विष्णुपुराणम्/द्वितीयांशः/अध्यायः ११

विकिस्रोतः तः
Jump to navigation Jump to search
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६

मैत्रेय उवाच
यदेतद्भगवानाह गणः सप्तविधो रवेः ।
मण्डले हिमतापादेः कारणं तन्मया श्रुतम् ॥ २,११.१ ॥
व्यापारश्चापिकथितो गन्धर्वोरगरक्षसाम् ।
ऋषीणां वालखिल्यानां तथैवाप्सरसां गुरो ॥ २,११.२ ॥
यक्षाणां च रथे भानोर्विष्णुशक्तिधृतात्मनाम् ।
किं चादित्यस्य यत्कर्म तन्नात्रोक्तं त्वया मुने ॥ २,११.३ ॥
यदि सप्तगणो वारि हिममुष्णं च वर्षति ।
तत्किमत्र रवेर्येन वृष्टिः सूर्यादितीर्यते ॥ २,११.४ ॥
विवस्वानुदितो मध्ये यात्यस्तमिति किं जनः ।
ब्रवीत्येतत्समं कर्म यदि सप्तगणस्य तत् ॥ २,११.५ ॥
पराशर उवाच
मैत्रेय श्रूयतामेतद्यद्भवान्परिपृच्छति ।
यथा सप्तगणोप्येकः प्राधान्येनाधिको रविः ॥ २,११.६ ॥
सर्वशक्तिः परा विष्णो ऋग्यजुःसामसंज्ञिता ।
सैषा त्रयी तपत्यंहो जगतश्च हिनस्ति या ॥ २,११.७ ॥
सैष विष्णुः स्थितः स्थित्यां जगतः पालनोद्यतः ।
ऋग्यजुः सामभूतोन्तः सवितुर्द्विजतिष्ठति ॥ २,११.८ ॥
मासिमासि रविर्योयस्तत्र तत्र हि सा परा ।
त्रयीमयी विष्णुशक्तिरवस्थानं करोति वै ॥ २,११.९ ॥
ऋचः स्तुवन्ति पूर्वाह्ने मध्याह्नेथ यजूंषि वै ।
बृहद्रथन्तरादीनि सामान्यह्नः क्षये रविम् ॥ २,११.१० ॥
अङ्गमेषा त्रयी विष्णो ऋग्यजुः सामसंज्ञिता ।
विष्णुशक्तिरवस्थानं सदादित्ये करोति सा ॥ २,११.११ ॥
न केवलं रवेः शक्तिर्वैष्णवी सा त्रयीमयी ।
ब्रह्माथ पुरुषो रुद्रस्त्रयमेतत्त्रयीमयम् ॥ २,११.१२ ॥
सर्गादौ ऋङ्मयो ब्रह्मा स्थितौ विष्णुर्यजुर्मयः ।
रुद्रः साममयोन्ताय तस्मात्तस्याशुचिर्थ्वनिः ॥ २,११.१३ ॥
एवं सा सात्त्विकी शक्तिर्वैष्णवी या त्रयीमयी ।
आत्मसप्तगणस्थं तं भास्वन्तमधितिष्ठति ॥ २,११.१४ ॥
तया चाधिष्ठितः सोऽपि जाज्वलीति स्वरश्मिभिः ।
तमः समस्तजगतां नाशंनयति चाखिलम् ॥ २,११.१५ ॥
स्तुवन्ति चैनं मुनयो गन्धर्वैर्गीयते पुरः ।
नृत्यन्त्योऽप्सरसो यान्ति तस्य चानु निशाचराः ॥ २,११.१६ ॥
वहन्ति पन्नगा यक्षैः क्रियतेऽभीषुसंग्रहः ।
वालखिल्यास्तथैवैनं परिवार्य समासते ॥ २,११.१७ ॥
नोदेता नास्तमेता च कदाचिच्छक्तिरूपधृक् ।
विष्णुर्विष्णोः पृथक्तस्य गणाःसप्तविधोऽप्ययम् ॥ २,११.१८ ॥
स्तम्भस्थदर्पणस्येव योऽयमासन्नतां गतः ।
छायादर्शनसंयोगं स तं प्राप्नोत्यथात्मनः ॥ २,११.१९ ॥
एवं सा वैष्णवी शक्तिर्नैवापैति ततो द्विज ।
मासानुमासं भास्वन्तमध्यास्ते तत्र संस्थितम् ॥ २,११.२० ॥
पितृदेवमनुष्यादीन्स सदाप्याययन्प्रभुः ।
परिवर्तत्यहोरात्रकारणं सविता द्वज ॥ २,११.२१ ॥
सूर्यरश्मिसुषुम्णायस्तर्पितस्तेन चन्द्रमाः ।
कृष्णपक्षेमरैः शश्वत्पीयते वै सुधामयः ॥ २,११.२२ ॥
पीतं तं द्विकलं सोमं कृष्णपक्षक्षये द्विज ।
पिबन्ति पतरस्तेषां भास्करात्तर्पमं तथा ॥ २,११.२३ ॥
आदत्ते रश्मिभिर्यंतु क्षितिसंस्थं रसं रविः ।
तमुत्सृजति भूतानां पुष्ट्यर्थं सस्यवृद्धये ॥ २,११.२४ ॥
तेन प्रीणात्यशेषाणि भूतानि भगवान्रविः ।
पितृदेवमनुष्यादीनेवमाप्याययत्यसौ ॥ २,११.२५ ॥
पक्षतृप्तिं तु देवानां पितॄणां चैव मासिकीम् ।
शश्वत्तृप्तिं च मर्त्यानां मैत्रेयार्कः प्रयच्छति ॥ २,११.२६ ॥
इति श्रीविष्णुमहापुराणे द्वितीयेंश एकादशोऽध्यायः (११)