विष्णुपुराणम्/तृतीयांशः/अध्यायः १
मैत्रेय उवाच
कथिता गुरुणा सम्यग्भूसमुद्रादिसंस्थितिः ।
सूर्यादिनां च संस्थानं ज्योतिषां चातिविस्तरात् ॥ ३,१.१ ॥
देवादीनां तथा सृष्टिर्ऋषीणां चापि वर्णिता ।
चातुर्वर्ण्यस्य चोत्पत्तिस्तिर्यग्योनिगतस्य च ॥ ३,१.२ ॥
ध्रुवप्रह्लादचरितं विस्तराच्च त्वयोदितम् ।
मन्वन्तराण्यशेषाणि श्रोतुमिच्छाम्यनुक्रमात् ॥ ३,१.३ ॥
मन्वन्तराधिपांश्चैव शक३ एवपुरोगमान् ।
भवता कथितानेताञ्छ्रोतुमिच्छाम्यहं गुरो ॥ ३,१.४ ॥
श्रीपराशर उवाच
अतीतानागतानीह यानि मन्वन्तराणि वै ।
तान्यहं भवतः सम्यक्लथयामि यथा क्रमम् ॥ ३,१.५ ॥
स्वायंभुवो मनुः पूर्वं परः स्वारोचिषस्तथा ।
उत्तमस्तामसश्चैव रैवतश्चाक्षुषस्तथा ॥ ३,१.६ ॥
षडेते मनवोतीताः सांप्रतं तु रवेः सुतः ।
वैवस्वतेयं यस्त्वेतत्मप्तमं वर्ततेन्तरम् ॥ ३,१.७ ॥
स्वायंभुवं तु कथितं कल्पादावन्तरं मया ।
देवाः सप्तर्षयश्चैव यथावत्कथिता मया ॥ ३,१.८ ॥
अत ऊर्ध्वं प्रवक्ष्यामि मनोः स्वारोचिषस्य तु ।
मन्वन्तराधिपान्सम्यग्देवर्षिंस्तत्सुतांस्तथा ॥ ३,१.९ ॥
पारावताः सतुषिता देवाः स्वारोचिषेऽन्तरे ।
विपश्चित्तत्र देवेन्द्रो मैत्रेयासीन्महाबलः ॥ ३,१.१० ॥
ऊर्जस्तंभस्तथा प्राणो वातोथ* पृषभस्तथा । (*पाठ. दत्तोग्नी ऋषभस्तथा)
निरयश्च परीवांश्च तत्र सप्तर्षयोऽभवन् ॥ ३,१.११ ॥
चैत्रकिंपुरुषाद्याश्च सुताः स्वारोचिषस्य तु ।
द्वितीयमेतद्व्याख्यातमन्तरं शृणु चोत्तमम् ॥ ३,१.१२ ॥
तृतीयेप्यन्तरे ब्रह्मन्नुत्तमो नाम यो मनुः ।
सुशान्तिर्नाम देवेन्द्रो मैत्रेयासीत्सुताञ्छृणु ॥ ३,१.१३ ॥
सुधामानस्तथा सत्या जपाश्चाथ प्रतर्दनाः ।
वशवर्तिश्च पञ्चैते गणा द्वादशकाः स्मृताः ॥ ३,१.१४ ॥
वसिष्ठतनया ह्येते सप्त सप्तर्षयोभवन् ।
अजः परशुदीप्ताद्यास्तथोत्तममनोः सुताः ॥ ३,१.१५ ॥
तामसस्यान्तरे देवाः सुपारा हरयस्तथा ।
सत्याश्च सुधियश्चैव सप्तविंशतिका गणाः ॥ ३,१.१६ ॥
शिविरिन्द्रस्तथा चासीच्छतयज्ञोपलक्षमः ।
सप्तर्षयश्च ये तेषां तेषां नामानि मे शृणु ॥ ३,१.१७ ॥
ज्योतिर्धामा पुथुः कात्यश्चैत्रोग्निर्धनकस्तथा ।
पीवरश्चर्षयो ह्येते सप्त तत्रापि चान्तरे ॥ ३,१.१८ ॥
नरः ख्यातिः केतुरूपो जानुजङ्घादयस्तथा ।
पुत्रास्तु तामसस्यासन्नाजानः सुमहाबलाः ॥ ३,१.१९ ॥
पञ्चमे वापि मैत्रेय रैवतो नाम नामतः ।
मनुर्विभुश्च तत्रेन्द्रो देवांश्चात्रान्तरे शृणु ॥ ३,१.२० ॥
अमिताभा भूतरया वैकुण्ठाः सुसमेधसः ।
एते देवगणास्तत्र चतुर्दश चतुर्दश ॥ ३,१.२१ ॥
हिरण्यरोमा वेदाश्रिरूर्ध्वबाहुस्तथावरः ।
वेदबाहुः सुधामा च पर्जन्यश्च महामुनिः ।
एते सप्तर्षयो विप्र तत्रासन्रैवतेन्तरे ॥ ३,१.२२ ॥
बलबन्धुश्च संभाव्यः सत्यकाद्याश्च तत्सुताः ।
नरेन्द्राश्च महावीर्या बभूवुर्मुनिसत्तम ॥ ३,१.२३ ॥
स्वारोचिषश्चौत्तमश्च तामसो रैवतस्तथा ।
प्रियव्रतान्वया ह्येते चत्वारो मनवः स्मृताः ॥ ३,१.२४ ॥
विष्णुमाराध्य तपसा स राजर्षिः प्रियव्रतः ।
मन्वन्तराधिपानेताल्लंब्धवानात्मवंशजान् ॥ ३,१.२५ ॥
षष्ठे मन्वंरते चासीच्चाक्षुषाख्यस्तथा मनुः ।
मनोजवस्तथैवेन्द्रो देवानपि निबोध मे ॥ ३,१.२६ ॥
आप्याः प्रसूता भव्याश्च पृथुकाश्चा दिवौकसः ।
महानुभावा लेखाश्च पञ्चैते ह्यष्टका गणाः ॥ ३,१.२७ ॥
सुमेधा विरजाश्चैव हविष्मानुत्तमो मधुः ।
अतिनामा सहिष्णुश्च सप्तासन्निति चर्षयः ॥ ३,१.२८ ॥
ऊरुः पूरुः शतद्युम्नप्रमुखाः सुमहाबलाः ।
चाक्षुषस्य मनोः पुत्राः पृथिवीपतयोऽभवन् ॥ ३,१.२९ ॥
विवस्वतः सुतो विप्र श्राद्धदेवो महाद्युतिः ।
मनुः संवर्तते धीमान् सांप्रतं सप्तमेन्तरे ॥ ३,१.३० ॥
आदित्यवसुरुद्राद्या देवाश्चात्र महामुने ।
पुरन्दरस्तथैवात्र मैत्रेय त्रिदशेश्वरः ॥ ३,१.३१ ॥
वशिष्ठः काश्यपोथात्रिर्जमदग्निः सगौतमः ।
विश्वामित्रभरद्वाजौ सप्त सप्तर्षयोऽभवन् ॥ ३,१.३२ ॥
इक्ष्वाकुश्च नृगश्चैव धृष्टः शर्यातिरेव च ।
नरिष्यन्तश्च विख्यातो नाभागोरिष्ट एव च ॥ ३,१.३३ ॥
करूषश्च पृषध्रश्च सुमहांल्लोकविश्रुतः ।
मनोर्वैवस्वतस्यैते नव पुत्राः सुधार्मिकाः ॥ ३,१.३४ ॥
विष्णुशक्तिरनौपम्या सत्त्वोद्रिक्ता स्थितौ स्थिता ।
मन्वन्तरेष्वशेषेषु देवत्वेनाधितिष्ठति ॥ ३,१.३५ ॥
अंशेन तस्या जज्ञेऽसौ यज्ञःस्वायंभुवेन्तरे ।
आकूत्यां मानसो देव उत्पन्नः प्रथमेन्तरे ॥ ३,१.३६ ॥
ततः पुनः स वै देवः प्राप्ते स्वारोचिषेन्तरे ।
तुषितायां समुत्पन्नो ह्याजिषस्तुषितैः सह ॥ ३,१.३७ ॥
औत्तमप्यन्तरे देवस्तुषितस्तु पुनः स वै ।
सत्यायामभवत्सत्यः सत्यैः सह सुरोत्तमैः ॥ ३,१.३८ ॥
तामसस्यान्तरे चैव संप्राप्तो पुनरेव हि ।
हर्यायां हरिभिः सार्ध हरिरेव बभूव ह ॥ ३,१.३९ ॥
रैवतेप्यन्तरे देवःसंभूत्यां मानसो हरिः ।
संभूतो रैवतैः सार्ध देवैर्देववरो हरिः ॥ ३,१.४० ॥
चाक्षुषे चान्तरे देवो वैकुण्ठः पुरुषोत्तमः ।
विकुण्ठायामसौ जज्ञे वैकुण्ठैर्दैवतैः सह ॥ ३,१.४१ ॥
मन्वन्तरेत्र संप्राप्ते तथा वैवस्वते द्विज ।
वामनः काश्यपाद्विष्णुरदित्यां संबभूव ह ॥ ३,१.४२ ॥
त्रिभिः क्रमैरिमांल्लोकाञ्जित्वा येन महात्मना ।
पुरन्दराय त्रैलोक्यं दत्तं निहतकण्टकम् ॥ ३,१.४३ ॥
इत्येतास्तनवस्तस्य सप्तमन्वन्तरेषु वै ।
सप्तस्वेवाभवन्विप्र याभिः संवर्धिताः प्रजाः ॥ ३,१.४४ ॥
यस्माद्विष्टमिदं विश्वं यस्य शक्त्या महात्मनः ।
तस्मात्स प्रोच्यते विष्णुर्विशोर्धातोः प्रवेशनात् ॥ ३,१.४५ ॥
सर्वे च देवा मनवः समस्ताः सप्तर्षयो ये मनुसूनवश्च ।
इन्द्रश्चयोऽयं त्रिदशेशभूतो विष्णोरशोषास्तु विभूतयस्ताः ॥ ३,१.४६ ॥
इति श्रीविष्णुमहापुराणे तृतीयांशे प्रथमोऽध्यायः (१)