता एवार्यस्यानुज्ञामनुष्ठातुम् । (उत्थाय) देवि ! गच्छामो वयमिदानीं कुरुकुलक्षयाय ।
द्रोपदी--( बाष्पं धारयन्ती ।) णाह, असुरसमराहिमुहस्स हरिणो विअमङ्गलं तुह्माणं होदु । जं च अम्बा कुन्दी आसासदि तं तुह्माणं विअ, ( नाथ ! असुरसमराभिमुखस्य हरेरिव मङ्गलं युष्माकं भवतु । यच्चाम्बा कुन्त्याशास्ते तद्युष्माकं भवतु ।)
उभौ--प्रतिगृहीतं मङ्गलवचनमस्माभिः ।
द्रौपदी--अण्णं अ णाह ! पुणो वि तुह्महिं समरादो आअच्छिअ अहं समासासइदव्वा । (अन्यच्च नाथ ! पुनरपि युष्माभिः समरादागत्याहं समाश्वासयितव्या)
भीमसेनः--ननु पाञ्चालराजतनये ! किमद्याप्यलीकाश्वासनया ?
भूयः परिभवक्लान्तिलज्जाविधुरिताननम् । |
द्रौपदी-–णाह ! मा क्खु जण्णसेणीपरिहवुद्दीविदकोवाणला अणवेक्खिदसरीरा संचरिस्सध । जदो अप्पमत्तसंचरणिज्जाइं रिउवलाइं सुणीअन्ति । ( नाथ ! मा खलु याज्ञसेनीपरिभवोद्दीपितकोपानला अनपेक्षितशरीराः संचरिष्यथ । यतोऽप्रमत्तसंचरणीयानि रिपुबलानि श्रूयन्ते । )
भीमसेनः--अयि सुक्षत्रिये !
अन्योन्यास्फालभिन्नद्विपरुधिरंवसामांसमस्तिष्कपङ्के |
( इति निष्कान्ताः सर्वे ।)
इति प्रथमोऽङ्कः ।