विष्णुपुराणम्/द्वितीयांशः/अध्यायः ७

विकिस्रोतः तः
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६


कथितं भूतलं ब्रह्मन्ममैतदखिलं त्वया ।
भुवर्लोकादिकाँ ल्लोकाञ्छ्रोतुमिच्छाम्यहं मुने १ ।
तथैव ग्रहसंस्थानं प्रमाणानि यथा तथा ।
समाचक्ष्व महाभाग तन्मह्यं परिपृच्छते २ ।
श्रीपराशर उवाच ।
रविचन्द्र मसोर्यावन्मयूखैरवभास्यते ।
ससमुद्र सरिच्छैला तावती पृथिवी स्मृता ३ ।
यावत्प्रमाणा पृथिवी विस्तारपरिमण्डलात् ।
नभस्तावन्प्रमाणं वै व्यासमण्डलतो द्विज ४ ।
भूमेर्यो जनलक्षे तु सौरं मैत्रेय मण्डलम् ।
लक्षाद्दिवाकरस्यापि मण्डलं शशिनः स्थितम् ५ ।
पूर्णे शतसहस्रे तु योजनानां निशाकरात् ।
नक्षत्रमण्डलं कृत्स्नमुपरिष्टात्प्रकाशते ६ ।
द्वे लक्षे चोत्तरे ब्रह्मन् बुधो नक्षत्रमण्डलात् ।
तावत्प्रमाणभागे तु बुधस्याप्युशनाः स्थितः ७ ।
अङ्गारकोपि शुक्रस्य तत्प्रमाणे व्यवस्थितः ।
लक्षद्वये तु भौमस्य स्थितो देवपुरोहितः ८ ।
सौरिर्बृहस्पतेश्चोर्ध्वं द्विलक्षे समवस्थितः ।
सप्तर्षिमण्डलं तस्माल्लक्षमेकं द्विजोत्तम ९ ।
ऋषिभ्यस्तु सहस्राणां शतादूर्ध्वं व्यवस्थितः ।
मेढीभूतः समस्तस्य ज्योतिश्चक्रस्य वै ध्रुवः १० ।
त्रैलोक्यमेतत्कथितमुत्सेधेन महामुने ।
इज्याफलस्य भूरेषा इज्या चात्र प्रतिष्ठिता ११ ।
ध्रुवादूर्ध्वं महर्लोको यत्र ते कल्पवासिनः ।
एकयोजनकोटिस्तु यत्र ते कल्पवासिनः १२ ।
द्वे कोटी तु जनो लोको यत्र ते ब्रह्मणः सुताः ।
सनन्दनाद्याः प्रथिता मैत्रेयामलचेतसः १३ ।
चतुर्गणोत्तरे चोर्ध्वं जनलोकात्तपः स्थितः ।
वैराजा यत्र ते देवाः स्थिता दाहविर्जिताः १४ ।
षड्गुणेन तपोलोकात्सत्यलोको विराजते ।
अपुनर्मारका यत्र ब्रह्मलोको हि संस्मृतः १५ ।
पादगम्यन्तु यत्किञ्चिद्वस्त्वस्ति पृथिवीमयम् ।
स भूर्लोकः समाख्यातो विस्तरोस्य मयोदितः १६ ।
भूमिसूर्यान्तरं यच्च सिद्धादिमुनिसेवितम् ।
भुवर्लोकस्तु सोप्युक्तो द्वितीयो मुनिसत्तम १७ ।
ध्रुवसूर्यान्तरं यच्च नियुतानि चतुर्दश ।
स्वर्लोकः सोपि गदितो लोकसंस्थानचिन्तकैः १८ ।
त्रैलोक्यमेतत्कृतकं मैत्रेय परिपठ्यते ।
जनस्तपस्तथा सत्यमिति चाकृतकं त्रयम् १९ ।
कृतकाकृतयोर्मध्ये महर्लोक इति स्मृतः ।
शून्यो भवति कल्पान्ते योत्यन्तं न विनश्यति २० ।
एते सप्त मया लोका मैत्रेय कथितास्तव ।
पातालानि च सप्तैव ब्रह्माण्डस्यैष विस्तरः २१ ।
एतदण्डकटाहेन तिर्यक् चोर्ध्वमधस्तथा ।
कपित्थस्य यथा बीजं सर्वतो वै समावृतम् २२ ।
दशोत्तरेण पयसा मैत्रेयांडं च तद्वृतम् ।
सर्वोम्बुपरिधानोसौ वह्निना वेष्टितो बहिः २३ ।
वह्निश्च वायुना वायुर्मैत्रेय नभसा वृतः ।
भूतादिना नभः सोपि महता परहिवेष्टितः ।
देशोत्तराण्यश्षोआ!णि मैत्रेयैतानि सप्त वै २४ ।
महान्तं च समावृत्य प्रधानं समवस्थितम् ।
अनन्तस्य न तस्यान्तः संख्यानं चापि विद्यते २५ ।
तदन्तमसंख्यातप्रमाणं चापि वै यतः ।
हेतुभूतमसेषस्य प्रकृतिः सा परा मुने २६ ।
अंडानां तु सहस्राणां सहस्राण्ययुतानि च ।
ईदृशानां तथा तत्र कोटिकोटिशतानि च २७ ।
हारुण्यग्निर्यथा तैलं तिले तद्वत्पुमानपि ।
प्रधानेऽवस्थितो व्यापी चेतनात्मात्मवेदनः २८ ।
प्रधानं च पुमांश्चैव सर्वभूतात्मभूतया ।
विष्णुशक्त्या महाबुद्धे वृतौ संश्रयधर्मिणौ २९ ।
तयोः सैव पृथग्भावकारणं संश्रयस्य च ।
क्षोभकारणभूता च सर्गकाले महामते ३० ।
यथा सक्तं जले वातो बिभर्त्ति कणिकाशतम् ।
शक्तिः सापि तथा विष्णोः प्रधानपुरुषात्मकम् ३१ ।
यथा च पादयोर्मूलस्कन्धशाखादिसंयुतः ।
आदिबीजात्प्रभवति बीजान्यन्यानि वै ततः ३२ ।
प्रभवन्ति ततस्तेभ्यः सम्भवन्त्यपरे द्रु माः ।
तेपि तल्लक्षणद्र व्यकारणानुगता मुने ३३ ।
एवमव्याकृतात्पूर्वं जायन्ते महदादयः ।
विशेषान्तास्ततस्तेभ्यः संभवंत्यसुरादयः ।
तेभ्यश्च पुत्रास्तेषां च पुत्राणामपरे सुताः ३४ ।
बीजाद्वृक्षप्ररोहेण यथा नापचयस्तरोः ।
भूतानां भूतसर्गेण नैवास्त्यपचयस्तथा ३५ ।
सन्निधानाद्यथाकाशकालाद्याः कारणं तरोः ।
तथैवापरिणामेव विश्वस्य भगवान्हरिः ३६ ।
व्रीहिबीजे यथा मूलं नालं पत्राङ्कुरौ तथा ।
काण्डकोषस्तु पुष्पं च क्षीरं तद्वच्च तण्डुलाः ३७ ।
तुषाः कणाश्च सन्तो वै यान्त्याविर्भावमात्मनः ।
प्ररोहहेतुसामग्र्यमासाद्य मुनिसत्तम ३८ ।
तथा कर्मस्वनेकेषु देवाद्याः समवस्थिताः ।
विष्णुशक्तिं समासाद्य प्ररोहमुपयान्ति वै ३९ ।
स च विष्णुः परं ब्रह्म यतः सर्वमिदं जगत् ।
जगच्च यो यत्र चेदं यस्मिंश्च लयमेष्यति ४० ।
तद्ब्रह्म तत्परं धाम सदसत्परमं पदम् ।
यस्य सर्वमभेदेन यतश्चैतच्चराचरम् ४१ ।
स एव मूलप्रकृतिर्व्यक्तरूपी जगच्च सः ।
तस्मिन्नेव लयं सर्वं याति तत्र च तिष्ठति ४२ ।
कर्त्ता क्रियाणां स च इज्यते क्रतुः स एवतत्कर्मफलं च तस्य ।
स्रुगादियत्साधनमप्यश्षॐ हरेर्न किञ्चिद्व्यतिरिक्तमस्ति ४३ ।
इति श्रीवुष्णुमहापुराणे द्वितीयेंशे सप्तमोऽध्यायः ७।