वेणीसंहारम् (आङ्गलटिप्पणीसहितम्)/तृतीयोऽङ्कः

विकिस्रोतः तः
← द्वितीयोऽङ्कः वेणीसंहारम् (आङ्गलटिप्पणीसहितम्)
तृतीयोऽङ्कः
भट्टनारायणः
चतुर्थोऽङ्कः →

वेणीसंहारे

तृतीयोङ्क: ।


( ततः प्रविशति विकृतवेषा राक्षसी )

 राक्षसी--( विकृतं विहस्य । सपरितोषम् ।)

हदमाणुशमंशभोअणे कुम्भशहश्शं वशाहिं शंचिए ।
अणिशं अ पिवामि शोणिअं वलिशशदं शमले हुवीअदु ॥ १ ॥

( नृत्यन्ती सपरितोषम् ) जइ शिन्धुलाअवहदिअहे विअ दिअहे दिअहे शमलकम्म पडिवज्जइ अज्जुणे तदो पञ्चत्तभलिदकोट्ठागाले मंशशोणिएहिं मे गेहे हुवीअदि । ( परिक्रम्य दिशोऽवलोक्य ।) अह कहिं क्खु गदे मे लुहिलप्पिए हुविस्सदि । होदु । शद्दावइश्शं दाव । अले लुहिलप्पिआ लुहिलप्पिआ ! इदो एहि ।

( हतमानुषमांसभोजने कुम्भसहस्रं वसाभिः संचितम् ।
अनिशं च पिबामि शोणितं वर्षशतं समरो भवतु ॥ १ ॥

 यदि सिन्धुराजवधदिवस इव दिवसे दिवसे प्रतिपद्यतेऽर्जुनस्तदा पर्याप्तभृतकोष्ठागारं मांसशोणितैर्मे गृहं भविष्यति । अथ क्व खलु गतो मे रुधिरप्रियो भविष्यति । भवतु । शब्दायिष्ये तावत् । अरे रुधिरप्रिय रुधिरप्रिय ! इत एहि ।)

(ततः प्रविशति तथाविधो राक्षसः ।)

 राक्षसः--( श्रमं नाटयन् । )

( पच्चम्महदाणं मंशए जइ उण्हे लुहिले अ लब्भइ ।
ता एशे मह पलिश्शमे क्खणमेत्तं एव्व लहु णश्शइ ॥ २ ॥

( प्रत्यग्रहतानां मांसं यद्युष्णं रुधिरं, च लभ्येत ।
तदैष मम परिश्रमः क्षणमात्रमेव लघु नश्येत् ॥ २ ॥ )

( राक्षसी पुनर्व्याहरति ।)

 राक्षसः--( आकर्ण्य ।) अले के एशे मं शद्दावेदि । ( विलोक्य । ) कहं पिआ मे वशागन्धा ? । (उपसृत्य ।) वशागन्धे ! कीश मं शद्दावेशि ? ।

 लुहिलाशवपाणमत्तिए लणहिण्डन्तखलन्तगत्तिए ।
 शद्दाअशि कीश मं पिए पुलिशशहश्शं हदं शुणीअदि ॥ ३ ॥

( अरे कैषा मां शब्दायते । कथं प्रिया मे वसागन्धा ? । वसागन्धे ! कस्मान्मां शब्दायसे ? । रुधिरासवपानमत्तिके ! रणहिण्डनस्खलद्गात्रिके ।
शब्दायसे कस्मान्मां प्रिये ! पुरुषसहस्रं हतं श्रूयते ॥ ३ ॥ )

 राक्षसी--अले लुहिलप्पिआ ! एदं क्खु मए तुह कालणादो पच्चग्गहदश्श कश्शवि लाएशिणो प्पहूदवशाशिणेहचिक्कणं कोण्हं णवलुहिलं अग्गमंशं अ आणीदम् । ता पिवाहि णम् । ( अरे रुधिरप्रिय ! इदं खलु मया तव कारणात्प्रत्यग्रहतस्य कस्यापि राजर्षेः प्रभूतवसास्नेहचिक्कणं कोष्णं नवरुधिरमग्रमांसं चानीतम् । तत्पिबैनत् । )

 राक्षसः--( सपरितोषम् । ) वशागन्धे ! शुट्ठु । शोहणं तुए किदम् बलिआह्मि पिवाशिए । ता उवणेहि । ( वसागन्धे ! सुष्ठु । शोभनं त्वया कृतम् । बलवदस्मि पिपासितः । तदुपनय । )

 राक्षसी--अले लुहिलप्पिआ ! एदिशे वि णाम हदणलगअतुलङ्गमशोणिअवशाशमुद्ददुश्शंचले शमले पडिब्भमन्ते तुमं पिवाशिएशित्ति अच्चलिअं अच्चलिअम् । ( अरे रुधिरप्रिय! ईदृशेऽपि नाम हतनरगजतुरङ्गमशोणितवसासमुद्रदुःसंचरे समरे परिभ्रंमस्त्वं पिपासितोऽसीत्याश्चर्यमाश्चर्यम् ।)

 राक्षसः–अइ शुत्थिदे ! णं पुत्तशोअशन्तत्तहिअअं शामिणीं हिडिम्बादेवीं पेक्खिदुं गदह्मि । ( अयि सुस्थिते ! ननु पुत्रशोकसंतप्तहृदयां स्वामिनीं हिडिम्बादेवीं प्रेक्षितुं गतोऽस्मि । )

 राक्षसी-–लुहिलप्पिआ ! अज्जवि शामिणीए हिडिम्बादेवीए घडुक्कअसोए ण उवशमइ ? ।( रुधिरप्रिय । अद्यापि स्वामिन्या हिडिम्बादेव्या घटोत्कचशोको नोपशाम्यति ? ।)

 राक्षसः–-वशागन्धे । कुदो शे उवशमे । केवलं अहिमण्णुशोअशमाणदुक्खाए शुभद्दादेवीए जण्णशेणीए अ कधं कधं वि शमश्शाशीअदि । ( वसागन्धे ! कुतोऽस्या उपशमः ? । केवलमभिमन्युशोकसमानदुःखया सुभद्रादेव्या याज्ञसेन्या च कथं कथमपि समाश्वास्यते । )

 राक्षसी-- लुहिलप्पिआ ! गेण्ह एदं हत्थिशिलक्कवालशंचिअं अग्गमंशोवदंशम् । पिवाहि शोणिआशवम् । ( रुधिरप्रिय ! गृहाणैतद्धस्तिशिरःकपालसंचितमग्रमांसोपदंशम् । पिब शोणितासवम् ।)

 राक्षसः--( तथा कृत्वा । ) वशागन्धे ! अह किअप्पहूदं तुए शंचिअं लुहिलं अग्गमंशं अ?। ( वसागन्धे ! अथ कियत्प्रभूतं त्वया संचितं रुधिरमग्रमांसं च ? । )

 राक्षसी–-अले लुहिलप्पिआ ! पुव्वशंचिअं तुमं वि जाणाशि जेव्व । णवशंचिअं शिणु दाव । भअदत्तशोणिएहिं कुम्भे शिन्धुलाअवशाहिं कुम्भे दुवे दुवदमच्छाहिवभूलिश्शवशोमदत्तवल्हीअप्पमुहाणं णलिन्दाणं अण्णाणं वि पाकिदपुलिशाणं लुहिलमंशेहिं पुलिदाइं घडशदाइं अशंक्खाइं शन्ति मह गेहे ।( अरे रुधिरप्रिय ! पूर्वसंचितं त्वमपि जानास्येव । नवसंचितं शृणु तावत् । भगदत्तशोणितैः कुम्भः सिन्धुराजवसाभिः कुम्भौ द्वौ द्रुपदमत्स्याधिपभूरिश्रवःसोमदत्तबाल्हीकप्रमुखाणां नरेंद्राणामन्येषामपि प्राकृतपुरुषाणां रुधिरमांसैः पूरितानि घटशतान्यसंख्यानि सन्ति मे गेहे ।)

 राक्षसः--( सपरितोषमालिङ्ग्य । ) शाहु शुग्घलिणीए ! शाहु । इमिणा दे शुग्घलिणित्तणेण अज्ज उण शामिणीए हिडिम्बादेवीए शंविहाणेण प्पणट्ठं मे जम्मदालिद्दम् । ( साधु सुगृहिणि । साधु । अनेन ते सुगृहिणीत्वेनाद्य पुनः स्वामिन्या हिडिम्बादेव्याः संविधानेन प्रनष्टं मे जन्मदारिद्र्यम् । )

 राक्षसी--लुहिलप्पिआ ! केलिशे शामिणीए शंविहाणए किदे ? ( रुधिरप्रिय ! कीदृशं स्वामिन्या संविधानं कृतम् ।)

 राक्षसः–-वशागन्धे ! आणत्ते क्खु हगे शामिणीए हिडिम्बादेवीए जह लुहिलप्पिआ ! अज्जप्पहुदि तुए अज्जउत्तभीमशेणश्श पिदोट्ठऽणुपिट्ठं शमले आहिण्डिदव्वं त्ति । ता तश्श अणुमग्गगामिणो हअमाणुशशोणिअणईदंशणप्पणट्ठबुभुक्खापिवाशश्श इह एव्व मह शग्गलोओ हुवीअदि । तुमं वि वीशद्धा भविअ लुहिलवशाहिं कुम्भशहश्शं शंचेहि ।( वसागन्धे ! आज्ञप्तः खल्वहं स्वामिन्या हिडिम्बादेव्या यथा रुधिरप्रिय ! अद्यप्रभृति त्वया आर्यपुत्रभीमसेनस्य पृष्ठतोऽनुपृष्ठं समर आहिण्डितव्यमिति । तत्तस्यानुमार्गगामिनो हतमानुषशोणितनदीदर्शनप्रनष्टबुभुक्षापिपासस्येहैव मे स्वर्गलोको भविष्यति । त्वमपि विस्रब्धा भूत्वा रुधिरवसाभिः कुम्भसहस्रं संचिनु । )

 राक्षसी–-लुहिलप्पिआ ! किंणिमित्तं कुमालभीमशेणश्श पिट्ठदो आहिण्डीअदि ? । ( रुधिरप्रिय । किंनिमित्तं कुमारभीमसेनस्य पृष्ठत आहिण्ड्यते ? । )  राक्षसः–-वशागन्धे ! तेण हि शामिणा विओदलेण दुश्शाशणश्श लुहिलं पादुं पडिण्णादम् । तं अ अह्मेहिं लख्खशेहिं अनुप्पविशिअ पादव्वम् । ( वसागन्धे ! तेन हि स्वामिना वृकोदरेण दुःशासनस्य रुधिरं पातुं प्रतिज्ञातम् । तच्चास्माभी राक्षसैरनुप्रविश्य पातव्यम् ।)

 राक्षसी--( सहर्षम् । ) शाहु । शामिणीए ! शाहु । शुशंविहाणे मे भत्ता किदे । ( साधु स्वामिनि ! साधु । सुसंविधानो मे भर्ता कृतः ।)

( नेपथ्ये महान्कलकलः । )

 राक्षसी--( आकर्ण्य ससंभ्रमम् । ) अले लुहिलप्पिआ ! किं णु क्खु एशे महन्ते कलअले शुणीअदि ? (अरे रुधिरप्रिय ! किं नु खल्वेष महान्कलकलः श्रूयते ? । )

 राक्षसः--( दृष्ट्वा । )वशागन्धे ! एशे क्खु धिट्टज्जुण्णेण दोणे केशेशु आकट्टिअ अशिवत्तेण व्वावादीअदि । ( वसागन्धे ! एष खलु धृष्टद्युम्नेन द्रोणः केशेष्वाकृष्यासिपत्रेण व्यापाद्यते । )

 राक्षसी--( सहर्षम् । ) लुहिलप्पिआ ! एहि । गच्छिअ दोणश्श लुहिलं पिवह्म । ( रुधिरप्रिय ! एहि । गत्वा द्रोणस्य रुधिरं पिबावः ।)

 राक्षस--( सभयम् । ) वशागन्धे ! बम्हणशोणिअं क्खु एदं गलअं दहन्ते दहन्ते प्यविशदि । ता किं एदिणा । ( वसागन्धे ! ब्राह्मणशोणितं खल्वेतद्गलं दहद्दहत्प्रविशति तत्किमेतेन ? )

( नेपथ्ये पुनः कलकलः । )

 राक्षसी--लुहिलप्पिआ ! पुणेवि एशे महन्ते कलअले शुणीअदि । ( रुधिरप्रिय ! पुनरप्येष महान्कलकलः श्रूयते । )

 राक्षसः--( नेपथ्याभिमुखमवलोक्य । ) वशागन्धे ! एशे क्खु अश्शत्थामे आकट्टिदाशिवत्ते इदो एव्व आअच्छदि । कदावि दुवदशुदलोशेण अम्हेवि व्वावादइश्शइ । ता एहि । अतिक्कमह्म । ( वसागन्धे ! एष खल्वश्वत्थामाकृष्टासिपत्र इत एवागच्छति । कदाचिदद्रुपद्सुतरोषेणावामपि व्यापादयिष्यति । तदेहि । अतिक्रमावः ।)

( इति निष्क्रान्तौ । )

इति प्रवेशकः ।


( ततः प्रविशत्याकृष्टखड्गः कलकलमाकर्णयन्नश्वत्थामा । )

 अश्वत्थामा--

 महाप्रलयमारुतक्षुभितपुष्करावर्तक-
  प्रचण्डघनगर्जितप्रतिरवानुकारी मुहुः ।
 रवः श्रवणभैरवः स्थगितरोदसीकन्दरः
  कुतोऽद्य समरोदधेरयमभूतपूर्वः पुरः ॥ ४ ॥

( विचिन्य ।) ध्रुवं गाण्डीविना सात्यकिना वृकोदरेण वा यौवनदर्पादतिक्रान्तमर्यादेन परिकोपितस्तातः समुल्लङ्घ्य शिष्यप्रियतामात्मप्रभावसदृशमाचेष्टते । तथाहि ।

  यद्दुर्योधनपक्षपातसदृशं युक्तं यदस्त्रग्रहे
   रामाल्लब्धसमस्तहेतिगुरुणो वीर्यस्य यत्सांप्रतम् ।
  लोके सर्वधनुष्मतामधिपतेर्यच्चानुरूपं रुषः ।
   प्रारब्धं रिपुघस्मरेण नियतं तत्कर्म तातेन मे ॥ ५ ॥

( पृष्ठतो विलोक्य । ) तत्कोऽत्र स्थमुपनयतु ? अथवालमिदानीं मम रथप्रतीक्षया । सशस्त्र एवास्मि सजलजलधरप्रभाभासुरेण सुप्रग्रहविमलकलधौतत्सरुणामुना खड्गेन । यावत्समरभुवमवतरामि । ( परिक्रम्य । वामाक्षिस्पन्दनं सूचयित्वा । )

अये ! ममापि नामाश्वत्थाम्नः समरमहोत्सवप्रमोदनिर्भरस्य तातविक्रमदर्शनलालसस्यानिमित्तानि समरगमनविघ्नमुत्पादयन्ति । भवतु । गच्छामि । ( सावष्टम्भं परिक्रम्याग्रतो विलोक्य ।) कथमवधीरितक्षात्रधर्माणामुज्झितसत्पुरुषोचितलज्जावगुण्ठनानां विस्मृतस्वामिसत्कारलघुचेतसां द्विरदतुरङ्गमचरणचारिणामगणितकुलयशःसदृशपराक्रमव्रतानां रणभूमेः समन्तादपक्रामतामयं महान्नादो बलानाम् । ( निरूप्य । ) हा धिक्कष्टम् । कथमेते महारथाः कर्णादयोऽपि समरात्पराङ्मुखा भवन्ति । कथं नु ताताधिष्ठितानामपि बलानामियमवस्था भवेत् । भवतु संस्तम्भयामि । भो भोः कौरवसेनासमुद्रवेलापरिपालनमहामहीधरा नरपतयः ! कृतं कृतममुना समरपरित्यागसाहसेन ।

  यदि समरमपास्य नास्ति मृत्यो-
   र्भयमिति युक्तमितोऽन्यतः प्रयातुम् ।

अथ मरणमवश्यमेव जन्तोः
किमिति मुधा मलिनं यशः कुरुध्वे? ॥ ६ ॥

अपि च ।

 अस्त्रज्वालावलीढप्रतिबलजलधेरन्तरौवार्यमाणे
  सेनानाथे स्थितेऽस्मिन्मम पितरि गुरौ सर्वधन्वीश्वराणाम् ।
 कर्णालं संभ्रमेण व्रज कृप ! समरं मुञ्च हार्दिक्य ! शङ्कां ।
  ताते चापद्वितीये वहति रणधुरं को भयस्यावकाशः ?॥ ७ ॥

(नेपथ्ये । )

कुतोऽद्यापि ते तातः ? ।

 अश्वत्थामा--( श्रुत्वा । ) किं ब्रूथ ?-- 'कुतोऽद्यापि ते तात' इति । ( सरोषम् । ) आः क्षुद्राः ! समरभीरवः ! कथमेवं प्रलपतां वः सहस्रधा न दीर्णमनया जिह्वया ? ।

 दग्धुं विश्वं दहनकिरणैर्नोदिता द्वादशार्का
  वाता वाता दिशि दिशि न वा सप्तधा सप्त भिन्नाः ।
 छन्नं मेघैर्न गगनतलं पुष्करावर्तकाद्यैः
  पापं पापाः कथयत कथं शौर्यराशेः पितुर्मे ? ॥ ८ ॥

( प्रविश्य संभ्रान्तः सप्रहारः । )

 सूतः--परित्रायतां परित्रायतां कुमारः । ( इति पादयोः पतति । )

 अश्वत्थामा--( विलोक्य । ) अये कथं ! तातस्य सारथिरश्वसेनः ? । आये ! ननु त्रैलोक्यत्राणक्षमस्य सारथिरसि । किं मत्तः परित्राणमिच्छसि ? ।

 सूतः--( सकरुणम् । ) कुतोऽद्यापि ते तात: ? ।

 अश्वत्थामा--( सावेगम् । ) किं तातो नामास्तमुपगतः ? ।

 सूतः--अथ किम् ? ।

 अश्वत्थामा--हा तात ! ( इति मोहमुपगतः ।)

 सूतः--कुमार ! समाश्वसिहि समाश्वसिहि ।

 अश्वत्थामा--( लब्धसंज्ञः सास्रम् ) हा तात ! हा सुतवत्सल ! हा लोकत्रयैकधनुर्धर ! हा जामदग्न्यास्त्रसर्वस्वप्रतिग्रहप्रणयिन् क्वासि ? । प्रयच्छ मे प्रतिवचनम् ।  सूतः--कुमार ! अलमत्यन्तशोकावेगेन । वीरपुरुषोचितां विपत्तिमुपगते पितरि त्वमपि तदनुरूपेणैव वीर्येण शोकसागरमुत्तीर्य सुखी भव ।

 अश्वत्थामा--( अश्रूणि विमुच्य । )आर्य ! कथय कथय, कथं तादृग्भुजवीर्यसागरस्तातोऽपि नामास्तमुपगतः ?।

  किं भीमाद्गुरुदक्षिणां गुरुमदां भीमप्रियः प्राप्तवान् ? ।

 सूतः--शान्तं पापम् ।

 अश्वत्थामा--

  अन्तेवासिदयालुरुज्झितनयेनासादितो जिष्णुना ? ।

 सूतः--कथमेवं भविष्यति ? ।

 अश्वत्थामा--

  गोविन्देन सुदर्शनस्य निशितं धारापथं प्रापितः ? ।

 सूतः--एतदपि नास्ति ।

 अश्वत्थामा--

  शङ्के नापदमन्यतः खलु गुरोरेभ्यश्चतुर्थादहम् ॥ ९ ॥

 सूतः--कुमार !

एतेऽपि तस्य कुपितस्य महास्त्रपाणेः
 किं धूर्जटेरिव तुलामुपयान्ति संख्ये ? ॥
शाकोपरुद्धहृदयेन यदा तु शस्त्रं
 त्यक्तं तदास्य विहितं निपुणातिघोरम् ॥ १० ॥

 अश्वत्थामा--किं पुनः कारणं शोकस्यास्त्रपरित्यागस्य वा ? ।

 सूतः--ननु कुमार एव कारणम् ।

 अश्वत्थामा--कथमहमेव ? ।

 सूतः--श्रूयताम् । ( अश्रूणि विमुच्य । )

अश्वत्थामा हत इति पृथासूनुना स्पष्टमुक्त्वा
 स्वैरं शेषे गज इति किल व्याहृतं सत्यवाचा ।
तच्छ्रुत्वासौ दयिततनयः प्रत्ययात्तस्य राज्ञः ।
 शस्त्राण्याजौ नयनसलिलं चापि तुल्यं मुमोच ॥ १३ ॥

 अश्वत्थामा---हा तात ! हा सुतवत्सल ! हा वृथा मदर्थपरित्यक्तजीवित ! हा शौर्यराशे ! हा शिष्यप्रिय ! हा युधिष्ठिरपक्षपातिन् ! । ( इति रोदिति ।)

 सूतः--कुमार ! अलमत्यन्तपरिदेवनकार्पण्येन ।

 अश्वत्थामा--

श्रुत्वा वधं मम मृषा सुतवत्सलेन
 तात ! त्वया सह शरैरसवो विमुक्ताः ।
जीवाम्यहं पुनरहो भवता विनापि
 क्रूरेऽपि तन्मयि मुधा तव पक्षपातः ॥ १२ ॥

( इति मोहमुपगतः ।)

 सूतः--समाश्वसितु समाश्वसितु कुमारः ।

( ततः प्रविशति कृपः । )

 कृपः--( सोद्वेगं निश्वस्य । )

धिक्सानुजं कुरुपतिं धिगजातशत्रुं
 धिग्भूपतीन्विफलशस्त्रभृतो धिगस्मान् ।
केशग्रहः खलु तदा द्रुपदात्मजाया
 द्रोणस्य चाद्य लिखितैरिव वीक्षितो यैः ॥ १३ ॥

तत्कथं नु खलु वत्समद्य द्रक्ष्याम्यश्वत्थामानम् । अथवा हिमवत्सारगुरुचेतसि ज्ञातलोकस्थितौ तस्मिन्न खलु शोकावेगमहमाशङ्के । किं तु पितुः परिभवमसदृशमुपश्रुत्य न जाने किं व्यवस्यतीति । अथवा

एकस्य तावत्पाकोऽयं दारुणो भुवि वर्तते ।
केशग्रहे द्वितीयेऽस्मिन्नूनं निःशेषिताः प्रजाः ॥ १४ ॥

( विलोक्य । )तदयं वत्सस्तिष्ठति । यावदुपसर्पामि । ( उपसृत्य ससंभ्रमम् ।) वत्स ! समाश्वसिहि समाश्वसिहि ।

 अश्वत्थामा--( संज्ञां लब्ध्वा । सास्रम् । ) हा तात ! हा सकलभुवनैकगुणे ! ( आकाशे ) युधिष्ठिर ! युधिष्ठिर !

आजन्मनो न वितथं भवता किलोक्तं
 न द्वेक्षि यज्जनमतस्त्वमजातशत्रुः ।

ताते गुरौ द्विजवरे मम भाग्यदोषा-
 त्सर्वं तदेकपद एव कथं निरस्तम् ? ॥ १५ ॥

 सूतः--कुमार ! एष ते मातुलः शारद्वतः पार्श्वे तिष्ठति ।

 अश्वत्थामा--( पार्श्वे विलोक्य । सबाष्पम् ।) मातुल !

गतो येनाद्य त्वं सह रणभुवं सैन्यपतिना
 य एकः शूराणां गुरुसमरकण्डूनिकषणः ।
परीहासाश्चित्राः सततमभवन्येन भवतः
 स्वसुः श्लाघ्यो भर्ता क्व नु खलु स ते मातुल गतः ? ॥ १६ ॥

 कृपः--वत्स ! परिगतपरिगन्तव्य एव भवान् । तदलमत्यन्तशोकावेगेन ।

 अश्वत्थामा--मातुल ! परित्यक्तमेव मया परिदेवितम् । एषोऽहं सुतवत्सलं तातमेवानुगच्छामि ।

 कृपः--वत्स ! अनुपपन्नमीदृशं व्यवसितं भवद्विधानाम् ।

 सूतः कुमार ! अलमतिसाहसेन ।

 अश्वत्थामा--आर्य शारद्वत !

मद्वियोगभयात्तात: परलोकमितो गतः ।
करोम्यविरहं तस्य वत्सलस्य सदा पितुः ॥ १७ ॥

 कृपः-- वत्स ! यावदयं संसारस्तावत्प्रसिद्धैवेयं लोकयात्रा यत्पुत्रैः पितरो लोकद्वयेऽप्यनुवर्तनीया इति । पश्य ।

निवापाञ्जलिदानेन केतनैः श्राद्धकर्मभिः ।
तस्योपकारे शक्तस्त्वं किं जीवन्किमुतान्यथा ॥ १८ ॥

 सूतः-- आयुष्मन् ! यथैव मातुलस्ते शारद्वतः कथयति तत्तथा ।

 अश्वत्थामा--आर्य ! सत्यमेवेदम् । किं त्वतिदुर्वहत्वाच्छोकभारस्य न शक्नोमि तातविरहितः क्षणमपि प्राणान्धारायितुम् । तद्गच्छामि तमेवोद्देशं यत्र तथाविधमपि पितरं द्रक्ष्यामि । ( उत्तिष्ठन्खड्गमालोक्य । विचिन्त्य ।) कृतमद्यापि शस्त्रग्रहणविडम्बनया । भगवन् शस्त्र!

गृहीतं येनासीः परिभवभयान्नोचितमपि
 प्रभावाद्यस्याभून्न खलु तव कश्चिन्न विषयः ।
परित्यक्तं तेन त्वमसि सुतशोकान्न तु भया-
 द्विमोक्ष्ये शस्त्र त्वामहमपि यतः स्वस्ति भवते ॥ १९ ॥

( इत्युत्सृजति । )

( नेपथ्ये । )

 भो भो राजानः ! कथमिह भवन्तः सर्वे गुरोर्भारद्वाजस्य परिभवममुना नृशंसेन प्रयुक्तमुपेक्षन्ते ? ।

 अश्वत्थामा--( आकर्ण्य । सक्रोधं शनैः शस्त्रं स्पृशन् । ) किं गुरोर्भारद्वाजस्य परिभवः ? ।

( पुनर्नेपथ्ये । )

आचार्यस्य त्रिभुवनगुरोर्न्यस्तशस्त्रस्य शोकाद्-
 द्रोणस्याजौ नयनसलिलक्षालितार्द्राननस्य ।
मौलौ पाणिं पलितधवले न्यस्य कृत्वा नृशंसं
 धृष्टद्युम्नः स्वशिबिरमयं याति सर्वे सहध्वम् ॥ २० ॥

( सक्रोधं सकम्पं च कृपसूतौ दृष्ट्वा । ) किं नामेदम् ?

प्रत्यक्षमात्तधनुषां मनुजेश्वराणां
 प्रायोपवेशसदृशं विधिमास्थितम्य ।
तातस्य मे पलितमौलिनिरस्तकाशे ।
 व्यापारितं शिरसि शस्त्रमशस्त्रपाणेः ॥ २१ ॥

 कृपः--वत्म ! एवं किल जनः कथयति ।

 अश्वत्थामा--किं तातस्य दुरात्मना परिमृष्टमभूच्छिरः ? ।

 सूतः--( सभयम् । ) कुमार ! आसीदयं तस्य तेजोराशेर्देवस्य नवः परिभवावतारः ।

 अश्वत्थामा--हा तात ! हा पुत्रप्रिय ! मम मन्दभागधेयस्य कृते शस्त्रपरित्यागात्तथाविधेन क्षुद्रेणात्मा परिभावितः । अथवा

परित्यक्ते देहे रणशिरसि शोकान्धमनसा
 शिरः श्वा काको वा द्रुपदतनयो वा परिमृशेत् ।
स्फुरद्दिव्यास्त्रौघद्रविणमदमत्तस्य च रिपो-
 र्ममैवायं पादः शिरसि निहितस्तस्य न करः ॥ २२ ॥

आः दुरात्मन्पाञ्चालापसद !

तातं शस्त्रग्रहणविमुखं निश्चयेनोपलभ्य
 त्यक्त्वा शङ्कां खलु विदधतः पाणिमस्योत्तमाङ्गे ।
अश्वत्थामा करधृतधनुः पाण्डुपाञ्चालसेना-
 तूलोत्क्षेपप्रलयपवनः किं न यातः स्मृतिं ते ? ॥ २३ ॥

युधिष्ठिर ! युधिष्ठिर ! अजातशत्रो ! अमिथ्यावादिन् ! धर्मपुत्र ! सानुजस्य ते किमनेनापकृतम् ? । अथ वा किमनेनालीकप्रकृतिजिह्मचेतसा । अर्जुन ! सात्यके ! बाहुशालिन्वृकोदर ! माधव ! युक्तं नाम भवतां सुरासुरमनुजलोकैकधनुर्धरस्य द्विजन्मनः परिणतवयसः सर्वाचार्यस्य विशेषतो मम पितुरमुना द्रुपदकुलकलङ्केन मनुजपशुना स्पृश्यमानमुत्तमाङ्गमुपेक्षितुम् ? अथ वा सर्व एवैते पातकिनः । किमेतैः ? ।

कृतमनुमतं दृष्टं वा यैरिदं गुरु पातकं ।
 मनुजपशुभिर्निर्मर्यादैर्भवद्भिरुदायुधैः ।
नरकरिपुणा सार्धं तेषां सभीमकिरीटिना-
 मयमहमसृङ्मेदोमांसैः करोमि दिशां बलिम् ॥ २४ ॥

 कृपः--वत्स ! किं न संभाव्यते भारद्वाजतुल्ये बाहुशालिनि दिव्यास्त्रग्रामकोविदे भवति ? ।

 अश्वत्थामा--भो भोः पाण्डवमत्स्यसोमकमागधाद्याः क्षत्रियापसदाः !

पितुर्मूर्ध्नि स्पृष्टे ज्वलदनलभास्वत्परशुना
 कृतं यद्रामेण श्रुतिमुपगतं तन्न भवताम् ।
किमद्याश्वत्थामा तदरिरुधिरासारविघस
 न कर्म क्रोधान्धः प्रभवति विधातुं रणमुखे ? ॥ २५ ॥

सूत! गच्छ त्वं सर्वोपकरणैः साङ्ग्रामिकैः सर्वायुधैरुपेतं महाहवलक्षणं नामामत्स्यन्दनमुपनय ।

 सूतः-- यदाज्ञापयति कुमारः । ( इति निष्क्रान्तः ।)

 कृपः-- वत्स ! अवश्यप्रतिकर्तव्येऽस्मिन्दारुणे निकाराग्नौ सर्वेषामस्माकं कोऽन्यस्त्वामन्तरेण शक्तः प्रतिकर्तुम् । किं तु--

 अश्वत्थामा--किमतः परम् ? ।

 कृपः-- सैनापत्येऽभिषिच्य भवन्तमिच्छामि समरभुवमवतारयितुम् ।

 अश्वत्थामा--मातुल! परतन्त्रमिदमकिंचित्करं च ।

 कृपः-- वत्स ! न खलु परतन्त्रं नाकिंचित्करं च । पश्य ।

भवेदभीष्ममद्रोणं धार्तराष्ट्रचलं कथम् ।
यदि तत्तुल्यकक्षोऽत्र भवान्धुरि न युज्यते ॥ २६ ॥

कृतपरिकरस्य भवादृशस्य त्रैलोक्यमपि न क्षमं परिपन्थीभवितुं किं पुनर्यौधिष्ठिरबलम् । तदेवं मन्ये परिकल्पिताभिषेकोपकरणः कौरवराजो न चिरात्त्वामेवाभ्यपेक्षमाणस्तिष्ठतति ।

 अश्वत्थामा-- यद्येवं, त्वरते मे परिभवानलदह्यमानमिदं चेतस्तत्प्रतीकारजलावगाहनाय । तदहं गत्वा तातवधविषण्णमानसं कुरुपतिं सैनापत्यस्वयंग्रहप्रणयसमाश्वासनया मन्दसंतापं करोमि ।

 कृपः--वत्स ! एवमिदम् । अतस्तमेवोद्देशं गच्छावः ।

( इति परिक्रामतः ।)

( ततः प्रविशतः कर्णदुर्योधनौ ।)

 दुर्योधनः--अङ्गराज !

तेजस्वी रिपुहतबन्धुदुःखपारं
 बाहुभ्यां व्रजति धृतायुधप्लवाभ्याम् ।
आचार्यः सुतनिधनं निशम्य संख्ये
 किं शस्त्रग्रहसमये विशस्त्र आसीत् ? ॥ २७ ॥

अथवा सूक्तमिदमभियुक्तैः प्रकृतिर्दुस्त्यजेति । यतः शोकान्धमनसा तेन विमुच्य क्षात्रधर्मकार्कश्यं द्विजातिधर्मसुलभो दैन्यपरिग्रहः कृतः ।

 कर्णः --राजन् ! न खल्विदमेवम् ।

 दुर्योधनः --कथं तर्हि ! ।

 कर्णः-- एवं किलास्याभिप्रायो यथाश्वत्थामा मया पृथिवीराज्येऽभिषेक्तव्य इति तस्याभावावृद्धस्य मे ब्राह्मणस्य वृथा शस्त्रग्रहणमिति तथा कृतवान् ।

 दुर्योधनः-- ( सशिरःकम्पम् ।)एवमिदम् ।

 कर्णः-- एतदर्थं च कौरवपाण्डवपक्षपातप्रवृत्तमहासङ्ग्रामस्य राजकस्य परस्परक्षयमपेक्षमाणेन तेन प्रधानपुरुषवध उपेक्षा कृता ।

 दुर्योधनः-- उपपन्नमिदम् ।

 कर्णः-- अन्यच्च राजन्! द्रुपदेनाप्यस्य बाल्यात्प्रभृत्यभिप्रायवेदिना न स्वराष्ट्रे वासो दत्तः ।

 दुर्योधनः-- साधु अङ्गराज ! साधु ! निपुणमभिहितम् ।

 कर्णः-- न चायं ममैकस्याभिप्रायः । अन्येऽभियुक्ता अपि नैवेदमन्यथा मन्यन्ते ।

 दुर्योधनः-- एवमेतत् । कः संदेहः ? ।

दत्वाऽभयं सोऽतिरथो वध्यमानं किरीटिना ।
सिन्धुराजमुपेक्षेत नैवं चेत्कथमन्यथा ? ॥ २८ ॥

 कृपः-- ( विलोक्य ) वत्स ! एष दुर्योधनः सूतपुत्रेण सहास्यां न्यग्रोधच्छायायामुपविष्टस्तिष्ठति । तदुपसर्पावः ।

( तथा कृत्वा । )

 उभौः-- विजयतां कौरवेश्वरः ।

 दुर्योधनः-- ( दृष्ट्वा । ) अये कथं कृपोऽश्वत्थामा च । ( आसनादवतीर्य कृपं प्रति ।) गुरो! अभिवादये । (अश्वत्थामानमुद्दिश्य ।) आचार्यपुत्र!

एह्यस्मदर्थहततात ! परिष्वजस्व
क्लान्तैरिदं मम निरन्तरमङ्गमङ्गैः ।
स्पर्शस्तवैष भुजयोः सदृशः पितुस्ते
शोकेऽपि यो महति निवृतिमादधाति ॥ २९ ॥

( इत्यालिङ्ग्य पार्श्व उपवेशयति ।)

( अश्वत्थामा बाष्पमुत्सृजति ।)

 कर्णः-- द्रौणायन ! अलमत्यर्थमात्मानं शोकानले प्रक्षिप्य ।

 दुर्योधनः-- आचार्यपुत्र ! को विशेष आवयोरस्मिन्व्यसनमहार्णवे ? । पश्य ।

तातस्तव प्रणयवान्स पितुः सखा मे
 शस्त्रे यथा तव गुरुः स तथा ममापि ।
किं तस्य देहनिधने कथयामि दुःखं ।
 जानीहि तद्गुरुशुचा मनसा त्वमेव ॥ ३० ॥

 कृपः-- वत्स ! यथाह कुरुपतिस्तथैवैतत् ।

 अश्वत्थामा-- राजन् ! एवं पक्षपातिनि त्वयि युक्तमेव शोकभारं लघूकर्तुम् । किं तु

मयि जीवति मत्तातः केशग्रहमवाप्तवान् ।
कथमन्ये करिष्यन्ति पुत्रेभ्यः पुत्रिणः स्पृहाम् ? ॥ ३१ ॥

 कर्णः-- द्रौणायन ! किमत्र क्रियते ? यदा तेनैव सर्वपरिभवपरित्राणहेतुना शस्त्रमुत्सृजता तादृशीमवस्थामात्मा नीतः ।

 अश्वत्थामा-- अङ्गराज ! किमाह भवान्किमत्र क्रियत इति । श्रूयतां यत्क्रियते ।

यो यः शस्त्रं बिभर्ति स्वभुजगुरुमदः पाण्डवीनां चमूनां
 यो यः पाञ्चालगोत्रे शिशुरधिकवया गर्भशय्यां गतो वा ।
यो यस्तत्कर्मसाक्षी चरति मयि रणे यश्च यश्च प्रतीपः
 क्रोधान्धस्तस्य तस्य स्वयमपि जगतामन्तकस्यान्तकोऽहम् ॥ ३२ ॥

अपि च । भो जामदग्न्यशिष्य कर्ण!

देशः सोऽयमरातिशोणितजलैर्यस्मिन् हृदाः पूरिताः
 क्षत्रादेव तथाविधः परिभवस्तातस्य केशग्रहः ।
तान्येवाहितशस्त्रघस्मरगुरूण्यस्त्राणि भास्वन्ति मे ।
 यद्रामेण कृतं तदेव कुरुते द्रौणायनः क्रोधनः ॥ ३३ ॥

 दुर्योधनः-- आचार्यपुत्र! तस्य तथाविधस्यानन्यसाधारणस्य ते वीरभावस्य किमन्यत्सदृशम् ? ।

 कृपः-- राजन्! सुमहान्खलु द्रोणपुत्रेण वोढुमध्यवसितः समरभरः तदहमेवं मन्ये, भवता कृतपरिकरोऽयमुच्छेत्तुं लोकत्रयमपि समर्थः । किं पुनर्युधिष्ठिरबलम्! । अतोऽभिषिच्यतां सैनापत्ये ।

 दुर्योधनः-- सुष्ठु, युज्यमानमभिहितं युष्माभिः । किं तु प्राक्प्रतिपन्नोऽयमर्थोऽङ्गराजस्य ।

 कृपः-- राजन् । असदृशपरिभवशोकसागरे निमज्जन्तमेनमङ्गराजस्यार्थे नैवोपेक्षितुं युक्तम् । अस्यापि तदेवारिकुलमनुशासनीयम् । अतः किमस्य पीडा न भविष्यति ? ।

 अश्वत्थामा-- राजन् । किमद्यापि युक्तायुक्तविचारणया ? ।

प्रयत्नपरिबोधितः स्तुतिभिरद्य शेषे निशा-
 मकेशवमपाण्डवं भुवनमद्य निःसोमकम् ।
इयं परिसमाप्यते रणकथाद्य दोःशालिना ।
 व्यपैति नृपकाननातिगुरुरद्य भारो भुवः ॥ ३४ ॥

 कर्णः-- ( विहस्य । ) द्रोणात्मज! वक्तुं सुकरमिदं दुष्करमध्यवसितुम् । बहवः कौरवबलेऽस्य कर्मणः शक्ताः ।

 अश्वत्थामा-- अङ्गराज ! एवमिदम् । बहवः कौरवबलेऽत्र शक्ताः । किं तु दुःखोपहतः शोकावेगवशाद्ब्रवीमि न पुनर्वीरजनाधिक्षेपेण ।

 कर्णः-- मूढ! दुःखितस्याश्रुपातः कुपितस्य चायुधद्वितीयस्य सङ्ग्रामावतरणमुचितं, नैवंविधाः प्रलापाः ।

 अश्वत्थामाः-- (सक्रोधम् ) अरे रे राधागर्भभारभूत! सूतापसद! ममापि नामाश्वत्थाम्नो दुःखितस्याश्रुभिः प्रतिक्रियामुपदिशसि न शस्त्रेण ? । पश्य ।

निर्वीर्यं गुरुशापभाषितवशात्किं मे तवेवायुधं ?
 संप्रत्येव भयाद्विहाय समरं प्राप्तोऽस्मि किं त्वं यथा ? ।
जातोऽहं स्तुतिवंशकीर्तनविदां किं सारथीनां कुले ?
 क्षुद्रारातिकृताप्रियं प्रतिकरोम्यस्त्रेण नास्त्रेण यत् ॥ ३५ ॥

 कर्णः-- ( सक्रोधम् ) अरे रे वाचाट! वृथाशस्त्रग्रहणदुर्विदग्ध! वटो!

निर्वीर्यं वा सवीर्यं वा मया नोत्सृष्टमायुधम् ।
यथा पाञ्चालभीतेन पित्रा ते बाहुशालिना ॥ ३६ ॥

अपि च ।

सूतो वा सूतपुत्रो वा यो वा को वा भवाम्यहम् ।
दैवायत्तं कुले जन्म मदायत्तं तु पौरुषम् ॥ ३७ ॥

 अश्वत्थामा-- ( सक्रोधम् ) अरे रे रथकारकुलकलङ्क! राधागर्भभारभूत! आयुधानभिज्ञ! तातमप्यधिक्षिपसि? । अथ वा

स भीरुः शूरो वा प्रथितभुजसारस्त्रिभुवने
 कृतं यत्तेनाजौ प्रतिदिनमियं वेत्ति वसुधा ।
परित्यक्तं शस्त्रं कथमिति स सत्यव्रतधरः ।
 पृथासूनुः साक्षी त्वमसि रणभीरो! क्व नु तदा ? ॥ ३९ ॥

 कर्णः-- ( विहस्य ।) एवं, भीरुरहम् । त्वं पुनर्विक्रमैकरसं स्वपितरमनुस्मृत्य न जाने किं करिष्यसीति । महान्मे संशयो जातः । अपि च रे मूढ!

यदि शस्त्रमुज्झितमशस्त्रपाणयो
 न निवारयन्ति किमरीनुदायुधान् ।
यदनेन मौलिदलनेऽप्युदासितं
 सुचिरं स्त्रियेव नृपचक्रसंनिधौ ॥ ३९ ॥

 अश्वत्थामाः--( सक्रोधं सकम्पं च ) दुरात्मन् राजवल्लभप्रगल्भ! सूतापसद! असंबद्धप्रलापिन् ।

कथमपि न निषिद्धो दुःखिना भीरुणा वा
 दुपदतनयपाणिस्तेन पित्रा ममाद्य ।

तव भुजबलदर्पध्मायमानस्य वामः
 शिरसि चरण एष न्यस्यते वारयैनम् ॥ ४० ॥

( इति तथा कर्तुमुत्तिष्ठति ।)

 कृपदुर्योधनौ-- गुरुपुत्र ! मर्षय मर्षय । ( इति निवारयतः । )

( अश्वत्थामा चरणप्रहारं नाटयति ।)

 कर्णः-- ( सक्रोधमुत्थाय । खड्गमाकृष्य । ) अरे दुरात्मन्! ब्रह्मबन्धो! आत्मश्लाघिन्!

जात्या काममवध्योऽसि चरणं त्विदमुद्धृतम् ।
अनेन लूनं खड्गेन पतितं वेत्स्यसि क्षितौ ॥ ४१ ॥

 अश्वत्थामा-- अरे मृढ ! जात्या चेदवध्योऽहम्, इयं सा जाति: परित्यक्ता । ( इति यज्ञोपवीतं छिनत्ति । पुनश्च सक्रोधम् । )

अद्य मिथ्याप्रतिज्ञोऽसौ किरीटी क्रियते मया ।
शस्त्रं गृहाण वा त्यक्त्वा मौलौ वा रचयाञ्जलिम् ॥ ४२ ॥

( उभावपि खड्गमाकृष्यान्योन्यं प्रहर्तुमुद्यतौ । कृपदुर्योधनौ निवारयतः ।)

 दुर्योधनः-- आचार्यपुत्र शस्त्रग्रहणेनालम् ।

 कृपः-- वत्स! सूतपुत्र! शस्त्रग्रहणेनालम् ।

 अश्वत्थामा-- मातुल! मातुल! किं निवारयसि ? । अयमपि तातनिन्दाप्रगल्भः सूतापसदो धृष्टद्युम्नपक्षपात्येव ।

 कर्णः-- राजन्! न खल्वहं निवारयितव्यः ।

उपेक्षितानां मन्दानां धीरसत्वैरवज्ञया ।
अत्रासितानां क्रोधान्धैर्भवत्येषा विकत्थना ॥ ४३ ॥

 अश्वत्थामा–- राजन्! मुञ्च मुञ्चैनम् । आसादयतु मद्भुजान्तरनिष्पेषसुलभमसूनामवसादनम् । अन्यच्च राजन् ! स्नेहेन वा कार्येण वा यत्त्वमेनं ताताधिक्षेपकारिणं दुरात्मानं मत्तः परिरक्षितुमिच्छसि तदुभयमपि वृथैव ते । पश्य ।

पापप्रियस्तव कथं गुणिनः सखाऽयं
 सूतान्वयः शशधरान्वयसंभवस्य ? ।

हन्ता किरीटिनमयं ? नृप ! मुञ्च कुर्यां
क्रोधादकर्णमपृथात्मजमद्य लोकम् ॥ ४४ ॥

( इति प्रहर्तुमिच्छति )

 कर्णः--( खड्गमुद्यम्य । )अरे वाचाट! ब्राह्मणाधम! अयं न भवसि । राजन् ! मुञ्च मुञ्च । न खल्वहं वारयितव्यः । ( इति हन्तुमिच्छति । )

( दुर्योधनकृपौ निवारयतः )

 दुर्योधनः-- कर्ण! गुरुपुत्र! कोऽयमद्य युवयोर्व्यामोहः ? ।

 कृपः-- वत्स ! अन्यदेव प्रस्तुतमन्यत्रावेग इति कोऽयं व्यामोहः । स्वबलव्यसनं चेदमस्मिन्काले राजकुलस्यास्य युष्मत्त एव भवतीति वामः पन्थाः ।

 अश्वत्थामा-- मातुल! न लभ्यतेऽस्य कटुप्रलापिनो रथकारकुलकलङ्कस्य दुर्पः शातयितुम् ।

 कृपः-- वत्स! अकालः खलु स्वबलप्रधानविरोधस्य ।

 अश्वत्थामा-- मातुल! यद्येवम्--

अयं पापो यावन्न निधनमुपेयादरिशरैः
 परित्यक्तं तावत्प्रियमपि मयास्त्रं रणमुखे ।
बलानां नाथेऽस्मिन्परिकुपितभीमार्जुनभये
 समुत्पन्ने राजा प्रियसखबलं वेत्तु समरे ॥ ४५ ॥

( इति खड्गमुत्सृजति ।)

 कर्णः--( विहस्य । ) कुलक्रमागतमेवैतद्भवादृशां यदस्त्रपरित्यागो नाम ।

 अश्वत्थामा-- ननु रे! अपरित्यक्तमपि भवादृशैरायुधं चिरपरित्यक्तमेव निष्फलत्वात् ।

 कर्णः-- अरे मूढ !

धृतायुधो यावदहं तावदन्यैः किमायुधैः? ।
यद्वा न सिद्धमस्त्रेण मम तत्केन सेत्स्यति ? ॥ ४६ ॥

( नेपथ्ये ।)

 आः दुरात्मन्! द्रौपदीकेशाम्बराकर्षणमहापातकिन्! धार्तराष्ट्रापसद ! चिरस्य खलु कालस्य मत्संमुखीनमागतोऽसि । क्षुद्र पशो! क्वेदानीं गम्यते? अपि च । भो भो राधेयदुर्योधनसौबलप्रभृतयः पाण्डवविद्वेषिणश्चापपाणयो मानधनाः! शृण्वन्तु भवन्तः ।

कृष्टा येन शिरोरुहे नृपशुना पाञ्चालराजात्मजा
 येनास्याः परिधानमप्यपहृतं राज्ञां गुरूणां पुरः ।
यस्योरःस्थलशोणितासवमहं पातुं प्रतिज्ञातवा-
 न्सोऽयं मद्भुजपञ्जरे निपतितः संरक्ष्यतां कौरवः ॥ ४७ ॥

( सर्वं आकर्णयन्ति ।)

 अश्वत्थामा--( सोत्प्रासम् ) अङ्गराज! सेनापते! जामदग्न्यशिष्य ! द्रोणोपहासिन्! भुजबलपरिरक्षितसकललोक! ( धृतायुधः ( ३/४६ ) इति पठित्वा ।) इदं तदासन्नतरमेव संवृत्तम् । रक्षैनं सांप्रतं भीमाद्दुःशासनम् ।

 कर्णः-- आः, का शक्तिर्वृकोदरस्य मयि जीवति दुःशासनस्य च्छायामप्याक्रमितुम् ? युवराज! न भेतव्यं न भेतव्यम् । अयमहमागतोऽस्मि ।

( इति निष्क्रान्तः )

 अश्वत्थामा-- राजन्कौरवनाथ! अभीष्मद्रोणं संप्रति कौरवबलमालोडयन्तौ भीमार्जुनौ राधेयेनैवंविधेनान्येन वा न शक्येते निवारयितुम् । अतः स्वयमेव भ्रातुः प्रतीकारपरो भव ।

 दुर्योधनः-- आः का शक्तिर्दुरात्मनः पवनतनयस्यान्यस्य वा मयि जीवति शस्त्रपाणौ वत्सस्य च्छायामप्याक्रमितुम् ? । वत्स! न भेतव्यं न भेतव्यम् । कः कोऽत्र भोः । रथमुपनय । ( इति निष्क्रान्तः ।)

( नेपथ्ये कलकलः ।)

 अश्वत्थामा--( अग्रतो विलोक्य । ) मातुल! कष्टं कष्टम् । एष भ्रातुः प्रतिज्ञाभङ्गभीरुः किरीटी समं दुर्योधनराधेयौ शरवर्षैरभिद्रवति । सर्वथा पीतं दुःशासनशोणितं भीमेन । न खलु विषहे दुर्योधनानुजस्यैनां विपत्तिमवलोकयितुम् । अनृतमनुमतं नाम । मातुल! शस्त्रं शस्त्रम् ।

सत्यादप्यनृतं श्रेयो धिक्स्वर्गं नरकोऽस्तु मे ।
भीमाद्दुःशासनं त्रातुं त्यक्तमत्यक्तमायुधम् ॥ ४८ ॥

( इति खड्गं ग्रहीतुमिच्छति । )

( नेपथ्ये )

 महात्मन्! भारद्वाजसूनो! न खलु सत्यवचनमुल्लङ्घयितुमर्हसि ।

 कृपः-- वत्स ! अशरीरिणी भारती भवन्तमनृतादभिरक्षति ।  अश्वत्थामा--कथमियममानुषी वाङ्नानुमनुते सङ्ग्रामावतरणं मम ? । आः पक्षपातिनो देवा अपि पाण्डवानाम् । सर्वथा पीतं दुःशासनशोणितं भीमेन । भोः, कष्टं कष्टम् ।

दुःशासनस्य रुधिरे पीयमानेऽप्युदासितम् ।
दुर्योधनस्य कर्तास्मि किमन्यत्प्रियमाहवे ॥ ४९ ॥

मातुल ! राधेयक्रोधवशादनार्यमस्माभिराचरितम् । अतस्त्वमपि तावदस्य राज्ञः पार्श्ववर्ती भव ।

 कृपः--गच्छाम्यहमत्र प्रतिविधातुम् । भवानपि शिबिरसंनिवेशमेव प्रतिष्ठताम् ।

( परिक्रम्य निष्क्रान्तौ ।)

इति तृतीयोऽङ्कः ।