विष्णुपुराणम्/तृतीयांशः/अध्यायः १२
॥ अथ द्वादशोऽध्यायः ॥
(गृहस्थाचारकथनम्)
और्व उवाच
देवगोब्राहमणान् सिद्धान् वृद्धाचार्यांस्तथार्चयेत् ।
द्विकालञ्च नमेत् सन्ध्यामग्नीनुपचरेत् तथा ॥१॥
सदानुपहते वस्त्रे प्रशस्ताश्च महौषधीः ।
गारुडानि च रत्नानि बिभृयात् प्रयतो नरः ॥२॥
प्रस्निग्धामलकेशश्च सुगन्धिश्चारुवेषधृक् ।
सिताः सुमनसो हृद्या बिभृयाच्च नरः सदा ॥३॥
किञ्चित् परस्वं न हरेन्नाल्पमप्यप्रियं वदेत् ।
प्रियञ्च नानृतं ब्रूयान्नान्यदोषानुदीरयेत् ॥४॥
नान्यश्रियं तथा वैरं रोचयेत् पुरुषर्षभ ।
न दुष्टं यानमारोहेत् कूलच्छाया न संश्रयेत् ॥५॥
विद्विष्टपतितोन्मत्तबहुवैरादिकीटकैः ।
बन्धकी बन्धकीभर्तुः क्षुद्रानृतकथैस्सह ॥६॥
तथातिव्ययशीलैश्च परिवादरतैश्शठैः ।
बुधो मैत्रीं न कुर्वीत नैकः पन्थानमाश्रयेत् ॥७॥
नावगाहेज्जलौघस्य वेगमग्रे नरेश्वर ।
प्रदीप्तं वेश्म न विशेन्नारोहेच्छिखरं तरोः ॥८॥
न कुर्याद्दन्तसङ्घर्षं कुष्णीयाच्च न नासिकाम् ।
नासंवृतमुखो जृम्भेच्छ्वासकासौ विसर्जयेत् ॥९॥
नोच्चैर्हसेत् सशब्दं च न मुञ्चेत् पवनं बुधः ।
नखान्न खादयेच्छिन्द्यान्न तृणं न महीं लिखेत् ॥१०॥
न श्मश्रु भक्षयेल्लोष्टं न मृद्नीयाद्विचक्षणः ।
ज्योतींष्यमेध्यशस्तानि नाभिवीक्षेत च प्रभो ॥११॥
नग्नां परस्त्रियं चैव सूर्यं चास्तमयोदये ।
न हुङ्कुर्याच्छवं गन्धं शवगन्धो हि सोमजः ॥१२॥
चतुष्पथं चैत्यतरुं श्मशानोपवनानि च ।
दुष्टस्त्रीसन्निकर्षं च वर्जयेन्निशि सर्वदा ॥१३॥
पूज्यदेवद्विजज्योतिश्छायां नातिक्रमेद्बुधः ।
नैकश्शून्याटवीं गच्छेत् तथा शून्यगृहे वसेत् ॥१४॥
केशास्थिकण्टकामेध्यबलिभस्मतुषांस्तथा ।
स्नानार्द्रधरणीं चैव दूरतः परिवर्जयेत् ॥१५॥
नानार्यानाश्रयेत् कांश्चिन्न जिह्मं रोचयेद्बुधः ।
उपसर्पेन्न वै व्यालं चिरं तिष्ठेन्न वोत्थितः ॥१६॥
अतीव जागरस्वप्ने तद्वत्स्नानासने बुधः ।
न सेवेत तथा शय्यां व्यायामं च नरेश्वर ॥१७॥
दंष्ट्रिणः शृङ्गिणश्चैव प्राज्ञो दूरेण वर्जयेत् ।
अवश्यायं च राजेन्द्र पुरोवातातपौ तथा ॥१८॥
न स्नायान्न स्वपेन्नग्नो न चैवोपस्पृशेद्बुधः ।
मुक्तकेशश्च नाचामेद्देवाद्यर्चां च वर्जयेत् ॥१९॥
होमदेवार्चनाद्यासु क्रियास्वाचमने तथा ।
नैकवस्त्रः प्रवर्तेत द्विजवाचनिके जपे ॥२०॥
नासमञ्जसशीलैस्तु सहासीत कथञ्चन ।
सद्वृत्तसन्निकर्षो हि क्षणार्द्धमपि शस्यते ॥२१॥
विरोधं नोत्तमैर्गच्छेन्नाधमैश्च सदा बुधः ।
विवाहश्च विवादश्च तुल्यशीलैर्नृपेष्यते ॥२२॥
नारभेत कलिं प्राज्ञः शुष्कवैरञ्च वर्जयेत् ।
अप्यल्पहानिः सोढव्या वैरेणार्थागमं त्यजेत् ॥२३॥
स्नातो नाङ्गानि सम्मार्जेत् स्नानशाट्या न पाणिना ।
न च निर्धूनयेत् केशान् नाचामेच्चैव चोत्थितः ॥२४॥
पादेन नाक्रमेत् पादं न पूज्याभिमुखं नयेत् ।
नोच्चासनं गुरोरग्रे भजेताविनयान्वितः ॥२५॥
अपसव्यं न गच्छेच्च देवागारचतुष्पथान् ।
माङ्गल्यपूज्यांश्च तथा विपरीतान्न दक्षिणम् ॥२६॥
सोमार्काग्न्यम्बुवायूनां पूज्यानाञ्च न सम्मुखम् ।
कुर्यान्निष्ठीवविण्मूत्रसमुत्सर्गञ्च पण्डितः ॥२७॥
तिष्ठन्न मूत्रयेत् तद्वत् पथिष्वपि न मूत्रयेत् ।
श्लैष्मविण्मूत्ररक्तानि सर्वदैव न लङ्घयेत् ॥२८॥
श्लेष्मशिङ्घाणिकोत्सर्गो नान्नकाले प्रशस्यते ।
बलिमङ्गलजप्यादौ न होमे न महाजने ॥२९॥
योषितो नावमन्येत न चासां विश्वसेद् बुधः ।
न चैवेर्ष्या र्भवेत्तासु न धिक्कुर्यात् कदाचन ॥३०॥
माङ्गल्यपुष्परत्नाज्यपूज्याननभिवाद्य च ।
न निष्क्रमेद्गृहात् प्राज्ञः सदाचारपरो नरः ॥३१॥
चतुष्पथान् नमस्कुर्यात् काले होमपरो भवेत् ।
दीनानभ्युद्धरेत् साधूनुपासीत बहुश्रुतान् ॥३२॥
देवर्षिपूजकः सम्यक् पितृपिण्डोदकप्रदः ।
सत्कर्ता चातिथीनां यः स लोकानुत्तमान् व्रजेत् ॥३३॥
हितं मितं प्रियं काले वश्यात्मा योऽभिभाषते ।
स याति लोकानाह्लादहेतुभूतान् नृपाक्षयान् ॥३४॥
धीमान् ह्रीमान् क्षमायुक्तो ह्यास्तिको विनयान्वितः ।
विद्याभिजनवृद्धानां याति लोकाननुत्तमान् ॥३५॥
अकालगर्जितादौ च पर्वस्वाशौचकादिषु ।
अनध्यायं बुधः कुर्यादुपरागादिके तथा ॥३६॥
शमं नयति यः क्रुद्धान् सर्वबन्धुरमत्सरी ।
भीताश्वासनकृत् साधुः स्वर्गस्तस्याल्पकं फलम् ॥३७॥
वर्षातपादिषु च्छत्री दण्डी रात्र्यटवीषु च ।
शरीरत्राणकामो वै सोपानत्कः सदा व्रजेत् ॥३८॥
नोर्ध्वं न तिर्यग्दूरं वा न पश्यन् पर्यटेद्बुधः ।
युगमात्रं महीपृष्ठं नरो गच्छेद्विलोकयन् ॥३९॥
दोषहेतूनशेषांश्च वश्यात्मा यो निरस्यति ।
तस्य धर्मार्थकामानां हानिर्नाल्पापि जायते ॥४०॥
सदाचाररतः प्राज्ञो विद्याविनयशिक्षितः ।
पापेऽप्यपापः परुषे ह्यभिधत्ते प्रियाणि यः ।
मैत्रीद्रवान्तःकरणस्तस्य मुक्तिः करे स्थिता ॥४१॥
ये कामक्रोधलोभानां वीतरागा न गोचरे ।
सदाचारस्थितास्तेषामनुभावैर्धृता मही ॥४२॥
तस्मात् सत्यं वदेत् प्राज्ञो यत् परप्रीतिकारणम् ।
सत्यं यत् परदुःखाय तत्र मौनपरो भवेत् ॥४३॥
प्रियमुक्तं हितं नैतदिति मत्वा न तद्वदेत् ।
श्रेयस्तत्र हितं वाक्यं यद्यप्यत्यन्तमप्रियम् ॥४४॥
प्राणिनामुपकाराय यथैवेह परत्र च ।
कर्मणा मनसा वाचा तदेव मतिमान् भजेत् ॥४५॥
॥ इति श्रीविष्णुपुराणे तृतीयांशे द्वादशोऽध्यायः ॥