विष्णुपुराणम्/तृतीयांशः/अध्यायः ७

विकिस्रोतः तः
Jump to navigation Jump to search
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८


यथावत् कथित सर्वं यत् पृष्टोऽसि मया द्रिज ।
श्रोतुम्च्छाम्यहं त्वेकं तदू भवान् प्रब्रवीतु मे ।। १ ।।

सप्त द्रीपानि पाताल-वीथ्यश्व सुमहामुने ।
सप्त लोका येऽन्तरस्था ब्रह्माण्डस्यास्य सर्वतः ।। २ ।।

स्थूलैः सूक्ष्मैस्तथा सूक्ष्मात् सूक्ष्मैः सूक्ष्मतरैस्तथा ।
स्थूलैः स्थूलतरैश्चैव सर्वप्राणिभिरावृतम् ।। ३ ।।

अङ्गु लस्याष्टभागोऽपि न सोऽस्ति मुनिसत्तम ।
न सान्ति प्राणिनो यत्र कर्मबान्धनिबन्धनाः ।। ४ ।।

सर्वे चैत वशं यान्ति यमस्य भगवन् । किल ।
आयुषोऽन्ते तथा यान्ति यातनास्तत्प्रचोदिताः ।। ५ ।।

यातनाभ्यः परिभ्रष्टा देवाद्यास्वथ योनिषु ।
जन्तवः परिवर्तन्ते शास्त्राणामेष निर्णायः ।। ६ ।।

सोऽहमिच्छामि तच्छ्रोतु यमस्य वशवर्त्तिनः ।
न भवन्ति नरा यन तत् कर्मं कथयामलम् ।। ७ ।।

पराशर उवाच ।
अयमेव मुने ! प्रश्रो नकुलेन महात्मना ।
पृष्टः पितामहः प्राह भीष्मो यत् तच्छृणुष्व मे ।। ८ ।।

भीष्म उवाच ।
पुरा समागतो वत्स ! सखा कालिङ्गको द्रिजः ।
समामु पृष्टो वै मया जातिस्मरो मुनिः ।। ९ ।।

तेनाख्यातमिदञ्च दमित्थञ्चैतदू भविष्यति ।
तथा च तदभूद् वत्स! यथोक्तं तेन धीमता ।। १० ।।

स पृष्टश्व मया भूयः श्रदृधानवता द्रिजः ।
यदू यदाह न तदू दृमन्यथा हि मया क्वचित् ।। ११ ।।

एकदा तु मया पृष्टं यदेतद् भवतोदितम् ।
प्राह कालिङ्गको विप्रः स्मृत्वा तस्य मुनेर्वचः ।। १२ ।।

जातिस्मरेण कथितो रहस्यः परमो मम ।
यम-किङ्गरयोर्योऽभूत् संवादस्तं ब्रवीमि ते ।। १३ ।।

स्वपुरुषमभिवीक्ष्य पाशह्सतं वदति यमः किल तस्य कर्णामूले ।
परिहर मधुसूदनप्रपन्नान् प्रभुरहमन्यनृणां न वैष्णवानाम् ।। १४ ।।

अहममरघणर्चितेन धात्रा यम इति लोकहिताहिते नियुक्तः ।
हरिगुरुवशगोऽस्मि न स्वतन्त्रः प्रभवति संयमने ममापि विष्णुः ।। १५ ।।

कटकमुकुटकर्णिकादिबेदैः कनकमभेदमपीष्यते यथैकम ।
सुरपशुमनुजादिकल्पनाभि हरिरखिलाभिरुदीर्य्यते तथैकः ।। १६ ।।

क्षितिजलपरमाणावोऽनिलान्ते पुनरपि यान्ति यथैकतां धरिव्याः ।
सुरपशुमनुजादयस्तथान्ते गुणकलुषेण सनातनेन तेन ।। १७ ।।
हरिममरगणर्चिताञघ्रिपह्मं प्रणमति यः परमार्थतो हि मर्त्त्यः ।
तमपगतसमस्तपापबन्धं व्रज परिह्टत्य यथाग्रिगाज्यसिक्तम् ।। १८ ।।

इति यमवचनं निशम्य पाशी कथय मम विभो ! समस्तधातु
यमपुरुषस्तमुवाच धर्मराजम् । र्भवति हरेः खलु यादृशोऽस्य भक्तः ।। १९ ।।

न चलति निजवर्णाधर्मतो यः सममतिरात्मसुह्टदविपक्षपक्षे
न हरति न च हन्ति किञ्चिदुच्चैः सितमनसं तमवैहि विष्णभक्तम् ।। २० ।।

कलिकलूषमलेन यस्य नात्मा विमलमतेर्मलिनीकृतोऽस्तमोहे ।
मनसि कृतजनार्दनं मनुष्यं सततमवेहि हररतीव भक्तम् ।। २१ ।।

कनकमपि रहस्यवेक्ष्य बुद्धया तृर्णामिव यः समवैति वै परस्वम ।
भवति च भगवत्यनन्यचेताः पुरुषवरं तमवेहि विष्णुभक्तम् ।। २२ ।।

स्फटिकगिरिशिलामलः क्व बिष्णुर्मनसि नृणां क्व च मत्सरादिदोषः ।
न हि तुहिनमयूखरश्मिपुञ्ज भवति हुताशनदीप्तिजः प्रतापः ।। २३ ।।

विमलमतिविमत्सरः प्रशान्तः शुचिचरितोऽखिलसत्वमित्रबूतः ।
प्रियहितवचनोऽस्तमानमायो वसति सदा ह्टदि तस्य वासुदेवः ।।२४ ।।

वसति ह्टदि सनातने च तस्मिन् भवति पुमान् जगतोऽस्य सौम्यरूपः ।
क्षितिरसमतिरम्यमात्मनोऽन्तः कथयति चारुतयैव शालपोतः ।। २५ ।।

यमनियमविदूतकल्मषाणा मनुदिनमच्युतसक्तमानसानाम् ।
अपगतमद-मान-मत्सराणं त्यज भट!दूरतरेण मानवानाम ।। २६ ।।

ह्टदि यदि भगवाननादिररास्ते हरिरसिशङ्खगदाधरोऽव्ययात्मा ।
तदघमघविघातकर्तृभिन्नं भवति कथं सति चान्धकारमर्के ।। २७ ।।

हरति परधनं निहन्ति जन्तून् वदति तथानृतनिष्ठु राणि यश्व ।
असुभजनितदुर्मदस्य पु सः कलुषमतेह्ट दि तस्य नास्त्यनन्तः ।। २८ ।।

न सहति परसम्पदं विनिन्दां कलुषमतिः कुरुते सतामसाधुः ।
न यजति न ददाति यश्व सन्तं मनसि न तस् जनार्दनोऽधमस्य ।। २९ ।।

परमसुद्टदि बान्धवे कलत्रे सुततनयापितृमातृभृत्यवर्गे।
शठमतिरुपयाति योऽर्थतृष्णां तमधमचेष्टमवैहि नास्य भक्तम् ।। ३० ।।

अशुभमतिरसत्प्रवृत्तिसक्तः सततमनार्य्यविशालसङ्गमत्तः ।
अनुदिनकृतपापबन्धयत्नः पुरुषपशुर्नहि वासुदेवभक्तः ।। ३१ ।।

सकलमिदमहञ्च वासुदेवः परमपुनाम् परमेश्वरः स एकः ।
इति मतिरचला भवत्यनन्ते ह्टदयगते व्रज तान् विहाय दूरात् ।। ३२ ।।

कमलनयन वासुदेव विष्णो धरणिधराच्युत शह्घचक्रपोणो!
भव शरणमितीरयन्ति ये वै त्यज भट दूरतरेण तानपापान् ।। ३३ ।।

वसति मनसि यस्य सोऽव्ययात्मा पुरुषवरस्य न तस्य दृष्टिपाते ।
तव गतिरथवा ममास्ति चक्र प्रतिहतवीर्य्यबलस्य सोऽन्यलोक्यः ।। ३४ ।।

इतं निं जभटशासनाय देवो रवितनयः स किलाह धर्मराजः ।
मम कथितामिदञ्च तेन तुभ्यं कुरुवर! सम्यगिदं मयापि चोक्तम् ।। ३५ ।।

नकुलैतन्ममाख्यातं पूर्वं तेन द्रिजन्मना ।
कलिङ्गदेशादभ्येत्य प्रीयता सुमहात्मना ।। ३६ ।।

मयाप्येतदू यथान्याय सम्यग् वत्स! तवोदितम् ।
यथा विष्णुमृते नान्यत् त्राणं संसारसागरे ।। ३७ ।।

किङ्गरा पाशदण्डाश्व न यमो न च याताः ।
समर्थस्तस्य यस्यात्मा केशवालम्बनः सदा ।। ३८ ।।