विष्णुपुराणम्/तृतीयांशः/अध्यायः १५

विकिस्रोतः तः
Jump to navigation Jump to search
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८

औव उवाच ।
ब्राहमणान् भोजयेच्छाद्ध यदूगुणांस्तान्निबोध मे ।
त्रिणाचिकेतस्त्रिमधुस्त्रिसुपर्णः षडङ्गवित् ।। १ ।।

वेदविच्छ्रोत्रियो योगी तथा वै ज्येष्ठसामगः ।
ऋत्विक् स्वस्त्रेय-दौहित्र-जामातृ-श्वशुरास्तथा ।। २ ।।

मातुलोऽथ तपोनिष्ठः पञ्चाग्न्यबिरतस्तथा ।
शिष्याः सम्बन्धिनश्चैव मातापितृरतश्व यः ।। ३ ।।

एतान नियोजयेच्छ्राद्ध पूर्वोक्तान् प्रथमं नृप ।
ब्राह्मणान् पितृपुष्टयर्थमनुकल्पेष्वनन्तरान् ।। ४ ।।

मित्रध्रुक्र कुनखी क्लीबः श्यावदन्तस्तथा द्रिजः ।
कन्यादूषयिता वह्निवेदोज्झः सोमविक्रयी ।। ५ ।।

अभिशस्तस्तथा स्तेनः पिशुनो ग्रामयाजकः ।
बृतकाध्यापकस्तदूदू भृतकाध्यापितश्व यः ।। ६ ।।

परपूर्वापतिश्चैव मातापित्रोस्तथोज्झकः ।
वृषलीसूतिपोष्टा च वृषलीपतिरवे च ।। ७ ।।

तथा देवलकश्चैव श्राद्ध नार्हन्ति केतनम् ।। ८ ।।
प्रथमेऽह्नि बुधः शस्ताञ्छोत्रियादीन् निमन्त्रयेत् ।

कथयेच्च तथैवैषां नियोगान् पैत्र्यदैविकान् ।। ९ ।।

ततः क्रोधव्यवायादीनामयासं तैर्द्रिजैः सह ।
यजमानो न कुर्वीत दोषस्तत्र महानयम् ।। १० ।।

श्राद्ध नियुक्तो भुत्त्वा वा बोजयित्वा नियुज्य च ।
व्यवायी रेतसो गर्त्ते मज्जयत्यात्मनः पितॄन् ।। ११ ।।

तस्मात् प्रथममत्रोक्तं द्रिजाग्रयाणं निमन्त्रणम् ।
अनिमन्व्य द्रिजान् गेहमागतान् भोजयेदू यतीन् ।। १२ ।।

पादशौचादिना गेहमागतान् पूजयेद् द्रिजान् ।
ववित्रपाणिराचान्तासनेषूपवेशयेत् ।। १३ ।।

पितॄणामयुजो युग्मान् देवानामिच्छया द्रिजान् ।
देवानामेकमेकं वा पितॄणाञ्च नियोजयेत् ।। १४ ।।

तथा मातामहश्वाद्ध वैश्वदेवसमन्वितम् ।
कुर्वीत भक्तिसम्पन्नस्तन्त्रं वा वैश्वदैविकम् ।। १५ ।।

प्राङमुखान् भोजयेद विप्रान् देवानामुबयात्मकान् ।
पितृमातामहानाञ्च भोजयेच्चाप्युदङू मुखान् ।। १६ ।।

पृथक् तयोः केचिदाहुः श्राद्धस्य करणां नृप ।
एकत्रैकेन पाकेन वदन्त्यन्ये महर्षयः ।। १७ ।।

विष्टरार्थं कुशान् दत्त्वा सम्पूज्यार्ध्यविधानतः ।
कुर्यादावाहनं प्राज्ञो देवानां तदनुज्ञया ।। १८ ।।

यवाम्बुना च देवानो दद्यादर्ध्यं विधानवित् ।
स्त्रगू-गन्ध-धूप-दीपांश्व तेब्यो दद्यादू यथाविधि ।। १९ ।।

पितणामपसव्यं तत् सर्वमेवोपकल्पयेत् ।
अनुज्ञाञ्च ततः प्राप्य दत्त्वा दर्भान् द्रिधाकृतान् ।। २० ।।

मन्त्रपूर्वं पितृमान्तु कृर्याच्चावाहनं बुधः ।
तिलाम्बुना चापसव्यं दद्यादर्ध्यादिकं नृप ।। २१ ।।

काले तत्रातिथि प्राप्तमन्नकामं नृपाध्वगम् ।
ब्रह्मणौरभ्यनुज्ञातः काम तमपि भोजयेत् ।। २२ ।।

योगिनो विविधै रूपैर्नराणामुपकारिणाः ।
भ्रमन्ति पृथिवीमेतामविज्ञातस्वरूपिणाः ।। २३ ।।

तस्मादभ्यर्चयेत् प्राप्त श्राद्धकालेऽतिथि बुधः ।
श्राद्धक्रियाफलं हन्ति नरेन्द्रापूजितोऽतिथिः ।। २४ ।।

जुहुयाद व्यञ्तजनक्षारवर्जमन्नं ततोऽनले ।
अनुज्ञातो द्रिजैस्तैस्तु त्रिकृत्वः पुरुषर्षभ ।। २५ ।।

अग्रये कव्यवाहाय स्वाहेत्यादौ नृपाहुतिः ।
सोमाय वै पितृमते दातव्या तदनन्तरम् ।। २६ ।।

वैवस्वताय चैवान्या तृतीया दीयते ततः ।
हुतावसिष्टमल्पाल्पं पितृपत्रेषु निर्वपेत् ।। २७ ।।

ततोऽत्र मिष्टमत्यर्थमभीष्टमतिसंस्कृतम् ।
दत्त्वा जुषध्वमिच्छातो वाच्यमेतदनिष्ठुरम् ।। २८ ।।

भोक्तव्यं तैश्व तच्चितैर्मौनिभिः सुमुखैः सुखम् ।
अक्रु ध्यता चात्वरता देयं तेनापि भक्तितः ।। २९ ।।

रक्षोघ्रमन्त्रपठनं बूमेरास्तरणां तिलैः ।
कृत्वा ध्यायाः स्वपितरस्त एव द्रिजसत्तमाः ।। ३० ।।

पिता पितामहश्चैव तथैव प्रपितामहः ।
मम तृप्तिं प्रयान्त्वग्रिहोमाप्यायितमूर्तयः ।। ३१ ।।

पिता पितामहश्चैव तथैव प्रपितामहः ।
तृप्तिं प्रयान्तु पिष्डेन मया दत्तेन भूतले ।। ३२ ।।

पिता पितामहश्चैव तथैव प्रपितामहः ।
तृप्तिं प्रयान्तु मे भत्त्यामन्मयैतदिहाकृतम् ।। ३३ ।।

मातामहस्तृप्तिमुपैतु तस्य तथा पिता तस्य पिता तथान्यः ।
विश्वे च देवाः परमा प्रयान्तु तृप्तिं प्रणश्यन्तु च यातुधानाः ।। ३४ ।।

यज्ञश्वरो हव्यसमस्तकव्य बोक्ताव्ययात्वा हरीरीश्वरोऽत्र ।
तत् सन्निधानादपयान्तु सद्योरक्षांस्यशेषाण्यसुराश्व सर्वै ।। ३५ ।।

तृप्तिष्वेतेषु विकिरेदन्नं विप्रेषु भूतले ।
दद्यादाचमनार्थाय तेब्यो वारि सकृत् सकृत् ।। ३६ ।।

सुतृप्तैस्तैरनुज्ञातः सर्वेणान्नेन भूतल् ।
सतिलेन ततः पिम्डान् सम्यग् दद्यात् समाहितः ।। ३७ ।।

पितृतीर्थेन सतिलान् दद्यादथ जलाञ्जलीन् ।
मातामहेभ्यस्तेनैव पिण्डांस्तीर्थेन निर्वपेत् ।। ३८ ।।

दीक्षिणाप्रवणञ्चैव प्रयत्रेनोपपादयेत् ।
अवकाशेषु चोक्षेषु जलतीरेषु चैव हि ।। ३९ ।।

दिक्षिणाग्रेषु दर्भेषु पुष्पधूपादिपूजितम् ।
स्वपित्रे प्रथमं पिणडं दद्यादुच्छिष्टसन्निधो ।। ४० ।।

पितामहाय चैवान्यत् तत्पित्रे च तथापरम् ।
दर्भभूले लेपभुजः प्रीणयेल्लेपघर्षणौः ।। ४१ ।।

पिण्डैर्मातामहांस्तदूद् गन्धमाल्यादिसंयुतैः ।
पूजयित्वा द्रिजाग्रयाणां दद्याच्चाचमनं ततः ।। ४२ ।।

पितृभ्यः प्रथमं भत्त्यां तन्मनस्को नरेश्वर ।
सुस्वधेत्याशिषा युक्ता दद्याच्छत्त्या च दिक्षिणाम् ।। ४३ ।।

दत्त्वा च दक्षिणां तेब्यो वाचयेद्रैश्वदेविकान् ।
प्रीयन्तामिह ये विश्वेदेवास्तेन इतीरयेत् ।। ४४ ।।

तथेति चोक्ते तैर्विप्रैः प्रार्थनीयास्तथाशिषः ।
पश्वाद्रिसर्जयेद् दिवान् पूर्वं पैव्यान्महीपते ।। ४५ ।।

मातामहानामप्येवं सह देवैः क्रमः स्मृतः ।
भोजने ज ण्वशक्त्या च दाने तदूद् विसर्जने ।। ४६ ।।

आपादशौचनात् पूर्वं कुर्याद देवद्रितजन्मसु ।
विसर्जनन्तु प्रथमं पैत्रमातामहेषु वै ।। ४७ ।।

विसर्जयेत् प्रीतिवचः सम्मानाभ्यचितांस्ततः ।
निवर्त्तेताभ्यनुज्ञात आ द्रारान्तादनुव्रजेत् ।। ४८ ।।

ततस्तु वैश्वदेवाख्यां कुर्यान्नित्यक्रियां बुधः ।
भुञ्जीयाच्च समं पूज्य-भृत्य-बन्धभिरात्मनः ।। ४९ ।।

एवं श्राद्ध बुधः कुर्यात् पैव्यं मातामहं तथा ।
श्राद्ध राप्यायिता दद्युः सर्वान् कामान् पितामहाः ।। ५० ।।

त्रीणि श्राद्ध पवित्राणि दौहित्रः कुतपस्तिलाः ।
रजतस्य तथादानं कथासङ्गीर्तनादिकम् ।। ५१ ।।

वर्ज्यानि कुर्वता श्राद्ध कोपोऽध्वगमनं त्वरा ।
भोक्तुरप्यत्र राजेन्द्र !त्रयमेतन्न शस्यते ।। ५२ ।।

विश्वेदेवाः सपितरस्तथा मातामहा नृप!
कुलञ्चाप्यायते पुंसां सर्वं श्राद्ध प्रकुर्वताम् ।। ५३ ।।

सोमाधारः पितृगणो यागाधारस्तु चन्द्रमा।
श्रेष्ठयोगिनियोगस्तु तस्माद् भूपाल!सस्यते ।। ५४ ।।

सहस्त्रस्यापि विप्राणां यौगी चेत् पुरतःस्थितः ।
सर्वान् भोक्तृ स्तारयति यजमानं तथा नृप ।। ५५ ।।