वेणीसंहारम् (आङ्गलटिप्पणीसहितम्)/द्वितीयोऽङ्कः
← प्रथमोऽङ्कः | वेणीसंहारम् (आङ्गलटिप्पणीसहितम्) द्वितीयोऽङ्कः भट्टनारायणः |
तृतीयोऽङ्कः → |
द्वितीयोङ्कः ।
( ततः प्रविशति कञ्चुकी । )
कञ्चुकी-- आदिष्टोऽस्मि महाराजदुर्योधनेन–-'विनयंधर! सत्वरं गच्छ त्वम् । अन्विष्यतां देवी भानुमती । अपि निवृत्ता अम्बायाः पादवन्दनसमयान्नवेति । यतस्तां विलोक्य निहताभिमन्यवो राधेयजयद्रथप्रभृतयोऽस्मत्सेनापतयः समरभूमिं गत्वा सभाजयितव्याः' इति । तन्मया द्रुततरं गन्तव्यमित्यहो प्रभविष्णुता महाराजस्य । यन्मम जरसाभिभूतस्य मर्यादामात्रमेवावरोधनिवासः । अथवा किमिति जरामुपालभेय । यतः सर्वांतःपुरिकाणामयमेव व्यावहारिको वेषश्चेष्टा च । तथाहि ।
नोच्चैः सत्यपि चक्षुषीक्षितमलं श्रुत्वापि नाकर्णितं । |
( परिक्रम्य दृष्ट्वा । आकाशे । ) विहङ्गिके! अपि श्वश्रूजनपादवन्दनं कृत्वा प्रतिनिवृत्ता भानुमती ? ( कर्णं दत्वा । ) किं कथयसि–-आर्य ! एषा भानुमती देवी पत्युः समरविजयाशंसया निर्वर्तितगुरुदेवपादवन्दनाद्यप्रभृत्यारब्धनियमा बालोद्याने तिष्ठतीति । तद्भद्रे! गच्छ त्वमात्मव्यापाराय । यावदहमप्यत्रस्थां देवीं महाराजस्य निवेदयामि । ( परिक्रम्य । ) साधु पतिव्रते! साधु । स्त्रीभावेऽपि वर्तमाना वरं भवती न पुनर्महाराजः । योऽयमुद्यतेषु बलवत्स्वबलवत्सु वा वासुदेवसहायेषु पाण्डुपुत्रेष्वरिष्वद्याप्यन्तःपुरविहारसुखमनुभवति । ( विचिंत्य ।) इदमपरमयथातथं स्वामिनश्चेष्टितम् । कुतः ?
आशस्त्रग्रहणादकुण्ठपरशोस्तस्यापि जेता मुने-- |
विष्कम्भकः ।
( ततः प्रविशत्यासनस्या देवी भानुमती सखी चेटी च ।)
सखी--सहि भाणुमदि ! कीस दाणीं तुमं सिविणअदंसणमेत्तस्स किदे अहिमाणिणो महाराअदुज्जोहणस्स महिसी भविअ एव्वं विअलिअधीरभावा आतिमेत्तं संतप्पसि ? (सखि भानुमति ! कस्मादिंदानीं त्वं स्वप्नदर्शनमात्रस्य कृतेऽभिमानिनो महाराजदुर्योधनस्य महिषी भूत्वैवं विगलितधीरभावातिमात्र संतप्यसे ? )
चेटी-- भट्टिणि ! सोहणं भणादि सुवअणा । सिविणअन्तो जणो किं ण प्पलवदि ? (भट्टिमि ! शोभनं भणति सुवदना । स्वपञ्जनः किं न खलु प्रलपति ? )
भानुमती–-हञ्जे ! एव्वंण्णेदं । किं णु एदं सिविणअं अदिमेत्तं अकुसलदंसणं मे पडिभादि ? (हञ्जे एवमिदम् । किंन्वयं स्वप्नोऽतिमात्रमकुशलदर्शनो मे प्रतिभाति ? )
सखी–-जइ एव्वं ता कहेदु पिअसही । जेण अम्हे वि पडिट्ठावअन्तीओ प्पसंसाए देवदासंकित्तणेण अ पडिहरिस्सामो । (यद्येवं तत्कथयतु प्रियसखी । येनावामपि प्रतिष्ठापयन्त्यौ प्रशंसया देवतासंकीर्तनेन च परिहरिष्यावः ।)
चेटी--देवि ! एन्वंण्णेदं । अकुसलदंसणा वि सिविणआ पंससाए कुसलपरिणामा होन्ति त्ति सुणीअदि । ( देवि ! एवमिदम् । अकुशलदर्शना अपि स्वप्नाः प्रशंसया कुशलपरिणामा भवन्तीति श्रूयते ।)
भानुमती--जइ एव्वं ता कहइस्सम् । अवहिदा होध । ( यद्येवं तत्कथयिष्ये । अवहिते भवतम् ।)
सखी—-कहेदु पिअसही। ( कथयतु प्रियसखी )
भानुमती--मुहुत्तअं चिट्ठ जाव सव्वं सुमरिस्सम् । ( मुहूर्तं तिष्ठ यावत्सर्वं स्मरिष्यामि । ( इति चिन्तां नाटयति ।)
( ततः प्रविशति दुर्योधनः कञ्चुकी च )
दुर्योधन-- सूक्तमिदं कस्यचित् ।
गुप्त्या साक्षान्महानल्पः स्वयमन्येन वा कृतः । |
कञ्चुकी--देव ! नेदमतिदुष्करमाचार्यशस्त्रप्रभावाणाम् । कर्णजयद्रथयोर्वा कात्र श्लाघा ?
राजाः--विनयंधर ! किमाह भवान् ? एको बहुभिर्वालो लूनशरासनश्च निहत इत्यत्र का श्लाघा कुरुपुङ्गवानामिति । मूढ ! पश्य ।
हते जरति गाङ्गेये पुरस्कृत्य शिखण्डिनम् । |
कञ्चुकी--( सवैलक्ष्यम् । ) देव! न ममायं संकल्पः । किं तु वः पौरुषप्रतीघातोऽस्माभिरनालोकितपूर्व इत्यत एवं विज्ञापयामि ।
राजा-- एवमिदम् ।
सहभृत्यगणं सबान्धवं सहमित्रं ससुतं सहानुजम् । |
कञ्चुकी--( कर्णौ पिधाय । सभयम् ।) शान्तं पापम् । प्रतिहतममङ्गलम् ।
राजा--विनयंधर ! कि मयोक्तम् ?
कंचुकी--
सहभृत्यगणं सबान्धवं सहमित्रं ससुतं सहानुजम् । |
एतद्विपरीतमभिहितं देवेन ।
राजा-- विनयंधर ! अद्य खलु भानुमती यथापूर्वं मामनामन्त्र्य वासभवनात्प्रातरेव निष्क्रान्तेति व्याक्षिप्तं मे मनः । तदादेशय तमुद्देशं यत्रस्था भानुमती ।
कंचुकी-- इत इतो देवः ।
(उभौ परिक्रामतः । )
कचुञ्की--(पुरोऽवलोक्य समन्ततो गन्धमाघ्राय ।) देव ! पश्य पश्य । एतत्तुहिनकणशिशिरसमीरणोद्वेल्लितबन्धच्युतशेफालिकाविरचितकुसुमप्रकरमीषदालोहितमुग्धवधूकपोलपाटललोध्रप्रसूनविजितश्यामलतासौभाग्यमुन्मीलितबहुलकुन्दकुसुमसुरभिशीतलं प्रभातकालरमणीयमग्रतस्ते बालोद्यानम् । तदवलोकयतु देवः । तथाहि ।
प्रालेयमिश्रमकरन्दकरालकोशैः |
राजा--( समन्तादवलोक्य । ) विनयंधर ! इदमपरममुष्मिन्नुषसि रमणीयतरम् । पश्य ।
जृम्भारम्भप्रविततदलोपान्तजालप्रविष्टै-- |
कञ्चुकी–- देव नन्वेषा देवी सुवदनया तरलिकया च सहोपविष्टा तिष्ठति । तदुपसर्पतु देवः ।
राजा-- ( दृष्ट्वा । ) आर्य विनयंधर ! गच्छ त्वं साङ्ग्रामिकं मे रथमुपकल्पयितुम् । अहमप्येष देवीं दृष्ट्वानुपदमागत एव ।
कञ्चुकी--यथाज्ञापयति देवः (इति निष्क्रान्तः ।)
सखी--पिअसही ! अवि सुमरिदं तुए ? ( प्रियसखि ! अपि स्मृतं त्वया ? )
भानुमती-- सहि ! सुमरिदम् । अज्ज किल पमदवणे आसीणाए मह अग्गदो एव्व दिव्वरूविणा णउलेण अहिसदं वावादिदम् ( सखि ! स्मृतम् । अद्य किल प्रमदवन आसीनाया ममाग्रत एव दिव्यरूपिणा नकुलेनाहिशतं व्यापादितम् । )
उभे--( आत्मगतम् ।) सन्तं पावम् । पडिहदं अमङ्गलम् । (प्रकाशम् ) तदो तदो । ( शान्तं पापम् । प्रतिहतममङ्गलम् । ततस्ततः ।)
भानुमती-- अदिसंदावोवग्गाहिअहिअआए विसुमरिदं मए । ता पुणोविसुमरिअ कहइस्सम् (अतिसंतापोपगृहीतहृदयया विस्मृतं मया । तत्पुनरपि स्मृत्वा कथयिष्ये । )
राजा--अहो देवी भानुमती सुवदनातरलिकाभ्यां सह किमपि मन्त्रयमाणा तिष्ठति । भवतु अनेन लताजालेनान्तरितः शृणोमि तावदासां विश्रब्धालापम् । ( इति तथा स्थितः ) सखी--सहि ! अलं संदावेण । कहेदु पिअसही । ( सखि ! अलं संतापेन । कथयतु प्रियसखी । )
राजा–-किं नु खल्वस्याः संतापकारणम् । अथवानामन्त्र्य मामियमद्य वासभवनान्निष्क्रान्तेति समर्थित एवास्या मया कोपः । अयि भानुमति! अविषयः खलु दुर्योधनो भवत्याः कोपस्य ।
किं कण्ठे शिथिलीकृतो भुजलतापाशः प्रमादान्मया |
( विचिन्त्य । ) अथवा ।
इयमस्मदुपाश्रयैकचित्ता |
तथापि श्रृणुमस्तावत्किं नु वक्ष्यतीति ।
भानुमती—- तदो अहं तस्स अदिसइददिव्वरूविणो णउलस्स दंसणेण उच्छुआ जादा हिदहिअआ अ । तदो उज्झिअ तं आसणट्ठाणं लदामण्डवं पविसिदुं आरद्धा । ( ततोऽहं तस्यातिशायितदिव्यरूपिणो नकुलस्य दर्शनेनोत्सुका जाता हृतहृदया च । तत उज्झित्वा तदासनस्थानं लतामण्डपं प्रवेष्टुमारब्धा ।)
राजा-- ( सवैलक्ष्यम् ।) किं नामातिशयितदिव्यरूपिणो नकुलस्य दर्शनेनोत्सुका जाता हृतहृदया च ? तत्किमनया पापया माद्रीसुतानुरक्तया वयमेवं विप्रलब्धाः? ( सोत्प्रेक्षम् । 'इयमस्मत्'- ( २।१०) इति पठित्वा । ) मूढ दुर्योधन! कुलटाविप्रलभ्यमानमात्मानं बहु मन्यमानोऽधुना किं वक्ष्यसि ? ( 'किं कण्ठे:'( २।९ ) इत्यादि पठित्वा । दिशोऽवलोक्य । ) अहो, एतदर्थमेवास्याः प्रातरेव विविक्तस्थानाभिलाषः सखीजनसंकथासु च पक्षपातः । दुर्योधनस्तु मोहादविज्ञातबन्धकीहृदयसार: क्वापि परिभ्रान्तः । आः पापे! मत्परिग्रहपांसनि !
तद्भीरुत्वं तव मम पुरः साहसानीदृशानि । |
सखी--तदो तदो । ( ततस्ततः ।)
भानुमती--तदो सोवि मं अणुसरन्तो एव्व लदामण्डवं पविट्ठो ।
( ततः सोऽपि मामनुसरन्नेव लतामण्डपं प्रविष्टः । )
राजा--अहो ! कुलटोचितमस्याः पापाया अशालीनत्वम् ।
यस्मिंश्चिरप्रणयनिर्भरबद्धभाव- |
उभे--तदो तदो । ( ततस्ततः ।)
भानुमती--तदो तेण सगव्वं पसारिअकरेण अवहरिदं मे त्थणंसुअम् । ( ततस्तेन सगर्वं प्रसारितकरेणापहृतं मे स्तनांशुकम् ।)
राजा--( सक्रोधम् । )अलमिदानीमतःपरमाकर्णनेन । भवतु तावत्तस्य परवनितावस्कन्दनप्रगल्भस्य माद्रीसुतहतकस्य जीवितमपहरामि । ( किंचिद्गत्वा । विचिंन्त्य । ) अथवा इयमेव तावत्पापशीला प्रथममनुशासनीया । ( इति निवर्तते ।)
उभे--तदो तदो । ( ततस्ततः । )
भानुमती--तदो अज्जउत्तस्स प्पभादमङ्गलतूररवमिस्सेण वारविलासिणीजणसंगीदरवेण पडिबोधिदह्मि । ( तत आर्यपुत्रस्य प्रभातमङ्गलतूर्यरवमिश्रेण वारविलासिनीजनसंगीतरवेण प्रतिबोधितास्मि । )
राजा--( सवितर्कम् । ) किं नाम ? प्रतिबोधितास्मीति । स्वप्नदर्शनमनया वर्णितं भवेत् ? । अथवा सखीवचनादेव व्यक्तिर्भविष्यति ।
( उभे सविषादमन्योन्यं पश्यतः ।)
राजा--अलं विकल्पेन । स्वप्नदर्शनमेवैतदनया वर्णितम् । मया पुनर्मन्दधियाऽन्यथैव संभावितम् ।
दिष्ट्यार्धश्रुतविप्रलम्भजनितक्रोधादहं नो गतो |
भानुमती--हला ! कहेहि किं एत्थ प्पसत्यं किं वा असुहसूअअं त्ति । ( हला ! कथय किमत्र प्रशस्तं किं वाऽशुभसूचकमिति । )
सखी चेटी च--(अन्योन्यमवलोक्य । अपवार्य ।)
एत्थ णत्थि त्थोअं वि सुहसूअअम् । जइ एत्थ अलिअं कहइस्सं ता पिअसहीए अवराहिणी एव्व हुविस्सम् । सो सिणिद्धो जणो जो पुच्छिदो परुसं वि हिदं भणादि । ( प्रकाशम् । ) सहि ! सव्वं एव्व एदं असुहणिवेदणम् । ता देवदाणं पणामेण दुजादिजणपडिग्गहेण अ अन्तरीअदु । णहु दाढिणो णउलस्स वा दंसणं अहिसदवहं अ सिविणए पसंसन्ति विअक्खणाओ । ( अत्र नास्ति स्तोकमपि 'शुभसूचकम् । यद्यलीकं कथयिष्यामि तदा प्रियसख्या अपराधिनी भविष्यामि । स एव स्निग्धो जनो यः पृष्टः परुषमपि हितं भणति । सखि सर्वमेवैतदशुभनिवेदनम् । तद्देवतानां प्रणामेन द्विजातिजनप्रतिग्रहेण चान्तर्यताम् । न खलु दंष्ट्रिणो नकुलस्य वा दर्शनमाहिशतवधं च स्वप्ने प्रशंसन्ति विचक्षणाः ।)
राजा--अवितथमाह सुवदना । नकुलेन पन्नगशतवधः स्तनांशुकापहरणं च नियतमनिष्टोदर्कं तकेयामि ।
प्रायेणैव हि दृश्यन्ते स्वप्नाः कामं शुभाशुभाः । |
ग्रहाणां चरितं स्वप्नोऽनिमित्तौत्पातिकं तथा । |
तद्भानुमत्याः स्त्रीस्वभावसुलभामलीकाशङ्कामपनयामि ।
भानुमती--हला सुवअणे ! पेक्ख दाव उदअगिरिसिहरन्तरविमुक्करहवरो विअलन्तसंझाराअप्पसण्णदुरालोअमण्डलो जादो भअवं दिवसणाहो । ( हला सुवदने ; पश्य तावदुदयगिरिशिखरान्तरविमुक्तरथवरो विगलत्संध्यारागप्रसन्नदुरालोकमण्डलो जातो भगवान्दिवसनाथः । )
सखी--सहि ! साणिदकणअपत्तसीरसेण लदाजालन्तरापडिदकिरणनिवहेण पिञ्जरिदोज्जाणभूमिमाओ पूरिदप्पडिण्णो विअ रिउदुप्पेक्खणिज्जो जादो भअवं सहस्सकिरणो । ता समओ दे कुसुमचन्दणगब्भेण अग्घेण पज्जुवठ्ठादुम् । ( सखि ! शाणितकनकपत्रसदृशेन लताजालान्तरापतितकिरणनिवहेन पिञ्जिरितीद्यानभूमिभागः पूरितप्रतिज्ञ इव रिपुदुःप्रेक्षणीयो जातो भगवान्सहस्रकिरणः । तत्समयस्ते कुसुमचन्दनगर्भेणार्घ्येण पर्युपस्थातुम् । )
भानुमती--हञ्जे तरलिए ! उवणेहि मे अग्घभाअणं जाव भअवदो सहस्सरस्सिणो सुवरिअं णिव्वट्टेमि । ( हञ्जे तरलिके ! उपनय मेऽर्घ्यभाजनं यावद्भगवतः सहस्ररश्मेः सपर्यां निर्वर्तयामि ।)
चैटी--जं देवी आणवेदि । ( यद्देव्याज्ञापयति ) ( इति निष्क्रान्ता ।)
राजा--अयमेव साधुतरोऽवसरः समीपमुपगन्तुं देव्याः ।
( प्रविश्य । )
चेटी--देवि ! एदं अग्घभाअणम् । ता निव्वट्टीअदु भअवदो सहस्सरस्सिणो सवरिआ । ( देवि ! एतदर्घ्यभाजनम् । तन्निर्वर्त्यतां भगवतः सहस्ररश्मेः सपर्या ।)
( राजोपसृत्य संशया परिजनमुत्सार्य स्वयमेवार्घ्यपात्रं गृहीत्वा ददाति ।)
सखी--( स्वगतम् ) कहं महाराओ समाअदो । हन्त ! किदो से पिअसहीए णिअमभङ्गो रण्णा । ( कथं महाराजः समागतः । हन्त, कृतोऽस्याः प्रियसख्या नियमभङ्गो राज्ञा । ) भानुमती-- (दिनकाराभिमुखी भूत्वा ।)भअवं ! अम्बरमहासरेक्कसहस्सपत्त ! पुव्वदिसावहूमुहमण्डलकुङ्कुमविसेसअ ! सअलभुवणाङ्गणदीवअ ! एत्थ सिविणअदंसणे जं किं वि अच्चाहिदं तं भअवदो प्पणोमण कुसलपरिणामी ससदब्भादुअस्स अज्जउत्तस्स होदु । ( अर्घ्यं दत्वा ।) हला ! उवणेहि मे कुसुमाइं जाव अवराणं वि देवदाणं सवरिअं णिव्वट्टेमि । ( हस्तौ प्रसारयति । ) ( भगवन् ! अम्बरमहासरएकसहस्रपत्र ! पूर्वदिशावधूमुखमण्डलकुङ्कुमविशेषक ! सकलभुवनाङ्गनदीपक ! अत्र स्वप्नदर्शने यत्किमप्यत्याहितं तद्भगवतः प्रणामेन कुशलपरिणामि सशतभ्रातृकस्यार्यपुत्रस्य भवतु । हला ! उपनय मे कुसुमानि यावदपरासामपि देवतानां सपर्यां निर्वर्तयामि ।)
( राजा पुष्पाण्युपनयति । स्पर्शसुखमभिनीय च कुसुमानि भूमौ पतियति ।)
भानुमती--( सरोषम् ।) अहो प्पमादो परिअणस्स । ( परिवृत्य दृष्ट्वा । ससंभ्रमम् । ) कधं अज्जउत्तो ? ( अहो प्रमादः परिजनस्य । कथमार्यपुत्रः ? )
राजा--देवि ! अनिपुणः परिजनोऽयमेवंविधे सेवावकाशे । तत्प्रभवत्यत्रानुशासने देवी ।
( भानुमती लज्जां नाटयति ।)
राजा--अयि प्रिये !
विकिर धवलदीर्घापाङ्गसंसर्पि चक्षुः |
भानुमती--अज्जउत्त ! अब्भणुण्णादाए तुए अत्थि मे कस्सिं वि णिअमे अहिलासो । ( आर्यपुत्र ! अभ्यनुज्ञातायास्त्वयास्ति मे कस्मिन्नपि नियमेऽभिलाषः ।)
राजा--श्रुतविस्तर एवास्मि भवत्याः स्वप्नवृत्तान्तं प्रति । तदलमेनं प्रकृतिसुकुमारमात्मानं खेदयितुम् । भानुमती–-अज्जउत्त ! सङ्का मे बाहेदि । ता अणुमण्णदु मं अज्जउत्तो । (आर्यपुत्र ! शङ्का मां बाधते । तदनुमन्वतां मामार्यपुत्रः ।)
राजा--( सगर्वम् ।) देवि ! अलमनया शङ्कया । पश्य ।
किं नो व्याप्तदिशां प्रकम्पितभुवामक्षौहिणीनां फलं ? |
भानुमती--अज्जउत्त ! ण हु मे किं वि आसङ्काकालणं तुम्हेसु सण्णिहिदेसु । किं तु अज्जउत्तस्स एव्व मणोरहसंपत्तिं अहिणन्दामि । ( आर्यपुत्र ! न खलु मे किमप्याशङ्काकारणं युष्मासु संनिहितेषु । किंत्वार्यपुत्रस्यैव मनोरथसंपत्तिमभिनन्दामि ।)
राजा--अयि सुन्दरि ! एतावन्त एव मे मनोरथा यदहं दयितया संगतः स्वेच्छया विहरामीति । पश्य ।
प्रेमाबद्धस्तिमितनयनापीयमानाब्जशोभं ( नेपथ्ये महान्कलकलः । सर्वे आकर्णयन्ति ।) |
राजाः--( समन्तादवलोक्य ।) प्रिये ! अलं संभ्रमेण । पश्य ।
दिक्षु व्यूढाङ्घ्रिपाङ्गस्तृणजटिलचलत्पांशुदण्डोऽन्तरिक्षे |
सखी--महाराअ ! आरोहीअदु एदं दारुपव्वदुप्पासादम् । उव्वेअकारी क्खु अअं उत्थिदपरुसरअकलुसीकिदणअणो उन्मूलिदतरुवरसद्दवित्त त्थमन्दुरापरिब्भट्टवल्लहतुलङ्गमपज्जाउलीकिदजणपद्धई भीसणो समीरणो । (महाराज ! आरुह्यतामेष दारुपर्वतप्रासादः । उद्वेगकारी खल्वयमुत्थितपरुषरजःकलुषीकृतनयन उन्मूलिततरुवरशब्दविवस्तमन्दुरापरिभ्रष्टवल्लभतुरङ्गमपर्याकुलीकृतजनपद्धतिर्भीषणः समीरणः ।
राजा--( सहर्षम् । ) उपकारि खल्विदं वात्याचक्रं सुयोधनस्य । यस्य प्रसादादयत्नपरित्यक्तनियमया देव्या संपादितोऽस्मन्मनोरथः । कथमिति?
न्यस्ता न भ्रुकुटिर्न बाष्पसलिलैराच्छादिते लोचने
नीतं नाननमन्यतः सशपथं नाहं स्पृशन्वारितः ।
तन्व्या मग्नपयोधरं भयवशादारब्धमालिङ्गितुं
भङ्क्तास्या नियमस्य भीषणमरुन्नायं वयस्यो मम ॥ २० ॥
तत्संपूर्णमनोरथस्य मे कामचारः संप्रति विहारेषु । तदितो दारुपर्वतप्रासादमेव गच्छामः ।
( सर्वे वात्याबाधां रूपयन्तः परिक्रामन्ति ।)
राजा--
कुरु घनेरु ! पदानि शनैः शनैरयि ! विमुञ्च गतिं परिवेपिनीम् ।
सुतनु ! बाहुलतोपरिबन्धनं मम निपीडय गाढमुरःस्थलम् ॥ २१ ॥
( प्रवेशं रूपयित्वा । ) प्रिये ! अलब्धावकाशः समीरणः संवृतत्वाद्गर्भगृहस्य । विस्रब्धमुन्मीलय चक्षुरुन्मृष्टरेणुनिकरम् ।
भानुमती--( सहर्षम् । दिट्ठिआ इअ दाव उप्पादसमीरणो ण बाधेइ । ( दिष्ट्येह तावदुत्पातसमीरणो न बाधते ।)
सखी--आरोहणसंभमणीसहं पिअसहीए ऊरुजुअलम् । ता कीस दाणिं महाराओ आसणवेदीं ण भूसेदि । ( आरोहणसंभ्रमनिःसहं प्रियसख्या ऊरुयुगलम् । तत्कस्मादिदानीं महाराज आसनवेदीं न भूषयति ।)
राजा--( देवीमवलोक्य । ) भवति ! अनल्पमेवापकृतं वात्यासंभ्रमेण । तथाहि ।
रेणुर्बाधां विधत्ते तनुरपि महतीं नेत्रयोरायतत्वा- |
ऊर्वोर्मन्देऽपि याते पृथुजघनभराद्वेपथुर्वर्धतेऽस्या । |
( सर्वे उपविशन्ति ।)
राजा--तत्किमित्यनास्तीर्णं कठिनशिलातलमध्यास्ते देवी ? ।
लोलांशुकस्य पवनाकुलितांशुकान्तं |
( प्रविश्य पटाक्षेपेण संभ्रान्तः । )
कञ्चुकी--देव ! भग्नं भग्नम् ।
( सर्वे सातङ्कं पश्यन्ति ।)
राजा-- केन ?
कञ्चुकी-- भीमेन ।
राजा-- कस्य ?
कञ्चुकी-- भवतः ।
राजा-–आः किं ! प्रलपसि ?
भानुमती:--अज्ज ! किं अणिट्ठं मन्तेसि ।( आर्य ! किमनिष्टं मन्त्रयसे ।)
राजा--धिक्प्रलापिन् ! वृद्धापसद ! कोऽयमद्य ते व्यामोहः ।
कञ्चुकी-- देव ! न खलु कश्चिद्व्यामोहः । सत्यमेव ब्रवीमि ।
भग्नं भीमेन भवतो मरुता रथकेतनम् । |
राजा-- बलवत्समीरणवेगात्कम्पिते भुवने भग्नः स्यन्दनकेतुः । तत्किमित्युद्धतं प्रलपसि भग्नं भग्नमिति ? ।
कञ्चुकी--देव ! न किंचित् । किं तु शमनार्थमस्यानिमित्तस्य विज्ञापयितव्यो देव इति स्वामिभक्तिर्मां मुखरयति । भानुमती–-अज्जउत्त ! अन्तरीअदु एदं पसण्णबम्हणवेदघोसेण ।( आर्यपुत्र ! अन्तर्यतामेतत्प्रसन्नब्राह्मणवेदघोषेण ।)
राजा--( सावज्ञम् । ) ननु गच्छ । पुरोहितसुमित्राय निवेदय ।
कञ्चुकी--यदाज्ञापयति देवः । ( इति निष्क्रान्तः । )
( प्रविश्य ।)
प्रतीहारी--( सोद्वेगमुपसृत्य । ) जअदि जअदि महाराओ । महाराओ । महाराअ महादेवी क्खु एसा सिन्धुराअमादा दुस्सला अं पडिहारभूमीए चिट्ठदि । ( जयति जयति महाराजः । महाराज ! महादेवी खल्वेषा सिन्धुराजमाता दुःशला च प्रतीहारभूमौ तिष्ठति ।)
राजा--( किंचिद्विचिन्त्यात्मगतम् । ) किं जयद्रथमाता दुःशला चेति ? । कच्चिदभिमन्युवधामर्षितैः पाण्डुपुत्रैर्न किंचिदत्याहितमाचेष्टितं भवेत् । ( प्रकाशम् ) गच्छ । प्रवेशय शीघ्रम् ।
प्रतीहारी--जं देवो आणवेदि । (यद्देव आज्ञापयति । ) ( इति निष्कान्ता)
( ततः प्रविशति संभ्रान्ता जयद्रथमाता दुःशला च ।)
( उभे सास्रं दुर्योधनस्य पादयोः पततः ।)
माता--परित्ताअदु परित्ताअदु कुमालो । (परित्रायतां परित्रायतां कुमारः । )
( दुःशला रोदिति ।)
राजा--( ससंभ्रममुत्थाप्य ।) अम्ब ! समाश्वसिहि समाश्वसिहि । किमत्याहितम् ? अपि कुशलं समराङ्गणेष्वप्रतिरथस्य जयद्रथस्य ? ।
माता--जाद ! कुदो कुसलम् ? । ( जात कुतः कुशलम् ? )
राजा--कथमिव ?
माता--( साशङ्कम् । )अज्ज क्खु पुत्तवहामरिसिदेण गाण्डीविणा अणत्थमिदे दिवसणाहे तस्स वहो प्पडिण्णादो । ( अद्य खलु पुत्रवधामर्षितेन गाण्डीविनानस्तमिते दिवसनाथे तस्य वधः प्रतिज्ञातः । )
राजा--( सस्मितम् ।) इदं तदस्रकारणमम्बाया दुःशलायाश्च ? । पुत्रशोकादुन्मत्तस्य किरीटिनः प्रलापैरेवमवस्था ? । अहो मुग्धत्वमबलानाम् । अम्ब ! कृतं विषादेन । वत्से दुःशले ! अलमश्रुपातेन । कुतश्चायं तस्य धनंजयस्य प्रभावो दुर्योधनबाहुपरिघरक्षितस्य महारथजयद्रथस्य विपत्तिमुत्पादयितुम् ।
माता--जाद ! ते हि पुत्तबन्धुवहामरिसुंद्दीविदकोवाणला अणपेक्खिदसरीरा वीरा परिक्कामन्ति । ( जात ! ते हि पुत्रबन्धुवधामर्षोद्दीपितकोपानला अनपेक्षितशरीरा वीराः परिक्रामन्ति ।)
राजा--( सोपहासम् । ) एवमेतत् । सर्वजनप्रसिद्धैवामर्षिता पाण्डवानाम् । पश्य ।
हस्ताकृष्टविलोलकेशवसना दुःशासनेनाज्ञया |
माता--असमत्तप्पडिण्णाभारस्स अप्पवहो से प्पडिण्णादो । ( असमाप्तप्रतिज्ञाभारेणात्मवधोऽनेन प्रतिज्ञातः ।)
राजा--यद्येवमलमानन्दस्थानेऽपि ते विषादेन । ननु वक्तव्यमुत्सन्नः सानुजो युधिष्ठिर इति । मातः ! का शक्तिरस्ति धनंजयस्यान्यस्य वा कुरुशतपरिवारवर्धितमहिम्नः कृपकर्णद्रोणाश्वत्थामादिमहारथपराक्रमद्विगुणीकृतनिरावरणविक्रमस्य नामापि ग्रहीतुं ते तनयस्य ? । अयि सुतपराक्रमानभिज्ञे !
धर्मात्मजं प्रति यमौ च कथैव नास्ति । |
भानुमती--अज्जउत्त ! जइवि एव्वं तहवि गुरुकिदप्पडिण्णाभारो ट्ठाणं क्खु सङ्काए ।( आर्यपुत्र ! यद्यप्येवं तथापि गुरुकृतप्रतिज्ञाभारः स्थानं खलु शङ्कायाः ।)
माता--साहु ! कालोइदं भणिदं भाणुमदीए । ( साधु ! कालोचितं भणितं भानुमत्या ।) राजा--आः ! ममापि नाम दुर्योधनस्य शङ्कास्थानं पाण्डवाः ? । पश्य ।
कोदण्डज्याकिणाङ्कैरगणितरिपुभिः कङ्कटोन्मुक्तदेहै: |
अपि च भानुमति । विज्ञातपाण्डवप्रभावे ! किं त्वमप्येवमाशङ्कसे ? । पश्य ।
दुःशासनस्य हृदयक्षतजाम्बुपाने । |
कः कोत्र भोः ? । जैत्रं मे रथमुपकल्पय तावत् । यावदहमपि तस्य प्रगल्भपाण्डवस्य जयद्रथपरिरक्षणेनैव मिथ्याप्रतिज्ञावैलक्ष्यसंपादितमशस्त्रपूतं मरणमुपदिशामि ।
( प्रविश्य )
कञ्चुकी--देव !
उद्धातक्वणितविलोलहेमघण्टः |
राजा--देवि ! प्रविश त्वमभ्यन्तरमेव । ('यावदहमपि तस्य प्रगल्भपाण्डवस्य ' इत्यादि पठन्परिक्रामति ।)
( इति निष्क्रान्ताः सर्वे ।)
इति द्वितीयोऽङ्कः ।