विष्णुपुराणम्/द्वितीयांशः/अध्यायः ३

विकिस्रोतः तः
Jump to navigation Jump to search
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६

उत्तरं यत् यमुद्रस्य हिमादे शचैव दक्षिणाम् ।
वर्षं तदू भारतं नाम भारतो यत्र सन्ततिः ।। 1 ।।

नवयोजनसाहस्त्रो विस्तारोऽस्य महामुने ।
कर्म्मभूमिरियं स्वर्गमपवर्गञ्च गच्छताम् ।। 2 ।।

महेन्द्रो मलयः सह्मः शुक्तिमान् ऋक्षपर्व्वतः ।
विन्ध्यश्व पारिपात्रश्व सप्तत्र कुलपर्व्वताः ।। 3 ।।

अतः सम्प्राप्यते स्वर्गौ मुक्तिमस्मात् प्रयान्ति वै ।
तिर्य्यकूत्वं नरकञ्चापि यान्त्यतः पुरुषा मुने ।। 4 ।।

इतः स्वर्गश्व मोक्षश्व मध्यश्चान्तस्च गम्यते ।
न खल्वन्यत्र मर्त्त्यानां कर्म्म भूमौ विधीयते ।। 5 ।।

इन्द्रद्रीपः कशेरुमान् ताम्रवर्णो गभस्तिमान् ।
नगद्रीपस्तथा सौम्यो गन्धर्व्वस्त्वथ वारुणः ।। 6 ।।

अयन्तु नवमस्तैषां द्रीपः सागरसंवृतः ।
योजनानां सहस्त्रन्तु द्रीपोऽयं दक्षिणोत्तरात् ।। 7 ।।

पूर्व्वै किराता यस्य स्युः पश्चिमे यवनाः स्थिताः ।
ब्राह्मणाः क्षत्रिया वैश्या मध्ये शूद्राश्च भागशः ।। 8 ।।

इज्या-युद्ध-वाणिच्याद्यर्वैर्त्तयन्तो व्यवस्थिताः ।
शतद्रू चन्द्रभागाद्या हिमवत्पादनिर्गताः ।। 9 ।।

सेद-स्मृतिमुखाद्याश्व पारिपात्रोद्भवा मुने ।
नर्मदा सुरसाद्याश्च नद्यो विन्ध्याद्रिनिर्गताः ।। 10 ।।

तापी-पयोष्णी-निर्व्विन्ध्याप्रमुखा ऋक्षसम्भवाः ।
गोदावरी भीमरथी कृष्णवेष्णादिकास्तथा ।। 11 ।।

सह्मपादोद्भवा नद्याः स्मृताः पापभयापहाः ।
कृततमाला-ताम्रपर्णीप्रमुखा मलयोद्भवाः ।। 12 ।।

त्रिसामाचार्य्यकुल्याद्या महेन्द्रप्रभवाः स्मृताः ।
ऋषिकुल्या-कुमार्य्याद्याः शुक्तिमत्पादसम्भवाः ।। 13 ।।

आसां नद्यु पनद्यश्व सन्त्यन्याश्व सहस्त्रशः ।
तास्विमे कुरुपाञ्चाला मध्यदेशादयो जनाः ।। 14 ।।

पूर्व्वदेशादिकाश्चैव कालरूपनिवासिनः ।
पुण्ड्राः कलिङ्गा मगधा दीक्षिणात्याश्च सर्व्वशः ।। 15 ।।

तथापरान्ताः सौराष्ट्राः शूराभोरास्तथार्ब्बुदाः ।
कारूषा माल्यवांश्चैव पारिपात्रनिवासिनः ।। 16 ।।

सौवीरा-सैन्धवा हूणाः शाल्वाः शाकलवासिनः ।
मद्रारामास्तथाम्बष्ठाः पारसीकादयस्तथा ।। 17 ।।

आसां पिबन्ति सलिलं वसन्ति सरितां सदा ।
समीपतो महाभागा ह्टष्टपुष्टजनाकुलाः ।। 18 ।।

चत्वारि भारते वर्षे युगान्यत्र महामुने ।
कृतं त्रेता द्रापरश्व कलिश्चान्यत्र न क्कचित् ।। 19 ।।

तपस्तप्यन्ति मुनयो जुह्वते चात्र यज्विनः ।
दानानि चात्र दीयन्ते परलीकारत्मादरात् ।। 20 ।।

पुरुषैर्ज्ञपुरुषो जम्बूद्रीपे सदेज्यते ।
यज्ञैर्यज्ञमयो विष्णुरन्यद्रीपेषु चान्यथा ।। 21 ।।

अत्रापि भारतं श्वेष्ठं जम्बूद्रीपे महामुने ।
यतो हि कर्म्मभूरेषा ततोऽन्या भोगभूमयः ।। 22 ।।

अत्र जन्मसहस्त्राणां सहस्त्र रपि सत्तम ।
कदाचिल्लभते जन्तुर्म्मानुष्यं पुण्यसञ्चयात् ।। 23 ।।

गायन्ति देवाः किल गीतकानि धन्यास्तु ते भारतभूमिभागी ।
स्वर्गापवर्गास्पदमार्गभूते भवन्ति भूयः पुरुषाः सुरत्वात् ।। 24 ।।

कर्म्मण्यसङ्कल्पिततत्फलानि संन्यस्य विष्णौ परमात्मभूते ।
अवाप्य तां कर्म्ममहीमनन्ते तस्मिँल्लयं ये त्वमलाः प्रयानिति ।। 25 ।।

जानीम नैतत् क्क वयं विलीने स्वर्गप्रदे कर्म्मणि देहबन्धम् ।
प्राप्स्याम धन्याः कल् ते मनुष्या ये भारते नेन्द्रियविप्रहीणाः ।। 26 ।।

नववर्षं तु मैत्रेय ! जम्बूद्रीपमिदं मया ।
लक्षयोजनविस्तारं संक्षेपात् कथितं तव ।। 27 ।।

तजम्बूद्रीपं समावृत्य लक्षयोजनविस्तरः ।
मैत्रेय! वलयाकारः स्थितः क्षारोदधिर्ब्बहिः ।। 28 ।।