विष्णुपुराणम्/द्वितीयांशः/अध्यायः १
मैत्रेय उवाच ।
भगवन् सम्यागाख्यातं ममैतदखिलं त्वया ।
जगतः सर्गसम्बन्घि यत् पृष्टोऽसि गुरो मया ।। 1 ।।
योऽयमंशो जगत्सृष्टिसम्बद्धो गदितस्त्वया ।
तत्राहं श्रोतुमिच्छामि भूयोऽपि मुनिसत्तम ।। 2 ।।
प्रियव्रतोत्तानपादौ सुतौ स्वायम्भुवस्य यौ ।
तयोरुत्तानपादस्य ध्रुवः पुत्रस्त्वयोदितः ।.3 ।।
प्रियव्रतस्य नैवोक्ता भवता द्विज सन्ततिः ।
तामहं श्रोतुमिच्छामि प्रसन्नो वक्तुमर्हसि ।। 4 ।।
पराशार उवाच ।
कर्द्दमस्यात्मजां कन्यामुपयेमे प्रियव्रतः ।
सम्राट् कुक्षी च तत्कन्ये दश पुत्रास्तथापरे ।। 5 ।।
महाप्राज्ञा महावीर्य्या विनीता दयिताः पितुः ।
प्रियव्रतसुताः ख्यातास्तेषां नामानि मे श्वृणु ।। 6 ।।
आग्नीध्रश्चाग्निबाहुश्च वपुष्मान् द्युतिमांस्तथा ।
मेधा मेधातिथिर्भव्यः सवनः पुत्र एव च ।। 7 ।।
ज्योतिष्मान् दशमस्तेषां सत्यनामा सुतोऽभवत् ।
प्रियव्रतस्य पुत्रास्तु प्रख्याता बलवीर्य्यतः ।।8 ।।
मेधाग्निबाहुपुत्रास्तु त्रयो योगपरायणाः ।
जातिस्मरा महाभाग न राज्याय मनो दधुः ।। 9 ।।
निर्म्मलाः सर्वकालन्तु समस्तार्थेषु वै मुने ।
चक्रुः क्रिया यथान्यायमफलाकाङ्क्षिणो हि ते ।। 10 ।।
प्रियव्रतो ददौ तेषां सप्तानां मुनिसत्तम !
विभज्य सप्त द्वीपानि मैत्रेय सुमहात्मनाम् ।। 11 ।।
जम्बूद्वीपं महाभाग सोऽग्नीध्राय ददौ पिता ।
मेधातिथेस्तथा प्रादात् प्लक्षद्वीपमथापरम् ।। 12 ।।
शाल्मले च वपुष्मन्तं नरेन्द्रमभिषिक्तवान् ।
ज्योतिष्मन्तं कुशद्रीपे राजानं कृतवान् प्रभुः ।। 13 ।।
द्युतिमन्तं च राजानं क्रौञ्चद्रीपे समादिशत् ।
शाकद्वीपेश्वरञ्चापि भव्यञ्चक्रे च स प्रभुः ।। 14 ।।
सवनं पुष्करद्वीपे राजानं समकारयत ।। 15 ।।
जम्बूद्वीपेश्वरो यस्तु आग्नीध्रो मुनिसत्तम ।
तस्य पुत्रा बभुवुस्ते प्रजापतिसमा नव ।। 16 ।।
नाभिः किम्पुरुषश्वे वै हरिवर्ष इलावृतः ।
रम्यो हिरण्वान् षष्ठश्च कुरुर्भद्राश्व एव च ।। 17 ।।
केतुमालस्तथैवान्यः साधुचेष्टो नृपोऽभवत् ।
जम्बूद्रीपविभागांश्च तषां विप्र निशामय ।। 18 ।।
पित्रा दत्तं हिमाह्वन्तु वर्षं नाभेस्तु दक्षिणम् ।
हेमकूटं तथा वर्षं ददौ किम्पुरुषाय सः ।। 19 ।।
तृतीयं नैषधं वर्षं हरिवर्षाय दत्तवान ।
इलावृताय प्रददौ मैरुर्यत्र तु मध्यगः ।। 20 ।।
नीलाचलाश्वितं वर्षं रम्याय प्रददौ पिता ।
श्वेतं तदुत्तरं वर्षं पित्रा दत्तं हिरण्वते ।। 21 ।।
यदुत्तरं श्वृङ्गवतो वर्षं तत् कुरवे ददौ ।
मेरोः पूर्व्वेणा यद् वर्षं भद्राश्वाय प्रदत्तवान् ।। 22 ।।
गन्धमादनवर्षन्तु केतुमालाय दत्तवान ।
इत्येतानि ददौ तेभ्यः पुत्रेभ्यः स नरेश्वरः ।। 23।।
वर्षेष्वेतेषु तान् पुत्रानभिषितच्य स भूमिपः ।
शालग्रामं महापुण्यं मैत्रेय तपसे ययौ ।। 24 ।।
यानि किंपुरुषादीनि वर्षाण्यष्टौ महामुने।
तेषां स्वाभाविकी सिद्धिः सुखप्राया ह्ययत्नतः ।। 25 ।।
विपर्य्ययो न तेष्वस्ति जरामृत्युभयं न च ।
धर्म्माधर्म्मौ न तेष्वास्तां नोत्तमाधममध्यमाः।।२६।।
न तेष्वस्ति युगावस्था क्षेत्रेष्वष्टासु सर्व्वदा ।
हिमाह्वयं तु वै वर्षं नाभेरासीन्महात्मनः ।। 27 ।।
तस्यर्षभोऽभवत् पुत्रो मेरुदेव्यां महाद्युतिः ।
ऋषभाद् भरतो जज्ञ ज्येष्ठःपुत्रशतस्य सः ।। 28 ।।
कृत्वा राज्यं स्वधर्म्मेण तथेष्ट्वा विविधान् मखान् ।
अभिषच्य सुतं ज्येष्ठं भरतं पृथिवीपतिम् ।। 29 ।।
तपसे स महाभागः पुलस्त्यस्याश्रमं ययौ ।
वानप्रस्थविधानेन तत्रापि कृतनिश्चयः ।। 30 ।।
तपस्तेपे यथान्यायं यदा च स महीपतिः ।
तपसा कर्शितोऽत्यर्थं कृशो धमनिसन्ततः ।। 31 ।।
नग्नो वीटां मुखे दत्त्वा वीराध्वानं ततो गतः ।
ततश्च भारतं वर्षमेतल्लोकेषु गीयते ।। 32 ।।
भरताय यतः पित्रा दत्तं प्रातिष्ठता वनम् ।
सुमतिर्भरतस्याभूत् पुत्रः परमधार्म्मिकः ।। 33 ।।
कृत्वा सम्यग् ददौ तस्मै राज्यमिष्टमखः पिता ।
पुत्रसंक्रमितश्रीस्तु भरतः स महीपतिः ।। 34 ।।
योगाभ्यासरतः प्राणान् शालग्रामेऽत्यजन्मुने ।
अजायत च विप्रोऽसौ योगिनां प्रवरे कुले ।। 35 ।।
मैत्रय । तस्य चरितं कथयिष्यामि ते पुनः ।
सुमतेस्तेजसस्तस्मादिन्द्रद्युम्नो व्यजायत ।। 36 ।।
परमेष्ठी ततस्तस्मात् प्रतिहारस्तदन्वयः ।
प्रतिहर्त्तेति विख्यात उत्पन्नस्तस्य चात्मजः ।। 37 ।।
भुवस्तस्मात् तथोद्गीथः प्रस्तारस्तत्सुतो विभुः ।
पृथुस्ततोऽभवन्नक्तो नक्तस्यापि गयः सुतः ।। 38 ।।
नरो गयस्य तनयस्तत्पुत्रोऽभूद् विराट् ततः ।
तस्य पुत्रो महावीर्य्यो धीमांस्तस्मादजायत ।। 39 ।।
महान्तस्तत्सुतश्चाभूनूमनस्युस्तस्य चात्मजः ।
त्वष्टा त्वष्टुश्च विरजो रजस्तस्याप्यभूत् सुतः ।। 40 ।।
शतजिद्रजसस्तस्य जज्ञ पुत्रशतं मनने ।
विशगूज्योतिःप्रधानास्ते यैरिमा वर्द्धिताः प्रजाः ।।41 ।।
तैरिदं भारतं वर्षं नवभेदमलङ्गतम ।
तेषां वंशप्रसूतैश्च भुक्तेयें भारती पुरा ।। 42 ।।
कृतत्रेतादिसर्गेण युगाख्या ह्म क्सप्ततिः ।। 43 ।।
एष स्वायम्भुवः सर्गो येनेदं पूरितं जगत् ।
वाराहे तु मुने ! कल्पे पूर्वमन्वान्तराधिपः ।। 44 ।।