विष्णुधर्मः

विकिस्रोतः तः
Jump to navigation Jump to search

नारायणं नमस्कृत्य (१)
नरं चैव नरोत्तमम् (१)
देवीं सरस्वतीं चैव (१)
ततो जयम् उदीरयेत् (१)
द्वैपायनौष्ठपुटनिःसृतम् अप्रमेयं (२)
पुण्यं पवित्रम् अथ पापहरं शुभं च (२)
यो भारतं समधिगच्छति वाच्यमानं (२)
किं तस्य पुष्करजलैर् अभिषेचनेन (२)
नमो व्यासाय गुरवे (२)
सर्वज्ञाय महर्षये (२)
पाराशर्याय शान्ताय (२)
नमो नारायणाय ते (२)
कृताभिषेकं तनयम् (००१-००१)
राज्ञः पारीक्षितस्य ह (००१-००१)
द्रष्टुम् अभ्याययुः प्रीत्या (००१-००१)
शौनकाद्या महर्षयः (००१-००१)
तान् आगतान् स राजर्षिः (००१-००२)
पाद्यार्घ्यादिभिर् अर्चितान् (००१-००२)
सुखोपविष्टान् विश्रान्तान् (००१-००२)
कृतसंप्रश्नसत्कथान् (००१-००२)
तत्कथाभिः कृताह्लादः (००१-००३)
प्रणिपत्य कृताञ्जलिः (००१-००३)
शतानीको ऽथ पप्रच्छ (००१-००३)
नारायणकथां पराम् (००१-००३)
यम् आश्रित्य जगन्नाथम् (००१-००४)
मम पूर्वपितामहाः (००१-००४)
विपक्षापहृतं राज्यम् (००१-००४)
अवापुः पुरुषोत्तमाः (००१-००४)
द्रौणिब्रह्मास्त्रनिर्दग्धो (००१-००५)
मम येन पितामहः (००१-००५)
परीक्षित् प्राणसंयोगं (००१-००५)
देवदेवेन लम्भितः (००१-००५)
तस्य देवस्य माहात्म्यं (००१-००६)
देवर्षिसिद्धमनुजैः (००१-००६)
श्रुतं सुबहुशो मया (००१-००६)
स्तुतस्याशेषजन्मनः (००१-००६)
कः स्तोतुम् ईशस् तम् अजं (००१-००७)
यस्यैतत् सचराचरम् (००१-००७)
अव्ययस्याप्रमेयस्य (००१-००७)
ब्रह्माण्डम् उदरे शयम् (००१-००७)
रुद्रः क्रोधोद्भवो यस्य (००१-००८)
प्रसादाच् च पितामहः (००१-००८)
तस्य देवस्य कः शक्तः (००१-००८)
प्रवक्तुं वा विभूतयः (००१-००८)
सो ऽहम् इच्छामि देवस्य (००१-००९)
तस्य सर्वात्मनः प्रभोः (००१-००९)
श्रोतुम् आराधनं येन (००१-००९)
निस्तरेयं भवार्णवम् (००१-००९)
केनोपायेन मन्त्रैर् वा (००१-०१०)
रहस्यैः परिचर्यया (००१-०१०)
दानैर् व्रतोपवासैर् वा (००१-०१०)
जप्यैर् होमैर् अथापि वा (००१-०१०)
आराधितः समस्तानां (००१-०११)
क्लेशानां हानिदो हरिः (००१-०११)
शक्यः समाराधयितुं (००१-०११)
तन् नः शंसत सत्तमाः (००१-०११)
विद्यानाम् अपि सा विद्या (००१-०१२)
श्रुतानाम् अपि तच् छ्रुतम् (००१-०१२)
रहस्यानां रहस्यं तद् (००१-०१२)
येन विष्णुः प्रसीदति (००१-०१२)
मन्त्राणां परमो मन्त्रो (००१-०१३)
व्रतानां तन् महाव्रतम् (००१-०१३)
उपोषितं हि तच् छ्रेष्ठं (००१-०१३)
येन तुष्यति केशवः (००१-०१३)
सा जिह्वा या हरिं स्तौति (००१-०१४)
तच् चित्तं यत् तदर्पणम् (००१-०१४)
ताव् एव केवलौ श्लाघ्यौ (००१-०१४)
यौ तत्पूजाकरौ करौ (००१-०१४)
सुजन्म देहम् अत्यन्तं (००१-०१५)
तद् एवाशेषजन्मसु (००१-०१५)
यद् एव पुलकोद्भासि (००१-०१५)
विष्णोर् नामाभिकीर्तनात् (००१-०१५)
सा हानिस् तन् महच् छिद्रं (००१-०१६)
सा चान्धजडमूकता (००१-०१६)
यन् मुहूर्तं क्षणं वापि (००१-०१६)
वासुदेवो न चिन्त्यते (००१-०१६)
नूनं तत् कण्ठशालूकम् (००१-०१७)
अथवा प्रतिजिह्विका (००१-०१७)
रोगो वान्यो न सा जिह्वा (००१-०१७)
या न वक्ति हरेर् गुणान् (००१-०१७)
सन्त्य् अनेका बिलास् तद्वच् (००१-०१८)
श्रोत्रम् अप्य् अल्पमेधसाम् (००१-०१८)
दत्त्वावधानं यच् छब्दे (००१-०१८)
विनैव हरिसंस्तुतिम् (००१-०१८)
धर्मार्थकामसंप्राप्तौ (००१-०१९)
पुरुषाणां विचेष्टितम् (००१-०१९)
जन्मन्य् अविफला सैका (००१-०१९)
या गोविन्दाश्रया क्रिया (००१-०१९)
दुर्गसंसारकान्तारम् (००१-०२०)
अपारम् अभिधावताम् (००१-०२०)
एकः कृष्णनमस्कारो (००१-०२०)
मुक्तितीरस्य देशिकः (००१-०२०)
सर्वरत्नमयो मेरुः (००१-०२१)
सर्वाश्चर्यमयं नभः (००१-०२१)
सर्वतीर्थमयी गङ्गा (००१-०२१)
सर्वदेवमयो हरिः (००१-०२१)
एवम् आदिगुणो भोगः (००१-०२२)
कृष्णस्याद्भुतकर्मणः (००१-०२२)
श्रुतो मे बहुशो सिद्धैः (००१-०२२)
गीयमानस् तथापरैः (००१-०२२)
सो ऽहम् इच्छामि तं देवं (००१-०२३)
सर्वलोकपरायणम् (००१-०२३)
नारायणम् अशेषस्य (००१-०२३)
जगतो हृद्य् अवस्थितम् (००१-०२३)
आराधयितुम् ईशानम् (००१-०२४)
अनन्तम् अमितौजसम् (००१-०२४)
शंकरं जगतः प्राणं (००१-०२४)
स्मृतमात्राघहारिणम् (००१-०२४)
तन् ममाद्य मुनिश्रेष्ठाः (००१-०२५)
प्रसादयितुम् इच्छतः (००१-०२५)
उपदेशप्रदानेन (००१-०२५)
प्रसादं कर्तुम् अर्हत (००१-०२५)
तस्यैतद् वचनं श्रुत्वा (००१-०२६)
भक्तिम् उद्वहतो हरेः (००१-०२६)
परितोषं परं जग्मुर् (००१-०२६)
मुनयः सर्व एव ते (००१-०२६)
सर्वे च ते मुनिश्रेष्ठा (००१-०२७)
भृगुश्रेष्ठं च शौनकम् (००१-०२७)
यथार्थं भगवंस् तस्मै (००१-०२७)
कथ्यताम् इत्य् अचोदयन् (००१-०२७)
सर्वज्ञाननिधिः स्फीतस् (००१-०२८)
त्वम् अत्र भृगुनन्दन (००१-०२८)
त्रैलोक्यसर्वसंदेह- (००१-०२८)
तमोदीपस् तपोधन (००१-०२८)
एवम् उक्तो मुनिवरैः (००१-०२९)
प्रीत्या तस्य च भूपतेः (००१-०२९)
भक्त्या च देवदेवस्य (००१-०२९)
प्रवणीकृतमानसः (००१-०२९)
कृत्वोत्तरीयपर्यङ्कं (००१-०३०)
शिथिलं भगवान् अथ (००१-०३०)
प्रत्युवाच महाभागः (००१-०३०)
शौनकस् तं महीपतिम् (००१-०३०)
यत् पृच्छसि महीपाल (००१-०३१)
कृष्णस्याराधनं प्रति (००१-०३१)
व्रतोपवासजप्यादि (००१-०३१)
तद् इहैकमनाः शृणु (००१-०३१)
अनादिमत् परं ब्रह्म (००१-०३२)
सर्वहेयविवर्जितम् (००१-०३२)
व्यापि यत् सर्वभूतेषु (००१-०३२)
स्थितं सदसतः परम् (००१-०३२)
प्रधानपुंसोर् अजयोर् (००१-०३३)
यतः क्षोभः प्रवर्तते (००१-०३३)
नित्ययोर् व्यापिनोश् चैव (००१-०३३)
जगदादौ महात्मनोः (००१-०३३)
तत्क्षोभकत्वाद् ब्रह्माण्ड- (००१-०३४)
सृष्टिहेतुर् निरञ्जनः (००१-०३४)
अहेतुर् अपि सर्वात्मनः (००१-०३४)
जायते परमेश्वरः (००१-०३४)
प्रधानपुरुषत्वं च (००१-०३५)
तथैवेश्वरलीलया (००१-०३५)
समुपैति ततश् चैव (००१-०३५)
ब्रह्मत्वं छन्दतः प्रभुः (००१-०३५)
ततः स्थितौ पालयिता (००१-०३६)
विष्णुत्वं जगतः क्षये (००१-०३६)
रुद्रत्वं च जगन्नाथः (००१-०३६)
स्वेच्छया कुरुते ऽव्ययः (००१-०३६)
तद् एकम् अक्षरं धाम (००१-०३७)
परं सदसतोर् महत् (००१-०३७)
भेदाभेदस्वरूपस्थं (००१-०३७)
प्रणिपत्य परं पदम् (००१-०३७)
प्रवक्ष्यामि यथा पूर्वं (००१-०३८)
मत्पित्रा कथितं मम (००१-०३८)
तस्यापि किल तत्पित्रा (००१-०३८)
तस्मै चाह किलोशनाः (००१-०३८)
तेनापि भृगुम् आराध्य (००१-०३९)
प्राप्तम् आराधनं हरेः (००१-०३९)
सकाशाद् ब्रह्मणः प्राप्तं (००१-०३९)
भृगुणापि महात्मना (००१-०३९)
मरीचिमिश्रैश् च पुरा (००१-०४०)
परम् एतन् महर्षिभिः (००१-०४०)
प्राप्तं सकाशाद् देवस्य (००१-०४०)
ब्रह्मणो व्यक्तजन्मनः (००१-०४०)
योगं ब्रह्मा परं प्राह (००१-०४१)
महर्षीणां यदा प्रभुः (००१-०४१)
समस्तवृत्तिसंरोधात् (००१-०४१)
कैवल्यप्रतिपादकम् (००१-०४१)
तदा जगत्पतिर् ब्रह्मा (००१-०४२)
प्रणिपत्य महर्षिभिः (००१-०४२)
सर्वैः किलोक्तो भगवान् (००१-०४२)
आत्मयोनिः प्रजाहितम् (००१-०४२)
यो योगो भवता प्रोक्तो (००१-०४३)
मनोवृत्तिनिरोधजः (००१-०४३)
प्राप्तुं शक्यः स त्व् अनेकैः (००१-०४३)
जन्मभिर् जगतः पते (००१-०४३)
विषया दुर्जया नॄणाम् (००१-०४४)
इन्द्रियाकर्षणाः प्रभो (००१-०४४)
वृत्तयश् चेतसश् चापि (००१-०४४)
चपला चातिदुर्धराः (००१-०४४)
रागादयः कथं जेतुं (००१-०४५)
शक्या वर्षशतैर् अपि (००१-०४५)
न योगयोग्यं हि मनो (००१-०४५)
भवत्य् एभिर् अनिर्जितैः (००१-०४५)
अल्पायुषश् च पुरुषा (००१-०४६)
ब्रह्मन् कृतयुगे ऽप्य् अमी (००१-०४६)
त्रेतायां द्वापरे चैव (००१-०४६)
किमु प्राप्ते कलौ युगे (००१-०४६)
भगवंस् त्वम् उपायज्ञः (००१-०४७)
प्रसन्नो वक्तुम् अर्हसि (००१-०४७)
अनायासेन येनेमम् (००१-०४७)
उत्तरेम भवार्णवम् (००१-०४७)
दुःखाम्बुमग्नाः पुरुषाः (००१-०४८)
प्राप्य ब्रह्म महाप्लवम् (००१-०४८)
उत्तरेयुर् भवाम्भोधिं (००१-०४८)
तथा त्वम् अनुचिन्तय (००१-०४८)
एवम् उक्तस् तदा ब्रह्मा (००१-०४९)
क्रियायोगं महात्मनाम् (००१-०४९)
तेषाम् ऋषीणाम् आचष्ट (००१-०४९)
नराणां हितकाम्यया (००१-०४९)
आराधयत विश्वेशम् (००१-०५०)
नारायणम् अतन्द्रिताः (००१-०५०)
बाह्यालम्बनसापेक्षास् (००१-०५०)
तम् अजं जगतः पतिम् (००१-०५०)
इज्यापूजानमस्कार- (००१-०५१)
शुश्रूषाभिर् अहर्निशम् (००१-०५१)
व्रतोपवासैर् विविधैर् (००१-०५१)
ब्राह्मणानां च तर्पणैः (००१-०५१)
तैस् तैश् चाभिमतैः कामैर् (००१-०५२)
ये च चेतसि तुष्टिदाः (००१-०५२)
अपरिच्छेद्यमाहात्म्यम् (००१-०५२)
आराधयत केशवम् (००१-०५२)
तन्निष्ठास् तद्गतधियस् (००१-०५३)
तत्कर्माणस् तदाश्रयाः (००१-०५३)
तद्दृष्टयस् तन्मनसः (००१-०५३)
सर्वस्मिन् स इति स्थितः (००१-०५३)
समस्तान्य् अथ कर्माणि (००१-०५४)
तत्र सर्वात्मनात्मनि (००१-०५४)
संन्यस्यध्वं स वः कर्ता (००१-०५४)
समस्तावरणक्षयम् (००१-०५४)
एतत् तद् अक्षरं ब्रह्म (००१-०५५)
प्रधानपुरुषाव् उभौ (००१-०५५)
यतो यस्मिन् यथा चोभौ (००१-०५५)
सर्वव्यापिन्य् अवस्थितौ (००१-०५५)
परः पराणां परमः (००१-०५६)
स एकः पुरुषोत्तमः (००१-०५६)
यस्याभिन्नम् इदं सर्वम् (००१-०५६)
यच् चेङ्गं यच् च नेङ्गति (००१-०५६)
तम् आराध्य जगन्नाथं (००१-०५७)
मोक्षकारणम् अव्यक्तम् (००१-०५७)
अचिन्त्यम् अपरिग्रहम् (००१-०५७)
क्रियायोगेन मुच्यते (००१-०५७)
इति ते ब्रह्मणः श्रुत्वा (००१-०५८)
रहस्यम् ऋषिसत्तमाः (००१-०५८)
नराणाम् उपकाराय (००१-०५८)
योगशास्त्राणि चक्रिरे (००१-०५८)
क्रियायोगपराणीह (००१-०५८)
मुक्तिकार्याण्य् अनेकशः (००१-०५८)
आराध्यते जगन्नाथो (००१-०५९)
यदनुष्ठानतत्परैः (००१-०५९)
परमात्मा हृषीकेशः (००१-०५९)
सर्वेशः सर्वभावनः (००१-०५९)
तानि ते नृपशार्दूल (००१-०६०)
सर्वपापहराण्य् अहम् (००१-०६०)
वक्ष्यामि श्रूयताम् अन्यद् (००१-०६०)
रहस्यम् इदम् उत्तमम् (००१-०६०)
संसारार्णवमग्नानां (००१-०६१)
विषयाक्रान्तचेतसाम् (००१-०६१)
उत्तारम् इच्छतां तस्माद् (००१-०६१)
भृशं यन् नान्तरैर् अपि (००१-०६१)
विष्णुपोतं विना नान्यत् (००१-०६१)
किंचिद् अस्ति परायणम् (००१-०६१)
उत्तिष्ठंश् चिन्तय हरिं (००१-०६२)
व्रजंश् चिन्तय केशवम् (००१-०६२)
भुञ्जंश् चिन्तय गोविन्दम् (००१-०६२)
स्वपंश् चिन्तय माधवम् (००१-०६२)
एवम् एकाग्रचित्तस् त्वं (००१-०६३)
संश्रितो मधुसूदनम् (००१-०६३)
जन्ममृत्युजराग्राहं (००१-०६३)
संसाराम्भस् तरिष्यसि (००१-०६३)
अनन्तम् ईड्यं पुरुषं पुराणं (००१-०६४)
जगद्विधातारम् अजं जनित्र्यम् (००१-०६४)
समाश्रिता ये हरिम् ईशितारं (००१-०६४)
तेषां भवो नास्ति हि मुक्तिभाजाम् (००१-०६४)
श्रूयतां कुरुशार्दूल (००२-००१)
संवादो ऽयम् अनुत्तमः (००२-००१)
अम्बरीषस्य राजर्षेः (००२-००१)
सह देवेन चक्रिणा (००२-००१)
अम्बरीषो महीपालः (००२-००२)
पालयन्न् एव मेदिनीम् (००२-००२)
उद्विग्न एव द्वन्द्वान्तम् (००२-००२)
अभीप्सुः पुरुषर्षभः (००२-००२)
देवदेवात् स गोविन्दाद् (००२-००३)
अभीप्सुर् द्वन्द्वसंक्षयम् (००२-००३)
तपस् तेपे निराहारो (००२-००३)
गृणन् ब्रह्म सनातनम् (००२-००३)
तस्य कालेन महता (००२-००४)
भक्तिम् उद्वहतः पराम् (००२-००४)
तुतोष भगवान् विष्णुः (००२-००४)
सर्वलोकपतिः प्रभुः (००२-००४)
स रूपम् ऐन्द्रम् आस्थाय (००२-००५)
तम् उवाच महीपतिम् (००२-००५)
मेघगम्भीरनिर्घोषो (००२-००५)
वारणेन्द्रगतिस् तदा (००२-००५)
राजर्षे वद यत् कार्यं (००२-००६)
तव चेतस्य् अवस्थितम् (००२-००६)
वरदो ऽहम् अनुप्राप्तो (००२-००६)
वरं वरय सुव्रत (००२-००६)
एवम् उक्तस् ततो राजा (००२-००७)
विलोक्य च पुरंदरं (००२-००७)
प्रत्युवाचार्घ्यम् उद्यम्य (००२-००७)
स्वागतं ते ऽस्त्व् इति प्रभो (००२-००७)
नाहम् आराधयामि त्वां (००२-००८)
तव बद्धो ऽयम् अञ्जलिः (००२-००८)
वरार्थिनां त्वं वरदः (००२-००८)
प्रयच्छाभिमतान् वरान् (००२-००८)
वरार्थाय त्वयान्यैश् च (००२-००९)
क्रियते नृपते तपः (००२-००९)
स किम् अर्थं त्वम् अस्मत्तो (००२-००९)
न गृह्णास्य् अभिवांछितम् (००२-००९)
न वरार्थम् अयं यत्नस् (००२-०१०)
त्वत्तो देवपते मम (००२-०१०)
विष्णोर् आराधनार्थाय (००२-०१०)
विद्धि मां त्वं कृतोद्यमम् (००२-०१०)
अहं हि सर्वदेवानां (००२-०११)
त्रैलोक्यस्य तथेश्वरः (००२-०११)
पालयन्ति ममैवाज्ञाम् (००२-०११)
आदित्याद्याः सदा सुराः (००२-०११)
आदित्या वसवो रुद्रा (००२-०१२)
नासत्यौ मरुतां गणाः (००२-०१२)
प्रजानां पतयः साध्या (००२-०१२)
विश्वेदेवा महर्षयः (००२-०१२)
कुर्वन्त्य् एते ममैवाज्ञां (००२-०१३)
सिद्धगन्धर्वपन्नगाः (००२-०१३)
मत्तो हि को ऽन्यो वरदः (००२-०१३)
प्रतिगृह्णीष्व वाञ्छितम् (००२-०१३)
त्वम् इन्द्रः सत्यम् एवैतद् (००२-०१४)
देवस् त्रिभुवनेश्वरः (००२-०१४)
त्वयापि प्राप्तम् ऐश्वर्यं (००२-०१४)
यतस् तं तोषयाम्य् अहम् (००२-०१४)
त्रैलोक्यं तव देवेश (००२-०१५,*(१))
वशे यस्य महात्मनः (००२-०१५,*(१))
सप्तोदरे शया लोकास् (००२-०१५)
तम् ईशं तोषयाम्य् अहम् (००२-०१५)
यस्य त्वम् अमरैः सर्वैः (००२-०१६)
समवेताः सुरेश्वर (००२-०१६)
देहप्राप्तो ऽन्तरस्थो वै (००२-०१६)
तं नमामि जनार्दनम् (००२-०१६)
निमेषो ब्रह्मणो रात्रिर् (००२-०१७)
उन्मेषो यस्य वासरः (००२-०१७)
तम् ईड्यम् ईशम् अजरं (००२-०१७)
प्रणतो ऽस्मि जनार्दनम् (००२-०१७)
यो हर्ता जगतो देवः (००२-०१८)
कर्ता पालायिता च यः (००२-०१८)
त्रयस्यास्य च यो योनिस् (००२-०१८)
तं विष्णुं तोषयाम्य् अहम् (००२-०१८)
हिरण्यकशिपुः पूर्वं (००२-०१९)
हिरण्याक्षश् च ते रिपुः (००२-०१९)
तवानुकम्पया येन (००२-०१९)
हतौ दैत्यौ नतो ऽस्मि तम् (००२-०१९)
बलिनापहृतं शक्र (००२-०२०)
दत्तं येन पुरा तव (००२-०२०)
त्रैलोक्यराज्यं तं बद्ध्वा (००२-०२०)
तं नमामि जनार्दनम् (००२-०२०)
प्रसीद शक्र गच्छ त्वम् (००२-०२१)
अहम् अप्य् अत्र संस्थितः (००२-०२१)
तपस् तप्स्ये जगन्नाथं (००२-०२१)
द्रष्टुं नारायणं हरिम् (००२-०२१)
एवम् उक्तस् ततस् तेन (००२-०२२)
शक्ररूपी जनार्दनः (००२-०२२)
पुनर् अप्य् आह तं कोपात् (००२-०२२)
पार्थिवं तपसि स्थितम् (००२-०२२)
यदि मद्वचनाद् अद्य (००२-०२३)
न भवांस् त्यक्ष्यते तपः (००२-०२३)
वज्रं ते प्रहरिष्यामि (००२-०२३)
बुध्यस्वैतद् यदीच्छसि (००२-०२३)
नाप्य् अल्पम् अपराधं ते (००२-०२४)
करोमि त्रिदशेश्वर (००२-०२४)
तथापि वधयोग्यं मां (००२-०२४)
मन्यसे चेत् क्षिपायुधम् (००२-०२४)
श्रूयते किल गोविन्दे (००२-०२५)
भक्तिम् उद्वहतां नृणाम् (००२-०२५)
संसारार्णावभीतानां (००२-०२५)
त्रिदशाः परिपन्थिनः (००२-०२५)
तापसो ऽहं क्व निःसङ्गः (००२-०२६)
क्व च कोपस् तवेदृशः (००२-०२६)
विज्ञातम् एतद् गोविन्द- (००२-०२६)
भक्तिविघ्नोपपादितम् (००२-०२६)
भवन्ति बहवो विघ्ना (००२-०२७)
नरे श्रेयःपरायणे (००२-०२७)
गोविन्दभक्त्यभ्यधिकं (००२-०२७)
श्रेयश् चान्यन् न विद्यते (००२-०२७)
स त्वं प्रहर वा मा वा (००२-०२८)
मयि वज्रं पुरंदर (००२-०२८)
नाहम् उत्सृज्य गोविन्दम् (००२-०२८)
अन्यम् आराधयामि भोः (००२-०२८)
न चापि वज्रं वज्री वा (००२-०२९)
त्वं च नान्ये सुरासुराः (००२-०२९)
शक्ता निहन्तुम् ईशाने (००२-०२९)
हृदयस्थे जनार्दने (००२-०२९)
किं च नो बहुनोक्तेन (००२-०३०)
नाहं वक्ष्याम्य् अतः परं (००२-०३०)
यथेप्सितं कुरुष्व त्वं (००२-०३०)
करिष्ये ऽहम् अभीप्सितम् (००२-०३०)
एवम् उक्त्वा सुरपतिं (००२-०३१)
पार्थिवः स पुनस् तपः (००२-०३१)
चचार मौनम् आस्थाय (००२-०३१)
तेनातुष्यत केशवः (००२-०३१)
संदर्शयाम् आस ततः (००२-०३२)
स्वं वपुः कैटभार्दनः (००२-०३२)
चतुर्भुजम् उदाराङ्गं (००२-०३२)
शङ्खचक्रगदाधरम् (००२-०३२)
किरीटस्रग्धरं स्पष्टं (००२-०३३)
नीलोत्पलदलच्छविम् (००२-०३३)
ऐरावतश् च गरुडस् (००२-०३३)
तत्क्षणात् समदृश्यत (००२-०३३)
स च राजवरो देवं (००२-०३४)
पीतवाससम् अच्युतम् (००२-०३४)
विलोक्य भक्तिशिरसा (००२-०३४)
सहसैव महीं ययौ (००२-०३४)
प्रत्युवाच च भूपालः (००२-०३५)
प्रणिपत्य कृताञ्जलिः (००२-०३५)
रोमाञ्चिततनुः स्तोत्रम् (००२-०३५)
पद्मनाभं ततो ऽस्तुवत् (००२-०३५)
आदिदेव जयाजेय (००२-०३६)
जय सर्गादिकारक (००२-०३६)
जयास्पष्टप्रकाशाण्ड (००२-०३६)
बृहन्मूर्ते जयाक्षर (००२-०३६)
जय सर्वगताचिन्त्य (००२-०३७)
जय जन्मजरापह (००२-०३७)
जय व्यापिञ् जयाभेद (००२-०३७)
सर्वभूतेष्व् अवस्थित (००२-०३७)
जय यज्ञपते नाथ (००२-०३८)
हव्यकव्याशनाव्यय (००२-०३८)
जय विज्ञातसिद्धान्त (००२-०३८)
मायामोहक केशव (००२-०३८)
लोकस्थित्यर्थम् अनघ (००२-०३९)
वराह जय भूधर (००२-०३९)
नृसिंह जय देवारि- (००२-०३९)
वक्षःस्थलविदारण (००२-०३९)
देवानाम् अरिभीतानाम् (००२-०४०)
आर्तिनाशन वामन (००२-०४०)
जय क्रान्तसमस्तोर्वी- (००२-०४०)
नभःस्वर्लोकभावन (००२-०४०)
जितं ते जगताम् ईश (००२-*(२))
जितं ते सर्व सर्वद (००२-*(२))
जितं ते सर्वभूतेश (००२-०४१)
योगिध्येय नमो ऽस्तु ते (००२-०४१)
नमो ऽस्त्व् अव्यपदेश्याय (००२-०४२)
नमः सूक्ष्मस्वरूपिणे (००२-०४२)
नमस् त्रिमूर्तये तुभ्यं (००२-०४२)
विश्वमूर्ते नमो ऽस्तु ते (००२-०४२)
ब्रह्माद्यैश् चिन्त्यते रूपं (००२-०४३)
यत् तत् सदसतः परं (००२-०४३)
विशेषैर् अविशेष्याय (००२-०४३)
तस्मै तुभ्यं नमो नमः (००२-०४३)
पुरुषाख्यं ततो रूपं (००२-०४४)
निर्गुणं गुणभोक्तृ च (००२-०४४)
प्रकृतेः परतः सूक्ष्मं (००२-०४४)
तन् नमस्यामि ते हरे (००२-०४४)
अव्यक्तादिविशेषान्तम् (००२-०४५)
अतिसूक्ष्मतमं महत् (००२-०४५)
प्राकृतं तव तद् रूपं (००२-०४५)
तस्मै देव नमाम्य् अहम् (००२-०४५)
रूपैर् नानाविधैर् यश् च (००२-०४६)
तद्रूपान्तरगोचरम् (००२-०४६)
लीलया व्यवहारस् ते (००२-०४६)
तस्मै देवात्मने नमः (००२-०४६)
प्रसीद विष्णो गोविन्द (००२-०४७)
शङ्खचक्रगदाधर (००२-०४७)
धराधरारविन्दाक्ष (००२-०४७)
वासुदेव महेश्वर (००२-०४७)
इत्थं स्तुतो जगन्नाथः (००२-०४८)
प्रोक्तवान् इति केशवः (००२-०४८)
अम्बरीषं पृथिवीशं (००२-०४८)
जगत् संनादयन् गिरा (००२-०४८)
अम्बरीष प्रसन्नो ऽस्मि (००२-०४९)
भक्त्या स्तोत्रेण चानघ (००२-०४९)
वरं वृणीष्व धर्मज्ञ (००२-०४९)
यत् ते मनसि वर्तते (००२-०४९)
एष एव वरः श्लाघ्यो (००२-०५०)
यद् दृष्टो ऽसि जगत्पते (००२-०५०)
त्वद्दर्शनम् अपुण्यानां (००२-०५०)
स्वप्नेष्व् अपि हि दुर्लभम् (००२-०५०)
बाल्यात् प्रभृति या देव (००२-०५१)
त्वयि भक्तिर् ममाच्युत (००२-०५१)
वेत्ति तां भगवान् एव (००२-०५१)
हृदिस्थः सर्वदेहिनाम् (००२-०५१)
त्वत्प्रसादान् ममेशान (००२-०५२)
राज्यम् अव्याहतं भुवि (००२-०५२)
कोशदण्डौ तथातीव (००२-०५२)
शरीरारोग्यम् उत्तमम् (००२-०५२)
स्त्रियो ऽन्नपानसामर्थ्या (००२-०५३)
हानिः स्वल्पापि नास्ति मे (००२-०५३)
बलं नागसहस्रस्य (००२-०५३)
धारयाम्य् अरिसूदन (००२-०५३)
संततिर् निभृता भृत्या (००२-०५४)
सानुरागाश् च मे जनाः (००२-०५४)
धर्महानिश् च देवेश (००२-०५४)
न हि मे पालने भुवः (००२-०५४)
यद् यद् इच्छाम्य् अहं तत् तत् (००२-०५५)
सर्वम् अस्ति जगत्पते (००२-०५५)
एतेनैवानुमानेन (००२-०५५)
प्रसन्नो भगवान् इति (००२-०५५)
ज्ञातं मया हि गोविन्दे (००२-०५६)
नाप्रसन्ने विभूतयः (००२-०५६)
एवं सर्वसुखाह्लाद- (००२-०५६)
मध्यस्थो ऽपि च केशव (००२-०५६)
पुनरावृत्तिदुःखानां (००२-०५७)
त्रासाद् उद्विग्नमानसः (००२-०५७)
मयि प्रसादाभिमुखं (००२-०५७)
मनस् ते यदि केशव (००२-०५७)
तन् माम् अगाधे संसारे (००२-०५७)
मग्नम् उद्धर्तुम् अर्हसि (००२-०५७)
सुखानि तानि नैवान्ते (००२-०५८)
येषां दुःखं न तत् सुखम् (००२-०५८)
यद् अन्ते दुःखम् आगामि (००२-०५८)
किंपाकस्यैव भक्षणम् (००२-०५८)
स प्रसादं कुरु गुरो (००२-०५९)
जगताम् त्वं जनार्दन (००२-०५९)
ज्ञानदानेन येनेमां (००२-०५९)
वागुरान् निस्तरेमहि (००२-०५९)
इत्य् उक्तस् तस्य गोविन्दः (००२-०६०)
कथयाम् आस योगवित् (००२-०६०)
योगं निर्बीजम् अत्यन्त- (००२-०६०)
दुःखसंयोगभेषजम् (००२-०६०)
उपदिष्टे ततो योगे (००२-०६१)
प्रणिपत्याच्युतं नृपः (००२-०६१)
पुनः प्राह महाबाहुर् (००२-०६१)
विनयावनतः स्थितः (००२-०६१)
देवदेव त्वया योगो (००२-०६२)
यः प्रोक्तो मधुसूदन (००२-०६२)
नैष प्राप्यो मया नान्यैर् (००२-०६२)
मानवैर् अजितेन्द्रियैः (००२-०६२)
विषया दुर्जयाः पुंभिर् (००२-०६३)
इन्द्रियाकर्षिणः सदा (००२-०६३)
इन्द्रियाणां जयं तेषु (००२-०६३)
कः शक्तानां करिष्यति (००२-०६३)
अहं ममेति चाख्याति (००२-०६४)
दुर्जयं चञ्चलं मनः (००२-०६४)
रागादयः कथं जेतुं (००२-०६४)
शक्या जन्मान्तरैर् अपि (००२-०६४)
सो ऽहम् इच्छामि देवेश (००२-०६५)
त्वत्प्रसादाद् अनिर्जितैः (००२-०६५)
रागादिभिर् अमर्त्यत्वं (००२-०६५)
प्राप्तुं प्रक्षीणकल्मषः (००२-०६५)
यद्य् एवं मुक्तिकामस् त्वं (००२-०६६)
नरनाथ शृणुष्व तत् (००२-०६६)
क्रियायोगं समस्तानां (००२-०६६)
क्लेशानां हानिकारकम् (००२-०६६)
मन्मना भव मद्भक्तो (००२-०६७)
मद्याजी मां नमस्कुरु (००२-०६७)
माम् एवैष्यसि युक्त्वैवम् (००२-०६७)
आत्मानं मत्परायणः (००२-०६७)
मद्भावना मद्यजना (००२-०६८)
मद्भक्ता मत्परायणाः (००२-०६८)
मम पूजापराश् चैव (००२-०६८)
मयि यान्ति लयं नराः (००२-०६८)
सर्वभूतेषु मां पश्य (००२-०६९)
समवस्थितम् ईश्वरम् (००२-०६९)
कर्तासि केन वैरत्वं (००२-०६९)
एवं दोषान् प्रहास्यसि (००२-०६९)
जङ्गमाजङ्गमे ज्ञाते (००२-०७०)
मय्य् आत्मनि तथा तव (००२-०७०)
रागलोभादिनाशेन (००२-०७०)
भवित्री कृतकृत्यता (००२-०७०)
भक्त्यातिप्रवणस्यापि (००२-०७१)
चञ्चलत्वान् मनो यदि (००२-०७१)
मय्य् अनासादवद् भूप (००२-०७१)
कुरु मद्रूपिणीं तनुम् (००२-०७१)
सुवर्णरजताद्यैस् त्वं (००२-०७२)
शैलमृद्दारुलेखजाम् (००२-०७२)
पूजामहर्हैर् विविधैः (००२-०७२)
संपूजय च पार्थिव (००२-०७२)
तस्यां चित्तं समावेश्य (००२-०७३)
त्याजयान्यान् व्यपाश्रयान् (००२-०७३)
पूजिता सैव ते भक्त्या (००२-०७३)
ध्याता चैवोपकारिणी (००२-०७३)
गच्छंस् तिष्ठन् स्वपन् भुञ्जंस् (००२-०७४)
ताम् एवाग्रे च पृष्ठतः (००२-०७४)
उपर्य् अधस् तथा पार्श्वे (००२-०७४)
चिन्तयान्तस् तथात्मनः (००२-०७४)
स्नानैस् तीर्थोदकैर् हृद्यैः (००२-०७५)
पुष्पगन्धानुलेपनैः (००२-०७५)
वासोभिर् भूषणैर् भक्ष्यैर् (००२-०७५)
गीतवाद्यैर् मनोहरैः (००२-०७५)
यच् च यच् च नृपेष्टं ते (००२-०७६)
किंचिद् भोज्यादि तेन ताम् (००२-०७६)
भक्तिनम्रो नरश्रेष्ठ (००२-०७६)
प्रीणयार्चां कृतां मम (००२-०७६)
रागेणाकृष्यते चेतो (००२-०७७)
गन्धर्वाभिमुखं यदि (००२-०७७)
मयि बुद्धिं समावेश्य (००२-०७७)
गायेथा मम तां कथाम् (००२-०७७)
कथायां रमते चेतो (००२-०७८)
यदि तत्भावना मम (००२-०७८)
श्रोतव्या प्रीतियुक्तेन (००२-०७८)
अवतारेषु या कथा (००२-०७८)
एवं मय्य् अर्पितमनाश् (००२-०७९)
चेतसो ये व्यपाश्रयाः (००२-०७९)
हेयास् तान् अखिलान् भूप (००२-०७९)
परित्यक्ष्यस्य् अभीर् भव (००२-०७९)
अक्षीणरागदोषो ऽपि (००२-०८०)
मत्क्रिया परमः परम् (००२-०८०)
पदम् आप्स्यसि मा भैस् त्वं (००२-०८०)
मय्य् अर्पितमना भव (००२-०८०)
मयि संन्यस्य सर्वं त्वम् (००२-०८१)
आत्मानं यत् तवास्ति च (००२-०८१)
मदर्थं कुरु कर्माणि (००२-०८१)
मा च धर्मव्यतिक्रमम् (००२-०८१)
राज्यं कुरु नरश्रेष्ठ (००२-०८२)
निवेद्य पृथिवीं मम (००२-०८२)
तद्व्याघातपरा ये च (००२-०८२)
जहि तान् अवनीपते (००२-०८२)
एतेनैवोपदेशेन (००२-०८३)
व्याख्यातम् अखिलं तव (००२-०८३)
क्रियायोगं समास्थाय (००२-०८३)
मय्य् अर्पितमना भव (००२-०८३)
मद्धिताय जगन्नाथ (००२-०८४)
क्रियायोगाश्रितं मम (००२-०८४)
विस्तरेणेदम् आख्याहि (००२-०८४)
प्रसन्नस् त्वं हि दुःखहा (००२-०८४)
त्वाम् ऋतेन हि नो वक्तुं (००२-०८५)
समर्थो ऽन्यो जगद्गुरो (००२-०८५)
गुह्यम् एतत् पवित्रं च (००२-०८५)
तद् आचक्ष्य प्रसीद मे (००२-०८५)
आख्यास्यत्य् एतद् अखिलं (००२-०८६)
वसिष्ठस् ते पुरोहितः (००२-०८६)
मत्प्रसादाद् अविकलं (००२-०८६)
स च वेत्स्यत्य् अशेषतः (००२-०८६)
इत्य् उक्त्वान्तर्दधे देवः (००२-०८७)
सर्वलोकेश्वरो हरिः (००२-०८७)
स च राजा वनाद् भूयो (००२-०८७)
निजम् अभ्यागमत् पुरम् (००२-०८७)
राज्यस्थस् तु महीपालः (००३-००१)
प्रणिपत्य पुरोहितम् (००३-००१)
वसिष्ठं परिपप्रच्छ (००३-००१)
विष्णोर् आराधनं प्रति (००३-००१)
देवदेवेन भगवन्न् (००३-००२)
आदिष्टो ऽसि महात्मना (००३-००२)
क्रियायोगाश्रितं सर्वं (००३-००२)
व्याख्यास्यति भवान् किल (००३-००२)
स त्वां पृच्छाम्य् अहं सर्वं (००३-००३)
क्रियायोगेन केशवम् (००३-००३)
संतोषयितुम् ईशानं (००३-००३)
यथा शक्ष्यामि तद् वद (००३-००३)
देवप्रसादाद् अखिला (००३-००४)
ममापि स्मृतिर् आगता (००३-००४)
ज्ञानम् एतद् अशेषं ते (००३-००४)
कथयामि निबोध तत् (००३-००४)
भक्तिमान् अभवद् दैत्यो (००३-००५)
हिरण्यकशिपोः सुतः (००३-००५)
नारायणे महाप्रज्ञः (००३-००५)
सर्वलोकपरायणे (००३-००५)
स पप्रच्छ भृगुश्रेष्ठं (००३-००५)
शुक्रम् आत्मपुरोहितम् (००३-००५)
भगवन् नृसिंहरूपस्य (००३-००६)
विष्णोस् तातं जिघांसतः (००३-००६)
दृष्टं देहे मया सर्वं (००३-००६)
त्रैलोक्यं भूर्भुवादिकम् (००३-००६)
ब्रह्मा प्रजापतिश् चेन्द्रो (००३-००७)
रुद्रैः पशुपतिः सह (००३-००७)
वसवो ऽष्टौ तथादित्या (००३-००७)
द्वादशाहःक्षपा मही (००३-००७)
दिशो नभस् तारकौघं (००३-००८)
नक्षत्रग्रहसंकुलम् (००३-००८)
अश्विनौ मरुतः साध्या (००३-००८)
विश्वेदेवास् तथ र्षयः (००३-००८)
वर्षाचलास् तथा नद्यः (००३-००९)
सप्त सप्त कुलाचलाः (००३-००९)
समुद्राः सप्त ऋतवः (००३-००९)
कान्ताराणि वनानि च (००३-००९)
नगरग्रामतरुभिः (००३-००९)
समावेतं च भूतलम् (००३-००९)
एतच् चान्यच् च यत् किंचिद् (००३-०१०)
देवर्षिपितृमानवम् (००३-०१०)
सतिर्यगूर्ध्वपातालं (००३-०१०)
तस्य दृष्टं तनौ मया (००३-०१०)
सो ऽहं तम् अजरं देवं (००३-०११)
दुष्टदैत्यनिवर्हणम् (००३-०११)
आराधयितुम् इच्छामि (००३-०११)
भगवंस् त्वदनुज्ञया (००३-०११)
अनुग्राह्यो ऽस्मि यदि ते (००३-०१२)
ममायं भक्तिमान् इति (००३-०१२)
तन् ममोपदिशाद्य त्वं (००३-०१२)
महद् आराधनं हरेः (००३-०१२)
अनुग्राह्यो ऽसि देवस्य (००३-०१३)
नूनम् अव्यक्तजन्मनः (००३-०१३)
आराधनाय दैत्येन्द्र (००३-०१३)
यत् ते तत्प्रवणं मनः (००३-०१३)
यदि देवपतिं विष्णुम् (००३-०१४)
आराधयितुम् इच्छसि (००३-०१४)
भगवन्तम् अनाद्यन्तं (००३-०१४)
भव भागवतो ऽसुर (००३-०१४)
न ह्य् अभागवतैर् विष्णुर् (००३-०१५)
ज्ञातुं स्तोतुं च तत्त्वतः (००३-०१५)
द्रष्टुं वा शक्यते मर्त्यैः (००३-०१५)
प्रवेष्टुं कुत एव हि (००३-०१५)
जन्मभिर् बहुभिः पूता (००३-०१६)
नरास् तद्गतचेतसः (००३-०१६)
भवन्ति वै भागवतास् (००३-०१६)
ते विष्णुं प्रविशन्ति च (००३-०१६)
अनेकजन्मसंसार- (००३-०१७)
चिते पापसमुच्चये (००३-०१७)
नाक्षीणे जायते पुंसां (००३-०१७)
गोविन्दाभिमुखी मतिः (००३-०१७)
प्रद्वेषं याति गोविन्दे (००३-०१८)
द्विजान् वेदांश् च निन्दति (००३-०१८)
यो नरस् तं विजानीयाद् (००३-०१८)
असुरांशसमुद्भवम् (००३-०१८)
पाषण्डेषु रतिः पुंसां (००३-०१९)
हेतुवादानुकूलता (००३-०१९)
जायते विष्णुमायाम्भः- (००३-०१९)
पतितानां दुरात्मनाम् (००३-०१९)
यदा पापक्षयः पुंसां (००३-०२०)
तदा वेदद्विजातिषु (००३-०२०)
विष्णौ च यज्ञपुरुषे (००३-०२०)
श्रद्धा भवति ते यथा (००३-०२०)
यदा स्वल्पावशेषस् तु (००३-०२१)
नराणां पापसंचयः (००३-०२१)
भवन्ति ते भागवतास् (००३-०२१)
तदा दैत्यपते नराः (००३-०२१)
भ्राम्यताम् अत्र संसारे (००३-०२२)
नराणां कर्मदुर्गमे (००३-०२२)
हस्तावलम्बदो ह्य् एको (००३-०२२)
भक्तिप्रीतो जनार्दनः (००३-०२२)
स त्वं भागवतो भूत्वा (००३-०२३)
सर्वपापहरं हरिम् (००३-०२३)
आराधय परं भक्त्या (००३-०२३)
प्रीतिम् एष्यति केशवः (००३-०२३)
किंलक्षणा भागवता (००३-०२४)
भवन्ति पुरुषा गुरो (००३-०२४)
यच् च भागवतैः कार्यं (००३-०२४)
तन् मे कथय भार्गव (००३-०२४)
कर्मणा मनसा वाचा (००३-०२५)
प्राणिनां यो न हिंसकः (००३-०२५)
भावभक्तश् च गोविन्दे (००३-०२५)
दैत्य भागवतो हि सः (००३-०२५)
यो ब्राह्मणांश् च वेदांश् च (००३-०२६)
नित्यम् एन्वानुमंस्यति (००३-०२६)
न च द्रोग्धा परं वादे (००३-०२६)
दैत्य भागवतो हि सः (००३-०२६)
सर्वान् देवान् हरिं वेत्ति (००३-०२७)
सर्वलोकांश् च केशवम् (००३-०२७)
तेभ्यश् च नान्यम् आत्मानं (००३-०२७)
दैत्य भागवतो हि सः (००३-०२७)
देवं मनुष्यम् अन्यं वा (००३-०२८)
पशुपक्षिपिपीलिकान् (००३-०२८)
तरुपाषाणकष्ठादि (००३-०२८)
भूम्यम्भोगगनं दिशः (००३-०२८)
आत्मानं वापि देवेशान् (००३-०२९)
नातिरिक्तं जनार्दनात् (००३-०२९)
यो भजेत विजानीष्व (००३-०२९)
तं वै भागवतं नरम् (००३-०२९)
सर्वं भगवतो भावो (००३-०३०)
यद् भूतं भवसंस्थितम् (००३-०३०)
इति यो वै विजानाति (००३-०३०)
स तु भागवतो नरः (००३-०३०)
भवभीतिं हरत्य् एष (००३-०३१)
भक्तिभावेन भावितः (००३-०३१)
भगवान् इति भावो यः (००३-०३१)
स तु भागवतो नरः (००३-०३१)
भावं न कुरुते यस् तु (००३-०३२)
सर्वभूतेषु पापकम् (००३-०३२)
कर्मणा मनसा वाचा (००३-०३२)
स तु भागवतो नरः (००३-०३२)
बाह्यार्थनिरपेक्षो यो (००३-०३३)
भक्तो भगवतः क्रियाम् (००३-०३३)
भावेन निष्पादयति (००३-०३३)
ज्ञेयो भागवतस् तु सः (००३-०३३)
नारयो यस्य न स्निग्धा (००३-०३४)
न चोदासी न वृत्तयः (००३-०३४)
पश्यतः सर्वम् एवेदं (००३-०३४)
विष्णुं भागवतो हि सः (००३-०३४)
सुतप्तेनेह तपसा (००३-०३५)
यज्ञैर् वा बहुदक्षिणैः (००३-०३५)
तां गतिं न नरा यान्ति (००३-०३५)
यां वै भागवता गताः (००३-०३५)
योगच्युतैर् भागवतैर् (००३-०३६)
देवराजः शतक्रतुः (००३-०३६)
अर्वाङ् निरीक्ष्यते यज्ञी (००३-०३६)
किमु ये योगपारगाः (००३-०३६)
यज्ञनिष्पत्तये वेदा (००३-०३७)
यज्ञो यज्ञपतेः कृते (००३-०३७)
तत्तोषणाय भावेन (००३-०३७)
तस्माद् भागवतो भव (००३-०३७)
येन सर्वात्मना विष्णौ (००३-०३८)
भक्त्या भावो निवेशितः (००३-०३८)
दैत्येश्वर कृतार्थत्वाच् (००३-०३८)
श्लाघ्यो भागवतो हि सः (००३-०३८)
अपि नः स कुले धन्यो (००३-०३९)
जायते कुलपावनः (००३-०३९)
भगवान् भक्तिभावेन (००३-०३९)
येन विष्णुर् उपासितः (००३-०३९)
यः कारयति देवार्चां (००३-०४०)
हृदयालम्बनं हरेः (००३-०४०)
स नरो विष्णुसालोक्यम् (००३-०४०)
उपैति धूतकल्मषः (००३-०४०)
यश् च देवालयं भक्त्या (००३-०४१)
विष्णोः कारयति स्वयम् (००३-०४१)
स सप्तपुरुषांल् लोकान् (००३-०४१)
विष्णोर् नयति मानवः (००३-०४१)
यावन्त्य् अब्दानि देवार्चा (००३-०४२)
हरेस् तिष्ठति मन्दिरे (००३-०४२)
तावद्वर्षसहस्राणि (००३-०४२)
विष्णुलोके स मोदते (००३-०४२)
देवार्चा लक्षणोपेता (००३-०४३)
तद्गृहं सततं दिवि (००३-०४३)
निष्कामं च मनो यस्य (००३-०४३)
स यात्य् अक्षरसात्म्यताम् (००३-०४३)
पुष्पाण्य् अतिसुगन्धीनि (००३-०४४)
मनोज्ञानि च यः पुमान् (००३-०४४)
प्रयच्छति हृषीकेशे (००३-०४४)
तद्भावगतमानसः (००३-०४४)
धूपांश् च विविधांस् तांस् तान् (००३-०४५)
गन्धाढ्यं चानुलेपनम् (००३-०४५)
दीपावल्युपहारांश् च (००३-०४५)
यच् चाभीष्टम् अथात्मनः (००३-०४५)
नरः सो ऽनुदिनं यज्ञं (००३-०४६)
करोत्य् आराधनं हरेः (००३-०४६)
यज्ञेशो भगवान् विष्णुर् (००३-०४६)
मखैर् अपि हि तोष्यते (००३-०४६)
बहूपकरणा यज्ञा (००३-०४७)
नानासंभारविस्तराः (००३-०४७)
प्राप्यन्ते ते धनयुतैर् (००३-०४७)
मनुष्यैर् नाल्पसंचयैः (००३-०४७)
भक्त्या च पुरुषैः पूजा (००३-०४८)
कृता दूर्वाङ्कुरैर् अपि (००३-०४८)
हरेर् ददाति हि फलं (००३-०४८)
सर्वयज्ञैः सुदुर्लभम् (००३-०४८)
यानि पुष्पाणि हृद्यानि (००३-०४९)
धूपगन्धानुलेपनम् (००३-०४९)
दयितं भूषणं यच् च (००३-०४९)
ये च कौशेयवाससी (००३-०४९)
यानि चाभ्यवहाराणि (००३-०५०)
भक्ष्याणि च फलानि च (००३-०५०)
प्रयच्छ तानि गोविन्दे (००३-०५०)
भवेथाश् चैव तन्मनाः (००३-०५०)
आद्यन्तं यज्ञपुरुषं (००३-०५१)
यथाशक्त्या प्रसादय (००३-०५१)
आराध्य याति तं देवं (००३-०५१)
तस्मिन्न् एव नरो लयम् (००३-०५१)
पुण्यैस् तीर्थोदकैर् गन्धैर् (००३-०५२)
मधुना सर्पिषा तथा (००३-०५२)
क्षीरेण स्नापयेद् ईशम् (००३-०५२)
अच्युतं जगतः पतिम् (००३-०५२)
दधिक्षीरह्रदान् पुण्यांस् (००३-०५३)
ततो लोकान् मधुच्युतः (००३-०५३)
प्रयास्यस्य् असुरश्रेष्ठ (००३-०५३)
निर्वृतिं चापि शाश्वतीम् (००३-०५३)
स्तोत्रैर् गीतैस् तथा वाद्यैर् (००३-०५४)
ब्राह्मणानां च तर्पणैः (००३-०५४)
मनसश् चैकतायोगाद् (००३-०५४)
आराधय जनार्दनम् (००३-०५४)
आराध्य तं विदेहानां (००३-०५५)
पुरुषाः सप्तसप्ततिः (००३-०५५)
हैहयाः पञ्चपञ्चाशद् (००३-०५५)
अमृतत्वम् उपागताः (००३-०५५)
स त्वम् एभिः प्रकारैस् तम् (००३-०५६)
उपवासैश् च केशवम् (००३-०५६)
तोषयाद्यो हि तुष्टो ऽसौ (००३-०५६)
विष्णुर् द्वन्द्वप्रशान्तिदः (००३-०५६)
उपवासैर् हृषीकेशः (००४-००१)
कथं तुष्यति भार्गव (००४-००१)
परिहारांस् तथाचक्ष्व (००४-००१)
ये त्याज्याश् चोपवासिनाम् (००४-००१)
यद् यत् कार्यं यथा चैव (००४-००२)
केशवाराधने नरैः (००४-००२)
तत् सर्वं विस्तराद् ब्रह्मन् (००४-००२)
यथावद् वक्तुम् अर्हसि (००४-००२)
स्मृतः संपूजितो धूप- (००४-००३)
पुष्पाद्यैर् दयितैर् हरिः (००४-००३)
भोगिनाम् उपकाराय (००४-००३)
किं पुनश् चोपवासिनाम् (००४-००३)
उपावृत्तस् तु पापेभ्यो (००४-००४)
यस् तु वासो गुणैः सह (००४-००४)
उपवासः स विज्ञेयः (००४-००४)
सर्वभोगविवर्जितः (००४-००४)
एकरात्रं द्विरात्रं वा (००४-००५)
त्रिरात्रम् अथवापरम् (००४-००५)
उपवासी हरिं यस् तु (००४-००५)
भक्त्या ध्यायति मानवः (००४-००५)
तन्नामजापी तत्कर्म- (००४-००६)
रतिस् तद्गतमानसः (००४-००६)
निष्कामो दैत्य स ब्रह्म (००४-००६)
परम् आप्नोत्य् असंशयम् (००४-००६)
यं च कामम् अभिध्यायन् (००४-००७)
केशवार्पितमानसः (००४-००७)
उपोष्यति तम् आप्नोति (००४-००७)
प्रसन्ने गरुडध्वजे (००४-००७)
कथ्यते च पुरा विप्रः (००४-००८)
पुलस्त्यो ब्रह्मवादिना (००४-००८)
दाल्भ्येन पृष्टो ऽकथयद् (००४-००८)
यथैतद् अरिसूदन (००४-००८)
ब्राह्मणैः क्षत्रियैर् वैश्यैः (००४-००९)
शूद्रैः स्त्रीभिस् तथा मुने (००४-००९)
संसारगर्तपङ्कस्थैः (००४-००९)
सुगतिः प्राप्यते कथम् (००४-००९)
अनाराध्य जगन्नाथं (००४-०१०)
सर्वधातारम् अच्युतम् (००४-०१०)
निर्व्यलीकेन चित्तेन (००४-०१०)
कः प्रयास्यति सद्गतिम् (००४-०१०)
विषयग्राहि वै यस्य (००४-०११)
न चित्तं केशवार्पितम् (००४-०११)
स कथं पापपङ्काङ्की (००४-०११)
नरो यास्यति सद्गतिम् (००४-०११)
यदि संसारदुःखार्तः (००४-०१२)
सुगतिं गन्तुम् इच्छसि (००४-०१२)
तदाराधय सर्वेशं (००४-०१२)
जगद्धातारम् अच्युतम् (००४-०१२)
पुष्पैः सुगन्धैर् हृद्यैश् च (००४-०१३)
धूपैः सागरुचन्दनैः (००४-०१३)
वासोभिर् भूषणैर् भक्ष्यैर् (००४-०१३)
उपवासपरायणः (००४-०१३)
यदि संसारनिर्वेदाद् (००४-०१४)
अभिवाञ्छसि सद्गतिम् (००४-०१४)
तदाराधय गोविन्दं (००४-०१४)
यच् चेष्टं तव चेतसि (००४-०१४)
पुष्पाणि यदि ते न स्युः (००४-०१५)
शस्तं पादपपल्लवैः (००४-०१५)
दूर्वाङ्कुरैर् अपि ब्रह्मंस् (००४-०१५)
तदभावे ऽर्चयाच्युतम् (००४-०१५)
सुगन्धिपुष्पदीपाद्यैर् (००४-*(३))
यः कुर्यात् केशवालये (००४-*(३))
सर्वतीर्थफलं तस्य (००४-*(३))
संभवेत् केशवार्चया (००४-*(३))
सबाह्याभ्यन्तरं यस् तु (००४-*(३))
मार्जयेद् अच्युतालयम् (००४-*(३))
सबाह्याभ्यन्तरं तस्य (००४-*(३))
कायो निष्कल्मषो भवेत् (००४-*(३))
पुष्पपत्राम्बुभिर् धूपैर् (००४-०१६)
यथाविभवम् अच्युतः (००४-०१६)
पूजितस् तुष्टिम् अतुलां (००४-०१६)
भक्त्यायात्य् एकचेतसाम् (००४-०१६)
यः सदायतने विष्णोः (००४-०१७)
कुरुते मार्जनक्रियाम् (००४-०१७)
स पांसुभूमेर् देहाच् च (००४-०१७)
सर्वपापं व्यपोहति (००४-०१७)
यावन्त्यः पांसुकणिका (००४-०१८)
मार्ज्यन्ते केशवालये (००४-०१८)
दिनानि दिवि तावन्ति (००४-०१८)
तिष्ठत्य् अस्तमलो नरः (००४-०१८)
अहन्य् अहनि यत् पापं (००४-०१९)
कुरुते द्विजसत्तम (००४-०१९)
गोचर्ममात्रं संमार्ज्य (००४-०१९)
हन्ति तत् केशवालये (००४-०१९)
यश् चोपलेपनं कुर्याद् (००४-०२०)
विष्णोर् आयतने नरः (००४-०२०)
सो ऽपि लोकं समासाद्य (००४-०२०)
मोदते च शतक्रतोः (००४-०२०)
मृदा धातुविकारैर् वा (००४-०२१)
वर्णकैर् गोमयेन वा (००४-०२१)
उपलेपनकृद् याति (००४-०२१)
विमानं मणिचित्रितम् (००४-०२१)
उदकाभ्युक्षणं विष्णोर् (००४-०२२)
यः करोति तथा गृहे (००४-०२२)
सो ऽपि गच्छति यत्रास्ते (००४-०२२)
भगवान् यादसां पतिः (००४-०२२)
पुष्पप्रकरम् अत्यर्थं (००४-०२३)
सुगन्धं केशवालये (००४-०२३)
उपलिप्ते नरो दत्त्वा (००४-०२३)
न दुर्गतिम् अवाप्नुयात् (००४-०२३)
विमानम् अतिविद्योति (००४-०२४)
सर्वरत्नमयं दिवि (००४-०२४)
समाप्नोति नरो दत्त्वा (००४-०२४)
दीपकं केशवालये (००४-०२४)
यस् तु संवत्सरं पूर्णं (००४-०२५)
तिलपात्रप्रदो नरः (००४-०२५)
ध्वजं तु विष्णवे दद्यात् (००४-०२५)
समम् एतत् फलं द्विज (००४-०२५)
विधुन्वन् हन्ति वातेन (००४-०२६)
दातुर् अज्ञानतः कृतम् (००४-०२६)
पापं केतुर् गृहे विष्णोर् (००४-०२६)
दिवारात्रम् असंशयम् (००४-०२६)
गीतवाद्यादिभिर् देवं (००४-०२७)
य उपास्ते जनार्दनम् (००४-०२७)
गान्धर्वैर् गीतनृत्यैः स (००४-०२७)
विमानस्थो निषेव्यते (००४-०२७)
जातिस्मरत्वं मेधां च (००४-०२८)
तथैवोपरमे स्मृतिम् (००४-०२८)
प्राप्नोति विष्ण्वायतने (००४-०२८)
पुण्याख्यानकथाकरः (००४-०२८)
उपोषितः पूजितो वा (००४-*(४))
दृष्टो वा नमितो ऽपि वा (००४-*(४))
प्रदम्भ हरते (?) पापं (००४-*(४))
को न सेवेद् धरिं ततः (००४-*(४))
वेदवादक्रियायज्ञ- (००४-*(४))
स्नानतीर्थफलं परम् (००४-*(४))
अष्टाङ्गप्रणिपातेन (००४-*(४))
प्रणिपत्य हरिं लभेत् (००४-*(४))
प्रगम्य हृदा शिरसा (००४-*(४))
पादपद्मे महीतले (००४-*(४))
निष्कल्मषो भवेत् सद्यो (००४-*(४))
न नाटी पादपांसुना (००४-*(४))
एकस्य कृष्णस्य क्राजतः प्रणामो (००४-*(४))
दशाश्वमेधावभृथेन तुल्यः (००४-*(४))
दशाश्वमेधैः पुनर् एति जन्म (००४-*(४))
कृष्णप्रणामी न पुनर्भवाय (००४-*(४))
एवं देवेश्वरो भक्त्या (००४-०२९)
येन विष्णुर् उपासितः (००४-०२९)
स प्राप्नोति गतिं श्लाघ्यां (००४-०२९)
यां याम् इच्छति चेतसा (००४-०२९)
देवत्वं मनुजैः कैश्चिद् (००४-०३०)
गन्धर्वत्वं तथापरैः (००४-०३०)
विद्याधरत्वम् अपरैर् (००४-०३०)
आराध्याप्तं जनार्दनम् (००४-०३०)
शक्रः क्रतुशतेनेशम् (००४-०३१)
आराध्य गरुडध्वजम् (००४-०३१)
देवेन्द्रत्वं गतस् तस्मान् (००४-०३१)
नान्यः पूज्यतमः क्वचित् (००४-०३१)
देवेभ्यो ऽपि हि पूज्यस् तु (००४-०३२)
स्वगुरुर् ब्रह्मचारिणः (००४-०३२)
तस्यापि यज्ञपुरुषो (००४-०३२)
विष्णुः पूज्यो द्विजोत्तम (००४-०३२)
स्त्रियश् च भर्तारम् ऋते (००४-०३३)
पूज्यम् अन्यन् न दैवतम् (००४-०३३)
भर्तुर् गृहस्थस्य सतः (००४-०३३)
पूज्यो यज्ञपतिर् हरिः (००४-०३३)
वैखानसानाम् आराध्यस् (००४-०३४)
तपोभिर् मधुसूदनः (००४-०३४)
ध्येयः परिव्राजकानां (००४-०३४)
वासुदेवो महात्मनाम् (००४-०३४)
एवं सर्वाश्रमाणां हि (००४-०३५)
वासुदेवः परायणम् (००४-०३५)
सर्वेषां चैव वर्णानां (००४-०३५)
तम् आराध्याप्नुयाद् गतिम् (००४-०३५)
शृणुष्व गदतः काम्याम् (००४-०३६)
उपवासांस् तथापरान् (००४-०३६)
तत् तम् आश्रित्य यान् कामान् (००४-०३६)
कुर्वीतेप्सितम् आत्मनः (००४-०३६)
एकादश्यां शुक्लपक्षे (००४-०३७)
फाल्गुने मासि यो नरः (००४-०३७)
जपेत् कृष्णेति देवस्य (००४-०३७)
नाम भक्त्या पुनःपुनः (००४-०३७)
देवार्चने चाष्टशतं (००४-०३८)
कृत्वैतत् तु जपेच् छुचिः (००४-०३८)
प्रातः प्रस्थानकाले च (००४-०३८)
उत्थाने स्खलिते क्षुते (००४-०३८)
पाषण्डपतितांश् चैव (००४-०३९)
तथैवान्त्यावसायिनः (००४-०३९)
नालपेत तथा कृष्णम् (००४-०३९)
अर्चयेच् छ्रद्धयान्वितः (००४-०३९)
इदं चोदाहरेत् कृष्णे (००४-०३९)
मनः संधाय तत्परः (००४-०३९)
कृष्ण कृष्ण कृपालुस् त्वम् (००४-०४०)
अगतीनां गतिर् भव (००४-०४०)
संसारान्तर्निमग्नानां (००४-०४०)
प्रसीद मधुसूदन (००४-०४०)
एवं प्रसाद्योपावासं (००४-०४१)
कृत्वा नियतमानसः (००४-०४१)
पूर्वाह्न एव चान्येद्युर् (००४-०४१)
गव्यं संप्रास्य वै सकृत् (००४-०४१)
स्नातो ऽर्चयित्वा कृष्णेति (००४-०४१)
पुनर् नाम प्रकीर्तयेत् (००४-०४१)
वारिधारात्रयं चैव (००४-०४२)
विक्षिपेद् देवपादयोः (००४-०४२)
चैत्रवैशाखयोश् चैव (००४-०४२)
तद्वज् ज्येष्ठे तु पूजयेत् (००४-०४२)
मर्त्यलोके गतिं श्रेष्ठां (००४-०४३)
दाल्भ्य प्राप्नोति वै नरः (००४-०४३)
उत्क्रान्तिकाले कृष्णस्य (००४-०४३)
स्मरणं च तथाप्नुते (००४-०४३)
आषाढे श्रावणे चैव (००४-०४४)
मासे भाद्रपदे तथा (००४-०४४)
तथैवाश्वयुजे देवम् (००४-०४४)
अनेन विधिना नरः (००४-०४४)
उपोष्य संपूज्य तथा (००४-०४५)
केशवेति च कीर्तयेत् (००४-०४५)
गोमूत्रप्राशनात् पूर्वं (००४-०४५)
स्वर्गलोकगतिं व्रजेत् (००४-०४५)
आराधितस्य जगताम् (००४-०४६)
ईश्वरस्याव्यायात्मनः (००४-०४६)
उत्क्रान्तिकाले स्मरणं (००४-०४६)
केशवस्य तथाप्नुयात् (००४-०४६)
क्षीरस्य प्राशनं यस् तु (००४-०४७)
विधिं चेमं यथोदितम् (००४-०४७)
कार्त्तिकादि यथान्यायं (००४-०४७)
कुर्यान् मासचतुष्टयम् (००४-०४७)
तेनैव विधिना ब्रह्मन् (००४-०४८)
विष्णोर् नाम प्रकीर्तयेत् (००४-०४८)
स याति विष्णुसालोक्यं (००४-०४८)
विष्णुं स्मरति च क्षये (००४-०४८)
प्रतिमासं द्विजातिभ्यो (००४-०४९)
दद्याद् दानं यथेच्छया (००४-०४९)
चातुर्मास्ये च संपूर्णे (००४-०४९)
पुण्यं श्रवणकीर्तनम् (००४-०४९)
कथां वा वासुदेवस्य (००४-०५०)
तद्गीतीर् वापि कारयेत् (००४-०५०)
एवम् एतां गतिं श्रेष्ठां (००४-०५०)
देवनामानुकीर्तनात् (००४-०५०)
कथितं पारणं यत् ते (००४-०५१)
कार्ष्णं मासचतुष्टयम् (००४-०५१)
आधिपत्यं तथा भोगांस् (००४-०५१)
तेन प्राप्नोति मानुषान् (००४-०५१)
द्वितीयेन तथा भोगान् (००४-०५२)
ऐन्द्रान् प्राप्नोति मानवः (००४-०५२)
विष्णोर् लोकं तृतीयेन (००४-०५२)
पारणेन तथाप्नुयात् (००४-०५२)
एवम् एतत् समाख्यातं (००४-०५३)
गतिप्रापकम् उत्तमम् (००४-०५३)
विधानं द्विजशार्दूल (००४-०५३)
कृष्णतुष्टिप्रदं नृणाम् (००४-०५३)
सुगतिद्वादशीम् एतां (००४-०५४)
श्रद्दधानस् तु यो नरः (००४-०५४)
उपोष्य च तथा नारी (००४-०५४)
प्राप्नोति त्रिविधां गतिम् (००४-०५४)
एषा धन्या पापहरा (००४-०५५)
तिथिर् नित्यम् उपासिता (००४-०५५)
आराधनाय शिष्टैषा (००४-०५५)
देवदेवस्य चक्रिणः (००४-०५५)
पञ्चदश्यां च शुक्लस्य (००५-००१)
फाल्गुनस्यैव सत्तम (००५-००१)
पाषण्डपतितांश् चैव (००५-००१)
तथैवान्त्यावसायिनः (००५-००१)
नास्तिकान् भिन्नवृत्तींश् च (००५-००२)
पापिनश् चाप्य् अनालपन् (००५-००२)
नारायणे गतमनाः (००५-००२)
पुरुषो नियतेन्द्रियः (००५-००२)
तिष्ठन् व्रजन् प्रस्खलिते (००५-००३)
क्षुते वापि जनार्दनम् (००५-००३)
कीर्तयेत् तत्क्रियाकाले (००५-००३)
सप्तकृत्वः प्रकीर्तयेत् (००५-००३)
लक्ष्म्या समन्वितं देवम् (००५-००४)
अर्चयेच् च जनार्दनम् (००५-००४)
संध्याव्युपरमे चेन्दु- (००५-००४)
स्वरूपं हरिम् ईश्वरम् (००५-००४)
रात्रिं च लक्ष्मीं संचिन्त्य (००५-००५)
सम्यग् अर्घ्येन पूजयेत् (००५-००५)
नक्तं च भुञ्जीत नरस् (००५-००५)
तैलक्षारविवर्जितम् (००५-००५)
तथैव चैत्रवैशाख- (००५-००६)
ज्येष्ठेषु मुनिसत्तम (००५-००६)
अर्चयीत यथाप्रोक्तं (००५-००६)
प्राप्ते प्राप्ते तु तद्दिने (००५-००६)
निष्पादितं भवेद् एकम् (००५-००७)
पारणं दाल्भ्य भक्तितः (००५-००७)
द्वितीयं चापि वक्ष्यामि (००५-००७)
पारणं द्विजसत्तम (००५-००७)
आषाढे श्रावणे मासि (००५-००८)
प्राप्ते भाद्रपदे तथा (००५-००८)
तथैवाश्वयुजे ऽभ्यर्च्य (००५-००८)
श्रीधरं च श्रिया सह (००५-००८)
सम्यक् चन्द्रमसे दत्त्वा (००५-००९)
भुञ्जीतार्घ्यं यथाविधि (००५-००९)
द्वितीयम् एतद् आख्यातं (००५-००९)
तृतीयं पारणं शृणु (००५-००९)
कार्त्तिकादिषु मासेषु (००५-०१०)
तथैवाभ्यर्च्य केशवम् (००५-०१०)
भूत्या समन्वितं दद्याच् (००५-०१०)
शशाङ्कायार्हनं निशि (००५-०१०)
भुञ्जीत च तथा प्रोक्तं (००५-०११)
तृतीयम् इति पारणम् (००५-०११)
प्रतिपूजासु दद्याच् च (००५-०११)
ब्राह्मणेभ्यश् च दक्षिणाम् (००५-०११)
प्रतिमासं च वक्ष्यामि (००५-०१२)
प्राशनं कायशोधनम् (००५-०१२)
चतुरः प्रथमान् मासान् (००५-०१२)
पञ्चगव्यम् उदाहृतम् (००५-०१२)
कुशोदकं तथैवान्यद् (००५-०१३)
उक्तं मासचतुष्टयम् (००५-०१३)
सूर्यांशुतप्तं तद्वच् च (००५-०१३)
जलं मासचतुष्टयम् (००५-०१३)
गीतवाद्यादिकं पाठ्यं (००५-०१४)
तथा कृष्णस्य वा कथान् (००५-०१४)
कारियीत च देवस्य (००५-०१४)
पारणे पारणे गते (००५-०१४)
एवं संपूज्य विधिवत् (००५-०१५)
सपत्नीकं जनार्दनम् (००५-०१५)
नाप्नोतीष्तवियोगादीन् (००५-०१५)
पुमान् योषिद् अथापि वा (००५-०१५)
जनार्दनं सलक्ष्मीकम् (००५-०१६)
अर्चयेत् प्रथमं ततः (००५-०१६)
सश्रीकं श्रीधरं भक्त्या (००५-०१६)
तृतीये भूतिकेशवौ (००५-०१६)
यावन्त्य् एतद्विधानेन (००५-०१७)
पारणेनार्चति प्रभुम् (००५-०१७)
तावन्ति जन्मान्य् असुखं (००५-०१७)
नाप्नोतीष्टवियोगजम् (००५-०१७)
देवस्य च प्रसादेन (००५-०१८,*(६))
मरणे प्राप्य तत्स्मृतिम् (००५-०१८,*(६))
कुले सतां स्फीतधने (००५-०१८)
भोगभुज् जायते नरः (००५-०१८)
नारिं प्राप्नोति न व्याधिं (००५-*(५))
नरकं च न पश्यति (००५-*(५))
दुर्गमं यममार्गं च (००५-*(५))
नेक्षते द्विजसत्तम (००५-*(५))
श्रोतुम् इच्छाम्य् अहं तात (००५-०१९)
यममार्गं सुदुर्गमम् (००५-०१९)
यथा सुखेन संयान्ति (००५-०१९)
मानवास् तद् वदस्व मे (००५-०१९)
प्रतिमासं तु नामानि (००५-०२०)
कृष्णस्यैतानि द्वादश (००५-०२०)
कृतोपवासः सुस्नातः (००५-०२०)
पूजयित्वा जनार्दनम् (००५-०२०)
उच्चारयन् नरो ऽभ्येति (००५-०२०)
सुसुखेनैव तत्पथम् (००५-०२०)
ततो विप्राय वै दद्याद् (००५-०२१)
उदकुम्भं सदक्षिणं (००५-०२१)
उपानद्वस्त्रयुग्मं च (००५-०२१)
छत्त्रं कनकम् एव च (००५-०२१)
यद् वै मासगतं नाम (००५-०२२)
तत्प्रीतिश् चापि संवदेत् (००५-०२२)
संवत्सरान्ते ऽप्य् अथवा (००५-०२२)
प्रतिमासं द्विजान् बुधः (००५-०२२)
वाचयेद् उदकुम्भाद्यैर् (००५-०२२)
दानैः सर्वान् अनुक्रमात् (००५-०२२)
केशवं मार्गशीर्षे तु (००५-०२३)
पौषे नारायणं तथा (००५-०२३)
माधवं माघमासे तु (००५-०२३)
गोविन्दं फाल्गुने तथा (००५-०२३)
विष्णुं चैत्रे ऽथ वैशाखे (००५-०२४)
तथैव मधुसूदनम् (००५-०२४)
ज्येष्ठे त्रिविक्रमं देवम् (००५-०२४)
आषाढे वामनं तथा (००५-०२४)
श्रावणे श्रीधरं चैव (००५-०२५)
हृषीकेशेति चापरम् (००५-०२५)
नाम भाद्रपदे मासि (००५-०२५)
गीयते पुण्यकाङ्क्षिभिः (००५-०२५)
पद्मनाभं चाश्वयुजे (००५-०२६)
दामोदरम् अतः परम् (००५-०२६)
कार्त्तिके देवदेवेशं (००५-०२६)
स्तुवंस् तरति दुर्गतिम् (००५-०२६)
इह वै स्वस्थतां प्राप्य (००५-०२७)
मरणे स्मरणं ततः (००५-०२७)
याम्यक्लेशम् असंप्राप्य (००५-०२७)
स्वर्गलोके महीयते (००५-०२७)
ततो मानुष्यम् आसाद्य (००५-०२८)
निरातङ्को गतज्वरः (००५-०२८)
धनधान्यवति स्फीते (००५-०२८)
जन्म साधुकुले ऽर्हति (००५-०२८)
उपवासव्रतानीह (००६-००१)
केशवाराधनं प्रति (००६-००१)
ममाचक्ष्व महाभाग (००६-००१)
परं कौतूहलं हि मे (००६-००१)
कामान् यान् यान् नरो भक्तो (००६-००२)
मनसेच्छति केशवात् (००६-००२)
व्रतोपवासनात् प्रीतस् (००६-००२)
तांस् तान् विष्णुः प्रयच्छति (००६-००२)
रत्नपर्वतम् आरुह्य (००६-००३)
यथा रत्नं महामुने (००६-००३)
सत्त्वानुरूपम् अदत्ते (००६-००३)
तथा कृत्स्नान् मनोरथान् (००६-००३)
मार्गशीर्षं तु यो मासम् (००६-००४)
एकभक्तेन यः क्षपेत् (००६-००४)
कुर्वन् वै विष्णुशुश्रूषां (००६-००४)
स देशे जायते शुभे (००६-००४)
पौषमासं तथा दाल्भ्य (००६-००५)
एकभक्तेन यः क्षपेत् (००६-००५)
शुश्रूषणपरः शौरेर् (००६-००५)
न रोगी स च जायते (००६-००५)
माघमासं द्विजश्रेष्ठ (००६-००६)
एकभक्तेन यः क्षपेत् (००६-००६)
विष्णुशुश्रूषणपरः (००६-००६)
स कुले जायते सताम् (००६-००६)
क्षपयेद् एकभक्तेन (००६-००७)
शुश्रूषुर् यश् च फाल्गुनम् (००६-००७)
सौभाग्यं स्वजनानां स (००६-००७)
सर्वेषाम् एति सोन्नतिम् (००६-००७)
चैत्रं विष्णुपरो मासम् (००६-००८)
एकभक्तेन यः क्षपेत् (००६-००८)
सुवर्णमणिमुक्ताढ्यं (००६-००८)
स गार्हस्थ्यम् अवाप्नुयात् (००६-००८)
यः क्षपेद् एकभक्तेन (००६-००९)
वैशाखं पूजयन् हरिम् (००६-००९)
नरो वा यदि वा नारी (००६-००९)
ज्ञातीनां श्रेष्ठतां व्रजेत् (००६-००९)
कृष्णार्पितमना ज्येष्ठम् (००६-०१०)
एकभक्तेन यः क्षपेत् (००६-०१०)
ऐश्वर्यम् अतुलं श्रेष्ठं (००६-०१०)
पुमान् स्त्री वाभिजायते (००६-०१०)
आषाढम् एकभक्तेन (००६-०११)
यो नयेद् विष्णुतन्मनाः (००६-०११)
बहुधान्यो बहुधनो (००६-०११)
बहुपुत्रश् च जायते (००६-०११)
क्षपयेद् एकभक्तेन (००६-०१२)
श्रावणं विष्णुतत्परः (००६-०१२)
धनधान्यहिरण्याढ्ये (००६-०१२)
कुले स ज्ञातिवर्धनः (००६-०१२)
एकाहारो भाद्रपदं (००६-०१३)
यश् च कृष्णपरायणः (००६-०१३)
धनाढ्यं स्फीतम् अचलम् (००६-०१३)
ऐश्वर्यं प्रतिपद्यते (००६-०१३)
नयंश् चाश्वयुजं विष्णुं (००६-०१४)
पूजयेद् एकभोजनः (००६-०१४)
धनवान् वाहनाढ्यश् च (००६-०१४)
बहुपुत्रश् च जायते (००६-०१४)
कार्त्तिके चैकदा भुङ्क्ते (००६-०१५)
यश् च विष्णुपरो नरः (००६-०१५)
शूरश् च कृतविद्यश् च (००६-०१५)
बहुपुत्रश् च जायते (००६-०१५)
यस् तु संवत्सरं पूर्णम् (००६-०१६)
एकभक्तो भवेन् नरः (००६-०१६)
अहिंसः सर्वभूतेषु (००६-०१६)
वासुदेवपरायणः (००६-०१६)
नमो ऽस्तु वासुदेवायेत्य् (००६-०१७)
अहश् चाष्टशतं जपेत् (००६-०१७)
अतिरात्रस्य यज्ञस्य (००६-०१७)
ततः फलम् अवाप्नुयात् (००६-०१७)
दश वर्षसहस्राणि (००६-०१८)
स्वर्गलोके महीयते (००६-०१८)
तत्क्षयाद् इह चागत्य (००६-०१८)
माहात्म्यं प्रतिपद्यते (००६-०१८)
ब्राह्मणः क्षत्रियो वैश्यः (००६-०१९)
स्त्री शूद्रो वा यथोदितान् (००६-०१९)
उपवासान् इमान् कुर्वन् (००६-०१९)
फलान्य् एतान्य् अवाप्नुयात् (००६-०१९)
जगत्पतिं जगद्योनिं (००६-०२०)
जगन्निष्ठं जगद्गुरुम् (००६-०२०)
जयं शरणम् अभ्येत्य (००६-०२०)
न जनैः शोच्यते जनः (००६-०२०)
यस्य नाम्नि स्मृते मर्त्यः (००६-०२१)
समुत्क्रान्तेर् अनन्तरम् (००६-०२१)
प्राप्नोति शाश्वतं स्थानं (००६-०२१)
ततः पूज्यतरो हि सः (००६-०२१)
नादिर् न मध्यं नैवान्तो (००६-०२२)
यस्य देवस्य विद्यते (००६-०२२)
अनादित्वाद् अमध्यत्वाद् (००६-०२२)
अनन्तत्वाच् च सो ऽव्ययः (००६-०२२)
परापरं सुकृतवतां परां गतिं (००६-०२३)
स्वयंभुवं प्रभवन् निधानम् अव्ययम् (००६-०२३)
सनातनं यद् अमृतम् अच्युतं ध्रुवं (००६-०२३)
प्रविश्य तं हरिम् अमरत्वम् अश्नुते (००६-०२३)
शृणु दाल्भ्य परं काम्यं (००७-००१)
व्रतं संततिदं नृणाम् (००७-००१)
यम् उपोष्य न विच्छेदः (००७-००१)
पितृपिण्डस्य जायते (००७-००१)
कृष्णाष्टम्यां चैत्रमासे (००७-००२)
स्नातो नियतमानसः (००७-००२)
कृष्णम् अभ्यर्च्य पूजां च (००७-००२)
देवक्याः कुरुते तु यः (००७-००२)
निराहारो जपन् नाम (००७-००३)
कृष्णस्य जगतः पतेः (००७-००३)
उपविष्टो जपस्नान- (००७-००३)
क्षुतप्रस्खलितादिषु (००७-००३)
पूजायां चापि कृष्णस्य (००७-००४)
सप्त वारान् प्रकीर्तयेत् (००७-००४)
पाषण्डिनो विकर्मस्थान् (००७-००४)
नालपेच् चैव नास्तिकान् (००७-००४)
प्रभाते तु पुनः स्नातो (००७-००५)
दत्त्वा विप्राय दक्षिणाम् (००७-००५)
भुञ्जीत कृतपूजस् तु (००७-००५)
कृष्णस्यैव जगत्पतेः (००७-००५)
वैशाखज्येष्ठयोश् चैव (००७-००६)
पारणं हि त्रिमासिकम् (००७-००६)
उपोष्य देवदेवेशं (००७-००६)
घृतेन स्नापयेद् धरिम् (००७-००६)
आषाढे श्रावणे चैव (००७-००७)
मासे भाद्रपदे तथा (००७-००७)
उपोषिते द्वितीयं वै (००७-००७)
पारणं पूर्ववत् तु तत् (००७-००७)
तथैवाश्वयुजं चादिं (००७-००८)
कृत्वा मासत्रयं बुधः (००७-००८)
उपोष्य स्नापयेद् देवं (००७-००८)
हविषा पारणे गते (००७-००८)
पौषे माघे फाल्गुने च (००७-००९)
नरस् तद्वद् उपोषितः (००७-००९)
चतुर्थे पारणे पूर्णे (००७-००९)
घृतेन स्नापयेद् धरिम् (००७-००९)
एवं कृतोपवासस्य (००७-०१०)
पुरुषस्य तथा स्त्रियः (००७-०१०)
न संततेः परिच्छेदः (००७-०१०)
कदाचिद् अभिजायते (००७-०१०)
कृष्णाष्टमीम् इमां यस् तु (००७-०११)
नरो योषिद् अथापि वा (००७-०११)
उपोष्यतीह साह्लादं (००७-०११)
नृलोके प्राप्य निर्वृत्तिम् (००७-०११)
पुत्रपौत्रसमृद्धिं च (००७-०१२)
मृतः स्वर्गे महीयते (००७-०१२)
इत्य् एतत् कथितं दाल्भ्य (००७-०१२)
मया कृष्णाष्टंईव्रतम् (००७-०१२)
प्रावृट्काले तु नियमाञ् (००७-०१३)
शृणु काम्यान् इमान् मम (००७-०१३)
प्रावृट्काले यदा शेते (००७-०१४)
वासुदेवः पयोनिधौ (००७-०१४)
भोगिभोगे निजां मायां (००७-०१४)
योगनिद्रां च मानयन् (००७-०१४)
विशिष्टा न प्रवर्तन्ते (००७-०१५)
तदा यज्ञादिकाः क्रियाः (००७-०१५)
देवानां सा भवेद् रात्रिर् (००७-०१५)
दक्षिणायनसंज्ञिता (००७-०१५)
यदा स्वपिति गोविन्दो (००७-०१६)
यस् तु मासं चतुष्टयम् (००७-०१६)
अधःशायी ब्रह्मचारी (००७-०१६)
केशवार्पितमानसः (००७-०१६)
नमो नमो ऽस्तु कृष्णाय (००७-०१७)
केशवाय नमो नमः (००७-०१७)
नमो ऽस्तु नरसिंहाय (००७-०१७)
विष्णवे च नमो नमः (००७-०१७)
इति प्रातस् तथा सायं (००७-०१८)
जपेद् देवक्रियापरः (००७-०१८)
शमयत्य् अतिदुष्पारं (००७-०१८)
दुरितं जन्मसंचितम् (००७-०१८)
मधु मांसं च यो मासाञ् (००७-०१९)
चतुरस् तान् निरस्यति (००७-०१९)
देवक्रियारतिर् विष्णोर् (००७-०१९)
अनुस्मरणतत्परः (००७-०१९)
सो ऽपि स्वर्गं समभ्येति (००७-०२०)
च्युतस् तस्मात् तु जायते (००७-०२०)
अरोगी धनधान्याढ्यः (००७-०२०)
कुलसंततिमान् नरः (००७-०२०)
समस्तमन्दिराणां च (००७-०२१)
यः सुप्ते मधुसूदने (००७-०२१)
निर्वृत्तिं कुरुते सो ऽपि (००७-०२१)
देवो वैमानिको भवेत् (००७-०२१)
अनेनैव विधानेन (००७-०२२)
नरो विष्णुक्रियापरः (००७-०२२)
एकाहारो भवेद् यस् तु (००७-०२२)
सर्वपापैः प्रमुच्यते (००७-०२२)
सुप्ते च सर्वलोकेशे (००७-०२३)
नक्तभोजी भवेत् तु यः (००७-०२३)
सर्वपापविनिर्मुक्तः (००७-०२३)
स्वर्गलोके ऽमरो भवेत् (००७-०२३)
शस्तं त्व् अनन्तरं पुंसां (००७-०२४)
ततश् चैवेकभोजनम् (००७-०२४)
नक्तभोजनतुल्यं तु (००७-०२४)
नोपवासफलं क्वचित् (००७-०२४)
तैलाभङ्गं च यो मासांश् (००७-०२५)
चतुरस् तान् निरस्यति (००७-०२५)
सो ऽप्य् अङ्गलावण्यगुणम् (००७-०२५)
आरोग्यं च नरो लभेत् (००७-०२५)
यस् त्व् एतानि समस्तानि (००७-०२६)
मासान् एतान् नरश् चरेत् (००७-०२६)
स विष्णुलोकम् आसाद्य (००७-०२६)
विष्णोर् अनुचरो भवेत् (००७-०२६)
चतुर्भिः पारणं मासैर् (००७-०२७)
निष्पाद्यं हरितत्परैः (००७-०२७)
ब्राह्मणान् भोजयेद् दद्यात् (००७-०२७)
ततस् तेभ्यश् च दक्षिणाम् (००७-०२७)
पूजयेच् च जगन्नाथं (००७-०२८)
सर्वपापहरं हरिम् (००७-०२८)
प्रीयस्व देव गोविन्देत्य् (००७-०२८)
एवं चैव प्रसादयेत् (००७-०२८)
इति दाल्भ्य समाख्यातं (००७-०२९)
चातुर्मास्ये हि यद् व्रतम् (००७-०२९)
देवदेवस्य सुप्तस्य (००७-०२९)
द्वादशीं शृणु चापराम् (००७-०२९)
यस्याम् अनन्तस्मरणाद् (००७-०२९)
अनन्तफलभाग् भवेत् (००७-०२९)
मासि प्रोष्ठपदे शुक्ले (००८-००१)
द्वादश्यां जलशायिनम् (००८-००१)
प्रणम्यानन्तम् अभ्यर्च्य (००८-००१)
पुष्पधूपादिभिः शुचिः (००८-००१)
पाषण्डादिभिर् आलापम् (००८-००२)
अकुर्वन् नियतात्मवान् (००८-००२)
विप्राय दक्षिणां दत्त्वा (००८-००२)
नक्तं भुङ्क्ते तु यो नरः (००८-००२)
तिष्ठन् व्रजन् स्वपंश् चैव (००८-००३)
क्षुतप्रस्खलितादिषु (००८-००३)
अनन्तनामस्मरणं (००८-००३)
कुर्वन्न् उच्चारणं तथा (००८-००३)
अनेनैव विधानेन (००८-००४)
मासान् द्वादश वै क्रमात् (००८-००४)
उपोष्य पारणे पूर्णे (००८-००४)
समभ्यर्च्य जगद्गुरुम् (००८-००४)
गीतवाद्येन हृद्येन (००८-००४)
प्रीणयन् व्युष्टिम् अश्नुते (००८-००४)
अनन्तं गीतवाद्येन (००८-००५)
यतः फलम् उदाहृतम् (००८-००५)
तेनानन्तं समभ्यर्च्य (००८-००५)
तद् एव लभते फलम् (००८-००५)
एवं यः पुरुषः कुर्याद् (००८-००६)
अनन्ताराधनं शुचिः (००८-००६)
नारी वा स्वर्गम् अभ्येत्य (००८-००६)
सो ऽअनन्तफलम् अश्नुते (००८-००६)
एवं दाल्भ्य हृषीकेशो (००८-००७)
नरैर् भक्त्या यथाविधि (००८-००७)
फलं ददात्य् असुलभं (००८-००७)
सलिलेनापि पूजितः (००८-००७)
न विष्णुर् वित्तदानेन (००८-००८)
पुष्पैर् वा न फलैस् तथा (००८-००८)
आराध्यते सुशुद्धेन (००८-००८)
हृदयेनैव केवलम् (००८-००८)
रागाद्यपेतं हृदयं (००८-००९)
वाग् दुष्टा नानृतादिना (००८-००९)
हिंसादिरहितः कायः (००८-००९)
केशवाराधनत्रयम् (००८-००९)
रागादिदूषिते चित्ते (००८-०१०)
नास्पदी मधुसूदनः (००८-०१०)
करोति न रतिं हंसः (००८-०१०)
कदाचित् कर्दमाम्भसि (००८-०१०)
न योग्या केशवस्तुत्यै (००८-०११)
वाग् दुष्टा चानृतादिना (००८-०११)
तमसो नाशनायालं (००८-०११)
नेन्दोर् लेखा घनावृता (००८-०११)
हिंसादिदूषितः कायः (००८-०१२)
केशवाराधने कुतः (००८-०१२)
जनचित्तप्रसादाय (००८-०१२)
न नभस् तिमिरावृतम् (००८-०१२)
तस्माच् छ्रद्धस्व भावेन (००८-०१३)
सत्यभावेन च द्विज (००८-०१३)
अहिंसकेन गोविन्दो (००८-०१३)
निसर्गाद् एव तोषितः (००८-०१३)
सर्वस्वम् अपि कृष्णाय (००८-०१४)
यो दद्यात् कुटिलाशयः (००८-०१४)
स नैवाराधयत्य् एनं (००८-०१४)
सद्भावेनार्चयाच्युतम् (००८-०१४)
रागाद्यपेतं हृदयं (००८-०१५)
कुरु त्वं केशवार्पितम् (००८-०१५)
ततः प्राप्स्यसि दुःप्राप्यम् (००८-०१५)
अयत्नेनैव केशवम् (००८-०१५)
भगवन् कथितः सम्यक् (००८-०१६)
काम्यो ऽयं केशवं प्रति (००८-०१६)
आराधनविधिः सर्वो (००८-०१६)
भूयः पृच्छामि तद् वद (००८-०१६)
कुले जन्म तथारोग्यं (००८-०१७)
धनर्द्धिश् चेह दुर्लभा (००८-०१७)
त्रितयं प्राप्यते येन (००८-०१७)
तन् मे वद महामुने (००८-०१७)
मातामहं काण्वम् उदारवीर्यं (००८-०१८)
महर्षिम् अभ्यर्च्य कुलप्रसूतिम् (००८-०१८)
पप्रच्छ पुंसाम् अथ योषितां च (००८-०१८)
दुष्वन्तपुत्रो भरतः प्रणम्य (००८-०१८)
यथावद् आचष्ट ततो महात्मा (००८-०१९)
स राजवर्याय यथा कुलेषु (००८-०१९)
प्रयान्ति सूतिं पुरुषाः स्त्रियश् च (००८-०१९)
यथा च सम्यक् सुखिनो भवन्ति (००८-०१९)
पौषे सिते द्वादशमे ऽह्नि सार्के (००८-०२०)
तथार्क्षयोगे जगतः प्रसूतिम् (००८-०२०)
संपूज्य विष्णुं विधिनोपवासी (००८-०२०)
स्रग्गन्धधूपान्नवरोपहारैः (००८-०२०)
गृह्णीत मासं प्रतिमासपूजाम् (००८-०२१)
दानादियुक्तं व्रतम् अब्दम् एकम् (००८-०२१)
दद्याच् च दानं द्विजपुङ्गवेभ्यस् (००८-०२१)
तद् उच्यमानं विनिबोध भूप (००८-०२१)
घृतं तिलान् व्रीहियवं हिरण्यं (००८-०२२)
यवान्नम् अम्भःकरकान्नपानम् (००८-०२२)
छत्त्रं पयो ऽन्नं गुडफाणिताढ्यं (००८-०२२)
स्रक्चन्दनं वस्त्रम् अनुक्रमेण (००८-०२२)
मासे च मासे विधिनोदितेन (००८-०२३)
तस्यां तिथौ लोकगुरुं प्रपूज्य (००८-०२३)
अश्नीत यान्य् आत्मविशुद्धिहेतोः (००८-०२३)
संप्राशनानीह निबोध तानि (००८-०२३)
गोमूत्रम् अम्भो घृतम् आमशाकं (००८-०२४)
दूर्वा दधि व्रीहियवांस् तिलांश् च (००८-०२४)
सूर्यांशुतप्तं जलम् अम्बु दार्भं (००८-०२४)
क्षीरं च मासक्रमशोपयुञ्ज्यात् (००८-०२४)
कुले प्रधाने धनधान्यपूर्णे (००८-०२५)
विवेकवत्य् अस्तसमस्तदुःखे (००८-०२५)
प्राप्नोति जन्माविकलेन्द्रियश् च (००८-०२५)
भवत्य् अरोगो मतिमान् सुखी च (००८-०२५)
तस्मात् त्वम् अप्य् एतद् अमोघविद् यो (००८-०२६)
नारायणाराधनम् अप्रमत्तः (००८-०२६)
कुरुष्व विष्णुं भगवन्तम् ईशम् (००८-०२६)
आराध्य कामान् अखिलान् उपैति (००८-०२६)
यदा च शुक्लद्वादश्यां (००९-००१)
नक्षत्रं श्रवणं भवेत् (००९-००१)
तदा सा तु महापुण्या (००९-००१)
द्वादशी विजया स्मृता (००९-००१)
तस्यां स्नातः सर्वतीर्थैः (००९-००२)
स्नातो भवति मानवः (००९-००२)
संपूज्य वर्षपूजायाः (००९-००२)
सकलं फलम् अश्नुते (००९-००२)
एकं जप्त्वा सहस्रस्य (००९-००३)
जप्तस्याप्नोति यत् फलम् (००९-००३)
दानं सहस्रगुणितं (००९-००३)
तथा वै विप्र भोजनम् (००९-००३)
यत् क्षेमम् अपि वै तस्यां (००९-*(७))
सहस्रं श्रावणे तु तत् (००९-*(७))
अन्यस्याम् एव तिथ्यां (००९-*(७))
शुभायां श्रावणं यदा (००९-*(७))
होमस् तथोपवासश् च (००९-००३)
सहस्राख्यफलप्रदः (००९-००३)
रोहिण्याश् च यदा कृष्ण- (०१०-००१)
पक्षे ऽष्टम्यां द्विजोत्तम (०१०-००१)
जयन्ती नाम सा प्रोक्ता (०१०-००१)
सर्वपापहरा तिथिः (०१०-००१)
यद् बाल्ये यच् च कौमारे (०१०-००२)
यौवने वार्द्धिके च यत् (०१०-००२)
सप्तजन्मकृतं पापं (०१०-००२)
स्वल्पं वा यदि वा बहु (०१०-००२)
तत् क्षालयति गोविन्दं (०१०-००३)
तस्याम् अभ्यर्च्य भक्तितः (०१०-००३)
होमजप्यादिदानानां (०१०-००३)
फलं च शतसंमितम् (०१०-००३)
संप्राप्नोति न संदेहो (०१०-००४)
यच् चान्यन् मनसेच्छति (०१०-००४)
उपवासश् च तत्रोक्तो (०१०-००४)
महापातकनाशनः (०१०-००४)
एकदश्यां शुक्लपक्षे (०११-००१)
यदा र्क्षं वै पुनर्वसुः (०११-००१)
नाम्ना सातिजयाख्याता (०११-००१)
तिथीनाम् उत्तमा तिथिः (०११-००१)
यो ददाति तिलप्रस्थं (०११-००२)
तृष्कालं वत्सरं नरः (०११-००२)
उपवासं च तस्यां यः (०११-००२)
करोत्य् एतत् समं स्मृतम् (०११-००२)
तस्यां जगत्पतिर् देवः (०११-००३)
सर्वः सर्वेश्वरो हरिः (०११-००३)
प्रत्यक्षतां प्रयात्य् अल्पं (०११-००३)
तदानन्तफलं स्मृतम् (०११-००३)
सगरेण ककुत्स्थेन (०११-००४)
दुंधुमारेण गाधिना (०११-००४)
तस्याम् आराधितः कृष्णो (०११-००४)
दत्तवान् निखिलां भुवम् (०११-००४)
अयने चोत्तरे प्राप्ते (०१२-००१)
यः स्नापयति केशवम् (०१२-००१)
घृतप्रस्थेन पापं सः (०१२-००१)
सकलं वै व्यपोहति (०१२-००१)
कपिलां विप्रमुख्याय (०१२-००२)
ददात्य् अनुदिनं हि यः (०१२-००२)
घृतस्नानं च देवस्य (०१२-००२)
तस्मिन् काले समं हि तत् (०१२-००२)
स्नाप्यमानं च पश्यति (०१२-००३)
ये घृतेनोत्तरायणे (०१२-००३)
ते यान्ति विष्णुसालोक्यं (०१२-००३,०१३-*(८))
सर्वपापविवर्जिताः (०१२-००३,०१३-*(८))
मैत्रेयी ब्राह्मणी पूर्वं (०१३-००१)
याज्ञवल्क्यम् अपृच्छत (०१३-००१)
प्रणिपत्य महाभागं (०१३-००१)
योगेश्वरम् अकल्मषम् (०१३-००१)
पापप्रशमनायालं (०१३-००२)
यत् पुण्यस्योपवृंहकम् (०१३-००२)
मनोरथप्रदं यच् च (०१३-००२)
तद् व्रतं कथ्यतां मम (०१३-००२)
कानि दानानि शस्तानि (०१३-००३)
स्नानानि च यतव्रत (०१३-००३)
प्रशस्तास् तिथयः काश् च (०१३-००३)
प्राशनानि च शंस मे (०१३-००३)
सर्वदानानि शस्तानि (०१३-००४)
यान्य् उद्दिश्य जनार्दनम् (०१३-००४)
दीयन्ते विप्रमुख्येभ्यः (०१३-००४)
श्रद्धापूतेन चेतसा (०१३-००४)
ता एव तिथयः शस्ता (०१३-००५)
यास्व् अभ्यर्च्य जनार्दनम् (०१३-००५)
क्रियन्ते श्रधया सम्यग् (०१३-००५)
उपवासव्रताः सदा (०१३-००५)
प्राप्यते विविधैर् यज्ञैर् (०१३-००६)
यत् फलं साध्वसाधुभिः (०१३-००६)
उपवासैस् तद् आप्नोति (०१३-००६)
समभ्यर्च्य जनार्दनम् (०१३-००६)
मनोरथानां संप्राप्ति- (०१३-००७)
कारकं पापनाशनम् (०१३-००७)
श्रूयतां मम धर्मज्ञे (०१३-००७)
व्रतानाम् उत्तमं व्रतम् (०१३-००७)
यत् कृत्वा न जडो नान्धो (०१३-००८)
बधिरो न च दुःखितः (०१३-००८)
न चैवेष्टवियोगार्तिं (०१३-००८)
कश्चित् प्राप्नोति मानवः (०१३-००८)
न चाप्रियो ऽस्य लोकस्य (०१३-००९)
न दरिद्रो न दुर्गतिः (०१३-००९)
सप्त जन्मानि भवति (०१३-००९)
सर्वपापैः प्रमुच्यते (०१३-००९)
विष्णुव्रतम् इदं ख्यातं (०१३-०१०)
भाषितं विष्णुना स्वयम् (०१३-०१०)
पौषशुक्लद्वितीयादि (०१३-०११)
कृत्वा दिनचतुष्टयम् (०१३-०११)
षण्मासपारणप्रायं (०१३-०११)
गृह्णीयात् परमं व्रतम् (०१३-०११)
पूर्वं सिद्धार्थकैः स्नानं (०१३-०१२)
ततः कृष्णतिलैः स्मृतम् (०१३-०१२)
वचया च तृतीये ऽह्नि (०१३-०१२)
सर्वौषध्या ततः परम् (०१३-०१२)
नाम्ना कृष्णाच्युताख्येन (०१३-०१३)
तथानन्तेन पूजयेत् (०१३-०१३)
तथैव च चतुर्थे ऽह्नि (०१३-०१३)
हृषीकेशेन केशवम् (०१३-०१३)
देवम् अभ्यर्च्य पुष्पैश् च (०१३-०१३)
पत्त्रैर् धूपानुलेपनैः (०१३-०१३)
उद्गच्छतश् च बालेन्दोर् (०१३-०१४)
दद्याद् अर्घ्यं समाहितः (०१३-०१४)
पुष्पैः पत्त्रैः फलैश् चैव (०१३-०१४)
सर्वधान्यैश् च भक्तितः (०१३-०१४)
दिनक्रमेण चैतानि (०१३-०१५)
चन्द्रनामानि कीर्तयेत् (०१३-०१५)
शशिचन्द्रशशाङ्केन्दु- (०१३-०१५)
संज्ञानि ब्रह्मवादिनि (०१३-०१५)
नक्तं भुञ्जीत मतिमान् (०१३-०१६)
यावत् तिष्ठति चन्द्रमाः (०१३-०१६)
अस्तंगते न भुञ्जीत (०१३-०१६)
व्रतभङ्गभयाच् छुभे (०१३-०१६)
एवं सर्वेषु मासेषु (०१३-०१७)
ज्येष्ठान्तेषु यशस्विनि (०१३-०१७)
कर्तव्यं वै व्रतश्रेष्ठं (०१३-०१७)
द्वितीयादिचतुर्दिनम् (०१३-०१७)
विप्राय दक्षिणां दद्यात् (०१३-०१८)
पञ्चम्यां च स्वशक्तितः (०१३-०१८)
एवं समापयेन् मासैः (०१३-०१८)
षड्भिः प्रथमपारणम् (०१३-०१८)
पारणन्ते च देवस्य (०१३-०१९)
प्रीणनं भक्तितः शुभे (०१३-०१९)
यथाशक्त्या तु कर्तव्यं (०१३-०१९)
वित्तशाठ्यं विवर्जयेत् (०१३-०१९)
आषाढादिद्वितीयं तु (०१३-०२०)
षण्मासेन तपोधने (०१३-०२०)
पारणं वै समाख्यातं (०१३-०२०)
व्रतस्यास्य शुभप्रदम् (०१३-०२०)
व्रतम् एतद् दिलीपेन (०१३-०२१)
दुष्वन्तेन ययातिना (०१३-०२१)
तथान्यैः पृथिवीपालैर् (०१३-०२१)
उपवासविधानतः (०१३-०२१)
चरितं मुनिमुख्यैश् च (०१३-०२१)
ऋचीकच्यवनादिभिः (०१३-०२१)
सुरम्भया सुकैकेय्या (०१३-०२२)
शाण्डिल्या धूम्रपिङ्गया (०१३-०२२)
सुदेष्णयाथवा रिण्या (०१३-०२२)
मतिमत्या कृताशया (०१३-०२२)
सावित्र्या पौर्णमास्या च (०१३-०२३)
वैरिण्या च सुभद्रया (०१३-०२३)
ब्राह्मणक्षत्रियविशाम् (०१३-०२३)
इति स्त्रीभिर् अनुष्ठितम् (०१३-०२३)
उर्वश्या रम्भया चैव (०१३-०२४)
सौरभेय्या तथा व्रतम् (०१३-०२४)
वराप्सरोभिर् धर्मज्ञे (०१३-०२४)
चरितं धर्मवांछया (०१३-०२४)
प्रथमे पादपूजा स्याद् (०१३-०२५)
द्वितीये नाभिपूजनम् (०१३-०२५)
तृतीये वक्षसः पूजा (०१३-०२५)
चतुर्थे शिरसो हरेः (०१३-०२५)
एतच् चीर्त्वा समस्तेभ्यः (०१३-०२६)
पापेभ्यः श्रद्धयान्वितः (०१३-०२६)
मुच्यते सकलांश् चैव (०१३-०२६)
संप्राप्नोति मनोरथान् (०१३-०२६)
व्रतानाम् उत्तमं ह्य् एतत् (०१३-०२७)
स्वयं देवेन भाषितम् (०१३-०२७)
पापप्रशमनं शस्तं (०१३-०२७)
मनोरथफलप्रदम् (०१३-०२७)
यं च कामम् अभिध्यायन् (०१३-०२८)
क्रियते नियतव्रतैः (०१३-०२८)
व्रतम् एतन् महाभागे (०१३-०२८)
तं तु पूरयते नृणाम् (०१३-०२८)
मनोरथान् पूरयति (०१३-०२९)
सर्वपापं व्यपोहति (०१३-०२९)
अव्याहतेन्द्रियत्वं च (०१३-०२९)
सप्त जन्मानि यच्छति (०१३-०२९)
माघे स्नातस्य यत् पुण्यं (०१३-०३०)
प्रयागे पापनाशनम् (०१३-०३०)
सकलं तद् अवाप्नोति (०१३-०३०)
श्रुत्वा विष्णुव्रतं त्व् इदम् (०१३-०३०)
साक्षाद् भगवता प्रोक्तं (०१३-*(९))
परमं पापनाशनम् (०१३-*(९))
शुक्लपक्षे तु पौषस्य (०१४-००१)
संप्राप्तिद्वादशीं शृणु (०१४-००१)
याम् उपोष्य समाप्नोति (०१४-००१)
सर्वान् एव मनोरथान् (०१४-००१)
पाषण्डादिभिर् आलापम् (०१४-००२)
अकुर्वन् विष्णुतत्परः (०१४-००२)
पूजयेत् प्रणतो देवम् (०१४-००२)
एकाग्रमतिर् अच्युतम् (०१४-००२)
पौषादिपारणं मासैः (०१४-००३)
षड्भिर् ज्येष्ठान्तकं स्मृतम् (०१४-००३)
प्रथमे पुण्डरीकाक्षं (०१४-००३)
नाम देवस्य गीयते (०१४-००३)
द्वितीये माधवाख्यं तु (०१४-००४)
विश्वरूपं तु फाल्गुने (०१४-००४)
पुरुषोत्तमाख्यं च ततः (०१४-००४)
पञ्चमे चाच्युतेति च (०१४-००४)
षष्ठे जयेति देवस्य (०१४-००५)
गुह्यं नाम प्रकीर्त्यते (०१४-००५)
पूर्वेषु षट्सु मासेषु (०१४-००५)
स्नानप्राशनयोस् तिलाः (०१४-००५)
आषाढादिषु मासेषु (०१४-००६)
पञ्चगव्यम् उदाहृतम् (०१४-००६)
स्नाने च प्राशने चैव (०१४-००६)
प्रशस्तं पापनाशनम् (०१४-००६)
प्रतिमासं च देवस्य (०१४-००७)
कृत्वा पूजां यथाविधि (०१४-००७)
विप्राय दक्षिणां दद्याच् (०१४-००७)
श्रद्दधानः स्वशक्तितः (०१४-००७)
पारणान्ते च देवस्य (०१४-००८)
प्रीणनं भक्तिपूर्वकम् (०१४-००८)
क्रुवीत शक्त्या गोविन्दे (०१४-००८)
सद्भावाभ्यर्चनो यतः (०१४-००८)
नक्तं भुञ्जीत च ततस् (०१४-००९)
तैलक्षारविवर्जितं (०१४-००९)
एकादश्याम् उषित्वैवं (०१४-००९)
द्वादश्याम् अथवा दिने (०१४-००९)
एताम् उषित्वा धर्मज्ञे (०१४-०१०)
प्रीणनं देवतत्परः (०१४-०१०)
सर्वकामान् अवाप्नोति (०१४-०१०)
सर्वपापैः प्रमुच्यते (०१४-०१०)
यतः सर्वम् अवाप्नोति (०१४-०११)
यद् यद् इच्छति चेतसा (०१४-०११)
ततो लोकेषु विख्याता (०१४-०११)
संप्राप्तिद्वादशीति वै (०१४-०११)
कृताभिलषिता ह्य् एषा (०१४-०१२)
प्रारब्धा धर्मतत्परैः (०१४-०१२)
पूरयत्य् अखिलान् कामान् (०१४-०१२)
संश्रुता च दिने दिने (०१४-०१२)
तस्मिन्न् एव दिने पुण्ये (०१५-००१)
गोविन्दद्वादशीं शृणु (०१५-००१)
यस्यां सम्यग् अनुष्ठानात् (०१५-००१)
प्राप्नोत्य् अभिमतं फलम् (०१५-००१)
पौषमासे सिते पक्षे (०१५-००२)
द्वादश्यां समुपोषितः (०१५-००२)
संयक् संपूज्य गोविन्दं (०१५-००२)
नाम्ना देवम् अधोक्षजम् (०१५-००२)
पुष्पधूपोपहाराद्यैर् (०१५-००२)
उपवासैः समाहितः (०१५-००२)
गोविन्देति जपन् नाम (०१५-००३)
पुनस् तद्गतमानसः (०१५-००३)
विप्राय दक्षिणां दद्याद् (०१५-००३)
यथाशक्ति तपोधने (०१५-००३)
स्वपन् विबुद्धः स्खलितो (०१५-००४)
गोविन्देति च कीर्तयेत् (०१५-००४)
पाषण्डादिविकर्मस्थैर् (०१५-००४)
आलापं च विवर्जयेत् (०१५-००४)
गोमूत्रं गोमयं वापि (०१५-००५)
दधि क्षीरम् अथापि वा (०१५-००५)
गोदेहतः समुत्पन्नं (०१५-००५)
संप्राश्नीतात्मशुद्धये (०१५-००५)
द्वितीये ऽह्नि पुनः स्नातस् (०१५-००६)
तथैवाभ्यर्च्य तं प्रभुम् (०१५-००६)
तेनैव नाम्ना संस्तूय (०१५-००६)
दत्त्वा विप्राय दक्षिणाम् (०१५-००६)
ततो भुञ्जीत गोदेह- (०१५-००६)
संभूतेन समन्वितम् (०१५-००६)
एवम् एवाखिलान् मासान् (०१५-००७)
उपोष्य प्रयतः शुचिः (०१५-००७)
दद्याद् गवाह्निकं भक्त्या (०१५-००७)
प्रतिमासं स्वशक्तितः (०१५-००७)
पारिते च पुनर् वर्षे (०१५-००८)
यथाशक्ति गवाह्निकम् (०१५-००८)
दत्त्वा परगवे भूयः (०१५-००८)
शृणु यत् फलम् अश्नुते (०१५-००८)
सुवर्णशृङ्गाः पञ्च गाः (०१५-००९)
षष्ठं च वृषभं नरः (०१५-००९)
प्रतिमासं द्विजाग्रेभ्यो (०१५-००९)
यद् दत्त्वा फलम् अश्नुते (०१५-००९)
तद् आप्नोत्य् अखिलं सम्यग् (०१५-०१०)
व्रतम् एतद् उपोषितः (०१५-०१०)
तं च लोकम् अवाप्नोति (०१५-०१०)
गोविन्दो यत्र तिष्ठति (०१५-०१०)
गोविन्दद्वादशीम् एताम् (०१५-०११)
उपोष्य दिवि तारकाः (०१५-०११)
विद्योतमाना दृश्यन्ते (०१५-०११)
लोकैर् अद्यापि शोभने (०१५-०११)
उपवासव्रतानां तु (०१६-००१)
वैकल्यं यन् महामुने (०१६-००१)
दानकर्मकृतं तस्य (०१६-००१)
विपाको वद यादृशः (०१६-००१)
यज्ञानाम् उपवासानां (०१६-००२)
व्रतानां च यतव्रते (०१६-००२)
वैकल्यात् फलवैकल्यं (०१६-००२)
यादृशं तच् छृणुष्व मे (०१६-००२)
उपवासादिना राज्यं (०१६-००३)
संप्राप्यं ते तथा वसु (०१६-००३)
भ्रष्टैश्वर्या निर्धनाश् च (०१६-००३)
भवन्ति पुरुषाः पुनः (०१६-००३)
रूपं तथोत्तमं प्राप्य (०१६-००४)
व्रतवैकल्यदोषतः (०१६-००४)
काणाः कुण्ठाश् च भूयस् ते (०१६-००४)
भवन्त्य् अन्धाश् च मानवाः (०१६-००४)
उपवासान् नरः पत्नीं (०१६-००५)
नारी प्राप्य तथा पतिम् (०१६-००५)
वियोगं व्रतवैकल्याद् (०१६-००५)
उभयं तद् अवाप्नुते (०१६-००५)
ये द्रव्ये सत्य् अदातारस् (०१६-००६)
तथान्येनाहिताग्नयः (०१६-००६)
कुले च सति दुःशीला (०१६-००६)
दौष्कुलाः शीलिनश् च ये (०१६-००६)
वस्त्रानुलेपनैर् हीना (०१६-००७)
भूषणैश् चातिरूपिणः (०१६-००७)
विरूपरूपाश् च तथा (०१६-००७)
प्रसाधनगुणान्विताः (०१६-००७)
ते सर्वे व्रतवैकल्यात् (०१६-००८)
फलवैकल्यम् आगताः (०१६-००८)
गुणिनो ऽपि हि दोषेण (०१६-००८)
संयुक्ताः संभवन्ति ते (०१६-००८)
तस्मान् न व्रतवैकल्यं (०१६-००९)
यज्ञवैकल्यम् एव वा (०१६-००९)
उपवासे च कर्तव्यं (०१६-००९)
वैकल्याद् विकलं फलम् (०१६-००९)
कथंचिद् यदि वैकल्यम् (०१६-०१०)
उपवासादिके भवेत् (०१६-०१०)
किं तत्र वद कर्तव्यम् (०१६-०१०)
अच्छिद्रं येन जायते (०१६-०१०)
अखण्डद्वादशीम् एताम् (०१६-०११)
अशेषेष्व् एव कर्मसु (०१६-०११)
वैकल्यप्रशमायालं (०१६-०११)
शृणुष्व गदतो मम (०१६-०११)
मार्गशीर्षे सिते पक्षे (०१६-०१२)
द्वादश्यां नियतः शुचिः (०१६-०१२)
कृतोपवासो देवेशं (०१६-०१२)
समभ्यर्च्य जनार्दनम् (०१६-०१२)
पञ्चगव्यजलस्नातः (०१६-०१३)
पञ्चगव्यकृताशनः (०१६-०१३)
यवव्रीहिभृतं पात्रं (०१६-०१३)
दद्याद् विप्राय भक्तितः (०१६-०१३)
इदं चोच्चारयेद् भक्त्या (०१६-०१३)
देवस्य पुरतो हरेः (०१६-०१३)
सप्त जन्मानि यत् किंचिद् (०१६-०१४)
मया खण्डव्रतं कृतम् (०१६-०१४)
भगवंस् त्वत्प्रसादेन (०१६-०१४)
तद् अखण्डम् इहास्तु मे (०१६-०१४)
यथाखण्डं जगत् सर्वम् (०१६-०१५)
त्वम् एव पुरुषोत्तम (०१६-०१५)
तथाखिलान्य् अखण्डानि (०१६-०१५)
व्रतानि मम सन्तु वै (०१६-०१५)
एवम् एवानुमासं वै (०१६-०१६)
चातुर्मास्यविधिः स्मृतः (०१६-०१६)
चतुर्भिर् एव मासैस् तु (०१६-०१७)
पारणं प्रथमं स्मृतम् (०१६-०१७)
प्रीणनं च हरेः कुर्यात् (०१६-०१७)
पारिते पारणे ततः (०१६-०१७)
चैत्रादिषु च मासेषु (०१६-०१८)
चतुर्ष्व् अन्यं तु पारणम् (०१६-०१८)
तत्रापि सक्तुपात्राणि (०१६-०१८)
दद्याच् छ्रद्धासमन्वितः (०१६-०१८)
श्रावणादिषु मासेषु (०१६-०१९)
कार्त्तिकान्तेषु पारणम् (०१६-०१९)
यत्नात् तु घृतपात्राणि (०१६-०१९)
दद्याद् विप्राय भक्तितः (०१६-०१९)
एवं सम्यग् यथान्यायम् (०१६-०२०)
अखण्डद्वादशीं नरः (०१६-०२०)
यद् उपोष्यत्य् अखण्डं स (०१६-०२०)
व्रतस्य फलम् अश्नुते (०१६-०२०)
सप्त जन्मसु वैकल्यम् (०१६-०२१)
यद् व्रतस्य क्वचित् कृतम् (०१६-०२१)
करोत्य् अविकलं सर्वम् (०१६-०२१)
अखण्डद्वादशीव्रतम् (०१६-०२१)
तस्माद् एषातियत्नेन (०१६-०२२)
नरैः स्त्रीभिश् च सुव्रते (०१६-०२२)
अखण्डद्वादशी सम्यग् (०१६-०२२)
उपोष्या फलकांक्षिभिः (०१६-०२२)
एवं पुरा याज्ञवल्क्यः (०१७-००१)
पृष्टः पत्न्या महामुनिः (०१७-००१)
आचष्ट पुण्यफलदम् (०१७-००१)
उपवासविधिं परम् (०१७-००१)
तथा त्वम् अपि विप्रर्षे (०१७-००२)
केशवाराधने रतः (०१७-००२)
व्रतोपवासपरमो (०१७-००२)
भवेथा नान्यमानसः (०१७-००२)
पुनश् चैतन् महाभाग (०१७-००३)
श्रूयतां गदतो मम (०१७-००३)
प्रोक्तं नरेण देवानां (०१७-००३)
तिथिमाहात्म्यम् उत्तमम् (०१७-००३)
विजयातिजया चैव (०१७-००४)
जयन्ती पापनाशनी (०१७-००४)
तथोत्तरायणं शस्तं (०१७-००४)
सर्वदा केशवार्चने (०१७-००४)
यद् अन्यकाले वर्षेण (०१७-००५)
केशवाल् लभ्यते फलम् (०१७-००५)
सकृद् एवार्चिते कृष्णे (०१७-००५)
तद् एतास्व् अपि लभ्यते (०१७-००५)
विजयातिजया चैव (०१७-००६)
जयन्ती पापनाशनी (०१७-००६)
तथोत्तरायणं चैव (०१७-००६)
यच् छस्तं केशवार्चने (०१७-००६)
तत् सर्वं कथयेहाद्य (०१७-००७)
तिथिमाहात्म्यम् उत्तमम् (०१७-००७)
यत्र संपूजितः कृष्णः (०१७-००७)
सर्वपापं व्यपोहति (०१७-००७)
एकादश्यां सिते पक्षे (०१७-००८)
पुष्यर्क्षं यत्र सत्तम (०१७-००८)
तिथौ भवति सा प्रोक्ता (०१७-००८)
विष्णुना पापनाशनी (०१७-००८)
तस्यां संपूज्य गोविन्दं (०१७-००९)
जगताम् ईश्वरेश्वरम् (०१७-००९)
सप्तजन्मकृतात् पापान् (०१७-००९)
मुच्यते नात्र संशयः (०१७-००९)
यश् चोपवासं कुरुते (०१७-०१०)
तस्यां स्नातो द्विजोत्तम (०१७-०१०)
सर्वपापविनिर्मुक्तो (०१७-०१०)
विष्णुलोके महीयते (०१७-०१०)
दानं यद् दीयते किंचित् (०१७-०११)
समुद्दिश्य जनार्दनम् (०१७-०११)
होमो वा क्रियते तस्याम् (०१७-०११)
अक्षयं लभते फलम् (०१७-०११)
एका ऋग् देवपुरतो (०१७-०१२)
जप्ता श्रद्धावता तथा (०१७-०१२)
ऋग्वेदस्य समस्तस्य (०१७-०१२)
जपता यच्छते फलम् (०१७-०१२)
सामवेदफलं साम (०१७-०१३)
यजुर्वेदफलं यजुः (०१७-०१३)
जप्तम् एकं मुनिश्रेष्ठ (०१७-०१३)
ददात्य् अत्र न संशयः (०१७-०१३)
तारका दिवि राजन्ते (०१७-०१४)
द्योतमाना द्विजोत्तम (०१७-०१४)
समभ्यर्च्य तिथाव् अस्यां (०१७-०१४)
देवदेवं जनार्दनम् (०१७-०१४)
यतः पापम् अशेषं वै (०१७-०१५)
नाशयत्य् अत्र केशवः (०१७-०१५)
पुष्यर्क्षैकादशी ब्रह्मंस् (०१७-०१५)
तेनोक्ता पापनाशनी (०१७-०१५)
तथान्यद् अपि धर्मज्ञ (०१८-००१)
श्रूयतां गदतो मम (०१८-००१)
पदद्वयं जगद्धातुर् (०१८-००१)
देवदेवस्य शार्ङ्गिणः (०१८-००१)
संवत्सरः पादपीठं (०१८-००२)
तत्र न्यस्तं पदद्वयम् (०१८-००२)
वासुदेवेन विप्रेन्द्र (०१८-००२)
भूतानां हितकाम्यया (०१८-००२)
वामम् अस्य पदं ब्रह्मन् (०१८-००३)
उत्तरायणसंज्ञितम् (०१८-००३)
देवाद्यैः सकलैर् वन्द्यं (०१८-००३)
दक्षिणं दक्षिणायनम् (०१८-००३)
तस्मिन् यः प्रयतः सम्यग् (०१८-००४)
देवदेवस्य मानवः (०१८-००४)
करोत्य् आराधनं तस्य (०१८-००४)
तोषम् आयाति केशवः (०१८-००४)
कथम् आराधनं तस्य (०१८-००५)
देवदेवस्य शार्ङ्गिणः (०१८-००५)
क्रियते मुनिशार्दूल (०१८-००५)
तन् ममाख्यातुम् अर्हसि (०१८-००५)
उत्तरे त्व् अयने दाल्भ्य (०१८-००६)
स्नातो नियतमानसः (०१८-००६)
घृतक्षीरादिना देवं (०१८-००६)
स्नापयेद् धरणीधरम् (०१८-००६)
चारुवस्त्रोपहारैश् च (०१८-००७)
पुष्पधूपानुलेपनैः (०१८-००७)
समभ्यर्च्य ततः सम्यग् (०१८-००७)
ब्राह्मणानां च तर्पणैः (०१८-००७)
पदद्वयव्रतं सम्यग् (०१८-००७)
गृह्णीयाद् विष्णुतत्परः (०१८-००७)
स्नातो नारायणं वक्ष्ये (०१८-००८)
भुञ्जन् नारायणं तथा (०१८-००८)
भुङ्क्त्वा नारायणं चाहं (०१८-००८)
गच्छन् नारायणं ततः (०१८-००८)
स्वपन् विबुद्धः प्रणमन् (०१८-००९)
होमं कुर्वंस् तथार्चनम् (०१८-००९)
नारायणस्यानुदिनं (०१८-००९)
करिष्ये नामकीर्तनम् (०१८-००९)
यावद् अद्यदिनात् प्राप्तं (०१८-०१०)
क्रमशो दक्षिणायनम् (०१८-०१०)
स्खलिते ऽहं क्षुते चैव (०१८-०१०)
वेदनार्तो ऽथवा सदा (०१८-०१०)
तावन् नारायणं वक्ष्ये (०१८-०१०)
सर्वम् एवोत्तरायणम् (०१८-०१०)
यावज् जीववधं किंचिद् (०१८-०११)
ज्ञानतो ऽज्ञानतो ऽपि वा (०१८-०११)
करिष्ये ऽहं तथा चैव (०१८-०११)
कीर्तयिष्यामि तं प्रभुम् (०१८-०११)
यदा तदानृतं किंचिद् (०१८-०१२)
अथ वक्ष्यामि दुर्वचः (०१८-०१२)
अज्ञानाद् अथवा ज्ञानात् (०१८-०१२)
कीर्तयिष्यामि तं प्रभुम् (०१८-०१२)
षण्मासम् एष मे जापो (०१८-०१३)
नारायणमयः परः (०१८-०१३)
तं स्मरन् मरणे याति (०१८-०१३)
यां गतिं सास्तु मे गतिः (०१८-०१३)
षण्मासाभ्यन्तरे मृत्युर् (०१८-०१४)
यद्य् अकस्माद् भवेन् मम (०१८-०१४)
तन् मया वासुदेवाय (०१८-०१४)
स्वयम् आत्मा निवेदितः (०१८-०१४)
परमार्थमयं ब्रह्म (०१८-०१५)
वासुदेवमयं परम् (०१८-०१५)
यम् अन्ते संस्मरन् याति (०१८-०१५)
स मे विष्णुः परा गतिः (०१८-०१५)
यदा प्रातस् तदा सायं (०१८-०१६)
मध्याह्ने वा म्रिये ह्य् अहम् (०१८-०१६)
षण्मासाभ्यन्तरे न्यासः (०१८-०१६)
कृतो व्रतमयो मया (०१८-०१६)
तथा कुरु जगन्नाथ (०१८-०१७)
सर्वलोकपरायण (०१८-०१७)
नारायण यथा नान्यं (०१८-०१७)
त्वत्तो यामि मृते गतिम् (०१८-०१७)
एवम् उच्चार्य षण्मास- (०१८-०१८)
पारणं प्रवरं व्रतम् (०१८-०१८)
तावन् निष्पादयेद् यावत् (०१८-०१८)
संप्राप्तं दक्षिणायनम् (०१८-०१८)
ततश् च प्रीणनं कुर्याद् (०१८-०१९)
यथाशक्त्या जगद्गुरोः (०१८-०१९)
भोजयेद् ब्राह्मणान् सम्यग् (०१८-०१९)
दद्यात् तेभ्यश् च दक्षिणाम् (०१८-०१९)
एवं व्रतम् इदं दाल्भ्य (०१८-०२०)
यः पारयति मानवः (०१८-०२०)
नारी वा सर्वपापेभ्यः (०१८-०२०)
षण्मासाद् विप्र मुच्यते (०१८-०२०)
षण्मासाभ्यन्तरे चास्य (०१८-०२१)
मरणं यदि जायते (०१८-०२१)
प्राप्नोत्य् अनशनस्योक्तं (०१८-०२१)
यत् फलं तद् असंशयम् (०१८-०२१)
पदद्वयं च कृष्णस्य (०१८-०२२)
सम्यक् तेन तथार्चितम् (०१८-०२२)
हरेर् नाम जपन् भक्त्या (०१८-*(१०))
स पुरा न जनेश्वर (१८*(१०))
भगवान् उज्जगौ विष्णुः (०१८-०२२)
पुरा गार्ग्याय पृच्छते (०१८-०२२)
फाल्गुनामलपक्षस्य (०१९-००१)
एकादश्याम् उपोषितः (०१९-००१)
नरो वा यदि वा नारी (०१९-००१)
समभ्यर्च्य जगद्गुरुम् (०१९-००१)
हरेर् नाम जपेद् भक्त्या (०१९-००२)
सप्त वारान् नरेश्वर (०१९-००२)
उत्तिष्ठन् प्रस्वपंश् चैव (०१९-००२)
हरिम् एवानुकीर्तयेत् (०१९-००२)
ततो ऽन्यदिवसे प्राप्ते (०१९-००३)
द्वादश्यां प्रयतो हरिम् (०१९-००३)
स्नात्वा सम्यक् तम् अभ्यर्च्य (०१९-००३)
दद्याद् विप्राय दक्षिणाम् (०१९-००३)
हरिम् उद्दिश्य चैवाग्नौ (०१९-००४)
घृतहोमकृतक्रियः (०१९-००४)
प्रणिपत्य जगन्नाथम् (०१९-००४)
इति वाणीम् उदीरयेत् (०१९-००४)
पातालसंस्था वसुधा (०१९-००५)
यं प्रसाद्य मनोरथान् (०१९-००५)
अवाप वासुदेवो ऽसौ (०१९-००५)
प्रददातु मनोरथान् (०१९-००५)
यम् अभ्यर्च्यादितिः प्राप्ता (०१९-००६)
सकलांश् च मनोरथान् (०१९-००६)
पुत्रांश् चैवेप्सितान् देवः (०१९-००६)
प्रददातु मनोरथान् (०१९-००६)
भ्रष्टराज्यश् च देवेन्द्रो (०१९-००७)
यम् अभ्यर्च्य जगत्पतिम् (०१९-००७)
मनोरथान् अवापाग्र्यान् (०१९-००७)
स ददातु मनोरथान् (०१९-००७)
एवम् अभ्यर्च्य पूजां च (०१९-००८)
निष्पाद्य हरये ततः (०१९-००८)
भुञ्जीत प्रयतः सम्यग् (०१९-००८)
हविष्यं मनुजर्षभ (०१९-००८)
फाल्गुनं चैत्रवैशाखौ (०१९-००९)
ज्येष्ठमासं च पार्थिव (०१९-००९)
चतुर्भिः पारणं मासैर् (०१९-००९)
एभिर् निष्पादितं भवेत् (०१९-००९)
रक्तपुष्पैस् तु चतुरो (०१९-०१०)
मासान् कुर्वीत चार्चनम् (०१९-०१०)
दहेच् च गुग्गुलं प्राश्य (०१९-०१०)
गोशृङ्गक्षालनं जलम् (०१९-०१०)
हविष्यान्नं च नैवेद्यम् (०१९-०११)
आत्मनश् चैव भोजनम् (०१९-०११)
ततश् च श्रूयताम् अन्यद् (०१९-०११)
आषाढादौ तु या क्रिया (०१९-०११)
जातीपुष्पाणि धूपश् च (०१९-०१२)
शस्तः सर्जरसो नृप (०१९-०१२)
प्राश्य दर्भोदकं चात्र (०१९-०१२)
शाल्यन्नं च निवेदनम् (०१९-०१२)
स्वयं तद् एव चाश्नीयाच् (०१९-०१३)
शेषं पूर्ववद् आचरेत् (०१९-०१३)
कार्त्तिकादिषु मासेषु (०१९-०१३)
गोमूत्रं कायशोधनम् (०१९-०१३)
सुगन्धं चेच्छया धूपं (०१९-०१४)
पूजाभृङ्गारकेण च (०१९-०१४)
कासारं चात्र नैवेद्यम् (०१९-०१४)
अश्नीयात् तच् च वै स्वयम् (०१९-०१४)
प्रतिमासं च विप्राय (०१९-०१५)
दातव्या दक्षिणा तथा (०१९-०१५)
प्रीणनं चेच्छया विष्णोः (०१९-०१५)
पारणे पारणे गते (०१९-०१५)
यथाशक्ति यथाप्रीति (०१९-०१६)
वित्तशाठ्यं विवर्जयेत् (०१९-०१६)
सद्भावेनैव गोविन्दः (०१९-०१६)
पूजितः प्रीयते यतः (०१९-०१६)
पारणान्ते यथाशक्त्या (०१९-०१७)
स्नापितः पूजितो हरिः (०१९-०१७)
प्रीणितश् चेप्सितान् कामान् (०१९-०१७)
ददात्य् अव्याहतान् नृप (०१९-०१७)
एषा धन्या पापहरा (०१९-०१८)
द्वादशी फलम् इच्छताम् (०१९-०१८)
यथाभिलषितान् कामान् (०१९-०१८)
ददाति मनुजेश्वर (०१९-०१८)
पूरयत्य् अखिलान् भक्त्या (०१९-०१९)
यतश् चैषा मनोरथान् (०१९-०१९)
मनोरथद्वादशीयं (०१९-०१९)
ततो लोकेषु विश्रुता (०१९-०१९)
उपोष्यैतां त्रिभुवनं (०१९-०२०)
प्राप्तम् इन्द्रेण वै पुरा (०१९-०२०)
अदित्या चेप्सिताः पुत्रा (०१९-०२०)
धनं चोशनसा नृप (०१९-०२०)
धौम्येन चाप्य् अध्ययनम् (०१९-०२१)
अन्यैश् चाभिमतं फलम् (०१९-०२१)
राजर्षिभिस् तथा विप्रैः (०१९-०२१)
स्त्रीभिः शूद्रैश् च भूपते (०१९-०२१)
यं यं कामम् अभिध्यायेद् (०१९-०२२,*(११))
व्रतम् एतद् उपोषितः (०१९-०२२,*(११))
तं तम् आप्नोत्य् असंदिग्धं (०१९-०२२,*(११))
विष्णोर् आराधनोद्यतः (०१९-०२२,*(११))
अपुत्रो लभते पुत्रम् (०१९-०२३)
अधनो लभते धनम् (०१९-०२३)
रोगाभिभूतश् चारोग्यं (०१९-०२३)
कन्या प्राप्नोति सत्पतिम् (०१९-०२३)
समागमं प्रवसितैर् (०१९-०२४)
उपोष्यैताम् अवाप्नुते (०१९-०२४)
सर्वान् कामान् अवाप्नोति (०१९-०२४)
मृतः स्वर्गे च मोदते (०१९-०२४)
नापुत्रो नाधनो नेष्ट- (०१९-०२५)
वियोगी न च निर्गुणः (०१९-०२५)
उपोष्यैतद् व्रतं मर्त्यः (०१९-०२५)
स्त्री जनो वापि जायते (०१९-०२५)
य एव व्रतसंचीर्णो (०१९-*(१२))
विष्णुलोके महीयते (०१९-*(१२))
स्वर्गलोके सहस्राणि (०१९-०२६)
वर्षाणां मनुजाधिप (०१९-०२६)
भोगान् अभिमतान् भुक्त्वा (०१९-०२६)
स्वर्गलोके ऽभिकाङ्क्षितान् (०१९-०२६)
इह पुण्यवतां नॄणां (०१९-०२७)
धनिनां साधुशीलिनाम् (०१९-०२७)
गृहेषु जायते राजन् (०१९-०२७)
सर्वव्याधिविवर्जितः (०१९-०२७)
अशोकपूर्णिमां चान्यां (०२०-००१)
शृणुश्व वदतो मम (०२०-००१)
याम् उपोष्य नरः शोकं (०२०-००१)
नाप्नोति स्त्री तथापि वा (०२०-००१)
फाल्गुनामलपक्षस्य (०२०-००२)
पूर्णिमास्यां नरेश्वर (०२०-००२)
मृज्जलेन नरः स्नात्वा (०२०-००२)
दत्त्वा शिरसि वै मृदम् (०२०-००२)
मृत्प्राशनं तथा कृत्वा (०२०-००३)
कृत्वा च स्थण्डिलं मृदा (०२०-००३)
पुष्पैः पत्रैस् तथाभ्यर्च्य (०२०-००३)
भूधरं नान्यमानसः (०२०-००३)
धरणीं च तथा देवीम् (०२०-००३)
अशोकेत्य् अभिधीयते (०२०-००३)
यथा विशोकां धरणीं (०२०-००४)
कृतवांस् त्वं जनार्दनः (०२०-००४)
तथा मां सर्वपापेभ्यो (०२०-००४)
मोचयाशेषधारिणि (०२०-००४)
यथा समस्तभूतानां (०२०-००५)
धारणं त्वय्य् अवस्थितम् (०२०-००५)
तथा विशोकं कुरु मां (०२०-००५)
सकलेच्छाविभूतिभिः (०२०-००५)
ध्यातमात्रे यथा विष्णौ (०२०-००६)
स्वास्थ्यं यातासि मेदिनि (०२०-००६)
तथा मनः स्वस्थतां मे (०२०-००६)
कुरु त्वं भूतधारिणि (०२०-००६)
एवं स्तुत्वा तथाभ्यर्च्य (०२०-००७)
चन्द्रायार्घ्यं निवेद्य च (०२०-००७)
उपोषितव्यं नक्तं वा (०२०-००७)
भोक्तव्यं तैलवर्जितम् (०२०-००७)
अनेनैव प्रकारेण (०२०-००८)
चत्वारः फाल्गुनादयः (०२०-००८)
उपोष्या नृपते मासाः (०२०-००८)
प्रथमं तत् तु पारणम् (०२०-००८)
आषाढादिषु मासेषु (०२०-००९)
तद्वत् स्नानं मृदम्बुना (०२०-००९)
तद् एव प्राशनं पूजा (०२०-००९)
तथैवेन्दोस् तथार्हणम् (०२०-००९)
चतुर्ष्व् अन्येषु चैवोक्तं (०२०-०१०)
तथा वै कार्त्तिकादिषु (०२०-०१०)
पारणं त्रितयं चैव (०२०-०१०)
चातुर्मासिकम् उच्यते (०२०-०१०)
प्रथमं धरणी नाम (०२०-०११)
स्तुत्यै मासचतुष्टयम् (०२०-०११)
द्वितीये मेदिनी वाच्या (०२०-०११)
तृतीये च वसुंधरा (०२०-०११)
पारणे पारणे वस्त्र- (०२०-०१२)
पूजया पूजयेन् नृप (०२०-०१२)
धरणीं देवदेवं च (०२०-०१२)
घृतस्नानेन केशवम् (०२०-०१२)
वस्त्राभावे तु सूत्रेण (०२०-०१३)
पूजयेद् धरणीं तथा (०२०-०१३)
घृताभावे तथा क्षीरं (०२०-०१३)
शस्तं वा सलिलं हरेः (०२०-०१३)
पातालमूलगतया (०२०-०१४)
चीर्णम् एतन् महाव्रतम् (०२०-०१४)
धरण्या केशवप्रीत्यै (०२०-०१४)
ततः प्राप्ता समुन्नतिः (०२०-०१४)
देवेन चोक्ता धरणी (०२०-०१५)
वराहवपुषा तदा (०२०-०१५)
उपवासप्रसन्नेन (०२०-०१५)
समुद्धृत्य रसातलात् (०२०-०१५)
व्रतेनानेन कल्याणि (०२०-०१६)
प्रणतो यः करिष्यति (०२०-०१६)
तस्य प्रसादम् अप्य् अहम् (०२०-*(१३))
करोमि तव मेदिनि (०२०-*(१३))
तथैव कुरुते पूजां (०२०-*(१३))
भक्त्या मम शुभो जनः (०२०-*(१३))
तथैव तव कल्याणि (०२०-*(१३))
प्रणतो यः करिष्यति (०२०-*(१३))
व्रतम् एतद् उपाश्रित्य (०२०-०१६)
पारणं च यथाविधि (०२०-०१६)
सर्वपापविनिर्मुक्तः (०२०-०१७)
सप्त जन्मान्तराण्य् असौ (०२०-०१७)
विशोकः सर्वकल्याण- (०२०-०१७)
भाजनो मतिमाञ् जनः (०२०-०१७)
सर्वत्र पूज्यः सततं (०२०-०१८)
सर्वेषाम् अपराजितः (०२०-०१८)
यथाहम् एवं वसुधे (०२०-०१८)
भविता निर्वृतेः पदम् (०२०-०१८)
तथा त्वम् अपि कल्याणि (०२०-*(१४))
भविष्यसि न संशयः (०२०-*(१४))
एवम् एतन् महापुण्यं (०२०-०१९)
सर्वपापोपशान्तिदम् (०२०-०१९)
विशोकाख्यं व्रतं धन्यं (०२०-०१९)
तत् कुरुष्व महीपते (०२०-०१९)
स्त्रीणां धर्मं द्विजश्रेष्ठ (०२१-००१)
उपवासं भवन् मम (०२१-००१)
कथयेह यथातत्त्वम् (०२१-००१)
उपवासविधिश् च यः (०२१-००१)
कौमारके गृहस्थाया (०२१-००२)
विधवायाश् च सत्तम (०२१-००२)
धर्मं प्रब्रूह्य् अशेषेण (०२१-००२)
भगवन् प्रीतिकारकम् (०२१-००२)
श्रूयताम् अखिलं ब्रह्मन् (०२१-००३)
यद्य् एतद् अनुपृच्छसि (०२१-००३)
उपकाराय च स्त्रीणां (०२१-००३)
त्रिषु लोकेष्व् अनुत्तमम् (०२१-००३)
प्रश्नम् एतत् पुरा देवी (०२१-००४)
शैलराजसुता पतिम् (०२१-००४)
पप्रच्छ शङ्करं ब्रह्मन् (०२१-००४)
कैलासशिखरे स्थितम् (०२१-००४)
कुमारिकाभिर् देवेश (०२१-००५)
गृहस्थाभिश् च केशवः (०२१-००५)
विधवाभिस् तथा स्त्रीभिः (०२१-००५)
कथम् आराध्यते वद (०२१-००५)
साधु साध्वि त्वया पृष्टम् (०२१-००६)
एतन् नारायणाश्रितम् (०२१-००६)
उपवासादि यत् तत्त्वं (०२१-००६)
श्रूयताम् अस्य यो विधिः (०२१-००६)
योग्यं पतिं समासाद्य (०२१-००७)
नारी धर्मम् अवाप्नुते (०२१-००७)
दुःशीले ऽपि हि कामार्ते (०२१-००७)
नारी प्राप्नोति भर्तरि (०२१-००७)
अनाराध्य जगन्नाथं (०२१-००८)
सर्वलोकेश्वरं हरिम् (०२१-००८)
कथम् आप्नोति वै नारी (०२१-००८)
पतिं शीलगुणान्वितम् (०२१-००८)
सुकलत्रप्रदं तस्माद् (०२१-००९)
व्रतम् अच्युततुष्टिदम् (०२१-००९)
कर्तव्यं लक्षणं तस्य (०२१-००९)
श्रूयतां वरवर्णिनि (०२१-००९)
यच् चीर्त्वा सर्वनारीणां (०२१-०१०)
श्रेष्ठम् आप्नोत्य् असंशयम् (०२१-०१०)
ऐहिकं च सुखं प्राप्य (०२१-०१०)
स्वर्गे भुङ्क्ते सुखान्य् अपि (०२१-०१०)
अनुज्ञां प्राप्य पितृतो (०२१-०११)
मातृतश् च कुमारिका (०२१-०११)
पूजयेच् च जगन्नाथं (०२१-०११)
भक्त्या पापहरं हरिम् (०२१-०११)
त्रिषूत्तरेषु स्वृक्षेषु (०२१-०१२)
पतिकामा कुमारिका (०२१-०१२)
माधवाख्यं तु वै नाम (०२१-०१२)
जपेन् नित्यम् अतन्द्रिता (०२१-०१२)
प्रियङ्गुणा रक्तपुष्पैर् (०२१-०१३)
बन्धूककुसुमैस् तथा (०२१-०१३)
समभ्यर्च्य ततो दद्याद् (०२१-०१३)
रक्तम् एवानुलेपनम् (०२१-०१३)
सर्वौषध्या स्वयं स्नात्वा (०२१-०१४)
समभ्यर्च्य जगत्पतिम् (०२१-०१४)
नमो ऽस्तु माधवायेति (०२१-०१४)
होमयेन् मधुसर्पिषी (०२१-०१४)
स देवम् उत्तरायोगे (०२१-०१५)
समभ्यर्च्य जनार्दनम् (०२१-०१५)
शोभनं पतिम् आप्नोति (०२१-०१५)
प्रेत्य स्वर्गं च गच्छति (०२१-०१५)
अतिबाल्ये च यत् किंचित् (०२१-०१६)
तया पापम् अनुष्ठितम् (०२१-०१६)
तस्माच् च मुच्यते देवि (०२१-०१६)
सुखिनी चैव जायते (०२१-०१६)
अब्देनैकेन तन्वङ्गि (०२१-०१७)
धूतपापा यद् इच्छति (०२१-०१७)
तद् एव प्राप्नुयाद् भद्रे (०२१-०१७)
नारायणपरायणा (०२१-०१७)
षण्मासं प्रीणनं कार्यं (०२१-०१८)
भक्त्या शक्त्या च वै हरेः (०२१-०१८)
पारणान्ते महाभगे (०२१-०१८)
तथा ब्राह्मणतर्पणम् (०२१-०१८)
गार्हस्थ्ये ऽवस्थिता नारी (०२२-००१)
भक्त्या संपूजयेत् पतिम् (०२२-००१)
स एव देवता तस्याः (०२२-००१)
पूज्यः पूज्यतरश् च सः (०२२-००१)
तस्मिंस् तुष्टे परो धर्मस् (०२२-००२)
तस्यैव परिचर्यया (०२२-००२)
तोषम् आयाति सर्वात्मा (०२२-००२)
परमात्मा जनार्दनः (०२२-००२)
नैव तस्याः पृथग् यज्ञो (०२२-००३)
न श्राद्धं नाप्य् उपोषितम् (०२२-००३)
भर्तृशुश्रूषणेनैव (०२२-००३)
प्राप्नोति स्त्री यथेप्सितम् (०२२-००३)
तेनैव साप्य् अनुज्ञाता (०२२-००४)
तस्य शुश्रूषणाद् अनु (०२२-००४)
तोषयेज् जगताम् ईशम् (०२२-००४)
अनन्तम् अपराजितम् (०२२-००४)
व्रतैर् नानाविधैर् देवि (०२२-००५)
ऐहिकामुष्मिकाप्तये (०२२-००५)
विष्णुव्रतादिभिर् दिव्यैस् (०२२-००५)
तथा दानैर् मनोऽनुगैः (०२२-००५)
घृतक्षीराभिषेकैश् च (०२२-००६)
ब्राह्मणानां च तर्पणैः (०२२-००६)
मनोज्ञैर् विविधैर् धूपैः (०२२-००६)
पुष्पवस्त्रानुलेपनैः (०२२-००६)
गीतवाद्यैस् तथा हृद्यैर् (०२२-००७)
उपवासैश् च भामिनि (०२२-००७)
एवम् आराध्य गोविन्दम् (०२२-००७)
अनुज्ञाता यथाविधि (०२२-००७)
पतिना सकलान् कामान् (०२२-००७)
अवाप्नोति न संशयः (०२२-००७)
पतिना त्व् अननुज्ञाता (०२२-००८)
किंचित् पुण्यं करोति या (०२२-००८)
विफलं तद् अशेषं वै (०२२-००८)
तस्याः शैलवरात्मजे (०२२-००८)
न च प्रसादं कुरुते (०२२-००९)
भगवान् मधुसूदनः (०२२-००९)
नानुज्ञाता तु या नारी (०२२-००९)
पतिनार्चति केशवम् (०२२-००९)
या तु भर्तृपरा नारी (०२२-०१०)
नारायणम् अतन्द्रिता (०२२-०१०)
भक्त्या संपूजयेद् देवं (०२२-०१०)
तोषम् आयाति केशवः (०२२-०१०)
या तु भर्त्रा परित्यक्ता (०२२-०११)
तथा या मृतभर्तृका (०२२-०११)
पाषण्डानुगतो वापि (०२२-०११)
यस्या भर्ता महेश्वर (०२२-०११)
प्रायो ददाति नानुज्ञां (०२२-०१२)
विष्णोर् आराधने तदा (०२२-०१२)
कथम् आराधनं कार्यं (०२२-०१२)
विष्णोस् तद् वद शंकर (०२२-०१२)
या तु भर्त्रा परित्यक्ता (०२२-०१३)
सा संपूज्य निजं पतिम् (०२२-०१३)
मनसा तन्मनस्का च (०२२-०१३)
तस्यैव हितकारिणी (०२२-०१३)
न निन्दाकरणी तस्य (०२२-०१४)
श्रेयोऽभिध्यायिनी तथा (०२२-०१४)
तस्यैव सर्वकालेषु (०२२-०१४)
सर्वकल्याणम् इच्छति (०२२-०१४)
आराधयेज् जगन्नाथं (०२२-०१५)
सर्वधातारम् अच्युतम् (०२२-०१५)
कृतोपवासा पुष्पादि (०२२-०१५)
निवेद्य सकलं ततः (०२२-०१५)
भर्तुर् मनोरथावाप्तिं (०२२-०१६)
प्रार्थयेत् प्रथमं वरम् (०२२-०१६)
स्वयं यथाभिलषितं (०२२-०१६)
प्रार्थयेत् तं वरं ततः (०२२-०१६)
एवं भर्तृपरित्यक्ता (०२२-०१७)
योषिद् आराधनं हरेः (०२२-०१७)
कुर्वाणा सकलान् कामान् (०२२-०१७)
अवाप्नोति न संशयः (०२२-०१७)
भर्ता करोति यच् चस्याः (०२२-०१८)
किंचित् पुण्यम् अहर्निशम् (०२२-०१८)
तस्य पुण्यस्य संपूर्णम् (०२२-०१८)
अर्धं प्राप्नोति सा शुभे (०२२-०१८)
यत् तु सा कुरुते पुण्यं (०२२-०१९)
विना दोषेण योज्झिता (०२२-०१९)
तत् तस्याः सकलं देवि (०२२-०१९)
तस्यार्धं न लभेत् पतिः (०२२-०१९)
भर्तर्य् एवं प्रवसिते (०२२-०२०)
त्यक्ता च पतिना शुभे (०२२-०२०)
कुर्वीताराधनं नारी (०२२-०२०)
उपवासादिना हरेः (०२२-०२०)
एतत् तवोक्तं यत् पृष्टं (०२२-०२१)
त्वयाहं गिरिनन्दिनि (०२२-०२१)
विधवानाम् अतो धर्मं (०२२-०२१)
श्रूयतां विष्णुतुष्टिदम् (०२२-०२१)
मृते भर्तरि साध्वी स्त्री (०२२-०२२)
ब्रह्मचर्यव्रतोदिता (०२२-०२२)
स्नाता प्रतिदिनं दद्यात् (०२२-०२२)
स्वभर्तृसलिलाञ्जलिम् (०२२-०२२)
कुर्याद् यानुदिनं भक्त्या (०२२-०२३)
देवानाम् अपि पूजनम् (०२२-०२३)
अतिथेस् तर्पणं तद्वद् (०२२-०२३)
अग्निहोत्रम् अमन्त्रकम् (०२२-०२३)
पूर्तधर्माश्रितं चान्यत् (०२२-०२४)
कुर्यान् नित्यम् अतन्द्रिता (०२२-०२४)
नित्यकर्म ऋते चास्या (०२२-०२४)
नेष्टं कर्म विधीयते (०२२-०२४)
विष्णोर् आराधनं चैव (०२२-०२५)
कुर्यान् नित्यम् उपोषिता (०२२-०२५)
दानादि विप्रमुख्येभ्यो (०२२-०२५)
दद्यात् पुण्यविवृद्धये (०२२-०२५)
उपवासांश् च विविधान् (०२२-०२५)
कुर्याच् छास्त्रोदितान् शुभे (०२२-०२५)
लोकान्तरस्थं भर्तारम् (०२२-०२६)
आत्मानं च वरानने (०२२-०२६)
तारयत्य् उभयं नारी (०२२-०२६)
येत्थं धर्मपरायणा (०२२-०२६)
पुत्रैश्वर्यस्थिता नारी (०२२-०२७)
उपवासादिना हरिम् (०२२-०२७)
या तोषयति सिद्धिं सा (०२२-०२७)
पुत्रेभ्यो ऽपि प्रयच्छति (०२२-०२७)
शुभांल् लोकांस् तथा भर्तुर् (०२२-०२८)
आत्मनश् च यथेप्सितान् (०२२-०२८)
सकलं पूरयत्य् अस्तं (०२२-०२८)
पापं नयति चाखिलम् (०२२-०२८)
आत्मनश् चैव भर्तुश् च (०२२-०२९)
नारी परमिकां गतिम् (०२२-०२९)
ददात्य् आराध्य गोविन्दं (०२२-०२९)
सपुत्रा विधवा च या (०२२-०२९)
तस्माद् एभिर् विधानैस् तु (०२२-०३०)
सर्वकालं तु योषितः (०२२-०३०)
केशवाराधनं कार्यं (०२२-०३०)
लोकद्वयफलप्रदम् (०२२-०३०)
ये नरा मृतपत्निकास् (०२२-०३१)
तैर् अप्य् एतद् अशेषतः (०२२-०३१)
पूर्तधर्माश्रितं कार्यं (०२२-०३१)
नित्यकर्म च केवलम् (०२२-०३१)
पुत्रैश्वर्यस्थितैः सम्यग् (०२२-०३२)
ब्रह्मचर्यगुणान्वितैः (०२२-०३२)
विष्णोर् आराधनं कार्यं (०२२-०३२)
तीर्थस्थैर् अथवा गृहे (०२२-०३२)
ब्राह्मणः क्षत्रियो वैश्यः (०२२-०३३)
स्त्री शूद्रश् च वरानने (०२२-०३३)
अनाराध्य हृषीकेशं (०२२-०३३)
नाप्नोति परमां गतिम् (०२२-०३३)
ऐश्वर्यं संततिं श्रेष्ठाम् (०२२-०३४)
आरोग्यं द्रव्यसंपदम् (०२२-०३४)
ददाति भगवान् विष्णुर् (०२२-०३४)
गतिम् अग्र्यां सुतोषितः (०२२-०३४)
एवं शैलसुता प्रोक्ता (०२२-०३५)
स्वयं देवेन शंभुना (०२२-०३५)
पृष्टेन सम्यक् कथितं (०२२-०३५)
भवतो ऽपि महामुने (०२२-०३५)
सर्ववर्णैस् तथा स्त्रीभिर् (०२२-०३६)
अन्यैर् अपि जनैर् हरिः (०२२-०३६)
आराधनीयो नातुष्टे (०२२-०३६)
विष्णौ संप्राप्यते गतिः (०२२-०३६)
न दुर्गतिं रौरवादीन् (०२२-०३७)
नरकांश् च न गच्छति (०२२-०३७)
यम् आराध्येश्वरं वन्द्यं (०२२-०३७)
कस् तं विष्णुं न पूजयेत् (०२२-०३७)
तस्माद् अमुष्मिकान् क्लेशान् (०२२-०३८)
नरके याश् च यातनाः (०२२-०३८)
सदैवोद्विजता दाल्भ्य (०२२-०३८)
समाराध्यो जनार्दनः (०२२-०३८)
भगवन् यातना घोराः (०२३-००१)
श्रूयन्ते नरकेषु याः (०२३-००१)
तासां स्वरूपम् अत्युग्रं (०२३-००१)
यथावद् वक्तुम् अर्हसि (०२३-००१)
शृणु दाल्भ्यातिघोराणां (०२३-००२)
यातनानां मयोदितम् (०२३-००२)
स्वरूपं नारकैर् यत् तु (०२३-००२)
नरकेष्व् अनुभूयते (०२३-००२)
योजनानां सहस्राणि (०२३-००३)
रौरवो नरको द्विज (०२३-००३)
अङ्गारपूर्णमध्यो ऽसौ (०२३-००३)
ज्वालामालापरिष्कृतः (०२३-००३)
तन्मध्ये पतितो याति (०२३-००४)
योजनानि सहस्रशः (०२३-००४)
सत्यहान्यानृती याति (०२३-००४)
तत्र पापरतिर् नरः (०२३-००४)
रौरवाद् द्विगुणश् चैव (०२३-००५)
महारौवरसंज्ञितः (०२३-००५)
तप्तताम्रपुटाङ्गार- (०२३-००५)
ज्वलत्पावकसंवृतः (०२३-००५)
परोपतापिनस् तत्र (०२३-००६)
पतन्ति नरके नराः (०२३-००६)
नाश्चर्यं द्विजशार्दूल (०२३-००६)
वर्षलक्षयुतानि च (०२३-००६)
कालसूत्रेण च्छिद्यन्ते (०२३-००७)
चक्रारूढाश् च मानवाः (०२३-००७)
कालाङ्गुलिस्थेन सदा (०२३-००७)
आपादतलमस्तकात् (०२३-००७)
कालसूत्र इति ख्यातो (०२३-००८)
घोरः स नरकोत्तमः (०२३-००८)
तत्रापि वञ्चका यान्ति (०२३-००८)
ये चैवोत्कोचजीविनः (०२३-००८)
तप्तकुम्भस् तथैवान्यो (०२३-००९)
नरको भृशदारुणः (०२३-००९)
तैलकुम्भेषु पच्यन्ते (०२३-००९)
तत्राप्य् अग्निभृतेषु ते (०२३-००९)
देववेदद्विजातीनां (०२३-०१०)
ये निन्दां कुर्वते सदा (०२३-०१०)
संशृण्वन्ति च ये मूढा (०२३-०१०)
ये च मत्सरिणो ऽधमाः (०२३-०१०)
करम्भवालुकाकुम्भ- (०२३-०११)
संज्ञं च नरकं शृणु (०२३-०११)
परदाररता ये तु (०२३-०११)
पतन्ति नरके ऽधमाः (०२३-०११)
हृतं यैश् च जलं ते ऽपि (०२३-०१२)
तस्मिन् यान्ति नराधमाः (०२३-०१२)
गोनिपानेषु विघ्नानि (०२३-०१२)
मूढा ये चापि कुर्वते (०२३-०१२)
करम्भवालुकाकुम्भ- (०२३-०१२)
नरके ते पतन्ति वै (०२३-०१२)
अन्धे तमसि दुष्पारे (०२३-०१३)
शीतार्तिपरिकम्पिताः (०२३-०१३)
भ्राम्यन्ते मानवा गात्रैः (०२३-०१३)
समस्तैः स्फुटितास्थिभिः (०२३-०१३)
गोवधः स्त्रीवधः पापैः (०२३-०१४)
कृतं यैश् च गवानृतम् (०२३-०१४)
ते तत्रातिमहाभीमे (०२३-०१४)
पतन्ति नरके नराः (०२३-०१४)
उत्पाट्यते तथा जिह्वा (०२३-०१५)
संदंशैर् भृशदारुणैः (०२३-०१५)
आक्रिशकानां दुष्टानां (०२३-०१५)
सदैवाबद्धभाषिणाम् (०२३-०१५)
करपत्रैश् च पाट्यन्ते (०२३-०१६)
यमस्य पुरुषैस् तथा (०२३-०१६)
परदारपरद्रव्य- (०२३-०१६)
हिंसकाः पुरुषाधमाः (०२३-०१६)
आयसीं च शिलां तप्ताम् (०२३-०१७)
अशेषाङ्गैस् तथा नराः (०२३-०१७)
परदाररता एवं (०२३-०१७)
समालिङ्गन्ति पापिनः (०२३-०१७)
सर्वाङ्गैर् विकृतैर् रक्तम् (०२३-०१८)
उद्गिरन्तो ऽतिपीडिताः (०२३-०१८)
यन्त्रेष्व् अन्येषु पीड्यन्ते (०२३-०१८)
जन्तुपीडाकरा नराः (०२३-०१८)
वृकैः संभक्ष्यते पृष्ठं (०२३-०१९)
नराणां पापकारिणाम् (०२३-०१९)
जनस्य पृष्ठमांसं यैर् (०२३-०१९)
भक्षितं पापकारिभिः (०२३-०१९)
असिपत्रवनैर् घोरैश् (०२३-०२०)
छिद्यन्ते पापकर्मिणः (०२३-०२०)
सद्भावप्रवणा यैस् तु (०२३-०२०)
भग्ना विश्रम्भिनो जनाः (०२३-०२०)
अयोमुखैः खगैर् भग्नाः (०२३-०२१)
खण्डखण्डं तथापरैः (०२३-०२१)
व्रजन्ति पापकर्माणः (०२३-०२१)
श्वशृगालैस् तथापरैः (०२३-०२१)
सूषायाम् अपि धास्यन्ते (०२३-०२२)
ज्वलदग्निचयावृताः (०२३-०२२)
पाषाणपेष्यं पिष्यन्ते (०२३-०२२)
तथान्ये पापकर्मिणः (०२३-०२२)
देवतातिथिभृत्याणाम् (०२३-०२३)
अदत्त्वा भुञ्जते तु ये (०२३-०२३)
मृषागतास् तथाइवैक्यं (०२३-०२३)
त्रपुषा सीसकेन च (०२३-०२३)
प्रयान्ति पुरुषास् तैलैः (०२३-०२३)
क्वाथ्यन्ते ऽन्ये पुनः पुनः (०२३-०२३)
वर्णधर्मपरित्यागे (०२३-०२४)
नैक्यं ये पुरुषा गताः (०२३-०२४)
ते ऽपि पापसमाचारा (०२३-०२४)
वर्णसंकरकारिणः (०२३-०२४)
स्वरूपं नारकस्याग्नेः (०२३-०२५)
शृणुष्व कथयामि ते (०२३-०२५)
मुक्तस् ततो ऽन्यवह्निस्ह्तः (०२३-०२५)
शेते संप्राप्य निर्वृतिम् (०२३-०२५)
शस्त्रधारास् तथैवैता (०२३-०२६)
मृणालप्रस्तरं नरः (०२३-०२६)
मन्यते नारकैः शस्त्रैर् (०२३-०२६)
विक्षतो द्विजसत्तम (०२३-०२६)
हिमखण्डचयाछन्नो (०२३-०२७)
निवातं मन्यते नरः (०२३-०२७)
विमुक्तो नारकाच् छीतात् (०२३-०२७)
प्रकाशं तमसस् तमः (०२३-०२७)
प्रोता गुदेषु भिन्नाङ्गा (०२३-०२८)
आर्ता रावविराविणः (०२३-०२८)
शूलेषु लोहेष्व् अपरे (०२३-०२८)
त्रिशूलेषु तथापरे (०२३-०२८)
याज्योपाध्यायदाम्पत्य- (०२३-०२९)
सुहृन्मित्रसुतादिषु (०२३-०२९)
कृतो भेदो दुराचारैर् (०२३-०२९)
यैर् अलीकोक्तिभाषिभिः (०२३-०२९)
आयसाः कण्टकास् तीक्ष्णा (०२३-०३०)
नरके कूटशाल्मलौ (०२३-०३०)
तेषु प्रोता दुरात्मानः (०२३-०३०)
परदारभुजो नराः (०२३-०३०)
कृमिकीटजलौकादि- (०२३-०३१)
तीक्ष्णदंष्ट्रास्यविक्षताः (०२३-०३१)
भ्राम्यन्ते चान्धतामिस्रे (०२३-०३१)
वृथामांसाशिनो हि ये (०२३-०३१)
एतांश् चान्यांश् च नरकाञ् (०२३-०३२)
शतशो ऽथ सहस्रशः (०२३-०३२)
कर्मान्तरं जनो भुङ्क्ते (०२३-०३२)
परिणामांश् च चेतसः (०२३-०३२)
यादृक् कर्म मनुष्याणां (०२३-०३३)
तादृग् विषयरूपवत् (०२३-०३३)
परिणामं मनो याति (०२३-०३३)
शुभाशुभमयं द्विज (०२३-०३३)
अतीवभीषणान् इत्थं (०२४-००१)
शस्त्राग्निभयदान् नरः (०२४-००१)
कथं न गच्छेन् नरकान् (०२४-००१)
एतन् मे वक्तुम् अर्हसि (०२४-००१)
अहो ऽतिकष्टपापानां (०२४-००२)
विपाको नरकस्थितैः (०२४-००२)
पुरुषैर् भुज्यते ब्रह्मंस् (०२४-००२)
तन्मोक्षं वद सत्तम (०२४-००२)
पुण्यस्य कर्मणः पाकः (०२४-००३)
पुण्य एव द्विजोत्तम (०२४-००३)
चेतसः परिणामोत्तः (०२४-००३)
स्वर्गस्थैर् भुज्यते नरैः (०२४-००३)
तथैव पाकः पापानां (०२४-००४)
पुरुषैर् नरकस्थितैः (०२४-००४)
भुज्यते तावद् अखिलं (०२४-००४)
यावत् पापं क्षयं गतम् (०२४-००४)
यदा तु पापस्य जयः (०२४-००५)
क्षीयते सुकृतं तदा (०२४-००५)
शुभस्य कर्मणो वृद्धौ (०२४-००५)
क्षयम् आयात्य् अशोभनम् (०२४-००५)
जये यतेत पुरुषस् (०२४-००६)
तस्मात् सुकृतकर्मणः (०२४-००६)
पापं कर्म विना नैव (०२४-००६)
नरकप्राप्तिर् इष्यते (०२४-००६)
जयाय द्वादशी शस्ता (०२४-००७)
नॄणां सुकृतकर्मणाम् (०२४-००७)
याम् उपोष्य द्विजश्रेष्ठ (०२४-००७)
न याति नरकं नरः (०२४-००७)
फाल्गुनामलपक्षस्य (०२४-००८)
एकादश्याम् उपोषितः (०२४-००८)
द्वादश्यां तु द्विजश्रेष्ठ (०२४-००८)
पूजयेन् मधुसूदनम् (०२४-००८)
एकादश्यां समुद्दिष्टं (०२४-००९)
विष्णोर् नामानुकीर्तनम् (०२४-००९)
पूजायां वासुदेवस्य (०२४-००९)
कुर्वीत सुसमाहितः (०२४-००९)
नमो नारायणायेति (०२४-०१०,*(१५))
वाच्यं च स्वपता निशि (०२४-०१०,*(१५))
क्रोधः प्रपञ्च ईर्ष्या च (०२४-०१०)
दम्भो लोभश् च वर्जितः (०२४-०१०)
कामो द्रोहो मदश् चापि (०२४-०११)
मानमात्सर्यम् एव च (०२४-०११)
सर्वम् एतत् परित्यज्य (०२४-०११)
विष्णुभक्तेन चेतसा (०२४-०११)
असारतां च लोके ऽस्मिन् (०२४-०१२)
संसारे भावयेन् मतिम् (०२४-०१२)
कामं क्रोधं च लोभं च (०२४-*(१५))
दम्भम् ईर्ष्यां च वर्जयेत् (०२४-*(१५))
मानद्रोहादिदोषांश् च (०२४-*(१५))
सर्वान् धनमदोद्भूतान् (०२४-*(१५))
भावयेद् विष्णुभक्तांश् च (०२४-*(१५))
संसारासारतां तथा (०२४-*(१५))
एवं भावितचित्तेन (०२४-*(१५))
प्राणिनां हितम् इच्छता (०२४-*(१५))
तथैव कुर्याद् द्वादश्यां (०२४-०१२)
नाम्नाम् उच्चारणं द्विज (०२४-०१२)
यवपात्राणि पूर्वं तु (०२४-०१३)
दद्यान् मासचतुष्टयम् (०२४-०१३)
आषाढादिद्वितीयं तु (०२४-०१३)
पारणं यन् महामते (०२४-०१३)
तत्रापि घृतपात्राणि (०२४-०१३)
दद्याच् छ्रद्धासमन्वितः (०२४-०१३)
कार्त्तिकादिषु मासेषु (०२४-०१४)
माघन्तेषु तथा तिलान् (०२४-०१४)
विप्राय दद्यात् पात्रस्ह्तान् (०२४-०१४)
प्रतिमासम् उपोषितः (०२४-०१४)
नामत्रयम् अशेषेषु (०२४-०१५)
मासि मासि दिनद्वयम् (०२४-०१५)
तथैवोच्चारयेद् दद्याद् (०२४-०१५)
द्वादश्यां च यवादिकम् (०२४-०१५)
प्रणम्य च हृषीकेशं (०२४-०१५)
कृतपूजः प्रसादयेत् (०२४-०१५)
विष्णो नमस् ते जगतः प्रसूते (०२४-०१६)
ॐ वासुदेवाय नमो नमस् ते (०२४-०१६)
नारायण त्वां प्रणतो ऽस्म्य् अचिन्त्य (०२४-०१६)
जयो ऽस्तु मे शाश्वतपुण्यराशेः (०२४-०१६)
प्रसीद पुण्यं जयम् एतु विष्णो (०२४-०१७)
ॐ वासुदेव र्द्धिम् उपैतु पुण्यम् (०२४-०१७)
नारायणों भूतिम् उपैतु पुण्यम् (०२४-०१७)
प्रयातु चाशेषम् अघं विनाशम् (०२४-०१७)
विष्णो पुण्योद्भवो मे ऽस्तु (०२४-०१८)
वासुदेवास्तु मे शुभम् (०२४-०१८)
नारायणास्तु धर्मो मे (०२४-०१८)
जहि पापम् अशेषतः (०२४-०१८)
अनेकजन्मजनितं (०२४-०१९)
बाल्ययौवनवार्द्धिके (०२४-०१९)
पुण्यं विवृद्धिम् आयातु (०२४-०१९)
यातु पापं तु संक्षयम् (०२४-०१९)
आकाशादिषु शब्दादौ (०२४-०२०)
श्रोत्रादौ महदादिषु (०२४-०२०)
प्रकृतौ पुरुषे चैव (०२४-०२०)
ब्रह्मण्य् अपि च स प्रभुः (०२४-०२०)
यथैक एव सर्वात्मा (०२४-०२०)
वासुदेवो व्यवस्थितः (०२४-०२०)
तेन सत्येन मे पापं (०२४-०२१)
नरकार्तिप्रदं क्षयम् (०२४-०२१)
प्रयातु सुकृतस्यास्तु (०२४-०२१)
ममानुदिवसं जयः (०२४-०२१)
पापस्य हानिः पुण्यं च (०२४-०२१)
वृद्धिम् अभ्येत्य् अनुत्तमाम् (०२४-०२१)
एवम् उच्चार्य विप्राय (०२४-०२२)
दत्त्वा यत् कथितं तव (०२४-०२२)
भुञ्जीत कृतकृत्यस् तु (०२४-०२२)
पारणे पारणे गते (०२४-०२२)
पारणान्ते च देवस्य (०२४-०२३)
प्रीणनं शक्तितो द्विज (०२४-०२३)
कुर्वीताखिलपाषण्डैर् (०२४-०२३)
आलापं च विवर्जयेत् (०२४-०२३)
इत्य् एतत् कथितं दाल्भ्य (०२४-०२४)
सुकृतस्य जयावहा (०२४-०२४)
द्वादशी नरकं मृत्यो (०२४-०२४)
याम् उपोष्य न पश्यति (०२४-०२४)
नाग्नयो न च शस्त्राणि (०२४-०२५)
न च लोहमूखाः खगाः (०२४-०२५)
नारकास् तं प्रबाधन्ते (०२४-०२५)
मतिर् यस्य जनार्दने (०२४-०२५)
नामोच्चारणमात्रेण (०२४-०२६)
विष्णोः क्षीणो ऽघसंचयः (०२४-०२६)
भवत्य् अपास्तपापस्य (०२४-०२६)
नरके गमनं कुतः (०२४-०२६)
नमो नारायण हरे (०२४-०२७)
वासुदेवेति कीर्तयेत् (०२४-०२७)
न याति नरकं मर्त्यः (०२४-०२७)
संक्षीणाशेषपातकः (०२४-०२७)
तस्मात् पाषण्डिसंसर्गम् (०२४-०२८)
अकुर्वन् द्वादशीम् इमाम् (०२४-०२८)
उपोष्य पुण्योपचयी (०२४-०२८)
न याति नरकं नरः (०२४-०२८)
पाषण्डिभिर् असंस्पर्शम् (०२५-००१)
असंभाषणम् एव च (०२५-००१)
विष्णोर् आराधनपरैर् (०२५-००१)
नरैः कार्यम् उपोषितैः (०२५-००१)
किं ब्रूहि लक्षणं तेषां (०२५-००२)
यादृशान् वर्जयेद् व्रती (०२५-००२)
कथंचिद् यदि संलाप- (०२५-००२)
दर्शनस्पर्शनादिकम् (०२५-००२)
उपोषितानां पाषण्डैर् (०२५-००३)
नराणां विप्र जायते (०२५-००३)
किं तत्र वद कर्तव्यं (०२५-००३)
येनाखण्डं व्रतं भवेत् (०२५-००३)
श्रुतिस्मृत्युदितं धर्मं (०२५-००४)
वर्णाश्रमविभागजम् (०२५-००४)
उल्लङ्घ्य ये प्रवर्तन्ते (०२५-००४)
स्वेच्छया कूटयुक्तिभिः (०२५-००४)
विकर्माभिरता मूढा (०२५-००५)
युक्तिप्रागल्भ्यदुर्मदाः (०२५-००५)
पाषण्डिनस् ते दुःशीला (०२५-००५)
नरकार्हा नराधमाः (०२५-००५)
तांस् तु पाषण्डिनः पापान् (०२५-००६)
विकर्मस्थांश् च मानवान् (०२५-००६)
वैडालव्रतिकांश् चैव (०२५-००६)
नित्यम् एव तु नालपेत् (०२५-००६)
संभाष्यैताञ् शुचिषदं (०२५-००७)
चिन्तयेद् अच्युतं बुधः (०२५-००७)
इदं चोदाहरेत् सम्यक् (०२५-००७)
कृत्वा तत्प्रवणं मनः (०२५-००७)
शारीरम् अन्तःकरणोपघातं (०२५-००८)
वाचश् च विष्णुर् भगवान् अशेषम् (०२५-००८)
शमं नयत्व् अस्तु ममेह शर्म (०२५-००८)
पापाद् अनन्ते हृदि संनिविष्टे (०२५-००८)
अन्तःशुद्धिं बहिःशुद्धिं (०२५-००९)
शुद्धो ऽन्तर् मम यो ऽच्युतः (०२५-००९)
स करोत्व् अमले तस्मिञ् (०२५-००९)
शुचिर् एवास्मि सर्वदा (०२५-००९)
बाह्योपघाताद् अनघो (०२५-०१०)
बोद्धा च भगवान् अजः (०२५-०१०)
शुद्धिं नयत्व् अनन्तात्मा (०२५-०१०)
विष्णुश् चेतसि संस्थितः (०२५-०१०)
एतत् संभाष्य जप्तव्यं (०२५-०११)
पाषण्डिभिर् उपोषितैः (०२५-०११)
नमः शुचिषदेत्य् उक्त्वा (०२५-०११)
सूर्यं पश्येत वीक्षितैः (०२५-०११)
श्रूयते च पुरा मर्त्याः (०२५-०१२)
स्वेच्छया स्वर्गगामिनः (०२५-०१२)
बभूवुर् अनघाः सर्वे (०२५-०१२)
स्वधर्मपरिपालनात् (०२५-०१२)
देवाश् च बलिनो मर्त्यैर् (०२५-०१३)
वर्णकर्मण्य् अनुव्रतैः (०२५-०१३)
यज्ञाध्ययनदानेषु (०२५-०१३)
वर्तमानैश् च मानवैः (०२५-०१३)
दैतेयाश् च पराभावम् (०२५-०१४)
अतुष्टाव् असुरा ययुः (०२५-०१४)
ततश् च षण्डो मर्कश् च (०२५-०१४)
दैत्येन्द्राणां पुरोहितौ (०२५-०१४)
चक्रतुः कर्म देवानां (०२५-०१४)
विनाशायातिभीषणम् (०२५-०१४)
तत्रोत्पन्नो ऽतिकृष्णाङ्गस् (०२५-०१५)
तमःप्रायो ऽतिदारुणः (०२५-०१५)
दम्भाधारः शाठ्यसारो (०२५-०१५)
निद्राप्रकृतिर् उल्वणः (०२५-०१५)
महामोह इति ख्यातः (०२५-०१६)
कृत्यरूपो विभीषणः (०२५-०१६)
चतुर्धा स विभक्तश् च (०२५-०१६)
ताभाम् अत्र महीयते (०२५-०१६)
वेददेवद्विजातीनाम् (०२५-०१७)
एकांशेन स निन्दनम् (०२५-०१७)
करोत्य् अन्येन न रतिं (०२५-०१७)
योगकर्मसु विन्दति (०२५-०१७)
विकर्मण्य् अपरेणापि (०२५-०१८)
संयोजयति मानवान् (०२५-०१८)
ज्ञानापहारम् अन्येन (०२५-०१८)
करोति द्विजसत्तम (०२५-०१८)
ज्ञानबुद्ध्या तथाज्ञानं (०२५-०१९)
गृह्णात्य् अज्ञानमोहितः (०२५-०१९)
वेदवादविरोधेन (०२५-०१९)
या कथा सास्य रोचते (०२५-०१९)
एवं स तु महामोहः (०२५-०२०)
षण्डमर्कोपपादितः (०२५-०२०)
दम्भादिदूषितो ऽधर्म- (०२५-०२०)
स्वरूपो ऽतिभयंकर (०२५-०२०)
स लोकान् विविधोपायैर् (०२५-०२१)
लोकेष्व् एव व्यवस्थितः (०२५-०२१)
मोहाभिभवनिःसाराण् (०२५-०२१)
करोति द्विजसत्तम (०२५-०२१)
तन्मोहितानाम् अचिराद् (०२५-०२२)
विवेको याति संक्षयम् (०२५-०२२)
क्षीणज्ञाना विकर्माणि (०२५-०२२)
कुर्वन्त्य् अहरहो द्विज (०२५-०२२)
निजवर्णात्मकं धर्मं (०२५-०२३)
परित्यज्य विमोहिताः (०२५-०२३)
धर्मबुद्ध्या ततः पापं (०२५-०२३)
कुर्वन्त्य् अज्ञानदुर्मदाः (०२५-०२३)
ज्ञानावलेपस् तत्रैव (०२५-०२४)
ततस् तेषां प्रजायते (०२५-०२४)
सुहृद्भिर् वार्यमाणास् ते (०२५-०२४)
पण्डितैश् च दयालुभिः (०२५-०२४)
प्रयच्छन्त्य् उत्तरं ंऊढाः (०२५-०२४)
कूटयुक्तिसमन्वितम् (०२५-०२४)
ततस् ते स्वयम् आत्मानम् (०२५-०२५)
अन्यं चाल्पमतिं नरम् (०२५-०२५)
विकर्मणा योजयन्तश् (०२५-०२५)
च्यवयन्ति स्वधर्मतः (०२५-०२५)
पाषण्डिनो दुराचाराः (०२५-०२६)
परान्नगुणवादिनः (०२५-०२६)
असंस्कृतान्नभोक्तारो (०२५-०२६)
व्रात्याः संस्कारवर्जिताः (०२५-०२६)
पाषण्डाः पापसंकल्पा (०२५-०२७)
दाम्भिकाः शठबुद्धयः (०२५-०२७)
वर्णसंकरकर्तारो (०२५-०२७)
मायाव्याजोपजीविनः (०२५-०२७)
निःशौचा वक्रमतयो (०२५-०२७)
नान्यदस्तीतिवादिनः (०२५-०२७)
एवंविधास् ते सन्मार्गाद् (०२५-०२८)
वेदप्रोक्ताद् बहिःस्थिताः (०२५-०२८)
क्रियाकलापं निन्दन्त (०२५-०२८)
ऋग्यजुःसामसंज्ञितम् (०२५-०२८)
आत्मानं च परांश् चैव (०२५-०२८)
कुर्वन्ति नरकस्थितान् (०२५-०२८)
तेषां दर्शनसंभाष- (०२५-०२९)
स्पर्शनानि नरैः सदा (०२५-०२९)
परित्याज्यानि दृष्टे च (०२५-०२९)
प्रोक्तः संभाषणे च यः (०२५-०२९)
संस्पर्शे च बुधः स्नात्वा (०२५-०२९)
शुचिः शुचिषदं स्मरेत् (०२५-०२९)
भवत्य् अतः सदैवैषाम् (०२५-०३०)
आलापस्पर्१शनं त्यजेत् (०२५-०३०)
पुण्यकामो महाभागः (०२५-०३०)
किं पुनर् यद् उपोषितः (०२५-०३०)
यतो हि निन्दिते कर्मण्य् (०२५-०३१)
अभ्यासो रतिर् एव च (०२५-०३१)
पाषण्डिनाम् अशेषाणाम् (०२५-०३१)
अप्रीतिर् वेदकर्मणि (०२५-०३१)
ते ह्य् अधोगामिनः प्रोक्ता (०२५-०३१)
आसुरं भावम् आश्रिताः (०२५-०३१)
अप्राप्तिर् न तथा दुःखम् (०२६-००१)
ऐश्वर्यादेर् द्विजोत्तम (०२६-००१)
यथा मनोरथैर् लब्धैर् (०२६-००१)
विच्युतिर् धर्महानिजा (०२६-००१)
ऐश्वर्याद् वित्ततो वापि (०२६-००२)
संततेर् देवलोकतः (०२६-००२)
अभीष्टाद् अन्यतो वापि (०२६-००२)
पदाद् येन न विच्युतिम् (०२६-००२)
प्राप्नोति पुरुषो ब्रह्मन् (०२६-००३)
नारी वापुण्यसंक्षयात् (०२६-००३)
तन् ममाचक्ष्व विप्रर्षे (०२६-००३)
दुःखम् एभ्यो हि विच्युतिः (०२६-००३)
सत्यम् एतन् महाभाग (०२६-००४)
दुःखं प्राप्तस्य संक्षयः (०२६-००४)
ऐश्वर्याद् अथ वित्तस्य (०२६-००४)
बन्धुवर्गसुखस्य वा (०२६-००४)
तद् एतच् छ्रूयतां दाल्भ्य (०२६-००५)
यथा नेष्टात् परिच्युतिः (०२६-००५)
सर्गादेर् जायते सम्यग् (०२६-००५)
उपवासवतां सताम् (०२६-००५)
द्वादशर्क्षाणि विप्रर्षे (०२६-००६)
प्रतिमासं तु यानि वै (०२६-००६)
तन्नामान्य् अच्युतं तेषु (०२६-००६)
सम्यक् संपूजयेद् बुधः (०२६-००६)
पुष्पैर् धूपैस् तथाम्भोभिर् (०२६-००७)
अभीष्टैर् अपरैस् तथा (०२६-००७)
आदितः कृत्तिकां कृत्वा (०२६-००७)
कार्त्तिके मुनिपुङ्गव (०२६-००७)
नैवेद्यं कृसरं पूर्वम् (०२६-००८)
अन्नं मासचतुष्टयम् (०२६-००८)
निवेदयेत् कार्त्तिकादि (०२६-००८)
संयावं च ततः परम् (०२६-००८)
आषाढादौ च देवाय (०२६-००९)
पायसं वै निवेदयेत् (०२६-००९)
तेनैवान्नेन विप्रर्षे (०२६-००९)
ब्राह्मणान् भोजयेद् बुधः (०२६-००९)
पञ्चगव्यजलस्नातस् (०२६-०१०)
तस्यैव प्राशनाच् छुचिः (०२६-०१०)
नैवेद्यं स्वयम् अश्नीयान् (०२६-०१०)
नक्तं संपूजिते ऽच्युते (०२६-०१०)
एवं संवत्सरस्यान्ते (०२६-०११)
ततः सुप्तोत्थिते ऽच्युते (०२६-०११)
संयक् संपूज्य विप्रर्षे (०२६-०११)
तम् एव पुरुषोत्तमम् (०२६-०११)
प्रणम्य प्रार्थयेद् विद्वाञ् (०२६-०११)
शुचिः स्नातो यथाविधि (०२६-०११)
नमो नमस् ते ऽच्युत संक्षयो ऽस्तु (०२६-०१२)
पापस्य वृद्धिं समुपैतु पुण्यम् (०२६-०१२)
ऐश्वर्यवित्तादि सदाक्षयं मे (०२६-०१२)
ऽक्षया च मे संततिर् अच्युतास्तु (०२६-०१२)
यथाच्युतस् त्वं परतः परस्मात् (०२६-०१३)
स ब्रह्मभूतात् परतः परात्मन् (०२६-०१३)
तथाच्युतं मे कुरु वाञ्छितं यन् (०२६-०१३)
मया पदं पापहराप्रमेय (०२६-०१३)
अच्युतानन्त गोविन्द (०२६-०१४)
प्रसीद यद् अभीप्सितम् (०२६-०१४)
तद् अक्षयम् अमेयात्मन् (०२६-०१४)
कुरुष्व पुरुषोत्तम (०२६-०१४)
एवम् अन्ते समभ्यर्च्य (०२६-०१५)
प्रार्थयित्वा तथाशिषः (०२६-०१५)
यथावन् मुनिशार्दूल (०२६-०१५)
च्युतिं नाप्नोति मानवः (०२६-०१५)
संततेः स्वर्गवित्तादेर् (०२६-०१६)
ऐश्वर्यस्य तथा मुने (०२६-०१६)
यद् वाभिमतम् अत्यन्तं (०२६-०१६)
ततो न च्यवते नरः (०२६-०१६)
तस्मात् सर्वप्रयत्नेन (०२६-०१७)
मासनक्षत्रपूजने (०२६-०१७)
यतेताक्षयकामस् तु (०२६-०१७)
सदैव मुनिपुङ्गव (०२६-०१७)
अत्रापि श्रूयते सिद्धा (०२७-००१)
काचित् स्वर्गे महाव्रता (०२७-००१)
नारी तपोधना भूत्वा (०२७-००१)
प्रख्याता शाम्भरायणी (०२७-००१)
समस्तसंदेहहरा (०२७-००१)
सदा स्वर्गौकसां हि सा (०२७-००१)
कस्यचित् त्व् अथ कालस्य (०२७-००२)
देवराजः शतक्रतुः (०२७-००२)
पूर्वेन्द्रचरितं ब्रह्मन् (०२७-००२)
पप्रच्छेदं बृहस्पतिम् (०२७-००२)
पूर्वेन्द्रा परतः पूर्वे (०२७-००३)
ये बभूवुः सुरेश्वराः (०२७-००३)
तेषां चरितम् इच्छामि (०२७-००३)
श्रोतुम् आङ्गिरसां वर (०२७-००३)
एवम् उक्तस् तदा तेन (०२७-००४)
देवेन्द्रेणामलद्युतिः (०२७-००४)
प्राह धर्मभृतां श्रेष्ठः (०२७-००४)
परमर्षिर् बृहस्पतिः (०२७-००४)
नाहं चिरन्तनान् वेद्मि (०२७-००५)
देवराज सुरेश्वरान् (०२७-००५)
आत्मनः समकालीनं (०२७-००५)
माम् अवैहि सुरेश्वर (०२७-००५)
ततः पप्रच्छ देवेन्द्रः (०२७-००६)
को ऽस्माभिर् मुनिपुङ्गव (०२७-००६)
प्रष्टव्यो ऽत्र महाभाग (०२७-००६)
कृतादिवसतिर् दिवि (०२७-००६)
बृहस्पतिश् चिरं ध्यात्वा (०२७-००७)
पुनर् आह शचीपतिम् (०२७-००७)
तपस्विनीं महाभागां (०२७-००७)
स्मृत्वासौ शाम्भरायणीम् (०२७-००७)
न देवा न च गन्धर्वा (०२७-००८)
न चान्ये चिरसंस्थिताः (०२७-००८)
चिरन्तनानां चरितेष्व् (०२७-००८)
अभिज्ञा त्रिदशेश्वर (०२७-००८)
एकैव चिरकालज्ञा (०२७-००९)
धर्मज्ञा शक्र केवलम् (०२७-००९)
जानात्य् अखिलदेवेन्द्र- (०२७-००९)
चरितं शाम्भरायणी (०२७-००९)
इत्य् उक्तस् तेन देवेन्द्रः (०२७-०१०)
कौतूहलसमन्वितः (०२७-०१०)
ययौ यत्र महाभागा (०२७-०१०)
तापसी शाम्भरायणी (०२७-०१०)
सा तौ दृष्ट्वा समायातौ (०२७-०११)
देवराजबृहस्पती (०२७-०११)
सम्यग् अर्घ्येन संपूज्य (०२७-०११)
प्रणिपत्य शुभव्रता (०२७-०११)
नमो ऽस्तु देवराजाय (०२७-०१२)
तथैवाङ्गिरसे नमः (०२७-०१२)
यद् वां कार्यं महाभागौ (०२७-०१२)
सकलं तद् इहोच्यताम् (०२७-०१२)
आवाम् अभ्यागतौ प्रष्टुं (०२७-०१३)
त्वाम् अत्रातिविवेकिनीम् (०२७-०१३)
यच् च कार्यं महाभागे (०२७-०१३)
तत् पृष्टा कथयेह नौ (०२७-०१३)
यदि स्मरसि कल्याणि (०२७-०१४)
पूर्वेन्द्रचरितानि नौ (०२७-०१४)
तदाख्याहि महाभागे (०२७-०१४)
देवेन्द्रस्य कुतूहलात् (०२७-०१४)
यदि शक्यं मया कर्तुं (०२७-*(१६))
तत् करिष्ये विमृष्यतु (०२७-*(१६))
यो वै पूर्वः सुरेन्द्रस्य (०२७-०१५)
ततश् च प्रथमो हि यः (०२७-०१५)
तस्मात् पूर्वतरो यश् च (०२७-०१५)
तस्यापि प्रथमाश् च ये (०२७-०१५)
तेषां पूर्वतरा ये च (०२७-०१६)
वेद्मि तान् अखिलान् अहम् (०२७-०१६)
तेषां च चरितं कृत्स्नं (०२७-०१६)
जानाम्य् आङ्गिरसां वर (०२७-०१६)
मन्वन्तराण्य् अनेकानि (०२७-०१७)
सृष्टिं च त्रिदिवौकसाम् (०२७-०१७)
सप्तर्षीन् सुबहून् देव (०२७-०१७)
मनूनां च सुतान् नृप (०२७-०१७)
तत् पृच्छ त्वं वदाम्य् एषा (०२७-०१७)
पूर्वेन्द्रचरितं मुने (०२७-०१७)
एवम् उक्ते ततस् ताभ्यां (०२७-०१८)
पृष्टा सा शाम्भरायणी (०२७-०१८)
यथावद् आचष्ट तयोः (०२७-०१८)
पूर्वेन्द्रचरितं द्विज (०२७-०१८)
स्वायम्भुवे यस् तु मनौ (०२७-०१९)
मनौ स्वारोचिषे तु यः (०२७-०१९)
उत्तमे तामसे चैव (०२७-०१९)
रैवते चाक्षुषे तथा (०२७-०१९)
यो यो बभूव देवेन्द्रस् (०२७-०२०)
तस्य तस्य तपस्विनी (०२७-०२०)
तयोर् जगाद चरितं (०२७-०२०)
यथावच् छाम्भरायणी (०२७-०२०)
ततः कौतूहलपरो (०२७-०२१)
देवराट् तां तपस्विनीम् (०२७-०२१)
उवाच जानासि कथं (०२७-०२१)
त्वम् एतच् छाम्भरायणि (०२७-०२१)
सर्व एव हि देवेन्द्राः (०२७-०२२)
स्वर्गस्था ये मनीषिणः (०२७-०२२)
बभूवुर् एतच् चरितम् (०२७-०२२)
एतेषां वेद्मि तेन वै (०२७-०२२)
किं कृतं वद धर्मज्ञे (०२७-०२३)
त्वया येनेयम् अक्षया (०२७-०२३)
स्वर्लोके वसतिः प्राप्ता (०२७-०२३)
यथा नान्येन केनचित् (०२७-०२३)
अहो सर्वव्रतानां तद् (०२७-०२४)
उपोषितं महद् व्रतम् (०२७-०२४)
प्रधानतरम् अत्यर्थं (०२७-०२४)
स्वर्गसंवासदं मतम् (०२७-०२४)
चरितं च मया तेषां (०२७-*(१७))
श्रुतं दृष्टं तथैव च (०२७-*(१७))
एवम् उक्ता ततस् तेन (०२७-०२५)
देवेन्द्रेण यशस्विनी (०२७-०२५)
प्रत्युवाच महाभागा (०२७-०२५)
यथावच् छाम्भरायणी (०२७-०२५)
मासर्क्षेष्व् अच्युतो देवः (०२७-०२६)
प्रतिमासं सुरेश्वर (०२७-०२६)
यथोक्तव्रतया सम्यक् (०२७-०२६)
सप्त वर्षाणि पूजितः (०२७-०२६)
तस्येयं कर्मणो व्युष्टिर् (०२७-०२७)
अच्युताराधनस्य मे (०२७-०२७)
देवलोकाद् अभिमता (०२७-०२७)
देवराज यद् अच्युतिः (०२७-०२७)
स्वर्गं द्रव्यमयैश्वर्यं (०२७-०२८)
संततिं वापि यो ऽच्युताम् (०२७-०२८)
नरो वाञ्छति तेनेत्थं (०२७-०२८)
तोषणीयो ऽच्युतः प्रभुः (०२७-०२८)
एतत् ते पूर्वदेवेन्द्र- (०२७-०२९)
चरितं सकलं मया (०२७-०२९)
स्वर्गवासाक्षयत्वं च (०२७-०२९)
मासर्क्षाच्युतपूजनात् (०२७-०२९)
यथावत् कथितं देव (०२७-०३०)
पृच्छतस् त्रिदशेश्वर (०२७-०३०)
धर्मार्थकाममोक्षांस् तु (०२७-०३०)
वाञ्छतां विबुधाधिप (०२७-०३०)
विष्णोर् आराधनान् नान्यत् (०२७-०३०)
परमं सिद्धिकारणम् (०२७-०३०)
तस्यास् तद् वचनं श्रुत्वा (०२७-०३१)
देवराजबृहस्पती (०२७-०३१)
तां तथेत्य् ऊचतुः साध्वीं (०२७-०३१)
चेरतुश् चापि तद् व्रतम् (०२७-०३१)
तस्माद् दाल्भ्य प्रयत्नेन (०२७-०३२)
प्रतिमासं समाहितः (०२७-०३२)
मासर्क्षाच्युतपूजायां (०२७-०३२)
भवेथास् तन्मनाः सदा (०२७-०३२)
भगवन् प्राणिनः सर्वे (०२८-००१)
विषरोगाद्युपद्रवैः (०२८-००१)
दुष्टग्रहोपघातैश् च (०२८-००१)
सर्वकालम् उपद्रुताः (०२८-००१)
आभिचारुककृत्याभिः (०२८-००२)
स्पर्षरोगैश् च दारुणैः (०२८-००२)
सदा संपीड्यमानास् ते (०२८-००२)
तिष्ठन्ति मुनिसत्तम (०२८-००२)
येन कर्मविपाकेन (०२८-००३)
विषरोगाद्युपद्रवाः (०२८-००३)
न भवन्ति नृणां तन् मे (०२८-००३)
यथावद् वक्तुम् अर्हसि (०२८-००३)
व्रतोपवासैर् यैर् विष्णुर् (०२८-००४)
नान्यजन्मनि पूजितः (०२८-००४)
ते नरा मुनिशार्दूल (०२८-००४)
ग्रहरोगादिभागिनः (०२८-००४)
यैर् न तत्प्रवणं चित्तं (०२८-००५)
सर्वदैव नरैः कृतम् (०२८-००५)
विषग्रहज्वराणां ते (०२८-००५)
मनुष्या दाल्भ्य भाजनाः (०२८-००५)
आरोग्यं परमाम् ऋद्धिं (०२८-००६)
मनसा यद् यद् इच्छति (०२८-००६)
तत् तद् आप्नोत्य् असंदिग्धं (०२८-००६)
परत्राच्युततोषकृत् (०२८-००६)
नाधीन् प्राप्नोति न व्याधीन् (०२८-००७)
न विषग्रहबन्धनम् (०२८-००७)
कृत्यास्पर्शभयं वापि (०२८-००७)
तोषिते मधुसूदने (०२८-००७)
सर्वदुष्टशमस् तस्य (०२८-००८)
सौम्यास् तस्य सदा ग्रहाः (०२८-००८)
देवानाम् अप्रधृष्यो ऽसौ (०२८-००८)
तुष्टो यस्य जनार्दनः (०२८-००८)
यः समः सर्वभूतेषु (०२८-००९)
यथात्मनि तथापरे (०२८-००९)
उपवादादिना तेन (०२८-००९)
तोष्यते मधुसूदनः (०२८-००९)
तोषिते तत्र जायन्ते (०२८-०१०)
नराः पूऋणमनोरथाः (०२८-०१०)
अरोगाः सुखिनो भोग- (०२८-०१०)
भोक्तारो मुनिसत्तम (०२८-०१०)
न तेषां शत्रवो नैव (०२८-०११)
स्पर्शरोगाभिचारुकाः (०२८-०११)
ग्रहरोगादिकं वापि (०२८-०११)
पापकार्यं न जायते (०२८-०११)
अव्याहतानि कृष्णस्य (०२८-०१२)
चक्रादीन्य् आत्मयुधानि तम् (०२८-०१२)
रक्षन्ति सकलापद्भ्यो (०२८-०१२)
येन विष्णुर् उपासितः (०२८-०१२)
अनाराधितगोविन्दा (०२८-०१३)
ये नरा दुःखभागिनः (०२८-०१३)
तेषां दुःखाभिभूतानां (०२८-०१३)
कर्तव्यं यद् दयालुभिः (०२८-०१३)
पश्यद्भिः सर्वभूतस्थं (०२८-०१४)
वासुदेवं महामुने (०२८-०१४)
समदृष्टिभिर् ईशेशं (०२८-०१४)
तन् मम ब्रूह्य् अशेषतः (०२८-०१४)
कुशमूलस्थितो ब्रह्मा (०२८-*(१८)।००२)
कुशमध्ये जनार्दनः (०२८-*(१८)।००२)
कुशाग्रे शंकरं विद्यात् (०२८-*(१८)।००३)
त्रयो देवा व्यवस्थिताः (०२८-*(१८)।००३)
गृहीत्वा च स मूलाग्रान् (०२८-*(१८)।००४)
कुशाञ् शुद्धान् उपस्पृशेत् (०२८-*(१८)।००४)
मार्जयेत् सर्वगात्राणि (०२८-*(१८)।००५)
कुशाग्रैर् दाल्भ्य शान्तिकृत् (०२८-*(१८)।००५)
शरीरे यस्य तिष्ठन्ति (०२८-*(१८)।००६)
कुशस्थजलबिन्दवः (०२८-*(१८)।००६)
नश्यन्ति तस्य पापानि (०२८-*(१८)।००७)
गरुडेनैव पन्नगाः (०२८-*(१८)।००७)
विष्णुभक्ता विशेषेण (०२८-*(१८)।००८)
॥॥चिद्गतमानसः (०२८-*(१८)।००८)
रोगग्रहविषार्तानां (०२८-*(१८)।००९)
कुर्याच् छान्तिम् इमां शुभाम् (०२८-*(१८)।००९)
नारसिंहं समभ्यर्च्य (०२८-*(१८)।०१०)
शुचौ देशे कुशासने (०२८-*(१८)।०१०)
मन्त्रैर् एतैर् यथा लिङ्गं (०२८-*(१८)।०११)
कुर्याद् दिग्बन्धम् आत्मनः (०२८-*(१८)।०११)
वाराहं नारसिंहं च (०२८-*(१८)।०१२)
वामनं विष्णुम् एव च (०२८-*(१८)।०१२)
ध्यात्वा समाहितो भूत्वा (०२८-*(१८)।०१३)
दिक्षु नामानि विन्यासेत् (०२८-*(१८)।०१३)
पूर्वे नारायणः पातु (०२८-*(१८)।०१४)
वारिजाक्षस् तु दक्षिणे (०२८-*(१८)।०१४)
प्रद्युम्नः पश्चिमस्यां तु (०२८-*(१८)।०१५)
वासुदेवस् तथोत्तरे (०२८-*(१८)।०१५)
ईशान्याम् अवताद् विष्णुर् (०२८-*(१८)।०१६)
आग्नेय्यां च जनार्दनः (०२८-*(१८)।०१६)
नैरृत्यां पद्मनाभश् च (०२८-*(१८)।०१७)
वायव्यां चैव माधवः (०२८-*(१८)।०१७)
ऊर्ध्वं गोवर्धनधरो (०२८-*(१८)।०१८)
अधरायां त्रिविक्रमः (०२८-*(१८)।०१८)
एताभ्यो दशदिग्भ्यस् तु (०२८-*(१८)।०१९)
सर्वतः पातु केशवः (०२८-*(१८)।०१९)
अङ्गुष्ठाग्रे तु गोविन्दं (०२८-*(१८)।०२०)
तर्जन्यांस् तु महीधरम् (०२८-*(१८)।०२०)
मध्यमायां हृषीकेशम् (०२८-*(१८)।०२१)
अनामिक्यां त्रिविक्रमम् (०२८-*(१८)।०२१)
कणिष्ठायां न्यसेद् विष्णुं (०२८-*(१८)।०२२)
करमध्ये तु माधवम् (०२८-*(१८)।०२२)
एवं न्यासं पुरा कृत्वा (०२८-*(१८)।०२३)
पश्चाद् अङ्गेषु विन्यसेत् (०२८-*(१८)।०२३)
शिखायां केशवं न्यस्य (०२८-*(१८)।०२४)
मूर्ध्नि नारायणं न्यसेत् (०२८-*(१८)।०२४)
चक्षुर्मध्ये न्यसेद् विष्णुं (०२८-*(१८)।०२५)
कर्णयोर् मधुसूदनम् (०२८-*(१८)।०२५)
त्रिविक्रमं कपालस्थं (०२८-*(१८)।०२६)
वामनं कर्णमूलयोः (०२८-*(१८)।०२६)
दामोदरं दन्तवक्त्रौ (०२८-*(१८)।०२७)
वाराहं चिबुके न्यसेत् (०२८-*(१८)।०२७)
उत्तरोष्ठे हृषीकेशं (०२८-*(१८)।०२८)
पद्मनाभं तथाधरे (०२८-*(१८)।०२८)
जिह्वायां वासुदेवं च (०२८-*(१८)।०२९)
ताल्वके गरुडध्वजम् (०२८-*(१८)।०२९)
वैकुण्ठं कन्ठमध्यस्थम् (०२८-*(१८)।०३०)
अनन्तं नासिकोपरि (०२८-*(१८)।०३०)
दक्षिणे तु भुजे विप्र (०२८-*(१८)।०३१)
विन्यसेत् पुरुषोत्तमम् (०२८-*(१८)।०३१)
वामभुजे महाभागं (०२८-*(१८)।०३२)
राघवं हृदि विन्यसेत् (०२८-*(१८)।०३२)
पीताम्बरं सर्वतनौ (०२८-*(१८)।०३३)
हरिं नाभौ तु विन्यसेत् (०२८-*(१८)।०३३)
करे तु दक्षिणे विप्र (०२८-*(१८)।०३४)
ततः संकर्षणं न्यसेत् (०२८-*(१८)।०३४)
वामे विप्र हरिं विद्यात् (०२८-*(१८)।०३५)
कटिमध्ये ऽपराजितम् (०२८-*(१८)।०३५)
पृष्ठे क्षितिधरं विद्याद् (०२८-*(१८)।०३६)
अच्युतं स्कन्धयोर् अपि (०२८-*(१८)।०३६)
माधवं बाहु कुक्षौ तु (०२८-*(१८)।०३७)
दक्षिणे योगशायिनम् (०२८-*(१८)।०३७)
स्वयंभुवं मेढ्रमध्ये (०२८-*(१८)।०३८)
ऊरुभ्यां तु गदाधरम् (०२८-*(१८)।०३८)
चक्रिणं जानुमध्ये तु (०२८-*(१८)।०३९)
जङ्घयोर् अच्युतं न्यसेत् (०२८-*(१८)।०३९)
गुल्पयोर् नरसिंहं च (०२८-*(१८)।०४०)
पादपृष्ठे ऽमितौजसम् (०२८-*(१८)।०४०)
श्रीधरं चाङ्गुलीषु स्यात् (०२८-*(१८)।०४१)
पद्माक्षं सर्वसन्धिषु (०२८-*(१८)।०४१)
रोमकूपे गुडाकेशं (०२८-*(१८)।०४२)
कृष्णं रक्तास्थिमज्जासु (०२८-*(१८)।०४२)
मनोबुद्ध्योर् अहंकारेष्व् (०२८-*(१८)।०४३)
एवं चित्ते जनार्दनम् (०२८-*(१८)।०४३)
नखेषु माधवं चैव (०२८-*(१८)।०४४)
न्यसेत् पादतले ऽच्युतम् (०२८-*(१८)।०४४)
एवं न्यासविधिं कृत्वा (०२८-*(१८)।०४५)
साक्षान् नारायणो भवेत् (०२८-*(१८)।०४५)
तनुर् विष्णुमयी तस्य (०२८-*(१८)।०४६)
यावत् किंचिन् न भाषते (०२८-*(१८)।०४६)
एवं न्यासं ततः कृत्वा (०२८-*(१८)।०४७)
यत् कार्यं शृणु तद् द्विज (०२८-*(१८)।०४७)
पादमूले तु देवस्य (०२८-*(१८)।०४८)
शङ्खं तत्रैव विन्यसेत् (०२८-*(१८)।०४८)
वनमालां तु विन्यस्य (०२८-*(१८)।०४९)
सर्वदेवाभिपूजिताम् (०२८-*(१८)।०४९)
गदां वक्षःस्थले चैव (०२८-*(१८)।०५०)
चक्रं चैव तु पृष्ठतः (०२८-*(१८)।०५०)
श्रीवत्साङ्गं शिरो न्यस्य (०२८-*(१८)।०५१)
पञ्चाङ्गकवचं न्यसेत् (०२८-*(१८)।०५१)
आपादामस्तके चैव (०२८-*(१८)।०५२)
विन्यसेत् पुरुषोत्तमम् (०२८-*(१८)।०५२)
ॐ अपामार्जनको न्यासः (०२८-*(१८)।०५३)
सर्वव्याधिविनाशनः (०२८-*(१८)।०५३)
विष्णुर् ऊर्ध्वम् अधो रक्षेद् (०२८-*(१८)।०५४)
वैकुण्ठो विदिशो दिशः (०२८-*(१८)।०५४)
पातु मां सर्वतो रामो (०२८-*(१८)।०५५)
धन्वी चक्री च केशवः (०२८-*(१८)।०५५)
पूजाकाले तु देवस्य (०२८-*(१८)।०५९)
जपकाले तथैव च (०२८-*(१८)।०५९)
होमारम्भेषु सर्वेषु (०२८-*(१८)।०६०)
त्रिसंध्यासु च नित्यशः (०२८-*(१८)।०६०)
आयुर् आरोग्यम् ऐश्वर्यं (०२८-*(१८)।०६१)
ज्ञानं वित्तं फलं भवेत् (०२८-*(१८)।०६१)
यद् यत् सुखकरं प्रोक्तं (०२८-*(१८)।०६२)
तत् सर्वं प्राप्नुयान् नरः (०२८-*(१८)।०६२)
अभयं सर्वभूतेभ्यो (०२८-*(१८)।०६३)
विष्णुलोकं च गच्छति (०२८-*(१८)।०६३)
अथ ध्यानं प्रवक्ष्यामि (०२८-*(१८)।०७७)
सर्वपापप्रणाशनम् (०२८-*(१८)।०७७)
वाराहरूपिणं देवं (०२८-*(१८)।०७८)
संस्मरत्य् अपराजितम् (०२८-*(१८)।०७८)
बृहत्तनुं बृहद्गात्रं (०२८-*(१८)।०७९)
बृहद्दंष्ट्रसुशोभनम् (०२८-*(१८)।०७९)
समस्तवेदवेदाङ्गं (०२८-*(१८)।०८०)
युक्ताङ्गं भूषणैर् युतम् (०२८-*(१८)।०८०)
उद्धृत्य भूमिं पातालाद् (०२८-*(१८)।०८१)
हस्ताभ्याम् उपगृह्णताम् (०२८-*(१८)।०८१)
आलिङ्ग्य भूमिं शिरसि (०२८-*(१८)।०८२)
मूर्ध्नि जिघ्रन्तम् आस्थितम् (०२८-*(१८)।०८२)
रत्नवैडूर्यमुख्याभिर् (०२८-*(१८)।०८३)
मुक्ताभिर् उपशोभितम् (०२८-*(१८)।०८३)
पीताम्बरधरं देवं (०२८-*(१८)।०८४)
शुक्लमाल्यानुलेपनम् (०२८-*(१८)।०८४)
त्रयस्त्रिंशकोटिदेवैः (०२८-*(१८)।०८५)
स्तूयमानं मुदानिशम् (०२८-*(१८)।०८५)
नृत्यद्भिर् अप्सरोभिश् च (०२८-*(१८)।०८६)
गीयमानं च किन्नरैः (०२८-*(१८)।०८६)
इत्थं ध्यात्वा महात्मानं (०२८-*(१८)।०८७)
जपेन् नित्यं महात्मनः (०२८-*(१८)।०८७)
सुवर्णमण्डपान्तस्थं (०२८-*(१८)।०८८)
पद्मं ध्यायेत् सकेसरम् (०२८-*(१८)।०८८)
सकर्णिकदलैर् इष्टैर् (०२८-*(१८)।०८९)
अष्टभिः परिशोभितम् (०२८-*(१८)।०८९)
करं करहितं देवं (०२८-*(१८)।०९०)
पूर्णचन्द्राप्तसुप्रभम् (०२८-*(१८)।०९०)
तडित्समशटाशोभि (०२८-*(१८)।०९१)
कण्ठनालोपशोभितम् (०२८-*(१८)।०९१)
श्रीवत्साङ्कितवक्षःस्थं (०२८-*(१८)।०९२)
तीक्ष्णदंष्ट्रं त्रिलोचनम् (०२८-*(१८)।०९२)
जवाकुसुमसंकाशं (०२८-*(१८)।०९३)
रक्तहस्ततलान्वितम् (०२८-*(१८)।०९३)
पीतवस्त्रपरीधानं (०२८-*(१८)।०९४)
शुक्लयस्त्रोत्तरीयकम् (०२८-*(१८)।०९४)
करं करहितं देवं (०२८-*(१८)।०९५)
पूर्णचन्द्राप्तसुप्रभम् (०२८-*(१८)।०९५)
कटिसूत्रेण हैमेन (०२८-*(१८)।०९६)
नूपुरेण विराजितम् (०२८-*(१८)।०९६)
वनमालादिशोभाढ्यं (०२८-*(१८)।०९७)
मुक्ताहारोपशोभितम् (०२८-*(१८)।०९७)
अनेकसूर्यसंकाशं (०२८-*(१८)।०९८)
मुकुटाटोपमस्तकम् (०२८-*(१८)।०९८)
शङ्खचक्रगृहीताभ्याम् (०२८-*(१८)।०९९)
उद्बाहुभ्यां विराजितम् (०२८-*(१८)।०९९)
पङ्कजाभं चतुर्हस्तं (०२८-*(१८)।१००)
तत्पत्राभसुलोचनम् (०२८-*(१८)।१००)
प्रातः सूर्यसमप्रख्य- (०२८-*(१८)।१०१)
कुण्डलाभ्यां विराजितम् (०२८-*(१८)।१०१)
केयूरकान्तिसस्यर्द्धि- (०२८-*(१८)।१०२)
मुक्तिकारत्नशोभितम् (०२८-*(१८)।१०२)
जानूपरिन्यस्तहस्तं (०२८-*(१८)।१०३)
वररत्ननखाङ्कुरम् (०२८-*(१८)।१०३)
जङ्घाभरणसस्यर्द्धि- (०२८-*(१८)।१०४)
विस्फुर्यत्कङ्कनत्विषम् (०२८-*(१८)।१०४)
मुक्ताफलाब्दसमहद्- (०२८-*(१८)।१०५)
दन्तपङ्क्तिविराजितम् (०२८-*(१८)।१०५)
चम्पकामुकुलप्रख्य- (०२८-*(१८)।१०६)
सुनासामुखपङ्कजम् (०२८-*(१८)।१०६)
अतिरक्तौष्ठवदनं (०२८-*(१८)।१०७)
व्यात्तास्यम् अतिभीषणम् (०२८-*(१८)।१०७)
वामाङ्कस्थं शिवभक्त- (०२८-*(१८)।१०८)
शान्तिदां सुनितम्बिनीम् (०२८-*(१८)।१०८)
अर्हणीयां सुजातोरुं (०२८-*(१८)।१०९)
सुनासां शुभलक्षणाम् (०२८-*(१८)।१०९)
सुभ्रूं सुकेशीं सुश्रोणीं (०२८-*(१८)।११०)
सुशुभां सुद्विजाननाम् (०२८-*(१८)।११०)
सुप्रतिष्ठां सुवदनां (०२८-*(१८)।१११)
चतुर्हस्तां विचिन्तयेत् (०२८-*(१८)।१११)
दुकूले चैव चार्वङ्गीं (०२८-*(१८)।११२)
हारिणीं सर्वकामदाम् (०२८-*(१८)।११२)
तप्तकञ्चनसंकाशां (०२८-*(१८)।११३)
सर्वाभरणभूषिताम् (०२८-*(१८)।११३)
सुवर्णकलशप्रख्य- (०२८-*(१८)।११४)
पीनोन्नतपयोधराम् (०२८-*(१८)।११४)
गृहीतपद्मयुगलं (०२८-*(१८)।११५)
उद्बाहुभ्यां तथान्ययोः (०२८-*(१८)।११५)
गृहीतमातुलङ्गाख्यं (०२८-*(१८)।११६)
जाम्बुनदकरान् तथा (०२८-*(१८)।११६)
एवं देवीं नृसिंहस्य (०२८-*(१८)।११७)
वामाङ्कोपरि संस्मरेत् (०२८-*(१८)।११७)
अतिविमलसुगात्रं रौप्यपात्रस्थम् अन्नं (०२८-*(१८)।११८)
सुललितदधिखण्डं पाणिना दक्षिणेन (०२८-*(१८)।११९)
कलशम् अमृतपूर्णं सव्यहस्ते दधानं (०२८-*(१८)।१२०)
तदतिसकलदुःखं वामनं भावयेद् यः (०२८-*(१८)।१२१)
अन्या भास्करसप्रभाभिर् अखिलैर् भाभिर् दिशो भासयन् (०२८-*(१८)।१२२)
भीमाक्षस्फुरदट्टहासविलसाद्दंष्ट्राग्रदीप्ताननः (०२८-*(१८)।१२३)
दोर्भिश् चक्रधरौ गदाब्जमुकुलौ त्रासांश् च पाशाङ्कुशौ (०२८-*(१८)।१२४)
बिभ्रत्पिङ्गशिरो ऽरुहोद्धतसटश् चक्रविधानो हरिः (०२८-*(१८)।१२५)
मनोभूतानीन्द्रियाणि (०२८-*(१८)।१३९)
गुणाः सत्त्वं रजस् तमः (०२८-*(१८)।१३९)
त्रैलोक्यस्येश्वरं सर्वम् (०२८-*(१८)।१४०)
अहंकारे प्रतिष्ठिताः (०२८-*(१८)।१४०)
ॐ नमः परमार्थाय (०२८-०१५)
पुरुषाय महात्मने (०२८-०१५)
अरूपबहुरूपाय (०२८-०१५)
व्यापिने परमात्मने (०२८-०१५)
नमस् ते देवदेवाय (०२८-*(१९))
सुरशूर नमो ऽस्तु ते (०२८-*(१९))
लोकाध्यक्ष जगत्पूज्य (०२८-*(१९))
परमात्मन् नमस् ते (!) (०२८-*(१९))
निष्कल्मषाय शुद्धाय (०२८-०१५)
सर्वपापहराय च (०२८-०१५)
नमस्कृत्वा प्रवक्ष्यामि (०२८-०१६,*(२०),*(२१))
यत् तत् सिध्यतु मे वचः (०२८-०१६,*(२०),*(२१))
वराहनरसिंहाय (०२८-०१७)
वामनाय महात्मने (०२८-०१७)
गोविन्दपद्मनाभाय (०२८-*(२०)।००१)
वामदेवाय भूपते (०२८-*(२०)।००१)
नारायणाय देवाय (०२८-*(२०)।००३)
अनन्ताय महात्मने (०२८-*(२०)।००३)
गरुडध्वजाय कृष्णाय (०२८-*(२०)।००५)
पीताम्बरधराय च (०२८-*(२०)।००५)
योगीश्वराय सिद्धाय (०२८-*(२०)।००७)
गुह्याय परमात्मने (०२८-*(२०)।००७)
जनार्दनाय कृष्णाय (०२८-*(२०)।००९)
उपेन्द्रश्रीधराय च (०२८-*(२०)।००९)
भक्तप्रियाय विधये (०२८-*(२०)।०११)
विष्वक्सेनाय शार्ङ्गिने (०२८-*(२०)।०११)
हिरण्यगर्भपतये (०२८-*(२०)।०१३)
हिरण्यकशिपुच्छिदे (०२८-*(२०)।०१३)
चक्रहस्ताय शूलाय (०२८-*(२०)।०१५)
तर्जन्यपत्राय धीमते (०२८-*(२०)।०१५)
आदित्याय उपेन्द्राय (०२८-*(२०)।०१७)
भूतानां जीवनाय च (०२८-*(२०)।०१७)
वासुदेवाय वन्द्याय (०२८-*(२०)।०१९)
वरदाय महात्मने (०२८-*(२०)।०१९)
विषूवृच्छ्रवसे तस्मै (०२८-*(२०)।०२१)
क्षीराम्बुनिछिशायिने (०२८-*(२०)।०२१)
अधोक्षजाय भद्राय (०२८-*(२०)।०२३)
श्रीधरायादिमूर्तये (०२८-*(२०)।०२३)
विश्वेशद्वारमूर्तिश् च (०२८-*(२०)।०२५)
मृत्युरायोहितो ऽस्ति सः (०२८-*(२०)।०२५)
नानारागांश् च दक्षांश् च (०२८-*(२०)।०२७)
विकटाय महाभीती (०२८-*(२०)।०२७)
जातुपतिं व्यग्रहस्तं (०२८-*(२०)।०२८)
वररत्ननखाकरम् (०२८-*(२०)।०२८)
नारायणाय विश्वाय (०२८-*(२०)।०३२)
विश्वेशायाम्बराय च (०२८-*(२०)।०३२)
दामोदराय देवाय (०२८-*(२०)।०३४)
अनन्ताय महात्मने (०२८-*(२०)।०३४)
त्रिविक्रमाय रामाय (०२८-०१७)
वैकुण्ठाय नराय च (०२८-०१७)
नमस्कृत्वा प्रवक्ष्यामि (०२८-०१८)
यत् तत् सिध्यतु मे वचः (०२८-०१८)
वराहनरसिंहेश (०२८-०१९)
वामनेश त्रिविक्रम (०२८-०१९)
हयग्रीवेश सर्वेश (०२८-०१९)
हृषीकेश हराशुभम् (०२८-०१९)
अपराजितचक्राद्यैश् (०२८-०२०)
चतुर्भिः परमायुधैः (०२८-०२०)
अखण्डितप्रभावैस् त्वं (०२८-०२०)
सर्वदुष्टहरो भव (०२८-०२०)
हरामुकस्य दुरितं (०२८-०२१)
दुष्कृतं दुरुपोषितम् (०२८-०२१)
मृत्युबन्धार्तिभयदं (०२८-०२१)
दुरिष्टस्य च यत् फलम् (०२८-०२१)
परापध्यानसहितं (०२८-०२२)
प्रयुक्तं चाभिचारुक (०२८-०२२)
गरस्पर्शमहायोग- (०२८-०२२)
प्रयोगजरयाजर (०२८-०२२)
ॐ नमो वासुदेवाय (०२८-०२३)
नमः क्षृणाय शार्ङ्गिणे (०२८-०२३)
नमः पुष्करनेत्राय (०२८-०२३)
केशवायादिचक्रिणे (०२८-०२३)
नमः कमलकिञ्जल्क- (०२८-०२४)
पीतनिर्मलवाससे (०२८-०२४)
महाहवरिपुस्कन्ध- (०२८-०२४)
घृष्टचक्राय चक्रिणे (०२८-०२४)
दंष्ट्रोद्धृतक्षितिधृते (०२८-०२५)
त्रयीमूर्तिमते नमः (०२८-०२५)
महायज्ञवराहाय (०२८-०२५)
शेषभोगोरुशायिने (०२८-०२५)
तप्तहाटककेशान्त (०२८-०२६)
ज्वलत्पावकलोचन (०२८-०२६)
वज्राधिकनखस्पर्श (०२८-०२६)
दिव्यसिंह नमो ऽस्तु ते (०२८-०२६)
कपिल हेमाश्वशीर्ष (०२८-*(२२))
अतिरिक्तविलोचन (०२८-*(२२))
विद्युत्स्फुरितदंष्ट्राग्र (०२८-*(२२))
दिव्यसिंह नमो ऽस्तु ते (०२८-*(२२))
काश्यपायातिह्रस्वाय (०२८-०२७)
ऋग्यजुःसामभूषित (०२८-०२७)
तुभ्यं वामनरूपाय (०२८-०२७)
सृजते गां नमो नमः (०२८-०२७)
वराहाशेषदुष्टानि (०२८-०२८)
सर्वपापहराणि वै (०२८-०२८)
मर्द मर्द महादंष्ट्र (०२८-०२८)
मर्द मर्द च तत्फलम् (०२८-०२८)
नरसिंह करालास्य (०२८-०२९)
दन्तप्रान्तानलोज्ज्वल (०२८-०२९)
भञ्ज भञ्ज निनादेन (०२८-०२९)
दुष्टान्य् अस्यार्तिनाशन (०२८-०२९)
ऋग्यजुःसामगर्भाभिर् (०२८-०३०)
वाग्भिर् वामनरूपधृक् (०२८-०३०)
प्रशमं सर्वदुःखानि (०२८-०३०)
नयत्व् अस्य जनार्दनः (०२८-०३०)
एकाहिकं द्व्याहिकं च (०२८-०३१)
तथा त्रिदिवसं ज्वरम् (०२८-०३१)
चातुर्थकं तथात्युग्रं (०२८-०३१)
तथैव सततज्वरम् (०२८-०३१)
दोषोत्थं संनिपातोत्थं (०२८-०३२)
तथैवागन्तुकं ज्वरम् (०२८-०३२)
शमं नयाशु गोविन्द (०२८-०३२)
छित्त्वा च्छित्त्वा तु वेदनाम् (०२८-०३२)
नेत्रदुःखं शिरोदुःखं (०२८-०३३)
दुःखं चोदरसंभवम् (०२८-०३३)
अनुच्छ्वासम् अतिश्वासं (०२८-०३३)
परितापं सवेपथुं (०२८-०३३)
गुदघ्राणांह्रिरोगांश् च (०२८-०३४)
कुष्ठरोगं तथा क्षयम् (०२८-०३४)
कामलादींस् तथा रोगान् (०२८-०३४)
प्रमेहांश् चातिदारुणान् (०२८-०३४)
भगंदरातिसारांश् च (०२८-०३५)
मुखरोगं सवल्गुलिम् (०२८-०३५)
अश्मरीमूत्रकृच्छ्रांश् च (०२८-०३५)
रोगान् अन्यांश् च दारुणान् (०२८-०३५)
ये वातप्रभवा रोगा (०२८-०३६)
ये च पित्तसमुद्भवाः (०२८-०३६)
कफोद्भवाश् च ये केचिद् (०२८-०३६)
ये चान्ये सांनिपातिकाः (०२८-०३६)
आगन्तवश् च ये रोगा (०२८-०३७)
लूताविस्फोटकादयः (०२८-०३७)
ते सर्वे प्रशमं यान्तु (०२८-०३७)
वासुदेवापमार्जिताः (०२८-०३७)
विलयं यान्तु ते सर्वे (०२८-०३८)
विष्णोर् उच्चारणेन च (०२८-०३८)
क्षयं गच्छन्तु चाशेषास् (०२८-०३८)
ते चक्राभिहता हरेः (०२८-०३८)
अच्युतानन्तगोविन्द- (०२८-०३९)
नामोच्चारणभीषिताः (०२८-०३९)
नश्यन्तु सकला रोगाः (०२८-०३९)
सत्यं सत्यं वदाम्य् अहम् (०२८-०३९)
स्थावरं जङ्गमं वापि (०२८-०४०)
कृत्रिमं वापि यद् विषम् (०२८-०४०)
दन्तोद्भवं नखभवम् (०२८-०४०)
आकाशप्रभवं विषम् (०२८-०४०)
लूतादिप्रभवं यच् च (०२८-०४१)
विषम् अत्यन्तदुःखदम् (०२८-०४१)
शमं नयतु तत् सर्वं (०२८-०४१)
कीर्तितो ऽस्य जनार्दनः (०२८-०४१)
ग्रहान् प्रेतग्रहांश् चैव (०२८-०४२)
तथा वै डाकिनीग्रहान् (०२८-०४२)
वेतालांश् च पिशाचांश् च (०२८-०४२)
गन्धर्वान् यक्षराक्षसान् (०२८-०४२)
शकुनीपूतनाद्यांश् च (०२८-०४३)
तथा वैनायकग्रहान् (०२८-०४३)
मुखमण्डिनिकां क्रूरां (०२८-०४३)
रेवतीं वृद्धरेवतीम् (०२८-०४३)
वृद्धिकाख्यान् ग्रहांश् चोग्रांस् (०२८-०४४)
तथा मातृग्रहान् अपि (०२८-०४४)
बालस्य विष्णोः चरितं (०२८-०४४)
हन्तु बालग्रहान् इमान् (०२८-०४४)
वृद्धानां ये ग्रहाः केचिद् (०२८-०४५)
ये च बालग्रहाः क्वचित् (०२८-०४५)
नरसिंहस्य ते दृष्ट्या (०२८-०४५)
दग्धा ये चापि यौवने (०२८-०४५)
सटाकरालवदनो (०२८-०४६)
नरसिंहो महारवः (०२८-०४६)
ग्रहान् अशेषान् निःशेषान् (०२८-०४६)
करोतु जगतो हितम् (०२८-०४६)
नरसिंह महासिंह (०२८-०४७)
ज्वालामालोज्ज्वलानन (०२८-०४७)
ग्रहान् अशेषान् सर्वेश (०२८-०४७)
खाद खादाग्निलोचन (०२८-०४७)
ये रोगा ये महोत्पाता (०२८-०४८)
यद् विषं ये महाग्रहाः (०२८-०४८)
यानि च क्रूरभूतानि (०२८-०४८)
ग्रहपीडाश् च दारुणाः (०२८-०४८)
शस्त्रक्षतेषु ये दोषा (०२८-०४८)
ज्वालागर्दभकादयः (०२८-०४८)
यानि चार्याणि भूतानि (०२८-*(२३))
प्राणिपीडाकराणि वै (०२८-*(२३))
तानि सर्वाणि सर्वात्मन् (०२८-०४९)
परमात्मञ् जनार्दन (०२८-०४९)
किंचिद् रूपं समास्थाय (०२८-०४९)
वासुदेव विनाशय (०२८-०४९)
क्षिप्त्वा सुदर्शनं चक्रं (०२८-०५०)
ज्वालामालाविभीषणम् (०२८-०५०)
सर्वदुष्टोपशमनं (०२८-०५०)
कुरु देववराच्युत (०२८-०५०)
सुदर्शन महाचक्र (०२८-*(२४)।००१)
गोविन्दस्य करायुध (०२८-*(२४)।००१)
ज्वलत्पावकसंकाश (०२८-*(२४)।००२)
सूर्यकोटिसमप्रभ (०२८-*(२४)।००२)
त्रैलोक्यरक्षकर्तृ त्वं (०२८-*(२४)।००३)
त्वं दुष्टदानवदारण (०२८-*(२४)।००३)
तीक्ष्णधार महावेग (०२८-*(२४)।००४)
छिन्धि च्छिन्धि महाज्वरम् (०२८-*(२४)।००४)
छिन्धि च्छिन्धि महाव्याधिं (०२८-*(२४)।००५)
छिन्धि च्छिन्धि महाग्रहान् (०२८-*(२४)।००५)
छिन्धि वातं च धूतं च (०२८-*(२४)।००६)
छिन्धि घोरं महाविषम् (०२८-*(२४)।००६)
रुजदाघं च शूलं च (०२८-*(२४)।००७)
निमिषज्वालगर्दभम् (०२८-*(२४)।००७)
सुदर्शन महाज्वाल (०२८-०५१)
छिन्धि च्छिन्धि ममारयः (०२८-०५१)
सर्वदुष्टानि रक्षांसि (०२८-०५१)
क्षपयातिविभीषण (०२८-०५१)
हां हां हूं हूं फट्कारेण (०२८-*(२५)।००१)
ठद्वयेन हतद्विषः (०२८-*(२५)।००१)
सुदर्शनस्य मन्त्रेण (०२८-*(२५)।००२)
ग्रहा यान्ति दिशो दिशः (०२८-*(२५)।००२)
त्रैलोक्यस्याभयं कर्तुम् (०२८-*(२५)।००९)
आज्ञापय जनार्दन (०२८-*(२५)।००९)
सर्वदुष्टानि रक्षांसि (०२८-*(२५)।०१०)
क्षयं यान्ति विभीषया (०२८-*(२५)।०१०)
प्राच्यां प्रतीच्यां च दिशि (०२८-०५२)
दक्षिणोत्तरतस् तथा (०२८-०५२)
रक्षां करोतु सर्वात्मा (०२८-०५२)
नरसिंहः स्वगर्जितैः (०२८-०५२)
भूम्यन्तरिक्षे च तथा (०२८-०५३)
पृष्ठतः पार्श्वतो ऽग्रतः (०२८-०५३)
व्याघ्रसिंहवराहेषु (०२८-*(२६))
अन्दिचोरभयेषु च (?) (०२८-*(२६))
रक्षां करोतु भगवान् (०२८-०५३)
बहुरूपी जनार्दनः (०२८-०५३)
यथा विष्णुऋ जगत् सर्वं (०२८-०५४)
सदेवासुरमानवम् (०२८-०५४)
तेन सत्येन दुष्टानि (०२८-०५४)
शमम् अस्य व्रजन्तु वै (०२८-०५४)
यथा विष्णौ स्मृते सम्यक् (०२८-०५५)
संक्षयं याति पातकम् (०२८-०५५)
सत्येन तेन सकलं (०२८-०५५)
दुष्टम् अस्य प्रशाम्यतु (०२८-०५५)
परमात्मा यथा विष्णुर् (०२८-०५६)
वेदान्तेष्व् अभिधीयते (०२८-०५६)
तेन सत्येन सकलं (०२८-०५६)
दुष्टम् अस्य प्रशाम्यतु (०२८-०५६)
यथा यज्ञेष्वरो विष्णुर् (०२८-०५७)
वेदेष्व् अपि तु गीयते (०२८-०५७)
तेन सत्येन सकलं (०२८-०५७)
यन् मयोक्तं तथास्तु तत् (०२८-०५७)
यथा यज्ञेश्वरो विष्णुर् (०२८-*(२७))
यज्ञान्ते अपि गीयते (०२८-*(२७))
तेन सत्येन सकलं (०२८-*(२७))
यन् मयोक्तं तथास्तु तत् (०२८-*(२७))
शान्तिर् अस्तु शिवं चास्तु (०२८-०५८)
प्रशाम्यत्व् असुखं च यत् (०२८-०५८)
वासुदेवशरीरोत्थैः (०२८-०५८)
कुशैर् निर्मार्जितं मया (०२८-०५८)
अपामार्जति गोविन्दो (०२८-०५९)
नरो नारायणस् तथा (०२८-०५९)
तवास्तु सर्वदुःखानां (०२८-०५९)
प्रशमो वचनाद् धरेः (०२८-०५९)
इदं शास्त्रं पठेद् यस् तु (०२८-*(२८))
सप्ताहन् नियतः शुचिः (०२८-*(२८))
शान्तिं समस्तरोगास् ते (०२८-०६०)
ग्रहाः सर्वे विषानि च (०२८-०६०)
भूतानि च प्रयान्त्व् ईशे (०२८-०६०)
संस्मृते मधुसूदने (०२८-०६०)
एतत् समस्तरोगेषु (०२८-०६१)
भूतग्रहभयेषु च (०२८-०६१)
अपमार्जनकं शस्तं (०२८-०६१)
विष्णुनामाभिमन्त्रितम् (०२८-०६१)
एते कुशा विष्णुशरीरसंभवा (०२८-०६२)
जनार्दनो ऽहं स्वयं एव चागतः (०२८-०६२)
हतं मया दुष्टम् अशेषम् अस्य (०२८-०६२)
स्वस्थो भवत्य् एष वचो यथा हरेः (०२८-०६२)
शान्तिर् अस्तु शिवं चास्तु (०२८-०६३)
दुष्टम् अस्य प्रशाम्यतु (०२८-०६३)
यद् अस्य दुरितं किंचित् (०२८-०६३)
तत् क्षिप्तं लवणार्णवे (०२८-०६३)
स्वास्थ्यम् अस्य सदैवास्तु (०२८-०६४)
हृषीकेशस्य कीर्तनात् (०२८-०६४)
यत एवागतं पापं (०२८-०६४)
तत्रैव प्रतिगच्छतु (०२८-०६४)
एतद् रोगादिपीडासु (०२८-०६५)
जन्तूनां हितम् इच्छता (०२८-०६५)
विष्णुभक्तेन कर्तव्यम् (०२८-०६५)
अपमार्जनकं परम् (०२८-०६५)
अनेन सर्वदुष्टानि (०२८-०६६)
प्रशमं यान्त्य् असंशयम् (०२८-०६६)
सर्वभूतहितार्थाय (०२८-०६६)
कुर्यात् तस्मात् सदैव हि (०२८-०६६)
सर्वापराधशमनम् (०२८-*(२९)।००१)
अपामार्जनकं परम् (०२८-*(२९)।००१)
एतत् स्तोत्रम् इदं पुण्यं (०२८-*(२९)।००२)
पठेद् आयुष्यवर्धनम् (०२८-*(२९)।००२)
विनाशाय च रोगाणाम् (०२८-*(२९)।००३)
अवमृत्युक्षयाय च (०२८-*(२९)।००३)
व्याघ्रापस्मारकुष्ठादि (०२८-*(२९)।००४)
पिशाचोरगराक्षसाः (०२८-*(२९)।००४)
तस्य पार्श्वं न गच्छन्ति (०२८-*(२९)।००५)
स्तोत्रम् एतद् यथा पठेत् (०२८-*(२९)।००५)
स्मरञ् जपन्न् इदं स्तोत्रं (०२८-*(२९)।००६)
सर्वव्याधिविनाशनम् (०२८-*(२९)।००६)
पठतां शृण्वतां नित्यं (०२८-*(२९)।००७)
विष्णुलोकं स गच्छति (०२८-*(२९)।००७)
सुरूपता मनुष्याणां (०२९-००१)
स्त्रीणां च द्विजसत्तम (०२९-००१)
कर्मणा जायते येन (०२९-००१)
तन् ममाख्यातुम् अर्हसि (०२९-००१)
सुरूपाणां सुगात्राणां (०२९-००२)
सुवेषाणां तथा मुने (०२९-००२)
न्यूनं तथाधिकं वापि (०२९-००२)
किंचिद् अङ्गं प्रजायते (०२९-००२)
समस्तैः शोभनैर् अङ्गैर् (०२९-००३)
नराः केचित् तथा द्विज (०२९-००३)
काणाः कुब्जाश् च जायन्ते (०२९-००३)
त्रुटितश्रवणास् तथा (०२९-००३)
नराणां योषितां चैव (०२९-००४)
समस्ताङ्ग्सुरूपता (०२९-००४)
कर्मणा येन भवति (०२९-००४)
तत् सर्वं कथयामल (०२९-००४)
लावण्यगतिवाक्यानि (०२९-००५)
सति रूपे महामते (०२९-००५)
प्रयान्ति चारुतां रूपं (०२९-००५)
तेनोक्तः परमो गुणः (०२९-००५)
वाक्यलावण्यसंस्कार- (०२९-००६)
विलासललिता गतिः (०२९-००६)
विडम्बना कुरूपाणां (०२९-००६)
स्त्रीपुंसाम् अभिजायते (०२९-००६)
रूपकारणभूताय (०२९-००७)
यतेत मतिमांस् ततः (०२९-००७)
कर्मणा तन् ममाचक्ष्व (०२९-००७)
कर्म यच् चारुरूपदम् (०२९-००७)
सम्यक् पृष्टं त्वया हीदम् (०२९-००८)
उपवासाश्रितं द्विज (०२९-००८)
कथयामि यथा प्रोक्तं (०२९-००८)
वसिष्ठेन महात्मना (०२९-००८)
वसिष्ठम् ऋषिम् आसीनं (०२९-००९)
सप्तर्षिप्रवरं पतिम् (०२९-००९)
पप्रच्छारुन्धती प्रश्नं (०२९-००९)
यद् एतद् भवता वयम् (०२९-००९)
तस्याः स परिपृच्छन्त्या (०२९-०१०)
जगाद मुनिसत्तमः (०२९-०१०)
यत् तच् छृणुष्व धर्मज्ञ (०२९-०१०)
ममेह वदतो ऽखिलम् (०२९-०१०)
श्रूयतां मम यत् पृष्टस् (०२९-०११)
त्वयाहं ब्रह्मवादिनि (०२९-०११)
सुरूपता नृणां येन (०२९-०११)
योषितां चोपजायते (०२९-०११)
अनभ्यर्च्य यथान्यायम् (०२९-०१२)
अनाराध्य च केशवम् (०२९-०१२)
रूपादिका गुणाः केन (०२९-०१२)
प्राप्यन्ते ऽन्येन कर्मणा (०२९-०१२)
तस्माद् आराधनीयो वै (०२९-०१३)
विष्णुर् एव यशस्विनि (०२९-०१३)
परत्र प्राप्तुकामेन (०२९-०१३)
रूपसंपत्सुतादिकम् (०२९-०१३)
यस् तु वाञ्छति धर्मज्ञे (०२९-०१४)
रूपं सर्वाङ्गशोभनम् (०२९-०१४)
नक्षत्रपुरुषस् तेन (०२९-०१४)
संपूज्यः पुरुषोत्तमः (०२९-०१४)
नक्षत्राङ्गं यथाहारः (०२९-०१५)
समुपोष्यति यो हरिम् (०२९-०१५)
सुरूपैर् अखिलाङ्गैश् च (०२९-०१५)
रूपवान् अभिजायते (०२९-०१५)
योषिता च परं रूपम् (०२९-०१६)
इच्छन्त्या जगतः पतिः (०२९-०१६)
स एवाराधनीयो ऽत्र (०२९-०१६)
नक्षत्राङ्गो जनार्दनः (०२९-०१६)
नक्षत्ररूपी भगवान् (०२९-०१७)
पूज्यते पुरुषोत्तमः (०२९-०१७)
मुने येन विधानेन (०२९-०१७)
तन् ममाख्यातुम् अर्हसि (०२९-०१७)
चैत्रमासं समारभ्य (०२९-०१८)
विष्णोः पादादिपूजनम् (०२९-०१८)
यथा कुर्वीत रूपार्थी (०२९-०१८)
तन् निशामय तत्त्वतः (०२९-०१८)
नक्षत्रम् एकम् एकं वै (०२९-०१९)
स्नातः सम्यग् उपोषितः (०२९-०१९)
नक्षत्रपुरुषस्याङ्गं (०२९-०१९)
पूजयेत् साध्वी चक्रिणः (०२९-०१९)
मूले पादौ तथा जङ्घे (०२९-०२०)
रोहिणीष्व् अर्चयेच् छुभे (०२९-०२०)
जानुनी चाश्विनीयोग (०२९-०२०)
आषाढे चोरुसंज्ञिते (०२९-०२०)
फाल्गुनीद्वितये गुह्यं (०२९-०२१)
कृत्तिकासु तथा कटिम् (०२९-०२१)
पार्श्वे भद्रपदायुग्मे (०२९-०२१)
द्वे कुक्षी रेवतीषु च (०२९-०२१)
अनुराध उरः पृष्ठं (०२९-०२२)
श्रविष्ठास्व् अभिपूजयेत् (०२९-०२२)
भुजयुग्मं विशाखासु (०२९-०२२)
हस्ते चैव करद्वयम् (०२९-०२२)
पुनर्वसाव् अङ्गुलींश् च (०२९-०२३)
आश्लेषासु तथा नखान् (०२९-०२३)
ज्येष्ठायां पूजयेद् ग्रीवं (०२९-०२३)
श्रवणे श्रवणे तथा (०२९-०२३)
पुष्ये मुखं तथा स्वातौ (०२९-०२४)
दशनान् अभिपूजयेत् (०२९-०२४)
हन्वौ शतभिषायोगे (०२९-०२४)
मघायोगे च नासिकाम् (०२९-०२४)
मृगोत्तमाङ्गे नयने (०२९-०२५)
पूजयेद् भक्तितः शुभे (०२९-०२५)
चित्रायोगे ललाटं च (०२९-०२५)
भरण्यां च तथा शिरः (०२९-०२५)
संपूजनीया विद्वद्भिश् (०२९-०२५)
चाद्रासु च शिरोरुहाः (०२९-०२५)
नक्षत्रयोगेष्व् एतेषु (०२९-०२६)
पूजितो जगतः पतिः (०२९-०२६)
नक्षत्रपुरुषाख्यो ऽयं (०२९-०२६)
यथावत् पुरुषोत्तमः (०२९-०२६)
पापापहारं कुरुते (०२९-०२७)
सम्यच् छ्रद्धावतां सताम् (०२९-०२७)
अङ्गोपाङ्गानि चैवास्य (०२९-०२७)
पापादीनि यशस्विनि (०२९-०२७)
सुरूपान्य् अभिजायन्ते (०२९-०२८)
सप्त जन्मान्तराणि वै (०२९-०२८)
सर्वाणि चैव भद्राणि (०२९-०२८)
शरीरारोग्यम् उत्तमम् (०२९-०२८)
संततिं मनसः प्रीतिं (०२९-०२९)
रूपं चातीवशोभनम् (०२९-०२९)
वाङ्माधूर्यं तथा कान्तिं (०२९-०२९)
यच् चान्यद् अभिवाञ्छितम् (०२९-०२९)
ददाति नक्षत्रपुमान् (०२९-०३०)
पूजितश् च जनार्दनः (०२९-०३०)
उपोष्य सम्यग् एतेषु (०२९-०३०)
क्रमेण र्क्षेषु शोभने (०२९-०३०)
संपूजनीयो भगवान् (०२९-०३१)
नक्षत्राङ्गो जनार्दनः (०२९-०३१)
गन्धपुष्पादिसंयुक्तं (०२९-*(३०))
पूजयित्वा यदाविधि (०२९-*(३०))
जानुभ्यां धरणीं गत्वा (०२९-*(३०))
इदं चोदाहरेत् ततः (०२९-*(३०))
स्वरूपम् आरोग्यम् अतीव वर्चसं (०२९-*(३०))
सुसंततिं त्व् अस्थितभक्तिम् अच्युताम् (०२९-*(३०))
अपि सर्वम् एतं प्रोतं (०२९-*(३०))
सूत्रे मणिगणा इव (०२९-*(३०))
एकपुरुष महापुरुष (०२९-*(३०))
ऋक्षपुरुष नमो ऽस्तु ते (०२९-*(३०))
प्रतिनक्षत्रयोगे च (०२९-०३१)
भोजनीया द्विजोत्तमाः (०२९-०३१)
नक्षत्रज्ञाय विप्राय (०२९-०३२)
दद्याद् दानं च शक्तितः (०२९-०३२)
पारिते च पुनर् दद्यात् (०२९-०३२)
स्त्रीपूंसां चारुहासिनि (०२९-०३२)
छत्त्रोपानद्युगं चैव (०२९-०३३)
सप्तधान्यं सकाञ्चनम् (०२९-०३३)
घृतपात्रं च धर्मज्ञे (०२९-०३३)
यच् चान्यद् अतिवल्लभम् (०२९-०३३)
स्त्री वा साध्वी सदा विष्णोर् (०२९-०३४)
आराधनपरायणा (०२९-०३४)
अनेनैव विधानेन (०२९-०३४)
संपूज्यैतद् अवाप्नुयात् (०२९-०३४)
सर्वकामान् अवाप्नोति (०३०-००१)
समाराध्य जनार्दनम् (०३०-००१)
प्रकारैर् बहुभिर् ब्रह्मन् (०३०-००१)
यान् यान् इच्छति चेतसा (०३०-००१)
नॄणां स्त्रीणां च विप्रर्षे (०३०-००२)
नान्यच् छोकस्य कारणम् (०३०-००२)
अपत्याद् अधिकं किंचिद् (०३०-००२)
विद्यते ह्य् अत्र जन्मनि (०३०-००२)
अपुत्रता महद् दुःखम् (०३०-००३)
अतिदुःखं कुपुत्रता (०३०-००३)
अपुत्रः सर्वदुःखानां (०३०-००३)
हेतुभूतो मतो मम (०३०-००३)
धन्यास् ते ये सुतं प्राप्य (०३०-००४)
सर्वदुःखविवर्जितम् (०३०-००४)
शस्तं प्रशान्तं बलिनं (०३०-००४)
परां निर्वृतिम् आगताः (०३०-००४)
स्वकर्मनिरतं नित्यं (०३०-००५)
देवद्विजपरायणम् (०३०-००५)
शास्त्रज्ञं धर्मतत्त्वज्ञं (०३०-००५)
दीनानाथजनाश्रयम् (०३०-००५)
विनिर्जितारिं सर्वस्य (०३०-००६)
मनोहृदयनन्दनम् (०३०-००६)
देवानुकूलतायुक्तं (०३०-००६)
युक्तं सम्यग् गुणेन च (०३०-००६)
मित्रस्वजनसम्मान- (०३०-००७)
लब्धनिर्वाणम् उत्तमम् (०३०-००७)
यः प्राप्नोति सुतं तस्मान् (०३०-००७)
नान्यो धन्यतरो भुवि (०३०-००७)
सो ऽहम् इच्छामि तच् छ्रोतुं (०३०-००८)
त्वत्तः कर्म महामुने (०३०-००८)
येनेदृग्लक्षणः पुत्रः (०३०-००८)
प्राप्यते भुवि मानवैः (०३०-००८)
एवम् एतन् महाभाग (०३०-००९)
पित्रोः पुत्रसमुद्भवम् (०३०-००९)
दुःखं प्रयात्य् उपशमं (०३०-००९)
तेन येनेह केनचित् (०३०-००९)
अत्रापि श्रूयतां वृत्तं (०३०-०१०)
यत् पूर्वम् अभवन् मुने (०३०-०१०)
उत्पत्तौ कार्तवीर्यस्य (०३०-०१०)
हैहयस्य महात्मनः (०३०-०१०)
कृतवीर्यो महीपालो (०३०-०११)
हैहयानाम् अभूत् पुरा (०३०-०११)
तस्य शीलधना नाम (०३०-०११)
बभूव वरवर्णिनी (०३०-०११)
पत्नी सहस्रप्रवरा (०३०-०११)
महिषी शीलमण्डना (०३०-०११)
सा त्व् अपुत्रा महाभागा (०३०-०१२)
मैत्रेयीं पर्यपृच्छत (०३०-०१२)
गुणवत्पुत्रलाभाय (०३०-०१२)
कृतासनपरिग्रहाम् (०३०-०१२)
तया च पृष्टा वै सम्यग् (०३०-०१३)
मैत्रेयी ब्रह्मवादिनी (०३०-०१३)
कथयाम् आस परमं (०३०-०१३)
नाम्नानन्तव्रतं व्रतम् (०३०-०१३)
सर्वकामफलावाप्ति- (०३०-०१४)
कारकं पापनाशनम् (०३०-०१४)
तस्याः सा पुत्रलाभाय (०३०-०१४)
राजपुत्रास् तपस्विनी (०३०-०१४)
यो ऽयम् इच्छेन् नरः कामं (०३०-०१५)
नारी वा वरवर्णिनि (०३०-०१५)
स तं समाराध्य विभुं (०३०-०१५)
समाप्नोति जनार्दनम् (०३०-०१५)
मार्गशीर्षे मृगशिरो (०३०-०१६)
भीरु यस्मिन् दिने भवेत् (०३०-०१६)
तस्मिन् संप्राश्य गोमूत्रं (०३०-०१६)
स्नातो नियतमानसः (०३०-०१६)
पुष्पैर् धूपैस् तथा गन्धैर् (०३०-०१७)
उपहारैः स्वशक्तितः (०३०-०१७)
वामपादम् अनन्तस्य (०३०-०१७)
पूजयेद् वरवर्णिनि (०३०-०१७)
अनन्तः सर्वकामानाम् (०३०-०१८)
अनन्तं भगवान् फलम् (०३०-०१८)
ददात्व् अनन्तं च पुनस् (०३०-०१८)
तद् एवास्त्व् अन्यजन्मनि (०३०-०१८)
अनन्तपुण्योपचयं (०३०-०१९)
करोत्य् एतन् महाव्रतम् (०३०-०१९)
यथाभिलषितावाप्तिं (०३०-०१९)
कुर्वन् मा क्षयम् एतु च (०३०-०१९)
इत्य् उच्चार्याभिपूज्यैनं (०३०-०२०)
यथावद् विधिना नरः (०३०-०२०)
समाहितमना भूत्वा (०३०-०२०)
प्रणिपातपुरःसरम् (०३०-०२०)
विप्राय दक्षिणां दद्याद् (०३०-०२१)
अनन्तः प्रीयताम् इति (०३०-०२१)
समुच्चार्य ततो नक्तं (०३०-०२१)
भुञ्जीयात् तैलवर्जितम् (०३०-०२१)
ततश् च पौषे पुष्यर्क्षे (०३०-०२२)
तथैव भगवत्कटिम् (०३०-०२२)
वामाम् अभ्यर्चयेत् कृत्वा (०३०-०२२)
गोमूत्रप्राशनं बुधः (०३०-०२२)
अनन्तः सर्वकामानाम् (०३०-०२३)
इति चोच्चारयेद् बुधः (०३०-०२३)
भुञ्जीत च तथा विप्रं (०३०-०२३)
वाचयित्वा यथाविधि (०३०-०२३)
माघे मघासु तद्वच् च (०३०-०२४)
बाहुं देवस्य पूजयेत् (०३०-०२४)
स्कन्धं च फल्गुनीयोगे (०३०-०२४)
फाल्गुने मासि भामिनि (०३०-०२४)
चतुर्ष्व् एतेषु गोमूत्र- (०३०-०२५)
प्राशनं नृपनन्दिनि (०३०-०२५)
ब्राह्मणाय तथा दद्यात् (०३०-०२५,*(३१))
तिलान् कनकम् एव च (०३०-०२५,*(३१))
देवस्य दक्षिणस्कन्धं (०३०-०२६)
चैत्रे चित्रासु पूजयेत् (०३०-०२६)
तथैव प्राशनं चात्र (०३०-०२६)
पञ्चगव्यम् उदाहृतम् (०३०-०२६)
विप्रे वाचनके दद्याद् (०३०-०२७)
यावन् मासचतुष्टयम् (०३०-०२७)
वैशाखे च विशाखासु (०३०-०२७)
बाहुं संपूज्य दक्षिणम् (०३०-०२७)
तथैवोक्तयवान् दद्यात् (०३०-०२८)
तद्वन् नक्तं भुजिक्रिया (०३०-०२८)
कटिपूजां च ज्येष्ठासु (०३०-०२८)
ज्येष्ठमूले शुभव्रते (०३०-०२८)
आषाढासु तथाषाढे (०३०-०२९)
कुर्यात् पादार्चनं शुभे (०३०-०२९)
पदद्वयं च श्रवणे (०३०-०२९)
श्रावणे सुभ्रु पूजयेत् (०३०-०२९)
घृतं विप्राय दातव्यं (०३०-०३०)
प्राशनीयं तथा दधि (०३०-०३०)
कार्त्तिकान्तेषु मासेषु (०३०-०३०)
प्राशनं दानम् एव च (०३०-०३०)
एतद् एव समाख्यातं (०३०-०३०,*(३२))
देवं तद्वच् च पूजयेत् (०३०-०३०,*(३२))
गुह्यं प्रोष्ठपदायोगे (०३०-०३१)
मासि भाद्रपदे ऽर्चयेत् (०३०-०३१)
तद्वद् आश्वयुजे पूज्यं (०३०-०३१)
हृदयं चाश्विनीषु वै (०३०-०३१)
कुर्यात् समाहितमनाः (०३०-०३२)
स्नानप्राशनशौचवान् (०३०-०३२)
अनन्तशिरसः पूजां (०३०-०३२)
कार्त्तिके कृत्तिकासु च (०३०-०३२)
यस्मिन् यस्मिन् दिने पूजा (०३०-०३३)
तत्र तत्र तदा दिने (०३०-०३३)
नामानन्तस्य जप्तव्यं (०३०-०३३)
क्षुतप्रस्खलितादिषु (०३०-०३३)
घृतेनानन्तम् उद्दिश्य (०३०-०३४)
पूर्वमासचतुष्टयम् (०३०-०३४)
कुर्वीत होमं चैत्रादौ (०३०-०३४)
शालिना कुलनन्दिनि (०३०-०३४)
क्षीरेण श्रावणादौ तु (०३०-०३५)
होमं मासचतुष्टयम् (०३०-०३५)
शस्तं तु सर्वमासेषु (०३०-०३५)
हविष्यान्नं च भोजनम् (०३०-०३५)
एवं द्वादशभिर् मासैः (०३०-०३६)
पारणं त्रितयं शुभे (०३०-०३६)
पारिते समवाप्नोति (०३०-०३६)
सर्वान् एव मनोरथान् (०३०-०३६)
पुत्रार्थिभिर् वित्तकामैर् (०३०-०३७)
भृत्यदारान् अभीप्सुभिः (०३०-०३७)
प्रार्थयद्भिश् च कर्तव्यम् (०३०-०३७)
आरोग्यबलसंपदम् (०३०-०३७)
एतद् व्रतं महाभागे (०३०-०३८)
पुण्यं स्वस्त्ययनप्रदम् (०३०-०३८)
अनन्तव्रतसंज्ञं वै (०३०-०३८)
सर्वपापप्रणाशनम् (०३०-०३८)
तत् कुरुष्वैव देवि त्वं (०३०-०३९)
व्रतं शीलधने वरम् (०३०-०३९)
विशिष्टं सर्वलोकस्य (०३०-०३९)
यदि पुत्रम् अभीप्ससि (०३०-०३९)
इति शीलधना श्रुत्वा (०३०-०४०)
मैत्रेयीवचनं शुभम् (०३०-०४०)
चचारैतद् व्रतवरं (०३०-०४०)
सुसमाहितमानसा (०३०-०४०)
पुत्रार्थिन्यास् ततस् तस्या (०३०-०४१)
व्रतेनानेन सुव्रत (०३०-०४१)
विष्णुस् तुतोष तुष्टे च (०३०-०४१)
विष्णौ सा सुषुवे सुतम् (०३०-०४१)
तस्य वै जातमात्रस्य (०३०-०४२)
प्रववाव् अनिलः शिवः (०३०-०४२)
नीरजस्कम् अभूद् व्योम (०३०-०४२)
मुदं प्रापाखिलं जगत् (०३०-०४२)
देवदुन्दुभयो नेदुः (०३०-०४३)
पुष्पवृष्टिः पपात च (०३०-०४३)
प्रजगुर् दिवि गन्धर्वा (०३०-०४३)
ननृतुश् चाप्सरोगणाः (०३०-०४३)
धर्मे मनः समस्तस्य (०३०-०४३)
दाल्भ्य लोकस्य चाभवत् (०३०-०४३)
तस्य नाम पिता चक्रे (०३०-०४४)
तनयस्यार्जुनेति वै (०३०-०४४)
कृतवीर्यसुतत्वाच् च (०३०-०४४)
कार्तवीर्यो बभूव सः (०३०-०४४)
तेनापि भगवान् विष्णुर् (०३०-०४५)
दत्तात्रेयस्वरूपवान् (०३०-०४५)
आराधितो ऽतिमहता (०३०-०४५)
तपसा दाल्भ्य भूभृता (०३०-०४५)
तस्य तुष्टो जगन्नाथश् (०३०-०४६)
चक्रवर्तित्वम् उत्तमम् (०३०-०४६)
ददौ शौर्यबले चाति- (०३०-०४६)
सकलान्य् आयुधानि च (०३०-०४६)
स च वव्रे वरं देव (०३०-०४७)
वधस् त्वत्तो भवेद् इति (०३०-०४७)
पुरानुस्मरणं ज्ञानं (०३०-०४७)
भीतानां चार्तिनाशनम् (०३०-०४७)
स्मरणाद् उपकारित्वं (०३०-०४७)
जगतो ऽस्य जगत्पते (०३०-०४७)
तम् आह देवदेवेशः (०३०-०४८)
पुण्डरीकनिभेक्षणः (०३०-०४८)
सर्वम् एतन् महाभाग (०३०-०४८)
तव भूप भविष्यति (०३०-०४८)
यश् च प्रभाते रात्रौ च (०३०-०४९)
त्वां नरः कीर्तयिष्यति (०३०-०४९)
नमो ऽस्तु कार्तवीर्यायेत्य् (०३०-०४९)
अभिधास्यति चैव यः (०३०-०४९)
तिलप्रस्थप्रदानस्य (०३०-०४९)
स नरः पुण्यम् आप्स्यति (०३०-०४९)
अनष्टद्रव्यता चैव (०३०-०५०)
तव नामाभिकीर्तनैः (०३०-०५०)
भविष्यति महीपालेत्य् (०३०-०५०)
उक्त्वा तं प्रययौ हरिः (०३०-०५०)
स चापि वरम् आसाद्य (०३०-०५१)
प्रसन्नाद् गरुडध्वजात् (०३०-०५१)
पालयाम् आस भूपालः (०३०-०५१)
सप्तद्वीपां वसुंधराम् (०३०-०५१)
तेनेष्टं विविधैर् यज्ञैः (०३०-०५२)
समाप्तवरदक्षिणैः (०३०-०५२)
जित्वारिवर्गम् अखिलं (०३०-०५२)
धर्मतः पालिताः प्रजाः (०३०-०५२)
अनन्तव्रतमाहात्म्याद् (०३०-०५३)
आसाद्य तनयं च तम् (०३०-०५३)
पित्रोः पुत्रोद्भवं दुःखं (०३०-०५३)
नासीत् स्वल्पम् अपि द्विज (०३०-०५३)
एवम् एतत् समाख्यातम् (०३०-०५४)
अनन्ताख्यं व्रतं तव (०३०-०५४)
यच् चीर्त्वा राजपत्नी सा (०३०-०५४)
कार्तवीर्यम् असूयत (०३०-०५४)
यश् चैतच् छृणुयाज् जन्म (०३०-०५५)
कार्तवीर्यस्य मानवः (०३०-०५५)
स्त्री वा दुःखम् अपत्योत्थं (०३०-०५५)
सप्त जन्मानि नाश्नुते (०३०-०५५)
रूपसंपत् समाख्याता (०३१-००१)
स्त्रीपुंसां जायते शुभा (०३१-००१)
समुपोष्य जगन्नाथं (०३१-००१)
नक्षत्रपुरुषं हरिम् (०३१-००१)
वासोऽतिशोभनं चारु- (०३१-००२)
वस्त्राद्याभरणोज्ज्वलम् (०३१-००२)
गृहं सर्वगुणोपेतम् (०३१-००२)
अशेषोपस्करान्वितम् (०३१-००२)
कर्मणा येन विप्रर्षे (०३१-००३)
तोषितो मधुसूदनः (०३१-००३)
ददाति भगवान् कर्म (०३१-००३)
तन् नो विस्तरतो वद (०३१-००३)
यन् मां पृच्छसि दाल्भ्य त्वं (०३१-००४)
गृहोपस्करभूषणम् (०३१-००४)
नराणां जायते येन (०३१-००४)
तत् सर्वं कथयामि ते (०३१-००४)
नन्दा भद्रा जया रिक्ता (०३१-००५)
पूर्णा च द्विजसत्तम (०३१-००५)
तिथयो वै समाख्याताः (०३१-००५)
प्रतिपत्क्रमसंज्ञया (०३१-००५)
पञ्चमी दशमी चैव (०३१-००६)
तथा पञ्चदशी तिथिः (०३१-००६)
पूर्णा एताः समाख्याताष् (०३१-००६)
तिथयो मुनिसत्तम (०३१-००६)
मृदा धातुविकारैर् वा (०३१-००७)
वर्णकैर् गोमयेन वा (०३१-००७)
विष्णोर् आयतने तासु (०३१-००७)
यः करोत्य् उपलेपनम् (०३१-००७)
प्रवातावातगुणवद् (०३१-००८)
वर्षास्व् अतिमनोरमम् (०३१-००८)
अनुलिप्तं शुभाकारं (०३१-००८)
सुगृहं लभते मुने (०३१-००८)
पूर्णं धान्यहिरण्याद्यैर् (०३१-००९)
मणिमुक्ताफलोज्ज्वलम् (०३१-००९)
प्रत्यासन्नजलाभोगं (०३१-००९)
गृहम् आप्नोति शोभनम् (०३१-००९)
साम्नतस्वजनानां यत् (०३१-०१०)
सर्वेषाम् उत्तमोत्तमम् (०३१-०१०)
तद् आप्नोति गृहं ब्रह्मन्न् (०३१-०१०)
अनुलेपनकृन् नरः (०३१-०१०)
येनानुलिप्ते तिष्ठन्ति (०३१-०११)
विष्ण्वायतनभूतले (०३१-०११)
ब्राह्मणक्षत्रियविशः (०३१-०११)
शूद्राः साध्व्यस् तथा स्त्रियः (०३१-०११)
तस्य पूण्यफलं दाल्भ्य (०३१-०११)
श्रूयतां यत् प्रजायते (०३१-०११)
अप्सरोगणसंकीर्णं (०३१-०१२)
मुक्ताहारगणोज्ज्वलम् (०३१-०१२)
श्रेष्ठं सर्वविमानानां (०३१-०१२)
स्वर्गे धिष्ण्यम् अवाप्नुते (०३१-०१२)
यावत्यस् तिथयो लिप्तं (०३१-०१३)
दिव्याब्दांस् तावतो द्विज (०३१-०१३)
तस्मिन् विमाने स नरः (०३१-०१३)
स्त्री वा तिष्ठति सत्तम (०३१-०१३)
सुगन्धगन्धसद्वस्त्र- (०३१-०१४)
सर्वभूषणभूषितः (०३१-०१४)
गन्धर्वाप्सरसां संभैः (०३१-०१४)
पूज्यमानः स तिष्ठति (०३१-०१४)
लिप्तं च यावतो हस्तान् (०३१-०१५)
विष्णोर् आयतनं द्विज (०३१-०१५)
तावद्योजनविस्तीर्ण- (०३१-०१५)
स्वर्गस्थानाधिपो हि सः (०३१-०१५)
पूज्यमानः सुरगणैः (०३१-०१६)
शीतोष्णादिविवर्जितः (०३१-०१६)
मनोज्ञगात्रो विप्रेन्द्रस् (०३१-०१६)
तिष्ठत्य् अस्ताघसंहतिः (०३१-०१६)
च्युतस् तस्माद् इहागम्य (०३१-०१७)
विशिष्टे जायते कुले (०३१-०१७)
ततो ऽस्य सद्गृहवरं (०३१-०१७)
मर्त्यलोके ऽभिजायते (०३१-०१७)
न तत्र तावद् दारिद्र्यं (०३१-०१८)
नोपसर्गा न वा कलिः (०३१-०१८)
न चापि मृतनिष्क्रान्तिर् (०३१-०१८)
यावज् जीवत्य् असौ द्विज (०३१-०१८)
विष्णुः समस्तभूतानि (०३१-०१९)
ससर्जैतानि यानि वै (०३१-०१९)
तेषां मध्ये जगद्धातुर् (०३१-०१९)
अतीवेष्टा वसुंधरा (०३१-०१९)
कृते संमार्जने तस्यास् (०३१-०२०)
तथैवोपरिलेपने (०३१-०२०)
प्रयाति परमं तोषं (०३१-०२०)
वैष्णवीयं मही यतः (०३१-०२०)
ब्रह्मन् येन विधानेन (०३१-०२१)
देवागारोपलेपलम् (०३१-०२१)
कर्तव्यं पुरुषैः सम्यक् (०३१-०२१)
स्त्रीभिर् वा तद् उदीरय (०३१-०२१)
रिक्तायास् तु तिथेर् मध्ये (०३१-०२२)
कुर्यात् संकल्पम् आत्मनः (०३१-०२२)
उपलेपनकृद् विप्रो (०३१-०२२)
विष्णोर् आयतने भुवि (०३१-०२२)
द्वितीये ऽह्नि ततो देवं (०३१-०२३)
प्रणम्य यतमानसः (०३१-०२३)
धरणीपितरं विष्णुम् (०३१-०२३)
इदं वाक्यम् उदीरयेत् (०३१-०२३)
त्वं सर्वभूतप्रभवो जगत्पते (०३१-०२४)
त्वय्य् एतद् ईशेश जगत् प्रतिष्ठितम् (०३१-०२४)
त्वम् एव भूतानि यतस् ततो ऽहं (०३१-०२४)
त्वाम् पूजयाम्य् अद्य महीस्वरूपम् (०३१-०२४)
त्वं मही जगतां नाथ (०३१-०२५)
सर्वनाथ नमो ऽस्तु ते (०३१-०२५)
शुश्रूषितः प्रसीदेश (०३१-०२५)
भुवो लेपनकर्मणा (०३१-०२५)
इत्य् उच्चार्य क्षितौ क्षिप्त्वा (०३१-०२६)
प्रथमं धारनीतले (०३१-०२६)
पुष्पाणि वा द्विजश्रेष्ठ (०३१-०२६)
यः करोत्य् अनुलेपनम् (०३१-०२६)
न तस्य जायते भङ्गो (०३१-०२६)
गार्हस्थ्यस्य कदाचन (०३१-०२६)
या च नारी करोत्य् एवं (०३१-०२७)
यथावद् अनुलेपनम् (०३१-०२७)
नाप्नोति सा च वैधव्यं (०३१-०२७)
गृहभङ्गं कदाचन (०३१-०२७)
कृत्वोपलेपनं भूयः (०३१-०२८)
प्रणिपत्य जनार्दनम् (०३१-०२८)
स्नातो विष्णुं समभ्यर्च्य (०३१-०२८)
इदं वाक्यम् उदीरयेत् (०३१-०२८)
प्रसीद भूधरानन्त (०३१-०२९)
मया यद् उपलेपनम् (०३१-०२९)
कृतं तेन समस्तं मे (०३१-०२९)
नाशम् अभ्येतु पातकम् (०३१-०२९)
एवं संपूज्य भुञ्जीयाद् (०३१-०३०)
अपराह्ने द्विजोत्तम (०३१-०३०)
स्वनुलिप्ते महाभागे (०३१-०३०)
भुक्त्वा लिम्पेच् च तत् पुनः (०३१-०३०)
पक्षे पक्षे त्रिरात्रं तु (०३१-०३१)
यः करोत्य् उपलेपनम् (०३१-०३१)
सर्वपापविनिर्मुक्तः (०३१-०३१)
स्वर्गं गच्छत्य् असंशयम् (०३१-०३१)
तत्क्षयात् स्वर्गेलोके तु (०३१-०३२)
जातो गृहवरं यथा (०३१-०३२)
समाप्नोति यथाख्यातं (०३१-०३२)
तत् सर्वं तव सत्तम (०३१-०३२)
सर्वाभरणसंपूर्णं (०३१-०३३)
सर्वोपस्करधान्यवत् (०३१-०३३)
गोमहिष्यादिसंभोगं (०३१-०३३)
गृहम् आप्नोति मानवः (०३१-०३३)
तस्माद् अभीप्सता सम्यग् (०३१-०३४)
गार्हस्थ्यम् अविखण्डितम् (०३१-०३४)
विष्णोर् आयतने कार्यं (०३१-०३४)
सर्वदैवोपलेपनम् (०३१-०३४)
सप्तद्वीपवतीं कृत्स्नां (०३१-*(३३))
यथेन्द्रस् त्रिदिवं तथा (०३१-*(३३))
अल्पोपलेपनाद् यस्य (०३१-०३५)
मान्धाता सकलां महीम् (०३१-०३५)
अवाप विष्ण्वायतनं (०३१-०३५)
नोपलिम्पेत को हि तत् (०३१-०३५)
दीपं प्रयच्छति नरो (०३२-००१)
विष्णोर् आयतने हि यः (०३२-००१)
सदक्षिणस्य यज्ञस्य (०३२-००१)
फलं प्राप्नोत्य् असंशयम् (०३२-००१)
कार्त्तिके तु विशेषेण (०३२-००२)
कौमुदे मासि दीपकम् (०३२-००२)
दत्त्वा यत् फलम् आप्नोति (०३२-००२)
दाल्भ्य तत् केन लभ्यते (०३२-००२)
दाल्भ्यान्यद् अपि वक्ष्यामि (०३२-००३)
पुरावृत्तम् इदं शृणु (०३२-००३)
विदर्भराजतनया (०३२-००३)
ललिता यद् उवाच ह (०३२-००३)
विदर्भराट् चित्ररथो (०३२-००४)
बभूवास्त्रविशारदः (०३२-००४)
तस्य पुत्रशतं राज्ञो (०३२-००४)
जज्ञे पञ्चदशोत्तरम् (०३२-००४)
एकैव कन्या दाल्भ्यासील् (०३२-००५)
ललिता नामनामतः (०३२-००५)
सर्वलक्षणसंपूर्णा (०३२-००५)
भ्रातॄणां पितुर् एव च (०३२-००५)
समस्तभृत्यवर्गस्य (०३२-००६)
मातॄणां स्वजनस्य च (०३२-००६)
तथैव पौरवर्गस्य (०३२-००६)
यश् चान्यो ददृशे शुभाम् (०३२-००६)
तस्य तस्यातिचार्वङ्गी (०३२-००६)
बभूवेष्टा द्विजोत्तम (०३२-००६)
तां ददौ काशिराजाय (०३२-००७)
स पिता चारुवर्मने (०३२-००७)
उपयेमे च तां सुभ्रूं (०३२-००७)
चारुवर्मा महीपतिः (०३२-००७)
शतान्य् अन्यानि भार्याणां (०३२-००८)
त्रीण्य् आसंश् चारुवर्मणः (०३२-००८)
तासां मध्ये ऽग्रमहिषी (०३२-००८)
ललिता तस्य चाभवत् (०३२-००८)
सा च नित्यं जगद्धातुर् (०३२-००९)
देवदेवस्य चक्रिणः (०३२-००९)
दीपवर्तिपरा तद्वत् (०३२-००९)
तैलस्याहरणोद्यता (०३२-००९)
विष्णोर् आयतने तस्याः (०३२-०१०)
सहस्रं द्विजसत्तम (०३२-०१०)
दीपानां वै प्रजज्वाल (०३२-०१०)
दिवारात्रम् अतन्द्रितम् (०३२-०१०)
तस्या द्युतिपराभूतास् (०३२-०११)
तस्या लावण्यनिर्जिताः (०३२-०११)
सर्वाः सपत्न्यो ललितां (०३२-०११)
पप्रच्छुर् इदम् आदितः (०३२-०११)
ललिते वद भद्रं ते (०३२-०१२)
भद्रं ते ललिते वद (०३२-०१२)
कौतूहलपराः सर्वा (०३२-०१२)
यत् पृच्छामस् तद् उच्यताम् (०३२-०१२)
विषये सति वक्तव्यं (०३२-०१३)
यन् मया तद् इहोच्यताम् (०३२-०१३)
नाहं मत्सरिणी भद्रा (०३२-०१३)
न च रागादिदूषिता (०३२-०१३)
भवत्यो मम सर्वासां (०३२-०१४)
भवतीनाम् अहं तथा (०३२-०१४)
अपृथग्भर्तृसामन्या (०३२-०१४)
देवलोकाभिकामुकाः (०३२-०१४)
पूर्वं यूयम् अहं चैव (०३२-*(३४))
भवतीनां सधर्मिणी (०३२-*(३४))
न तथा पुष्पधूपेषु (०३२-०१५)
न तथा द्विजपूजने (०३२-०१५)
प्रयत्नं तव पश्यामो (०३२-०१५)
विष्णोर् आयतने शुभे (०३२-०१५)
यथाहनि तथा रात्रौ (०३२-०१६)
यथा रात्रौ तथाहनि (०३२-०१६)
तव दीपप्रदानाय (०३२-०१६)
यथा सुभ्रु सदोद्यमः (०३२-०१६)
तद् एतत् कथयास्माकं (०३२-०१७)
ललिते कौतुकं परम् (०३२-०१७)
मन्यामो दीपदानस्य (०३२-०१७)
भवत्या विदितं फलम् (०३२-०१७)
एवम् उक्ता ततस् ताभिर् (०३२-०१८)
ललिता ललितं वचः (०३२-०१८)
व्याजहार सपत्नीस् ता (०३२-०१८)
न किंचिद् अपि भामिनी (०३२-०१८)
पुनः पुनश् च सा ताभिर् (०३२-०१९)
बहुषो दाल्भ्य चोदिता (०३२-०१९)
दाक्षिण्यसारा ललिता (०३२-०१९)
कथायाम् आस भामिनी (०३२-०१९)
कौतुकं भवतीनां चेद् (०३२-०२०)
अतीवाल्पे ऽपि वस्तुनि (०३२-०२०)
तद् एषा कथयाम्य् एतद् (०३२-०२०)
यद् वृत्तं मम शोभनाः (०३२-०२०)
सौवीरराजस्य पुरा (०३२-०२१)
मैत्रेयो ऽभूत् पुरोहितः (०३२-०२१)
तेन चायतनं विष्णोः (०३२-०२१)
कारितं देविकातटे (०३२-०२१)
अहन्य् अहनि शुश्रूषां (०३२-०२२)
पुष्पधूपोपलेपनैः (०३२-०२२)
दीपदानादिभिश् चैव (०३२-०२२)
चक्रे तत्र स वै द्विजः (०३२-०२२)
कार्त्तिके दीपको ब्रह्मन् (०३२-०२३)
प्रदत्तस् तेन वै तदा (०३२-०२३)
आसीन् निर्वाणभूयिष्ठो (०३२-०२३)
देवार्चापुरतो निशि (०३२-०२३)
देवतायतने चासं (०३२-०२४)
तत्राहम् अपि मूषिका (०३२-०२४)
प्रदीपवर्तिहरणे (०३२-०२४)
कृतबुद्धिर् वराननाः (०३२-०२४)
गृहीता च मया वर्तिर् (०३२-०२५)
वृषदंशो ननाद च (०३२-०२५)
नष्टा चाहं तदा तस्य (०३२-०२५)
मार्जारस्य भयातुरा (०३२-०२५)
वर्तिप्रान्तेन नश्यन्त्या (०३२-०२६)
स दीपः प्रेरितो मया (०३२-०२६)
जज्वाल पूर्ववद् दीप्त्या (०३२-०२६)
तस्मिन्न् आयतने पुनः (०३२-०२६)
मृताहं च ततो जाता (०३२-०२७)
वैदर्भी राजकन्यका (०३२-०२७)
जातिस्मरा कान्तिमती (०३२-०२७)
भवतीनां समा गुणैः (०३२-०२७)
एष प्रभावो दीपस्य (०३२-०२८)
कार्त्तिके मासि शोभनाः (०३२-०२८)
दत्तस्य विष्ण्वायतने (०३२-०२८)
यस्येयं व्युष्टिर् उत्तमा (०३२-०२८)
असंकल्पितम् अप्य् अस्य (०३२-०२९)
प्रेरणं यत् कृतं मया (०३२-०२९)
विष्ण्वायतनदीपस्य (०३२-०२९)
यस्येदं भुज्यते फलम् (०३२-०२९)
लोभाभिभूता हर्तुं तं (०३२-०३०)
प्रदीपम् अहम् आगता (०३२-०३०)
अवशेनैव तद्वर्त्या (०३२-०३०)
प्रेरणं तत्र मे कृतम् (०३२-०३०)
ततो जातिस्मृतिर् जन्म (०३२-०३१)
मानुष्यं शोभनं वपुः (०३२-०३१)
वश्यः पतिः पृथिवीशः (०३२-०३१)
किं पुनर् दीपदायिनाम् (०३२-०३१)
एतस्मात् कारणाद् दीपान् (०३२-०३२)
अहम् एतान् अहर्निशम् (०३२-०३२)
प्रयच्छामि हरेर् धाम्नि (०३२-०३२)
ज्ञातम् अस्य हि यत् फलम् (०३२-०३२)
भवतीनाम् इदं सत्यं (०३२-०३३)
मयोक्तं केशवालये (०३२-०३३)
मूषिकत्वाद् अहं येन (०३२-०३३)
कर्मणा सिद्धिम् आगता (०३२-०३३)
एष प्रभावो दीपस्य (०३२-०३४)
कार्त्तिके मासि सत्तम (०३२-०३४)
विष्ण्वायतनदत्तस्य (०३२-०३४)
जगाद ललिता यथा (०३२-०३४)
दिने दिने जगन्नाथ (०३२-०३५)
केशवेति समाहितः (०३२-०३५)
ददाति कार्त्तिके यस् तु (०३२-०३५)
विष्ण्वायतनदीपकम् (०३२-०३५)
जातिस्मरत्वं प्रज्ञां च (०३२-०३६)
प्राकाश्यं सर्ववस्तुषु (०३२-०३६)
अव्याहतेन्द्रियत्वं च (०३२-०३६)
संप्राप्नोति न संशयः (०३२-०३६)
शेषकाले च चक्षुष्मान् (०३२-०३७)
मेधावी दीपदो नरः (०३२-०३७)
जायते नरकं वापि (०३२-०३७)
तमःसंज्ञं न पश्यति (०३२-०३७)
एकादशीं द्वादशीं वा (०३२-०३८)
प्रतिपक्षं च यो नरः (०३२-०३८)
दीपं ददाति कृष्णाय (०३२-०३८)
तस्यापि शृणु यत् फलम् (०३२-०३८)
सुवर्णमणिमुक्ताढ्यं (०३२-०३९)
मनोज्ञम् अतिशोभनम् (०३२-०३९)
दीपमालाकुलं दिव्यं (०३२-०३९)
विमानं सो ऽधिरोहति (०३२-०३९)
तस्माद् आयतने विष्णोर् (०३२-०४०)
दद्याद् दीपं द्विजोत्तम (०३२-०४०)
तांश् च दत्तान् न हिंसेत (०३२-०४०)
न च तैलवियोजितान् (०३२-०४०)
कुर्वीत दीपहर्ता तु (०३२-०४०)
मूको ऽन्धो जायते यतः (०३२-०४०)
जायते नरकं चापि (०३२-*(३५))
तपःसंज्ञं स पश्यति (०३२-*(३५))
अन्धे तामसि दुष्पारे (०३२-०४१)
नरके पतितान् किल (०३२-०४१)
विक्रोशमानान् क्षुत्क्षामाञ् (०३२-०४१)
जगाद यमकिंकरः (०३२-०४१)
विलापैर् अलम् अत्रापि (०३२-०४२)
किं वो विलपिते फलम् (०३२-०४२)
यदा प्रमादिभिः पूर्वम् (०३२-०४२)
आत्मात्यन्तम् उपेक्षितः (०३२-०४२)
पूर्वम् आलोचितं नैतत् (०३२-०४३)
किम् अप्य् अन्ते भविष्यति (०३२-०४३)
इदानीं यातनाभोगः (०३२-०४३)
किं विलापः करिष्यति (०३२-०४३)
देहो दिनानि स्वल्पानि (०३२-०४४)
विषयाश् चातिदुर्धराः (०३२-०४४)
एतत् को न विजानाति (०३२-०४४)
येन यूयं प्रमादिनः (०३२-०४४)
जन्तुजन्मसहस्रेभ्य (०३२-०४५)
एतस्मिन् मानुष्यो यदि (०३२-०४५)
तत्राप्य् अतिविमूढत्वात् (०३२-०४५)
किं भोगान् अभिधावति (०३२-०४५)
विरुद्धविषयास्वाद- (०३२-०४६)
मुदितैर् हसितं च यत् (०३२-०४६)
भवद्भिर् आगतं दुःखं (०३२-०४६)
विलापपरिणामिकम् (०३२-०४६)
अद्यकालिकया बुद्ध्या (०३२-०४७)
यद् आगामि न चिन्तितम् (०३२-०४७)
परितापाय तज् जातं (०३२-०४७)
दुःखं कर्मविपाकजम् (०३२-०४७)
स्वल्पम् आयुर् मनुष्याणां (०३२-०४८)
तदन्ते परतन्त्रता (०३२-०४८)
भुज्यते च कृतं पूर्वम् (०३२-०४८)
एतत् किं वो न चिन्तितम् (०३२-०४८)
यद् अभूत् परदारेषु (०३२-०४९)
प्रीतये ऽङ्गकुचादिकम् (०३२-०४९)
यातनादुःखरूपाय (०३२-०४९)
नरके च तद् आगतम् (०३२-०४९)
परदारमनोहारि (०३२-०५०)
यद् भवद्भिर् अगीयत (०३२-०५०)
हा मात इत्यादि रुतं (०३२-०५०)
तद् इदानीं विलप्यते (०३२-०५०)
संदिग्धपरलोकानाम् (०३२-०५१)
ऐहिके निहतात्मनाम् (०३२-०५१)
मृतानां स्वकृतं कर्म (०३२-०५१)
पश्चात्तापाय केवलम् (०३२-०५१)
मुहूर्तार्धसुखास्वाद- (०३२-०५२)
लुब्धानाम् अकृतात्मनाम् (०३२-०५२)
अनेकवर्षकोटिषु (०३२-०५२)
दुःखदं कर्म जायते (०३२-०५२)
हा मातस् तात तातेति (०३२-०५३)
भवद्भिः किं विलप्यते (०३२-०५३)
शुभाशुभं निजं कर्म (०३२-०५३)
तद् अद्य ह्य् अत्र भुज्यते (०३२-०५३)
पुत्रदारगृहक्षेत्र- (०३२-०५४)
हिताय सततोद्यताः (०३२-०५४)
न कुर्वत्नि कथं मूढाः (०३२-०५४)
स्वल्पम् अप्य् आत्मनो हितम् (०३२-०५४)
वञ्चितो ऽसौ मया लब्धम् (०३२-०५५)
इदम् अस्माद् उपायतः (०३२-०५५)
न वेत्ति कश्चिद् आत्मार्थं (०३२-०५६)
वेत्ति प्रक्रमतो नरः (०३२-०५६)
न वेत्ति सूर्यचन्द्रादीन् (०३२-०५७)
कालम् आत्मानम् एव च (०३२-०५७)
साक्षिभूतान् अशेषस्य (०३२-०५७)
शुभस्येहाशुभस्य च (०३२-०५७)
जन्मान्य् अन्यानि जायन्ते (०३२-०५८)
पुत्रदारादिदेहिनाम् (०३२-०५८)
तदर्थं यत् कृतं कर्म (०३२-०५८)
तस्य जन्मशतानि तत् (०३२-०५८)
अहो मोहस्य माहात्म्यं (०३२-०५९)
ममत्वं नरकेष्व् अपि (०३२-०५९)
क्रन्दते मातरं तातं (०३२-०५९)
पीड्यमानो ऽपि यत् स्वयम् (०३२-०५९)
एवम् आकृष्टचित्तानां (०३२-०६०)
विषयास्वादतर्षुलैः (०३२-०६०)
नॄणां न जायते बुद्धिः (०३२-०६०)
परमार्थावलोकिनी (०३२-०६०)
तथा च विषयासक्तिं (०३२-०६०)
करोत्य् अविरतं मनः (०३२-०६०)
को ऽतिभारो हरेर् नाम्नि (०३२-०६१)
जिह्वायाः परिकीर्तने (०३२-०६१)
वर्तितैले ऽल्पमौल्ये ऽपि (०३२-०६२)
यद् अग्निर् लभ्यते मुधा (०३२-०६२)
अतो ऽधिकतरो लोभः (०३२-०६२)
को वश् चित्ते ऽभवत् तदा (०३२-०६२)
येनेयं तेषु हस्तेषु (०३२-०६३)
स्वातन्त्र्ये सति दीपकः (०३२-०६३)
महाफलो विष्णुगृहे (०३२-०६३)
न दत्तो नरकापहः (०३२-०६३)
न वो विलपिते किंचिद् (०३२-०६४)
इदानीं दृश्यते फलम् (०३२-०६४)
अस्वातन्त्र्ये विलपतां (०३२-०६४)
स्वातन्त्र्ये ऽतिप्रमादिनाम् (०३२-०६४)
अवश्यंपातिनः प्राणा (०३२-०६५)
भोक्ता जीवो ह्य् अहर्निशम् (०३२-०६५)
दत्तं च लभते भोक्ता (०३२-०६५)
समये विषयान् इति (०३२-०६५)
एतत् स्वातन्त्र्यवद्भिर् वो (०३२-०६६)
युक्तम् आसीत् परीक्षितुम् (०३२-०६६)
इदानीं किं विलापेन (०३२-०६६)
सहध्वं यद् उपागतम् (०३२-०६६)
यद्य् एतद् अनभीष्टं वो (०३२-०६७)
यद् दुःखं समुपस्थितम् (०३२-०६७)
तद् भूयो ऽपि मतिः पापे (०३२-०६७)
न कर्तव्या कथंचन (०३२-०६७)
कृते ऽपि पापके कर्मण्य् (०३२-०६८)
अज्ञानाद् अघनाशनम् (०३२-०६८)
कर्तव्यम् अव्यवस्थितं (०३२-०६८)
स्मरद्भिर् मधुसूदनम् (०३२-०६८)
नारकास् तद्वचः श्रुत्वा (०३२-०६९)
ताम् ऊचुर् अतिदुःखिताः (०३२-०६९)
क्षुत्क्षामकण्ठास् तृषया (०३२-०६९)
परिस्फुटिततालुकाः (०३२-०६९)
भो भो साधो कृतं कर्म (०३२-०७०)
यद् अस्माभिस् तद् उच्यताम् (०३२-०७०)
नरकस्थैर् विपाको ऽयं (०३२-०७०)
भुज्यते यस्य दारुणः (०३२-०७०)
युष्माभिर् यौवनोन्माद- (०३२-०७१)
मुदितैर् अविवेकिभिः (०३२-०७१)
द्यूतोद्योताय गोविन्द- (०३२-०७१)
गृहाद् दीपः पुरा हृतः (०३२-०७१)
तेनास्मिन् नरके घोरे (०३२-०७२)
क्षुत्तृष्णापरिपीडिताः (०३२-०७२)
भवन्तः पतितास् तीव्र- (०३२-०७२)
शीतवातविदारिताः (०३२-०७२)
एतत् ते दीपदानस्य (०३२-०७३)
प्रदीपहरणस्य च (०३२-०७३)
पुण्यं पापं च कथितं (०३२-०७३)
केशवायतने द्विज (०३२-०७३)
सर्वत्रैव हि दीपस्य (०३२-०७४)
प्रदानं द्विज शस्यते (०३२-०७४)
विशेषेण जगद्धातुः (०३२-०७४)
केशवस्य निवेशने (०३२-०७४)
ये ऽन्धा मूका निःश्रुता निर्विवेका (०३२-०७५)
हीनास् तैस् तैः साधनैर् विप्रवर्य (०३२-०७५)
तैस् तैर् दीपाः साधुलोकप्रदत्ता (०३२-०७५)
देवागाराद् अन्यतो विप्रणीताः (०३२-०७५)
आह्लादं चक्षुषः प्रीतिं (०३३-००१)
करोति मनसस् तथा (०३३-००१)
केषांचिद् दर्शनं ब्रह्मन् (०३३-००१)
मनुष्याणाम् अहर्निशम् (०३३-००१)
उद्वेजनीया भूतानाम् (०३३-००२)
अनिमित्तं तथापरे (०३३-००२)
वदन्ते विप्रियं नैव (०३३-००२)
प्रीतिं कुर्वन्ति मानवाः (०३३-००२)
एतद् यस्य फलं ब्रह्मन् (०३३-००३)
दानस्य तपसो ऽथवा (०३३-००३)
उपवासस्य वा तन् मे (०३३-००३)
यथावद् वक्तुम् अर्हसि (०३३-००३)
अप्रीतिदस्य विप्रर्षे (०३३-००४)
विपाको यस्य कर्मणः (०३३-००४)
मनुष्याणाम् अशेषं वै (०३३-००४)
तन् ममाचक्ष्व सत्तम (०३३-००४)
देवब्राह्मणवेदेषु (०३३-००५)
यज्ञेषु च नराधमैः (०३३-००५)
यैर् जुगुप्सा कृता दाल्भ्य (०३३-००५)
मनसाप्य् अतिमानिभिः (०३३-००५)
तेषां संदर्शनात् सर्वो (०३३-००६)
न सुखं विन्दते द्विज (०३३-००६)
वदन्त्य् अप्य् अनुकूलानि (०३३-००६)
न तेषु प्रीयते जनः (०३३-००६)
स्पर्शाद् उद्विजते लोकः (०३३-००७)
कटु तेषां च दर्शनम् (०३३-००७)
संभाषणं च निन्दा वै (०३३-००७)
कृता वेदद्विजातिके (०३३-००७)
तस्मान् न निन्दां वेदादौ (०३३-००८)
न जुगुप्सां च पण्डितः (०३३-००८)
यज्ञादौ च नरः कुर्याद् (०३३-००८)
य इच्छेच् छ्रेय आत्मनः (०३३-००८)
यैस् तु प्रीतिः समस्तेषु (०३३-००९)
वेददेवद्विजातिषु (०३३-००९)
यज्ञादिके चैव कृता (०३३-००९)
दाल्भ्य तद्दर्शनं नृणाम् (०३३-००९)
आह्लादश् चक्षुषः प्रीतिर् (०३३-०१०)
मनसो निर्वृतिः परा (०३३-०१०)
संभाषणे तथाह्लादः (०३३-०१०)
सर्वलोकस्य जायते (०३३-०१०)
स्तुताः प्रशस्ताः संप्रीत्या (०३३-०११)
पूजिता बहुमानतः (०३३-०११)
श्रेयः परं प्रयच्छन्ति (०३३-०११)
देवा वेदा मखा द्विजाः (०३३-०११)
लोकद्वये ऽपि चाप्रीतिं (०३३-०१२)
पशुपुत्रधनक्षयम् (०३३-०१२)
कुर्वन्ति द्विजशार्दूल (०३३-०१२)
एत एव विनिन्दिताः (०३३-०१२)
एत एव समाख्याताः (०३३-०१३)
स्तवादिग्रहणे गुणाह् (०३३-०१३)
निन्दायाः श्रवणे दोष (०३३-०१३)
एतेषाम् एवम् एव हि (०३३-०१३)
तस्मात् स्तव्याः प्रशंस्याश् च (०३३-०१४)
देवा वेदा द्विजातयः (०३३-०१४)
यज्ञाश् च मनसाप्य् एषां (०३३-०१४)
न निन्दाम् आचरेद् बुधः (०३३-०१४)
अनायासेन भगवन् (०३४-००१)
दानेनान्येन केनचित् (०३४-००१)
पापं प्रशमम् आयाति (०३४-००१)
येन तद् वक्तुम् अर्हसि (०३४-००१)
शृणु दाल्भ्य महापुण्यां (०३४-००२)
द्वादशीं पापनाशनीम् (०३४-००२)
याम् उपोष्य परं पुण्यं (०३४-००२)
प्राप्नुते श्रद्धयान्वितः (०३४-००२)
माघमासे तु संप्राप्त (०३४-००३)
आषाढार्क्षं भवेद् यदि (०३४-००३)
मूलं वा कृष्णपक्षस्य (०३४-००३)
द्वादश्यां नियतस् तदा (०३४-००३)
गृह्णीयात् पुण्यफलदं (०३४-००४)
विधानं तस्य मे शृणु (०३४-००४)
देवदेवं समभ्यर्च्य (०३४-००४)
सुस्नातः प्रयतः शुचिः (०३४-००४)
कृष्णनाम्ना च संस्तूय (०३४-००५)
एकादश्यां महामते (०३४-००५)
उपोषितो द्वितीये ऽह्नि (०३४-००५)
पुनः संपूज्य केशवम् (०३४-००५)
संस्तूय नाम्ना च ततः (०३४-००६)
कृष्णाख्येन पुनः पुनः (०३४-००६)
दद्यात् तिलांस् तु विप्राय (०३४-००६)
कृष्णो मे प्रीयताम् इति (०३४-००६)
स्नानप्राशनयोः शस्तास् (०३४-००६)
तथा कृष्णतिला मुने (०३४-००६)
तिलप्ररोहे जायन्ते (०३४-००७)
यावत्संख्यास् तिला द्विज (०३४-००७)
तावद्वर्षसहस्राणि (०३४-००७)
स्वर्गलोके महीयते (०३४-००७)
जातश् चेहाप्य् अरोगो ऽसौ (०३४-००८)
नरो जन्मनि जन्मनि (०३४-००८)
नान्धो न बधिरश् चेह (०३४-००८)
न कुष्ठी न जुगुप्सितः (०३४-००८)
भवत्य् एताम् उषित्वा तु (०३४-००८)
तिलाख्यां द्वादशीं नरः (०३४-००८)
विष्णोः प्रीणनम् अत्रोक्तं (०३४-००९)
समाप्ते वर्षपारणे (०३४-००९)
पूजां च कुर्याद् विप्राय (०३४-००९)
भूयो दद्यात् तथा तिलान् (०३४-००९)
अनेन दाल्भ्य विधिना (०३४-०१०)
तिलदानाद् असंशयम् (०३४-०१०)
मुच्यते पातकैः सर्वैर् (०३४-०१०)
निरायासेन मानवः (०३४-०१०)
उद्भृतपुलकः सर्वान् (०३४-*(३६))
निरायासेन मानवः (०३४-*(३६))
दानविधिस् तथा श्रद्धा (०३४-०११)
सर्वपातकशान्तये (०३४-०११)
नार्थः प्रभूतो नायासः (०३४-०११)
शारीरो मुनिसत्तम (०३४-०११)
अनन्तस्याप्रमेयस्य (०३५-००१)
व्यापिनः परमात्मनः (०३५-००१)
नाम्नां नक्षत्रभेदेन (०३५-००१)
तिथिभेदेन वा द्विज (०३५-००१)
दानभेदेन चाख्यातो (०३५-००२)
विभिन्नफलदस् त्वया (०३५-००२)
विशेषः क्षेत्रभेदेन (०३५-००२)
कथ्यतां यदि विद्यते (०३५-००२)
यथ र्क्षतिथिभेदेन (०३५-००३)
तेषाम् एव पुनः पुनः (०३५-००३)
विशेषः कथितो नाम्नां (०३५-००३)
विशेषफलदायकः (०३५-००३)
तथा क्षेत्रविशेषेण (०३५-००३)
भेदं नामकृतं वद (०३५-००३)
शृणु दाल्भ्य यथाख्यातम् (०३५-००४)
अर्जुनाय महात्मने (०३५-००४)
प्रणिपातप्रसन्नेन (०३५-००४)
विष्णुना प्रभविष्णुना (०३५-००४)
कृते भारावतरणे (०३५-००५)
निवृत्ते भारते रणे (०३५-००५)
आगम्य शिबिरं विष्णू (०३५-००५)
रथस्थः प्राह फाल्गुनम् (०३५-००५)
इषुधीगाण्डिवं चैव (०३५-००६)
समादाय त्वरान्वितः (०३५-००६)
अवतीर्य रथाद् वीर (०३५-००६)
दूरे तिष्ट्ःअ धनंजय (०३५-००६)
अवरोक्ष्याम्य् अहं पश्चाद् (०३५-००७)
अवतीर्णे ततस् त्वयि (०३५-००७)
एतत् कुरु महाबाहो (०३५-००७)
मा विलम्बस्व फाल्गुन (०३५-००७)
एवम् उक्तस् तथा चक्रे (०३५-००८)
वाक्यं पार्थो गदाधृतः (०३५-००८)
अवारोहत् ततः पश्चात् (०३५-००८)
स्वयम् एव जनार्दनः (०३५-००८)
अवतीर्णे जगन्नाथे (०३५-००९)
स्वसमुत्थेन वह्निना (०३५-००९)
जज्वाल स रथः सद्यो (०३५-००९)
भस्मीभूतश् च तत्क्षणात् (०३५-००९)
सोपस्करपताको ऽथ (०३५-००९)
सध्वजः सह वाजिभिः (०३५-००९)
सच्छत्त्रो वह्निना सद्यो (०३५-०१०)
रथो भस्मलवीकृतः (०३५-०१०)
वह्निना च यथा काष्ठं (०३५-०१०)
सद्यो भस्मलवीकृतम् (०३५-०१०)
तद् अद्भुतं महद् दृष्ट्वा (०३५-०११)
पार्थः पप्रच्छ केशवम् (०३५-०११)
हृष्टरोमा द्विजश्रेष्ठ (०३५-०११)
भयविस्मयगद्गदः (०३५-०११)
आश्चर्यं पुरुषव्याघ्र (०३५-०१२)
किम् एतन् मधुसूदन (०३५-०१२)
विनाग्निना रथो ऽयं मे (०३५-०१२)
दग्धस् तृणचयो यथा (०३५-०१२)
भीष्मद्रोणकृपादीनां (०३५-०१३)
कर्णादीनां च फाल्गुन (०३५-०१३)
दग्धो ऽस्त्रैर् विविधैर् एष (०३५-०१३)
पूर्वम् एव रथस् तव (०३५-०१३)
मदधिष्ठितत्वात् कौन्तेय (०३५-०१४)
न शीर्णो ऽयं तदाभवत् (०३५-०१४)
प्रत्यहन् निशि चक्रेण (०३५-०१४)
मया न्यस्तेन रक्षितः (०३५-०१४)
सो ऽयं दग्धो महाबाहो (०३५-०१५)
त्वय्य् अद्य कृतकर्मणि (०३५-०१५)
मयावतारिते चक्रे (०३५-०१५)
मा पार्थ कुरु विस्मयम् (०३५-०१५)
कं भवन्तम् अहं विद्याम् (०३५-०१६)
अतिमानुषचेष्टितम् (०३५-०१६)
कर्मणात्यद्भुतेनाग्निर् (०३५-०१६)
धूमेनैवेह सूचितः (०३५-०१६)
पूर्वम् एव यथाख्यातं (०३५-०१७)
रणारम्भे तवार्जुन (०३५-०१७)
कालो ऽस्मि लोकनाशाय (०३५-०१७)
प्रवृत्तो ऽहं यथाधुना (०३५-०१७)
तन् मया साधितं कार्यं (०३५-०१८)
त्रिदशानां तथा भुवः (०३५-०१८)
भारावतरणार्थाय (०३५-०१८)
मम जन्म महीतले (०३५-०१८)
एवम् उक्तो ऽर्जुनः सम्यक् (०३५-०१९)
प्रणिपत्य जनार्दनम् (०३५-०१९)
तुष्टाव वाग्भिर् इष्टाभिर् (०३५-०१९)
उद्भूतपुलकस् ततः (०३५-०१९)
नमो ऽस्तु ते चक्रधरोग्ररूप (०३५-०२०)
नमो ऽस्तु ते शार्ङ्गधरारुणाक्ष (०३५-०२०)
नमो ऽस्तु ते ऽभ्युद्यतखड्ग रौद्र (०३५-०२०)
नमो ऽस्तु विभ्रान्तगदान्तकारिन् (०३५-०२०)
भयेन सन्नो ऽस्मि सवेपथेन (०३५-०२१)
नाङ्गानि मे देव वशं प्रयान्ति (०३५-०२१)
वाचः समुच्चारयतः स्खलन्ति (०३५-०२१)
केशा हृषीकेश समुच्छ्वसन्ति (०३५-०२१)
कालो भवान् कालकरालकर्मा (०३५-०२२)
येनैतद् एवं क्षयम् अक्षयात्मन् (०३५-०२२)
क्षत्रं समुद्भूतरुषा समस्तम् (०३५-०२२)
नीतं भुवो भारविरेचनाय (०३५-०२२)
प्रसीद कर्तर् जय लोकनाथ (०३५-०२३)
प्रसीद सर्वस्य च पालनाय (०३५-०२३)
स्थितौ समस्तस्य च कालरूप (०३५-०२३)
कृतोद्यमेशान जयाव्ययात्मन् (०३५-०२३)
न मे दृग् एषा तव रूपम् एतद् (०३५-०२४)
द्रष्टुं समर्था क्षुभितो ऽस्मि चान्तः (०३५-०२४)
पूर्वस्वभावस्थितविग्रहो ऽपि (०३५-०२४)
संलक्ष्यसे ऽत्यन्तम् असौम्यरूप (०३५-०२४)
स्मरामि रूपं तव विश्वरूपं (०३५-०२५)
यद् दर्शितं पूर्वम् अभून् ममैव (०३५-०२५)
यस्मिन् मया विश्वम् अशेषम् आसीद् (०३५-०२५)
दृष्टं सयक्षोरगदेवदैत्यम् (०३५-०२५)
सा मे स्मृतिर् दर्शनभाषनादि- (०३५-०२६)
प्रकुर्वतो नाथ गता प्रणाशम् (०३५-०२६)
कालो ऽहम् अस्मीत्य् उदिते त्वया तु (०३५-०२६)
समागतेयं पुनर् अप्य् अनन्त (०३५-०२६)
कर्ता भवान् कारणम् अप्य् अशेषम् (०३५-०२७)
कार्यं च निष्कारण कर्तृरूप (०३५-०२७)
आदौ स्थितौ संहरणे च देव (०३५-०२७)
विश्वस्य विश्वं स्वयम् एव च त्वम् (०३५-०२७)
ब्रह्मा भवान् विश्वसृग् आदिकाले (०३५-०२८)
विश्वस्य रूपो ऽसि तथा विसृष्टौ (०३५-०२८)
विष्णुः स्थितौ पालनबद्धकक्षो (०३५-०२८)
रुद्रो भवान् संहरणे प्रजानाम् (०३५-०२८)
एभिस् त्रिभिर् नाथ विभूतिभेदैर् (०३५-०२९)
यश् चिन्त्यते कारणम् आत्मनो ऽपि (०३५-०२९)
वेदान्तवेदोदितम् अस्ति विष्णोः (०३५-०२९)
पदं ध्रुवं तत् परमं त्वम् एव (०३५-०२९)
यन् निर्गुणं सर्वविकल्पहीनम् (०३५-०३०)
अनन्तम् अस्थूलम् अरूपगन्धम् (०३५-०३०)
परं पदं वेदविदो वदन्ति (०३५-०३०)
त्वम् एव तच् छब्दरसादिहीनम् (०३५-०३०)
यथा हि मूले विटपी महाद्रुमः (०३५-०३१)
प्रतिष्ठितस्कन्धवरोग्रशाखः (०३५-०३१)
तथा समस्तामरमर्त्यतिर्यग्- (०३५-०३१)
व्योमादिशब्दादिमयं त्वयीदम् (०३५-०३१)
मुञ्चामि यावत् परमायुधानि (०३५-०३२)
वैरिष्व् अनन्ताहवदुर्मदेषु (०३५-०३२)
दृष्ट्वा हि तावत् सहसा पतन्तो (०३५-०३२)
नूनं तवैवाच्युत स प्रभावः (०३५-०३२)
हता हतास् ते भवतो दृशैव (०३५-०३३)
मया पुनः केशव शस्त्रपूगैः (०३५-०३३)
काह् कर्णभीष्मप्रमुखान् विजेतुं (०३५-०३३)
युष्मत्प्रसादेन विना समर्थः (०३५-०३३)
त्रिशूलपाणिर् मम यः पुरस्तान् (०३५-०३४)
निषूदयन् वैरिबलं जगाम (०३५-०३४)
ज्ञातं मया सांप्रतम् एतद् ईश (०३५-०३४)
तव प्रसादस्य हि सा विभूतिः (०३५-०३४)
यमेन्द्रवित्तेशजलेशवह्नि- (०३५-०३५)
सूर्यात्मको यश् च ममास्त्रपूगः (०३५-०३५)
नाशाय नाभूत् पतितो ऽपि काये (०३५-०३५)
त्वत्संनिधानस्य हि सो ऽनुभावः (०३५-०३५)
बाल्ये भवान् यानि चकार देव (०३५-०३६)
कर्माण्य् असह्यानि सुरासुराणाम् (०३५-०३६)
तैर् एव जानीम न यत् परं त्वां (०३५-०३६)
दोषः स निर्दोषो मनुष्यतायाः (०३५-०३६)
तालोच्छ्रिताग्रं गुरुभारसारम् (०३५-०३७)
आयामविस्तारवद् अद्यजातः (०३५-०३७)
पादाग्रविक्षेपविभिन्नभाण्डं (०३५-०३७)
चिक्षेप को ऽन्यः शकटं यथा त्वम् (०३५-०३७)
अन्येन केनाच्युत पूतनायाः (०३५-०३८)
प्राणैः समं पीतम् असृग्विमिश्रम् (०३५-०३८)
त्वया यथा स्तन्यम् अतीवबाल्ये (०३५-०३८)
गोष्ठे च भग्नौ यमलार्जुनौ तौ (०३५-०३८)
विषानलोष्णाम्बुनिपातभीमम् (०३५-०३९)
आस्फोट्य को वा भुवि मनुषो ऽन्यः (०३५-०३९)
ननर्त पादाब्जनिपीडितस्य (०३५-०३९)
फणं समारुह्य च कालियस्य (०३५-०३९)
सुरेशसंदेशविरोधवत्सु (०३५-०४०)
वर्षत्सु मेघेषु गवान् निमित्तम् (०३५-०४०)
दिनानि सप्तास्ति च कस्य शक्तिर् (०३५-०४०)
गोवर्धनं धारयितुं करेण (०३५-०४०)
प्रलम्बचाणूरमुखान् निहत्य (०३५-०४१)
कंसासुरं यस्य बिभेति शक्रः (०३५-०४१)
तम् अष्टवर्षो निजघान को ऽन्यो (०३५-०४१)
निरायोधो नाथ मनुष्यजन्मा (०३५-०४१)
बाणार्थम् अभ्युद्यतम् उग्रशूलं (०३५-०४२)
निर्जित्य संख्ये त्रिपुरारिम् एकः (०३५-०४२)
सकार्त्तिकेयज्वरम् अस्त्रबाहुं (०३५-०४२)
करोति को बाणम् अनच्युतो ऽन्यः (०३५-०४२)
कः पारिजातं सुरसुन्दरीणां (०३५-०४३)
सदोपभोग्यं विजितेन्द्रसैन्यः (०३५-०४३)
स्वर्गान् महीम् उच्छ्रितवीर्यधैर्यः (०३५-०४३)
समानयाम् आस यथा प्रभो त्वम् (०३५-०४३)
हत्वा हयग्रीवम् उदारवीर्यं (०३५-०४४)
निशुम्भशुम्भौ नरकं च को ऽन्यः (०३५-०४४)
जग्राह कन्यापुरम् आत्मनो ऽर्थं (०३५-०४४)
प्राग्ज्योतिषाख्ये नगरे महात्मन् (०३५-०४४)
स्थितौ स्थितस् त्वं परिपासि विश्वं (०३५-०४५)
तैस् तैर् उपायैर् अविनीतभीतैः (०३५-०४५)
मैत्री न येषां विनयाय तांस् तान् (०३५-०४५)
सर्वान् भवान् संहरते ऽव्ययात्मन् (०३५-०४५)
हिताय तेषां कपिलादिरूपिणा (०३५-०४६)
त्वयानुशस्ता बहवो ऽनुजीवाः (०३५-०४६)
येषां न मैत्री हृदि ते न नेया (०३५-०४६)
विश्वोपकारी वध एव तेषाम् (०३५-०४६)
इत्थं भवान् दुष्टवधेन नूनं (०३५-०४७)
विश्वोपकाराय विभो प्रवृत्तः (०३५-०४७)
स्थितौ स्थितं पालनम् एव विष्णुः (०३५-०४७)
करोति हन्त्य् अन्तगतो ऽन्तरुद्रः (०३५-०४७)
एतानि चान्यानि च दुष्कराणि (०३५-०४८)
दृष्टानि कर्माणि तथापि सत्यम् (०३५-०४८)
मन्यामहे त्वां जगतः प्रसूतिं (०३५-०४८)
किं कुर्म माया तव मोहनीयम् (०३५-०४८)
त्वं सर्वम् एतत् त्वयि सर्वम् एतत् (०३५-०४९)
त्वत्तस् तथैतत् तव चैतद् ईश (०३५-०४९)
एतत् स्वरूपं तव सर्वभूतं (०३५-०४९)
विभूतिभेदैर् बहुभिः स्थितस्य (०३५-०४९)
प्रसीद कृष्णाच्युत वासुदेव (०३५-०५०)
जनार्दनानन्त नृसिंह विष्णो (०३५-०५०)
मनुष्यसामान्यधिया यदीश (०३५-०५०)
दृष्टो मया तत् क्षमस्वादिदेव (०३५-०५०)
न वेद्मि सद्भावम् अहं तवाद्य (०३५-०५१)
सद्भावभूतस्य चराचरस्य (०३५-०५१)
यो वै भवान् को ऽपि नतो ऽस्मि तस्मै (०३५-०५१)
मनुष्यरूपाय चतुर्भुजाय (०३५-०५१)
देवदेव जगन्नाथ (०३५-०५२)
सर्वपापहरो भव (०३५-०५२)
हेतुमात्रस् त्व् अहं तत्र (०३५-०५२)
त्वयैतद् उपसंहृतम् (०३५-०५२)
प्रसीदेश हृषीकेश (०३५-०५३)
अक्षौहिण्या दशाष्ट च (०३५-०५३)
त्वया ग्रस्ता भुवो भूत्यै (०३५-०५३)
हेतुभूता हि मद्विधाः (०३५-०५३)
वयम् अन्ये च गोविन्द (०३५-०५४)
नराः क्रीडनकास् तव (०३५-०५४)
मद्विधैः करणैर् देव (०३५-०५४)
करोषि स्थितिपालनम् (०३५-०५४)
यद् अत्र सद् असद् वापि (०३५-०५५)
किंचिद् उच्चारितं मया (०३५-०५५)
भक्तिमान् इति तत् सर्वं (०३५-०५५)
क्षन्तव्यं मम केशव (०३५-०५५)
एवं स्तुतस् ततः प्राह (०३६-००१)
प्रीतिमांस् तं जनार्दनः (०३६-००१)
परिष्वज्य महाबाहुं (०३६-००१)
समाश्वास्य च फाल्गुनम् (०३६-००१)
प्र्वाच भगवान् देवः (०३६-*(३७))
प्रहृष्टेनान्तरात्मना (०३६-*(३७))
यस् त्वां वेत्ति स मां वेत्ति (०३६-००२)
यस् त्वाम् अनु स माम् अनु (०३६-००२)
अभेदेनात्मना वेद्मी (०३६-००२)
त्वाम् अहं पाण्डुनन्दन (०३६-००२)
ममांशत्वं महाबाहो (०३६-००३)
जगतः पालनेच्छया (०३६-००३)
भुवो भारावतारार्थं (०३६-००३)
पृथक् पार्थ मया कृतम् (०३६-००३)
देवदैत्योरगा यक्षा (०३६-००४)
गन्धर्वाः किंनराप्सराः (०३६-००४)
राक्षसाश् च पिशाचाश् च (०३६-००४)
पशुपक्षिसरीसृपाः (०३६-००४)
वृक्षगुल्मादयः शैलाः (०३६-००५)
सर्वभूतानि चार्जुन (०३६-००५)
ममैवांशानि भूतानि (०३६-००५)
विद्धि सर्वाण्य् अरिंदम (०३६-००५)
भगवन् सर्वभूतात्मन् (०३६-००६)
सर्वभूतेषु वै भवान् (०३६-००६)
परमात्मस्वरूपेण (०३६-००६)
स्थितं वेद्मि तद् अव्ययम् (०३६-००६)
क्षेत्रेषु येषु येषु त्वं (०३६-००७)
चिन्तनीयो मयाच्युत (०३६-००७)
चेतसः प्रणिधानार्थं (०३६-००७)
तन् ममाख्यातुम् अर्हसि (०३६-००७)
यत्र यत्र च यन् नाम (०३६-००८)
प्रीतये भवतः स्तुतौ (०३६-००८)
प्रसादसुमुखो नाथ (०३६-००८)
तन् ममाशेषतो वद (०३६-००८)
सर्वगः सर्वभूतो ऽहं (०३६-००९)
न हि किंचिद् मया विना (०३६-००९)
चराचरे जगत्य् अस्मिन् (०३६-००९)
विद्यते कुरुसत्तम (०३६-००९)
तथापि येषु स्थानेषु (०३६-०१०)
चिन्तनीयो ऽहम् अर्जुन (०३६-०१०)
स्तोतव्यो नामभिर् यैस् तु (०३६-०१०)
श्रूयतां तद् वदामि ते (०३६-०१०)
पुष्करे पुण्डरीकाक्षं (०३६-०११)
गयायां च गदाधरम् (०३६-०११)
लोहदण्डे तथा विष्णुं (०३६-०११)
स्तुवंस् तरति दुष्कृतम् (०३६-०११)
क्ष्वामाच्ये कुमारं (०३६-*(३८))
नेपाले लोकभावनम् (०३६-*(३८))
राघवं चित्रकूटे तु (०३६-०१२)
प्रभासे दैत्यसूदनम् (०३६-०१२)
वृन्दावने च गोविन्दं (०३६-०१२)
मा स्तुवन् पुण्यभाग् भवेत् (०३६-०१२)
मन्दोदपाने वैकुण्ठं (०३६-*(३९))
माहन्त्रे चाच्युतं विभुम् (०३६-*(३९))
जयं जयन्त्यां तद्वच् च (०३६-०१३)
जयन्तं हस्तिनापुरे (०३६-०१३)
वाराहं कर्दमाले तु (०३६-०१३)
काश्मीरे चक्रपाणिनम् (०३६-०१३)
जनार्दनं च कुब्जाम्रे (०३६-०१४)
मथुरायां च केशवम् (०३६-०१४)
कुब्जके श्रीधरं तद्वद् (०३६-०१४)
गङ्गाद्वारे सुरोत्तमम् (०३६-०१४)
शालग्रामे महायोगिं (०३६-०१५)
हरिं गोवर्धनाचले (०३६-०१५)
पिण्डारके चतुर्बाहुं (०३६-०१५)
शङ्खोद्धारे च शङ्खिनम् (०३६-०१५)
वामनं च कुरुक्षेत्रे (०३६-०१६)
यमुनायां त्रिविक्रमम् (०३६-०१६)
वनमालं च किष्किन्धायां (०३६-*(४०))
देवं रैवतके द्विज (०३६-*(४०))
काशीजले महायोगं (०३६-*(४०))
देवं चामिततेजसम् (०३६-*(४०))
वैशाखयूपे अजितं (०३६-*(४०))
विरजायां विप्रक्षयम् (०३६-*(४०))
विश्वेश्वरं तथा शोणे (०३६-०१६)
कपिलं पूर्वसागरे (०३६-०१६)
श्वेतद्वीपपतिं चापि (०३६-०१७)
गङ्गासागरसंगमे (०३६-०१७)
भूधरं देविकानद्यां (०३६-०१७)
प्रयागे चैव माधवम् (०३६-०१७)
नरनारायणाख्यं च (०३६-०१८)
तथा बदरिकाश्रमे (०३६-०१८)
समुद्रे दक्षिणे स्तव्यं (०३६-०१८)
पद्मनाभेति फाल्गुन (०३६-०१८)
द्वारकायां तथा कृष्णं (०३६-०१९)
स्तुवंस् तरति दुर्गतिम् (०३६-०१९)
रामं नाम महेन्द्राद्रौ (०३६-०१९)
हृषीकेशं तथार्बुदे (०३६-०१९)
अश्वतीर्थे हयग्रीवं (०३६-०२०)
विश्वरूपं हिमाचले (०३६-०२०)
नृसिंहं कृतसौचे च (०३६-०२०)
विपाशायां द्विजप्रियम् (०३६-०२०)
नैमिषे यज्ञपुरुषं (०३६-०२१)
जम्बूमार्गे तथाच्युतम् (०३६-०२१)
अनन्तं सैन्धवारण्ये (०३६-०२१)
दण्डके शाङ्गधारिणम् (०३६-०२१)
उत्पलावर्तके शौरिं (०३६-०२२)
नर्मदायां श्रियः पतिम् (०३६-०२२)
दामोदरं रैवतके (०३६-०२२)
नन्दायां जलशायिनम् (०३६-०२२)
सर्वयोगेश्वरं चैव (०३६-०२३)
सिन्धुसागरसंगमे (०३६-०२३)
सह्याद्रौ देवदेवेशं (०३६-०२३)
वैकुण्ठं मागधे वने (०३६-०२३)
सर्वपापहरं विन्ध्ये (०३६-०२४)
उड्रेषु पुरुषोत्तमम् (०३६-०२४)
हृदये चापि कौन्तेय (०३६-०२४)
परमात्मानम् आत्मनः (०३६-०२४)
वटे वटे वैश्रवणं (०३६-०२५)
चत्वरे चत्वरे शिवम् (०३६-०२५)
पर्वते पर्वते रामं (०३६-०२५)
सर्वत्र मधुसूदनम् (०३६-०२५)
नरं भूमौ तथा व्योम्नि (०३६-०२६)
कौन्तेय गरुडध्वजम् (०३६-०२६)
वासुदेवं च सर्वत्र (०३६-०२६)
संस्मरञ् ज्योतिषां पतिम् (०३६-०२६)
अर्चयन् प्रणमंस् तु त्वं (०३६-०२७)
संस्मरंश् च धनंजय (०३६-०२७)
एतेष्व् एतानि नामानि (०३६-०२७)
नरः पापैः प्रमुच्यते (०३६-०२७)
स्थानेष्व् एतेषु मन्नाम्नाम् (०३६-०२८)
एतेषां प्रीणनं नरः (०३६-०२८)
द्विजानां प्रीणनं कृत्वा (०३६-०२८)
स्वर्गलोके ऽभिजायते (०३६-०२८)
नामान्य् एतानि कौन्तेय (०३६-०२९)
स्थानान्य् एतानि चात्मवान् (०३६-०२९)
जयं वै पञ्चपञ्चाशत् (०३६-०२९)
त्रिसन्ध्यं मत्परायणः (०३६-०२९)
त्रीणि जन्मानि यत् पापम् (०३६-०३०)
अवस्थात्रितये कृतम् (०३६-०३०)
तत् क्षालयत्य् असंदिग्धं (०३६-०३०)
जायते च सतां कुले (०३६-०३०)
द्विष्कालं वा जपन्न् एव (०३६-०३१)
दिवारात्रौ च यत् कृतम् (०३६-०३१)
तस्माद् विमुच्यते पापात् (०३६-०३१)
सद्भावपरमो नरः (०३६-०३१)
जप्तान्य् एतानि कौन्तेय (०३६-०३२)
सकृच्छ्रद्धासमन्वितम् (०३६-०३२)
मोचयन्ते नरं पापाद् (०३६-०३२)
यत् तत्रैव दिने कृतम् (०३६-०३२)
धन्यं यशस्यम् आयुष्यं (०३६-०३३)
जयं कुरु कुलोद्वह (०३६-०३३)
ग्रहानुकूलतां चैव (०३६-०३३)
करोत्य् आशु न संशयः (०३६-०३३)
उपोषितो मत्परमः (०३६-०३४)
स्थानेष्व् एतेषु मानवः (०३६-०३४)
कृतायतनवासश् च (०३६-०३४)
प्राप्नोत्य् अभिमतं फलम् (०३६-०३४)
उत्क्रान्तिर् अप्य् अशेषेषु (०३६-०३५)
स्थानेष्व् एतेषु शस्यते (०३६-०३५)
अन्यस्थानाच् छतगुणम् (०३६-०३५)
एतेष्व् अनशनादिकम् (०३६-०३५)
यस् तु मत्परमः कालं (०३६-०३६)
करोत्य् एतेषु मानवः (०३६-०३६)
देवानाम् अपि पूज्यो ऽसौ (०३६-०३६)
मम लोके महीयते (०३६-०३६)
यन् न तापाय वै पुंसां (०३७-००१)
भवत्य् आमुष्मिकं कृतम् (०३७-००१)
तापाय यच् च भवति (०३७-००१)
तद् आचक्ष्व महामुने (०३७-००१)
उपवासप्रभावं च (०३७-००२)
कृष्णाराधनकाङ्क्षिणः (०३७-००२)
कथयेह मम ब्रह्मन् (०३७-००२)
न च तृप्यामि कथ्यते (०३७-००२)
श्रूयतां दाल्भ्य यत् पृष्टाः (०३७-००३)
कौतुकाद् भवता वयम् (०३७-००३)
आमुष्मिकं न तापाय (०३७-००३)
यच् च तापाय जायते (०३७-००३)
उपोषितप्रभावं च (०३७-००४)
कृष्णाराधनकाङ्क्षिणः (०३७-००४)
कथयामि यथावृत्तं (०३७-००४)
पूर्वम् एव महामते (०३७-००४)
वैदिशं नाम नगरं (०३७-००५)
प्रख्यातम् इह सत्तम (०३७-००५)
तत्र वैश्यो ऽभवत् पूर्वं (०३७-००५)
वीरभद्र इति श्रुतः (०३७-००५)
भार्याजामातृदुहितृ- (०३७-००६)
पुत्रपौत्रस्नुषान्वितः (०३७-००६)
प्रभूतभृत्यवर्गश् च (०३७-००६)
बहुव्यापारकारकः (०३७-००६)
पुत्रपौत्रादिभरण- (०३७-००७)
व्यासक्तमतिर् एव च (०३७-००७)
परलोकं प्रति मतिस् (०३७-००७)
तस्य चात्यन्तदुर्मुखा (०३७-००७)
चकारानुदिनं सो ऽथ (०३७-००८)
न्यायान्यायैर् धनार्जनम् (०३७-००८)
सर्वत्रान्यत्र निःस्नेहः (०३७-००८)
परस्वे चातितर्षुलः (०३७-००८)
न जुहोत्य् उदिते काले (०३७-००९)
न ददात्य् अतितृष्णया (०३७-००९)
बभूव चोद्यमस् तस्य (०३७-००९)
पुत्रादिभरणे परः (०३७-००९)
नित्यनैमित्तिकानां च (०३७-०१०)
हानिं चक्रे स्वकर्मणाम् (०३७-०१०)
तृष्णाभिभूतो विप्रर्षे (०३७-०१०)
स्ववर्गभरणाधृतः (०३७-०१०)
कालेन गच्छता सो ऽथ (०३७-०११)
मृतो विन्ध्याटवीतटे (०३७-०११)
यातनादेहभृत् प्रेतो (०३७-०११)
ग्रीष्मकाले ऽभवन् मुने (०३७-०११)
तं ददर्श महाभागो (०३७-०१२)
दिव्यज्ञानसमन्वितः (०३७-०१२)
वेदवेदान्तविद् विद्वान् (०३७-०१२)
पिपीतो नाम वै द्विजः (०३७-०१२)
भास्करस्यांशुभिर् दीप्तैर् (०३७-०१३)
दह्यन्तम् अनिवारणैः (०३७-०१३)
प्रतप्तवालुकामध्ये (०३७-०१३)
तृषा चात्यन्तपीडितम् (०३७-०१३)
क्षुत्क्षामकण्ठं शुष्कास्यं (०३७-०१४)
स्तब्धोद्वृत्तविलोचनम् (०३७-०१४)
निष्क्रान्तजिह्वम् अङ्गेषु (०३७-०१४)
विस्फोटैः सर्वतश् चितम् (०३७-०१४)
निश्वासायासखेदेन (०३७-०१५)
विरलास्यम् अनादरम् (०३७-०१५)
श्रान्तं मक्षिकयाकीर्णं (०३७-*(४१))
दुर्दग्धं चातिदारुणम् (०३७-*(४१))
निजेन कर्मणा बद्धम् (०३७-०१५)
असमर्थं पलायने (०३७-०१५)
तं तादृशम् अथो दृष्ट्वा (०३७-०१६)
गार्दभेयो महामुनिः (०३७-०१६)
पिपीतः प्राह विप्रर्षिः (०३७-०१६)
कारुण्यस्तिमितं वचः (०३७-०१६)
जानन्न् अपि तथा प्राप्तं (०३७-०१७)
तदनुष्ठानजं फलम् (०३७-०१७)
जन्तोस् तस्योपकाराय (०३७-०१७)
सर्वतो ह्लादयन्न् इव (०३७-०१७)
अधः सूर्यांशुभिस् तप्तैर् (०३७-०१८)
बहुभिर् यानपांसुभिः (०३७-०१८)
उपर्य् अर्ककरैर् उग्रैस् (०३७-०१८)
तृषा चार्तस् तथा क्षुधा (०३७-०१८)
अन्यैस् तथाधिभिर् घोरैर् (०३७-०१९)
अविषह्यैर् अवारणैः (०३७-०१९)
कथयेह यथातत्त्वम् (०३७-०१९)
एकाकी दह्यसे कथम् (०३७-०१९)
तस्यैतद् वचनं श्रुत्वा (०३७-०२०)
पिपीतस्य सवेदनम् (०३७-०२०)
यातनास्थ उवाचेदं (०३७-०२०)
कृच्छ्राद् उच्छ्वास्य मस्तकम् (०३७-०२०)
ब्रह्मन् नालोचितं पूर्वं (०३७-०२१)
कथम् अन्ते भविष्यति (०३७-०२१)
अशाश्वते शाश्वतधीस् (०३७-०२१)
तेन दह्यामि दुर्मतिः (०३७-०२१)
धनापणगृहक्षेत्र- (०३७-०२२)
पुत्रदारहिते रतः (०३७-०२२)
नात्मनो ऽहं हितारम्भी (०३७-०२२)
तेन दह्यामि दुर्मतिः (०३७-०२२)
इदं करिष्ये कृत्वेदं (०३७-०२३)
करिष्याम्य् अपरं त्व् इदम् (०३७-०२३)
इतीच्छाशतसरो ऽहं (०३७-०२३)
तेन दह्यामि दुर्मतिः (०३७-०२३)
जुहोमि यदि तन् नास्ति (०३७-०२४)
ददामि यदि सीदति (०३७-०२४)
कुटुम्बम् इति मूढो ऽहम् (०३७-०२४)
तेन दह्यामि दुर्मतिः (०३७-०२४)
शीतोष्णवर्षाभिभवं (०३७-०२५)
लोभात् सोड्ःअं मयाशुभम् (०३७-०२५)
तद् एव हि न धर्मार्थं (०३७-०२५)
तेन दह्यामि दुर्मतिः (०३७-०२५)
पितृदेवमनुष्याणाम् (०३७-०२६)
अदत्त्वापोषिता हि ये (०३७-०२६)
ते ऽन्यत्र क्वापि वर्तन्ते (०३७-०२६)
दह्याम्य् एको ऽत्र दुर्मतिः (०३७-०२६)
पुत्रभृत्यकलत्रेषु (०३७-०२७)
मम त्व् आदृतमानसः (०३७-०२७)
कृत्वा कर्माण्य् असाधूनि (०३७-०२७)
दह्याम्य् एको ऽत्र दुर्मतिः (०३७-०२७)
मृते मयि धने तस्मिन्न् (०३७-०२८)
अन्यायोपार्जिते मया (०३७-०२८)
नूनं ममेति वर्तन्ते (०३७-०२८)
दह्याम्य् एको ऽत्र दुर्मतिः (०३७-०२८)
न हि नः पूजिता गेहान् (०३७-०२९)
निर्गता द्विजसत्तमाः (०३७-०२९)
स्ववर्गहितकामस्य (०३७-०२९)
तेन दह्याम्य् अहर्निशम् (०३७-०२९)
यन् मे न पूजिता देवाः (०३७-०३०)
कुटुम्बं पोषीतं परम् (०३७-०३०)
एकाकी तेन दह्यामि (०३७-०३०)
ये पुष्टास् ते ऽन्यतो गताः (०३७-०३०)
नित्यनैमित्तिकं कर्म (०३७-०३१)
कृते येषां न म कृतम् (०३७-०३१)
एकाकी तेन दह्यामि (०३७-०३१)
तैर् मन्ये क्वापि रम्यते (०३७-०३१)
यन् मे परिजनस्यार्थे (०३७-०३२)
कृतं कर्म शुभाशुभम् (०३७-०३२)
एकाकी तेन दह्यामि (०३७-०३२)
गतास् ते फलभोगिनः (०३७-०३२)
दाराः पुत्राश् च भृत्याश् च (०३७-०३३)
पापव्याप्त्या मयैधिताः (०३७-०३३)
एकाकी तेन दह्यामि (०३७-०३३)
गतास् ते फलभोगिनः (०३७-०३३)
पुत्रदारादिभृत्यार्थे (०३७-०३४)
मयान्यायार्थसंचयाः (०३७-०३४)
कृतास् तेनात्र दह्यामि (०३७-०३४)
भुञ्जते ऽप्य् अन्यतो गताः (०३७-०३४)
कृतं पापं मया भुक्तम् (०३७-०३५)
अन्यैस् तत्कर्मसंचितम् (०३७-०३५)
दह्याम्य् एको ऽहम् अत्यन्तं (०३७-०३५)
त्यक्तस् तैः फलभोगिभिः (०३७-०३५)
यन् ममत्वाभिभूतेन (०३७-०३६)
मया धनम् उपार्जितम् (०३७-०३६)
अन्यस्य ते ऽद्य कस्यापि (०३७-०३६)
केवलं मम दुष्कृतम् (०३७-०३६)
अन्तर्दुःखेन दग्धो ऽन्तर् (०३७-०३७)
बहिर् दह्यामि भानुना (०३७-०३७)
नान्तर्दुःखं न वा भानुः (०३७-०३७)
पापम् एव द्विधा स्थितम् (०३७-०३७)
कंचित् कर्मसमुद्धारं (०३७-०३८)
पश्यस्य् असुखसागरात् (०३७-०३८)
मम येनाहम् आह्लादम् (०३७-०३८)
आप्नुयां मुनिसत्तम (०३७-०३८)
अल्पकालिकम् उद्धारं (०३७-०३९)
तव पश्याम्य् असंशयम् (०३७-०३९)
प्रक्षीणप्रायम् एतत् ते (०३७-०३९)
सुकृतं चास्ति ते परम् (०३७-०३९)
अतीते दशमे जन्मन्य् (०३७-०४०)
अच्युताराधनेच्छया (०३७-०४०)
सुकर्मजयदां भद्र (०३७-०४०)
द्वादशीं त्वम् उपोषितः (०३७-०४०)
तव तस्याः प्रभावेण (०३७-०४१)
पापम् अत्यन्तदुर्जयम् (०३७-०४१)
अल्पैर् अहोभिः संक्षीणं (०३७-०४१)
नवपात्रे यथा जलम् (०३७-०४१)
यद् अन्यः क्षपयेद् वर्षैस् (०३७-०४२)
तद् दिनैर् भवतः क्षयम् (०३७-०४२)
गतं पापम् अयं तस्याः (०३७-०४२)
प्रभावो ऽत्यन्तदुर्लभः (०३७-०४२)
शमं पापस्य कुरुते (०३७-०४३)
जयं सुकृतकर्मणः (०३७-०४३)
सत्कर्मजयदा ह्य् एषा (०३७-०४३)
ततो वै द्वादशी स्मृता (०३७-०४३)
यच् चैतद् वेदनार्तेन (०३७-०४४)
भवता परिदेवितम् (०३७-०४४)
तत् तथा नात्र संदेहो (०३७-०४४)
ममता पापहेतुकी (०३७-०४४)
पापम् अत्र कृतं प्रेत्य (०३७-०४५)
भद्र तापाय जायते (०३७-०४५)
आह्लादाय तथा पुण्यम् (०३७-०४५)
इह पुण्यकृतां नृणाम् (०३७-०४५)
वीरभद्रं समाश्वास्य (०३७-०४६)
ययाव् इत्थं महामुनिः (०३७-०४६)
सो ऽप्य् अल्पेनैव कालेन (०३७-०४६)
ततो मोक्षम् अवाप्तवान् (०३७-०४६)
एवं दाल्भ्य परे लोके (०३७-०४७)
यद् अत्रासुकृतं कृतम् (०३७-०४७)
तत् तापाय सुखायोक्तं (०३७-०४७)
यद् अत्रैव शुभं कृतम् (०३७-०४७)
उपवासप्रभावश् च (०३७-०४८)
कथितस् ते महामुने (०३७-०४८)
येनाल्पैर् एव दिवसैर् (०३७-०४८)
भूरि पापं क्षयं गतम् (०३७-०४८)
तस्मान् नरेण पुण्याय (०३७-०४९)
पतितव्यं न पातके (०३७-०४९)
उपवासाश् च कर्तव्याः (०३७-०४९)
सदैवात्महितैषिणा (०३७-०४९)
संसारासारतां ज्ञात्वा (०३८-००१)
विषयांश् चातितर्षुलान् (०३८-००१)
कर्तव्यं यन् महाभाग (०३८-००१)
पुरुषेण तद् उच्यताम् (०३८-००१)
संसारासारतां ज्ञात्वा (०३८-००२)
विषयांश् चातितर्षुलान् (०३८-००२)
गृद्धिस् तेष्व् एव संत्याज्या (०३८-००२)
तत्त्यागो गुणवान् नृणाम् (०३८-००२)
येषाम् अब्दसहस्राणां (०३८-००३)
सहस्रैर् अपि नो नरः (०३८-००३)
भोगात् तृप्तिं समाप्नोति (०३८-००३)
कस् तैर् भोगैर् विरज्यते (०३८-००३)
यावतो वाञ्छते भोगान् (०३८-००४)
अहन्य् अहनि मानवः (०३८-००४)
तेषां सहस्रभागे ऽपि (०३८-००४)
दाल्भ्य प्राप्तिं न विन्दति (०३८-००४)
अथ चेत् तन् अवाप्नोति (०३८-००५)
सहस्रगुणितान् नरः (०३८-००५)
तथाप्य् अतृप्त एवान्तम् (०३८-००५)
अन्तकाले गमिष्यति (०३८-००५)
तृप्तये ये न संप्राप्ताः (०३८-००६)
प्राप्यन्ते ये न वाञ्छिताः (०३८-००६)
बुद्धिमान् इन्द्रियार्थेषु (०३८-००६)
तेष्व् असङ्गी सदा भवेत् (०३८-००६)
येषां तृप्तिर् न भोगेन (०३८-००७)
त्यागश् चैवोपकारकः (०३८-००७)
उपोषितविधानेन (०३८-००७)
भोगान्त्यागस् ततो वरः (०३८-००७)
कृच्छ्रचान्द्रायणादीनि (०३८-००८)
नरैस् तस्मान् मुमुक्षुभिः (०३८-००८)
निष्कामैर् दाल्भ्य कार्याणि (०३८-००८)
फलाय च फलेप्सुभिः (०३८-००८)
अत्राप्य् उदाहरन्तीमं (०३८-००९)
मुनयो मुनिसत्तम (०३८-००९)
दस्राभ्यां सह संवादम् (०३८-००९)
ऐलस्य च महात्मनः (०३८-००९)
ऐलः पुरूरवाः पूर्वं (०३८-०१०)
बभूव मनुजेश्वरः (०३८-०१०)
चकमे यं महाभागम् (०३८-०१०)
उर्वशी सुरसुन्दरी (०३८-०१०)
संत्यज्य त्रिदशावासं (०३८-०११)
रूपौदार्यगुणान्वितम् (०३८-०११)
भेजे तम् उर्वशी दाल्भ्य (०३८-०११)
बुधस्य तनयं नृपम् (०३८-०११)
नासत्यदस्रौ रूपेण (०३८-०१२)
देवानाम् अधिकौ ततः (०३८-०१२)
उर्वशीलोभनं तस्य (०३८-०१२)
रूपं द्रष्टुं समुत्सुकौ (०३८-०१२)
प्रतिष्ठानं पुरं तस्य (०३८-०१३)
बुधपुत्रस्य धीमतः (०३८-०१३)
जग्मतुः सुमहाभागौ (०३८-०१३)
तस्य द्वास्थम् अथोचतुः (०३८-०१३)
क्षत्तो ऽस्मद्वचनाद् ऐलं (०३८-०१४)
ब्रूहि त्वं वसुधाधिपम् (०३८-०१४)
द्रष्टुं तवाश्विनौ प्राप्तौ (०३८-०१४)
रूपसंपद्गुणं ण्र्प (०३८-०१४)
तदेह्य् अत्र महाभाग (०३८-०१४)
इहास्मान् संप्रवेशय (०३८-०१४)
आश्चर्यभूतं लोकेषु (०३८-०१५)
उर्वशीलोभनं वपुः (०३८-०१५)
तत् कौतुकं न कुरुते (०३८-०१५)
कस्य पार्थिवपुङ्गव (०३८-०१५)
आवां समागतौ तस्मात् (०३८-*(४२))
त्वां द्रष्टुं मनुजोत्तम (०३८-*(४२))
द्वास्थस् तथेति ताव् आह (०३८-०१६)
प्रविवेश च सत्वरम् (०३८-०१६)
आचचक्षे च तद् राज्ञे (०३८-०१६)
नासत्यवचनं द्विज (०३८-०१६)
तच् छ्रुत्वा वचनं राजा (०३८-०१७)
द्वास्थम् आह मुहूर्तकम् (०३८-०१७)
विलम्ब्यतां महाभागौ (०३८-०१७)
तौ ब्रूहि वचनान् मम (०३८-०१७)
व्यायामतैलसंसर्ग- (०३८-०१८)
मलिनो न विभूषितः (०३८-०१८)
प्रसाधनं च कृत्वाहं (०३८-०१८)
निष्क्रमामि त्वरान्वितः (०३८-०१८)
निष्क्रम्य स ततो द्वास्थो (०३८-०१९)
यथोक्तं भूभृतखिलम् (०३८-०१९)
समाचष्ट ततो दाल्भ्य (०३८-०१९)
तौ च भूयस् तम् ऊचतुः (०३८-०१९)
अप्रसाधितम् एवाशु (०३८-०२०)
भवन्तं वसुधाधिप (०३८-०२०)
पश्यावस् तव भूयो ऽपि (०३८-०२०)
त्वां द्रक्ष्यावः प्रसाधितम् (०३८-०२०)
इत्य् उक्तो निर्गतस् तूर्णं (०३८-०२१)
भवनाद् अवनीपतिः (०३८-०२१)
तैलाभ्यक्ततनुर् दाल्भ्य (०३८-०२१)
व्यायामपरिधानधृक् (०३८-०२१)
स प्रणामं तयोः कृत्वा (०३८-०२२)
किंचिन् नतशिरा नृपः (०३८-०२२)
प्रोवाच यन् मया कार्यं (०३८-०२२)
भवतोस् तद् इहोच्यताम् (०३८-०२२)
सप्तद्वीपवती पृथ्वी (०३८-०२३)
पुत्रदारबलं धनम् (०३८-०२३)
यच् चान्यद् अपि तत् सर्वं (०३८-०२३)
युवयोर् मे निवेदितम् (०३८-०२३)
इत्य् उदाहृतम् आकर्ण्य (०३८-०२४)
नृपतेर् अश्विनाव् अपि (०३८-०२४)
अङ्गोपाङ्गादिकं सर्वं (०३८-०२४)
शनकैस् ताव् अपश्यताम् (०३८-०२४)
शिरोललाटबाहुं स- (०३८-०२५)
नयनादिविलोकनम् (०३८-०२५)
कृत्वा च तं महीपालम् (०३८-०२५)
ऊचतुस् ताव् इदं सुरौ (०३८-०२५)
प्रविश्य स्नाहि भूपाल (०३८-०२६)
यथार्थैश् च विभूषणैः (०३८-०२६)
विभूषितं तु भूयस् त्वां (०३८-०२६)
द्रक्ष्यावो ऽवां नरेश्वर (०३८-०२६)
तथेति चोक्त्वा स नृपः (०३८-०२७)
प्रविवेश महामुने (०३८-०२७)
चक्रे च सकलं सम्यक् (०३८-०२७)
स्नात्वा देहप्रसाधनम् (०३८-०२७)
स्नातो ऽनुलिप्तः स्रग्धारी (०३८-०२८)
सुवस्त्रः सुविभूषितः (०३८-०२८)
नासत्यदस्रयोः पार्श्वम् (०३८-०२८)
इयाय वसुधाधिपः (०३८-०२८)
भूयो ऽपि तौ यथा पूर्वम् (०३८-०२९)
अङ्गोपाङ्गविलोकनम् (०३८-०२९)
चक्रतुर् नृपतेस् तस्य (०३८-०२९)
स्मितभिन्नौष्ठसंपुटौ (०३८-०२९)
तौ सहासौ समालक्ष्य (०३८-०३०)
स तदा वसुधाधिपः (०३८-०३०)
हासस्य कारणं देव- (०३८-०३०)
भिषजौ ताव् अपृच्छत (०३८-०३०)
पृच्छन्तं न ततो दाल्भ्य (०३८-०३१)
नृपतिं हास्यकारणम् (०३८-०३१)
यद् ऊचतुर् महाभागौ (०३८-०३१)
तच् छृणुष्व वदामि ते (०३८-०३१)
शृणु भूपाल सकलं (०३८-०३२)
हासकारणम् आवयोः (०३८-०३२)
युष्मद्दर्शनसंभूतं (०३८-०३२)
क्षणापचयहेतुकम् (०३८-०३२)
अस्नातस्याभवद् भूप (०३८-०३३)
यादृशी ते सुरूपता (०३८-०३३)
सांप्रतं तादृशी नेयं (०३८-०३३)
भूषितस्यापि भूषणैः (०३८-०३३)
स्नातः स्रग्दामधारी त्वं (०३८-०३४)
स्वनुलिप्तः सुभूषितः (०३८-०३४)
तथाप्य् अस्नात एव प्राच् (०३८-०३४)
शोभनो ऽभून् न सांप्रतम् (०३८-०३४)
किंतु तत्कारणं येन (०३८-०३५)
व्यायाममलिनाम्बरः (०३८-०३५)
शोभनो ऽहम् अभूत् पूर्वम् (०३८-०३५)
इदानीं न विभूषितः (०३८-०३५)
दिव्येन चक्षुषा भूप (०३८-०३६)
कालस्यास्य च तस्य च (०३८-०३६)
वयःपरिणतिं सूक्ष्मां (०३८-०३६)
पश्यावो ऽपचयप्रदाम् (०३८-०३६)
यथा हि नाडिका पूर्णा (०३८-०३७)
गलत्य् अविरतं नृप (०३८-०३७)
नॄणां परिणतस् तद्वच् (०३८-०३७)
शरीरग्रहणाद् अनु (०३८-०३७)
जन्मतो ऽनन्तरं बाल्यं (०३८-०३८)
पौगण्डत्वं ततः परम् (०३८-०३८)
यौवनं मध्यदेहित्वं (०३८-०३८)
वार्द्धकं च जरा नृणाम् (०३८-०३८)
स्थूलदृष्ट्या तु पश्यन्ति (०३८-०३८)
न तु ते सूक्ष्मदर्शिनः (०३८-०३८)
निमेषशतभागस्य (०३८-०३९)
सहस्रांशः क्षणो नृप (०३८-०३९)
तस्याप्य् अयुतभागांशो (०३८-०३९)
भवत्य् अपचयो नृणाम् (०३८-०३९)
सूक्ष्मातिसूक्ष्मापचयी (०३८-०४०)
भवत्य् एष पुमान् नृप (०३८-०४०)
परिणामं क्रमाद् याति (०३८-०४०)
तृप्तिं वारि पिबन्न् इव (०३८-०४०)
तद् अहर् जातबाल्यस्य (०३८-०४१)
बालस्यापचयो हि सः (०३८-०४१)
प्रतिक्षणांशया वृद्धिर् (०३८-०४१)
बालत्वं हीयते तया (०३८-०४१)
पौगण्डे यौवने चैव (०३८-०४२)
वार्द्धके च महामते (०३८-०४२)
हानिक्रमः स एवोक्तो (०३८-०४२)
यो बाल्ये कथितस् तव (०३८-०४२)
कान्तिर् या नृप बालस्य (०३८-०४३)
पोगण्डस्य हि सा कुतः (०३८-०४३)
तत्कान्तिसौकुमार्याद्यैः (०३८-०४३)
शून्यम् एव हि यौवनम् (०३८-०४३)
कान्त्यादिसंपदो हानिः (०३८-०४४)
परमा नृप वार्द्धके (०३८-०४४)
तत्राप्य् अनुक्षणं हानिर् (०३८-०४४)
हानिर् आ मृत्युतो नृप (०३८-०४४)
एवं प्रतिक्षणांशांशो (०३८-०४५)
नॄणाम् अपचयप्रदः (०३८-०४५)
कुर्वतः किमु कालस् ते (०३८-०४५)
महास्नानप्रसाधनम् (०३८-०४५)
अस्मद्दृष्टो भवान् यावत् (०३८-०४६)
प्रविष्टो निजमन्दिरम् (०३८-०४६)
तावद् धानिम् अनुप्राप्तः (०३८-०४६)
किमु यामार्धसंस्थितः (०३८-०४६)
यादृशो ऽद्य भवांस् तादृक् (०३८-०४७)
त्वं न रूपी नरेश्वर (०३८-०४७)
परश्वः शस्तनं नैव (०३८-०४७)
चतुर्थे ऽह्नि च तन्मयः (०३८-०३७)
एवं समस्तभूतानि (०३८-०४८)
स्थावराणि चराणि च (०३८-०४८)
प्रतिक्षणांशापचयं (०३८-०४८)
प्राप्नुवन्ति महीतले (०३८-०४८)
तस्मान् न कौतुकं कार्यं (०३८-०४९)
भवता तु नरेश्वर (०३८-०४९)
यत् ते रूपम् अभूत् पूर्वम् (०३८-०४९)
अप्रसाधितशोभनम् (०३८-०४९)
राजा पुरूरवा भूयः (०३८-०५०)
श्रुत्वा वाक्यम् इदं तयोः (०३८-०५०)
चिन्तयित्वा वचः प्राह (०३८-०५०)
संवेगोत्कम्पिमानसः (०३८-०५०)
अहो भवद्भ्यां कथितम् (०३८-०५१)
अनवस्थितसंस्थितम् (०३८-०५१)
स्वरूपं जगतो देवौ (०३८-०५१)
येन त्रस्तो ऽस्मि सांप्रतम् (०३८-०५१)
अज्ञानतिमिरान्धानां (०३८-०५२)
मद्विधानां भवद्विधाः (०३८-०५२)
प्रदीपभूताः संदेहो (०३८-०५२)
विद्यते नात्र कश्चन (०३८-०५२)
सदापचयदोषेण (०३८-०५३)
दुष्टकायैः सुरोत्तमौ (०३८-०५३)
यत् कार्यं पुरुषैस् तच् च (०३८-०५३)
कथ्यतां हितकाम्यया (०३८-०५३)
अतिमूढो ऽध्रुवे काये (०३८-०५४)
सदापचयधर्मिणि (०३८-०५४)
नरस् तदुपभोग्यानि (०३८-०५४)
ध्रुवाणि परिमार्गति (०३८-०५४)
आसनं शयनं यानं (०३८-०५५)
परिधानं गृहादिकम् (०३८-०५५)
वाञ्छत्य् अहो ऽतिमोहेन (०३८-०५५)
सुस्थिरं स्वयम् अस्थिरः (०३८-०५५)
मूढो ऽध्रुवं ध्रुवमतिः (०३८-०५६,*(४३))
किम् आत्मानं न बुध्यते (०३८-०५६,*(४३))
बाल्यात् पौगण्डतां गत्वा (०३८-०५६)
यः पुनर् यौवनं गतः (०३८-०५६)
भुवः शैलं समारूढः (०३८-०५७)
समारूढस् ततो द्रुमम् (०३८-०५७)
आरोहणं स किम् अन्यद् (०३८-०५७)
ऋक्षभीतः करिष्यति (०३८-०५७)
बाल्यात् पौगण्डतां यातो (०३८-०५८)
यौवनाद् वृद्धतां गतः (०३८-०५८)
वयोऽवस्था ततः कान्या (०३८-०५८)
यद् भोगाय स्थिरेच्छकः (०३८-०५८)
तस्माद् एतन् मनुष्येण (०३८-०५९)
विचार्यात्महितैषिणा (०३८-०५९)
श्रेयस्य् आमुष्मिके यत्नः (०३८-०५९)
कर्तव्यो ऽहर्निशं नृप (०३८-०५९)
भोगेष्व् असक्तिः सततं (०३८-०६०)
तथैवात्मावलोकनम् (०३८-०६०)
श्रेयः परं मनुष्याणां (०३८-०६०)
कपिलः प्राह पार्थिवः (०३८-०६०)
सर्वत्र समदर्शित्वं (०३८-०६१)
निर्ममत्वम् असङ्गिता (०३८-०६१)
श्रेयः परं मनुष्याणां (०३८-०६१)
प्राह पञ्चशिखो मुनिः (०३८-०६१)
आगर्भजन्मबाल्यादि- (०३८-०६२)
वयोऽवस्थादिवेदनम् (०३८-०६२)
श्रेयः परं मनुष्याणाम् (०३८-०६२)
अङ्गारिष्ठो ऽब्रवीन् नृपः (०३८-०६२)
अध्यात्मिकादिदुःखानाम् (०३८-०६३)
अत्यन्तादिप्रतिक्रिया (०३८-०६३)
श्रेयः परं मनुष्याणां (०३८-०६३)
जनको ह्य् आह मोक्षवित् (०३८-०६३)
अभिन्नयोर् भेदकरः (०३८-०६४)
प्रत्ययो यः परात्मनोः (०३८-०६४)
हिरण्यगर्भस् तच्छान्तिं (०३८-०६४)
श्रेयः परमम् अब्रवीत् (०३८-०६४)
कर्तव्यम् इति यत् कर्म (०३८-०६५)
ऋग्यजुःसामसंज्ञितम् (०३८-०६५)
क्रियते तत् परं श्रेयो (०३८-०६५)
जैगीषव्यो ऽब्रवीन् मुनिः (०३८-०६५)
हानिं सर्वविधित्सानाम् (०३८-०६६)
आत्मनः सुखहेतुकीम् (०३८-०६६)
श्रेयः परं मनुष्याणां (०३८-०६६)
देवलो ऽप्य् आह तत्त्ववित् (०३८-०६६)
यद् यत् त्यजति कामानां (०३८-०६७)
तत् सुखस्याभिपूर्यते (०३८-०६७)
एतद् एव परं श्रेयो (०३८-०६७)
विज्ञानं हितकामिनाम् (०३८-०६७)
कामानुसारी पुरुषः (०३८-०६८)
कामान् अनु विनश्यति (०३८-०६८)
अश्रेयसं परं चैतद् (०३८-०६८)
यद् भूपालातिकामिता (०३८-०६८)
एवं विज्ञाततत्त्वार्थः (०३८-०६९)
सनको योगिनां वरः (०३८-०६९)
नरेन्द्र प्राह विप्राणां (०३८-०६९)
परमार्थपरंपरम् (०३८-०६९)
क्रियाकलापफलदम् (०३८-०७०)
ऋग्यजुःसामसंज्ञितम् (०३८-०७०)
अमुष्मिन् मध्यमं श्रेयः (०३८-०७०)
प्राहुः सप्त र्षयो नृप (०३८-०७०)
इहैव फलदं काम्यं (०३८-०७१)
कर्म यत् क्रियते नरैः (०३८-०७१)
तद् आहुर् अपरं श्रेयो (०३८-०७१)
ऋचीकच्यवनादयः (०३८-०७१)
द्वे कर्मणी नरश्रेष्ठ (०३८-०७२)
ब्रह्मणा समुदाहृते (०३८-०७२)
प्रवृत्ताख्यं निवृत्तं च (०३८-०७२)
स्वर्गमुक्तिफले हि ते (०३८-०७२)
प्रवृत्तम् अपि मोक्षाय (०३८-०७३)
कर्म पार्थिव जायते (०३८-०७३)
कर्म स्वरूपतो भ्रष्टम् (०३८-०७३)
अनाकाङ्क्ष्य फलं कृतम् (०३८-०७३)
सामान्यं चापरं श्रेयः (०३८-०७४)
सर्ववर्णाश्रमेषु यत् (०३८-०७४)
तच् छृणुष्व महीपाल (०३८-०७४)
वदतो मम तत्त्वतः (०३८-०७४)
सत्यं वक्तव्यं नित्यं मैत्रेण भाव्यं (०३८-०७५)
कार्यं च त्याज्यं नित्यम् आयासकारि (०३८-०७५)
लोके ऽमुष्मिन् यद् धितं च तथास्मिंस् (०३८-०७५)
तस्मिन्न् आत्मा योजनीयो ऽनुधीरैः (०३८-०७५)
तीर्थस्नानैः सोपवासैर् अजस्रं (०३८-०७६)
पात्रे दानैर् होमजापैश् च नित्यम् (०३८-०७६)
शुद्धिर् नेयो देवताभ्यर्चनैश् च (०३८-०७६)
शुद्धो ऽप्य् आत्मा सङ्गदोषाद् अशुद्धः (०३८-०७६)
शुद्धं वस्त्रं सङ्गदोषाद् अशुद्धं (०३८-०७७)
भूयः शुद्धिं शोध्यमानं पर्याति (०३८-०७७)
एतज् ज्ञात्वा न प्रमादो मनुष्यैः (०३८-०७७)
शुद्धे ह्य् आत्मन्य् आत्मविद्भिर् विधेयः (०३८-०७७)
इत्य् उक्त्वा तौ नरेन्द्रं तौ (०३८-०७८)
तेन चार्घ्यादिना पृथक् (०३८-०७८)
सम्यक् संपूजितौ यातौ (०३८-०७८)
नाक पृष्ठम् अथाश्विनौ (०३८-०७८)
स चाप्य् अनित्यताम् एवम् (०३८-०७९)
अवगम्य नरेश्वरः (०३८-०७९)
निष्कामो ऽनुदिनम् एव (०३८-०७९)
अवगम्य नरेश्वरः (०३८-०७९)
निष्कामो ऽनुदिनं यज्ञैर् (०३८-०७९)
इयाज पुरुषोत्तमम् (०३८-०७९)
भोगासङ्गि मनो दाल्भ्य (०३८-०८०)
यदासीत् तस्य भूपतेः (०३८-०८०)
तद् एव भगवद्ध्यान- (०३८-०८०)
परं चक्रे महामुने (०३८-०८०)
तत्याजार्थेषु ममताम् (०३८-०८१)
अहंकारं तथात्मनि (०३८-०८१)
समतां सर्वभूतेषु (०३८-०८१)
संप्राप पृथिवीपतिः (०३८-०८१)
यस्यात्मन्य् अपि विप्रर्षे (०३८-०८२)
नाहंमानो ऽस्ति कुत्रचित् (०३८-०८२)
मदावलेपो पूपादौ (०३८-०८२)
तस्य स्याद् इति का कथा (०३८-०८२)
एवं दाल्भ्य मनुष्येण (०३८-०८३)
समताम् अनुतिष्ठता (०३८-०८३)
सर्वभोगेषु संत्याज्यो (०३८-०८३)
ध्येयश् च पुरुषोत्तमः (०३८-०८३)
कुत्र तिष्ठति गोविन्दो (०३८-०८४)
बाह्यनिवृतचेतसि (०३८-०८४)
तस्मान् निःसङ्गचित्तेन (०३८-०८४)
शक्यश् चिन्तयितुं हरिः (०३८-०८४)
प्रीतिद्वेषादयस् त्यक्त्वा (०३८-०८५)
महर्षे यस्य चेतसा (०३८-०८५)
प्रियातिथिस् तद्धृदये (०३८-०८५)
विष्णुर् मोक्षफलप्रदः (०३८-०८५)
कार्यारम्भेषु सर्वेषु (०३९-००१)
दुःस्वप्नेषु च सत्तम (०३९-००१)
अमङ्गल्येषु सर्वेषु (०३९-००१)
यज् जप्तव्यं तद् उच्यताम् (०३९-००१)
येनारम्भाश् च सिध्ह्यन्ति (०३९-००२)
दुःस्वप्नं चोपशाम्यति (०३९-००२)
अमङ्गलानां सर्वेषां (०३९-००२)
प्रतिघातश् च जायते (०३९-००२)
जनार्दनं भूतपतिं जगद्गुरुं (०३९-००३)
स्मरन् मनुष्यः सततं महामुने (०३९-००३)
दुष्टान्य् अशेषाण्य् अपहन्ति साधयत्य् (०३९-००३)
अशेषकार्याणि तथा यदीच्छति (०३९-००३)
शृणुष्व चान्यद् वदतो ममाखिलं (०३९-००४)
वदामि यत् ते द्विजवर्य मङ्गलम् (०३९-००४)
सर्वार्थसिद्धिं प्रददाति यः सदा (०३९-००४)
निहन्त्य् अशेषाणि च पातकानि (०३९-००४)
प्रतिष्ठितं यत्र जगच् चराचरं (०३९-००५)
जगच् च यो यो जगतश् च हेतुः (०३९-००५)
जगच् च पात्य् अत्ति च यः स सर्वदा (०३९-००५)
ममास्तु मङ्गल्यविवृद्दये हरिः (०३९-५-४४)
व्योमाम्बुवाय्वग्निमहीस्वरूपैर् (०३९-००६)
विस्तारवान् यो ऽणुतरो ऽणुभागात् (०३९-००६)
स स्थूलसूक्ष्मः सततेश्वरेश्वरो (०३९-००६)
यस्मात् परस्तात् पुरुषाद् अनन्ताद् (०३९-००७)
अनादिमध्याद् अखिलं न किंचित् (०३९-००७)
स हेतुहेतुः परमेश्वरेश्वरो (०३९-००७)
हिरण्यगर्भाच्युतरुद्ररूपी (०३९-००८)
सृजत्य् अशेषं परिपाति हन्ति (०३९-००८)
गुणाश्रयी यो भगवान् स सर्वदा (०३९-००८)
परः सुराणां परमो ऽसुराणां (०३९-००९)
परो मुनीनां परमो यतीनाम् (०३९-००९)
परः समस्तस्य च यः स देवो (०३९-००९)
ध्यातो यतीनाम् अपकल्मषैर् यो (०३९-०१०)
ददाति मुक्तिं परमेश्वरेश्वरः (०३९-०१०)
मनोभिर् आद्यः पुरुषः स सर्वदा (०३९-०१०)
सुरेन्द्रवैवस्वतवित्तपाम्बुप- (०३९-०११)
स्वरूपरूपी परिपाति यो जगत् (०३९-०११)
स शुद्धसत्त्वः परमेश्वरेश्वरो (०३९-०११)
यन्नामकीर्तनतो विमुच्यते (०३९-०१२)
अनेकजन्मार्जितपापसंचयैः (०३९-०१२)
पापेन्धनाग्निः स सदैव निर्मलो (०३९-०१२)
येनोद्धृतेयं धरणी रसातलाद् (०३९-०१३)
अशेषसत्त्वस्थितिकारणाद् इदम् (०३९-०१३)
बिभर्ति विश्वं जगतः स मूलवान् (०३९-०१३)
पादेषु वेदा जठरे चराचरं (०३९-०१४)
रोमस्व् अशेषा मुनयो मुखे मखाः (०३९-०१४)
यस्येश्वरेशस्य स सर्वदा प्रभुर् (०३९-०१४)
समस्तयज्ञाङ्गमयं वपुर् विभोर् (०३९-०१५)
यस्याङ्गम् ईशेश्वरसंस्तुतस्य (०३९-०१५)
वराहरूपो भगवान् स सर्वदा (०३९-०१५)
विक्षोभ्य सर्वोदधितोयसंपदं (०३९-०१६)
दधार धात्रीं जगतश् च योद्भवः (०३९-०१६)
यज्ञेश्वरो यज्ञपुमान् स सर्वदा (०३९-०१६)
पातालमूलेश्वरभोगिसंहतौ (०३९-०१७)
विन्यस्य पादौ पृथिवीं च बिभ्रतः (०३९-०१७)
यस्योपमानं न बभूव सो ऽच्युतो (०३९-०१७)
विघर्घरं यस्य च बृंहतो मुहुः (०३९-०१८)
सनन्दनाद्यैर् जनलोकसंस्थितैः (०३९-०१८)
श्रुतं जयेत्युक्तिपरैः स सर्वदा (०३९-०१८)
एकार्णवाद् यस्य महीयसो महीम् (०३९-०१९)
आदाय वेगेन समुत्पतिष्यतः (०३९-०१९)
नुतं वपुर् योगिवरैः स सर्वदा (०३९-०१९)
हतो हिरण्याक्षमहासुरः पुरा (०३९-०२०)
पुराणपुंसा परमेण येन (०३९-०२०)
वराहरूपः स पतिः प्रजापतेर् (०३९-०२०)
दंष्ट्राकरालं सुरभीतिनाशनं (०३९-०२१)
कृत्वा वपुर् दिव्यनृसिंहरूपिणं (०३९-०२१)
त्रातं जगद् येन स सर्वदा प्रभुर् (०३९-०२१)
दैत्येन्द्रवक्षःस्थलदारदारुणैः (०३९-०२२)
करोरुहैः शत्रुरुजानुकारिभिः (०३९-०२२)
चिच्छेद लोकस्य भयानि चाव्ययो (०३९-०२२)
दन्तान्तदीप्तिद्युतिनिर्मलाणि (०३९-०२३)
चकार सर्वाणि दिशं मुखानि (०३९-०२३)
निनादवित्रासितदानवो ह्य् असौ (०३९-०२३)
यन्नामसंकीर्तनतो महाभयाद् (०३९-०२४)
विमोक्षम् आप्नोति न संशयं नरः (०३९-०२४)
समस्तलोकार्तिहरो नृकेसरी (०३९-०२४)
सटाकलापभ्रमणानिलहताः (०३९-०२५)
स्फुटन्ति यस्याम्बुधराः समन्ततः (०३९-०२५)
स दिव्यसिंहः स्फुरिताकुलेक्षणो (०३९-०२५)
यदीक्षणज्योतिषि रश्मिमण्डलं (०३९-०२६)
प्रलीनम् एव न रराज भास्वतः (०३९-०२६)
कुतः शशाङ्कस्य स सिंहरूपधृङ् (०३९-०२६)
द्रवन्ति दैत्याः प्रणमन्ति देवता (०३९-०२७)
नश्यन्ति रक्षांस्य् अपयान्ति चारयः (०३९-०२७)
यत्कीर्तनात् सो ऽद्भुतरूपकेसरी (०३९-०२७)
अशेषदेवेशनरेश्वरेश्वरैः (०३९-०२८)
सदा स्तुतं यच् चरितं महाद्भुतम् (०३९-०२८)
स सर्वलोकार्तिहरो महाहरिर् (०३९-०२८)
ऋक्कारितं यो यजुषातिशान्तिमत् (०३९-०२९)
सामध्वनिध्वस्तसमस्तपातकम् (०३९-०२९)
चक्रे जगद् वामनकः स सर्वदा (०३९-०२९)
यत्पादविन्यासपवित्रतां मही (०३९-०३०)
ययौ वियद् ऋग्यजुषाम् उदीरणात् (०३९-०३०)
स वामनो दिव्यशरीरधृक् सदा (०३९-०३०)
यस्मिन् प्रयाते सुरभूभृतो ऽध्वरं (०३९-०३१)
ननाम खेदाद् अवनिः ससागरा (०३९-०३१)
स वामनः सर्वजगन्मयः सदा (०३९-०३१)
महाद्युतौ दैत्यपतेर् महाध्वरं (०३९-०३२)
यस्मिन् प्रविष्टे क्षुभितं महासुरैः (०३९-०३२)
स वामनो ऽन्तस्थितसप्तलोकधृङ् (०३९-०३२)
समस्तदेवेष्टिमयं महाद्युतिर् (०३९-०३३)
दधार यो रूपम् अतीन्द्रियं प्रभुः (०३९-०३३)
त्रिविक्रमाक्रान्तजगत्त्रयः सदा (०३९-०३३)
सङ्घैः सुराणां दिवि भूतले स्थितैस् (०३९-०३४)
तथा मनुष्यैर् गगने स सर्वदा (०३९-०३४)
स्तुतः क्रमाद् यः प्रददे स सर्वदा (०३९-०३४)
क्रान्त्वा धरित्रीं गगनं तथा दिवं (०३९-०३५)
मरुत्पतेर् यः प्रददौ त्रिविष्टपम् (०३९-०३५)
स देवदेवो भुवनेश्वरेश्वरो (०३९-०३५)
अनुग्रहं चापि बलेर् अनुत्तमं (०३९-०३६)
चकार यश् चेन्द्रपदोपलक्षणं (०३९-०३६)
सुरांश् च यज्ञस्य भुजः स सर्वदा (०३९-०३६)
रसातलाद् येन पुरा समाहृताः (०३९-०३७)
समस्तवेदा वरवाजिरूपिणा (०३९-०३७)
स कैटभारिर् मधुसूदनो महान् (०३९-०३७)
निःक्षत्रियां यश् च चकार मेदिनीम् (०३९-०३८)
अनेकशो बाहुवनं तथाछिनत् (०३९-०३८)
यः कार्तवीर्यस्य स भार्गवोत्तमो (०३९-०३८)
निहत्य वालिं च कपीश्वरं हि यो (०३९-०३९)
निबध्य सेतुं जलधौ दशाननम् (०३९-०३९)
जघान चान्यान् रजनीचरान् असौ (०३९-०३९)
चिक्षेप बालः शकटं बभञ्ज यो (०३९-०४०)
यमलार्जुनौ कंसम् अरिं जघान (०३९-०४०)
ममर्द चाणूरमुखं स सर्वदा (०३९-०४०)
प्रातः सहस्रांशुमरीचिनिर्मलं (०३९-०४१)
करेण बिभ्रद् भगवान् सुदर्शनम् (०३९-०४१)
कौमोदकीं चापि गदाम् अनुत्तमां (०३९-०४१)
हिमेन्दुकुन्दस्फटिकाभ्रकोमलं (०३९-०४२)
मुखानिलापूरितम् ईश्वरेश्वरः (०३९-०४२)
मध्याह्नकाले च स शङ्खम् उत्तमम् (०३९-०४२)
तथापराह्ने प्रविकासिपङ्कजं (०३९-०४३)
वक्षःस्थलेन श्रियम् उद्वहद् विभुः (०३९-०४३)
विस्तारिपद्मोत्पलपत्रलोचनो (०३९-०४३)
सर्वेषु कालेषु समस्तदेशेष्व् (०३९-०४४)
अशेषकार्येषु तथेश्वरेश्वरः (०३९-०४४)
सर्वैः स्वरूपैर् भगवान् अनादिमान् (०३९-०४४)
एतत् पठन् दाल्भ्य समस्तपापैर् (०३९-०४५)
विमुच्यते विष्णुपरो मनुष्यः (०३९-०४५)
सिध्यन्ति कार्याणि तथास्य सर्वाण्य् (०३९-०४५)
अर्थान् अवाप्नोति तथा यथेष्टम् (०३९-०४५)
दुःस्वप्नं प्रशमम् उपैति पठ्यमाने (०३९-०४६)
स्तोत्रे ऽस्मिञ् श्रवणविधौ सदोत्थितस्य (०३९-०४६)
प्रारम्भो द्रुतम् उपयाति सिद्धिम् ईशः (०३९-०४६)
पापानि क्षपयति चास्य वासुदेवः (०३९-०४६)
मङ्गल्यं परमम् इदं सदार्थसिद्धिं (०३९-०४७)
निर्विघ्न त्व् अधिकफलं सदा ददाति (०३९-०४७)
किं लोके तद् इह परत्र चास्ति पुंसाम् (०३९-०४७)
यद् विष्णुप्रवणधिया न दाल्भ्य साध्यम् (०३९-०४७)
देवेन्द्रस् त्रिभुवनम् अर्थम् एकपिङ्गः (०३९-०४८)
सर्वर्द्धिं त्रिभुवनगां च कार्तवीर्यः (०३९-०४८)
वैदेहः परमपदं प्रसाद्य विष्णुं (०३९-०४८)
संप्राप्तः सकलफलप्रदो हि विष्णुः (०३९-०४८)
सर्वारम्भेषु दाल्भ्यैतद् (०३९-०४९)
दुःस्वप्नेषु च पण्डितः (०३९-०४९)
जपेद् एकमतिर् विष्णौ (०३९-०४९)
तथामङ्गल्यदर्शने (०३९-०४९)
शमं प्रयान्ति दुष्टानि (०३९-०५०)
ग्रहपीडाश् च दारुणाः (०३९-०५०)
कर्मारम्भाश् च सिध्यन्ति (०३९-०५०)
पुण्यम् आप्नोति चोत्तमम् (०३९-०५०)
हरिर् ददाति भद्राणि (०३९-०५१)
मङ्गल्यस्तुतिसंस्तुतः (०३९-०५१)
करोत्य् अखिलरूपैश् च (०३९-०५१)
रक्षाम् अक्षतशक्तिधृक् (०३९-०५१)
कुर्वीत किं पुमान् स्थानं (०४०-००१)
कः पुमान् ब्रह्मणो बलम् (०४०-००१)
ब्रह्मणश् च कथं भेदो (०४०-००१)
ज्ञेयो ऽभिन्नफलप्रदः (०४०-००१)
स्वकर्मणा धनं लब्ध्वा (०४०-००२)
नित्यनैमित्तिकाः क्रियाः (०४०-००२)
कुर्वीत शुद्धिम् आस्थाय (०४०-००२)
स्वेच्छया च तथा परः (०४०-००२)
त्यक्त्वा रागादिकान् दोषान् (०४०-००३)
समः सर्वत्र वै भवेत् (०४०-००३)
सर्वत्र मैत्रीं कुर्वीत (०४०-००३)
दद्याद् इष्टानि चार्थिनाम् (०४०-००३)
कुर्याद् दीनेषु करुणां (०४०-००४)
दुःशीलान् परिवर्जयेत् (०४०-००४)
मुदितां धर्मशीलेषु (०४०-००४)
भावनां मुनिसत्तम (०४०-००४)
एकत्र वा जगन्नाथे (०४०-००५)
भावनां पुरुषोत्तमे (०४०-००५)
निःशेषार्थमलापेतां (०४०-००४)
शुद्धां कुर्वीत पण्डितः (०४०-००५)
शरीरबाह्यतां शश्वद् (०४०-००६)
धिंसां कुर्वीत न क्वचित् (०४०-००६)
निन्दावमानम् अन्येषां (०४०-००६)
यच् चान्यद् उपघातकम् (०४०-००६)
शरीरवाङ्मनःशुद्धिं (०४०-००७)
कुर्वीत च सदात्मनः (०४०-००७)
भूतानाम् उपकारश् च (०४०-००७)
तपोभिश् चात्मकर्षणम् (०४०-००७)
एष धर्मः समासेन (०४०-००८)
दाल्भ्याख्यातो मया तव (०४०-००८)
अधर्मश् चायम् एवोक्तो (०४०-००८)
विपरीतो मनीषिभिः (०४०-००८)
एते यत्र गुणाः पूर्वं (०४०-००९)
कथिता ज्ञानसंयुताः (०४०-००९)
ब्रह्मणः साश्रयः शुद्ध (०४०-००९)
उपचारात् तद् एव सः (०४०-००९)
एकस्यैव सतस् तस्य (०४०-०१०)
ब्रह्मणो द्विजसत्तम (०४०-०१०)
नाम्नां बहुत्वं लोकानाम् (०४०-०१०)
उपकारकरं शृणु (०४०-०१०)
निमित्तशक्तयो नाम्नो (०४०-०११)
भेदतस् तदुदीरणात् (०४०-०११)
विभिन्नान्य् एव साध्यन्ते (०४०-०११)
फलानि कुरुनन्दन (०४०-०११)
यच्छक्ति नाम तत् तस्य (०४०-०१२)
तत् तस्मिन्न् एव वस्तुनि (०४०-०१२)
साधकं पुरुषव्याघ्र (०४०-०१२)
सौम्यक्रूरेषु वस्तुषु (०४०-०१२)
वासुदेवाच्युतानन्त- (०४०-०१३)
सत्याज्यपुरुषोत्तमैः (०४०-०१३)
परमात्मेश्वराद्यैश् च (०४०-०१३)
स्तुतो नामभिर् अव्ययः (०४०-०१३)
निमित्तभावं भगवान् (०४०-०१४)
विमुक्तेर् यात्य् अधोक्षजः (०४०-०१४)
तथान्यकार्यसंसिद्धौ (०४०-०१४)
यद् यत् तत् तन् निशामय (०४०-०१४)
धनकृद् धर्मकृद् धर्मी (०४०-०१५)
धर्मात्मा विश्वकृच् छुचिः (०४०-०१५)
शुचिषद् विष्णुर् अब्जाक्षः (०४०-०१५)
पुष्कराक्षो ह्य् अधोक्षयः (०४०-०१५)
शुचिश्रवाः शिपिविष्टो (०४०-०१५)
यज्ञेशो यज्ञभावनः (०४०-०१५)
नाम्नाम् इत्य् एवम् आदीनां (०४०-०१६)
समुच्चारणतो नरः (०४०-०१६)
धर्मं महान्तम् आप्नोति (०४०-०१६)
पापबन्धक्षयं तथा (०४०-०१६)
तथार्थप्राप्तये ब्रह्मन् (०४०-०१७)
देवनामानि मे शृणु (०४०-०१७)
येषां समुच्चारणतो (०४०-०१७)
वित्तम् आप्नोति भक्तिमान् (०४०-०१७)
श्रीदः श्रीशः श्रीनिवासः (०४०-०१८)
श्रीधरः श्रीनिकेतनः (०४०-०१८)
श्रियः पतिः श्रीपरमः (०४०-०१८)
श्रीमाञ् श्रीवत्सलाञ्च्छनः (०४०-०१८)
नृसिंहो दुष्टदामनो (०४०-०१९)
जयो विष्णुस् त्रिविक्रमः (०४०-०१९)
स्तुतः प्रयच्छते चार्थम् (०४०-०१९)
एवम् आदिभिर् अच्युतः (०४०-०१९)
काम्यः कामप्रदः कान्तः (०४०-०२०)
कामपालस् तथा हरिः (०४०-०२०)
आनन्दो माधवश् चैव (०४०-०२०)
कामसंसिद्धये नृप (०४०-०२०)
रामः परशुरामश् च (०४०-०२१)
नृसिंहो विष्णुर् एव च (०४०-०२१)
विक्रमश् चैवम् आदीनि (०४०-०२१)
जप्यान्य् अरिजिगीषुभिः (०४०-०२१)
विद्याम् अभ्यसता नित्यं (०४०-०२२)
जप्तव्यः पुरुषोत्तमः (०४०-०२२)
दामोदरं बन्धगतो (०४०-०२२)
नित्यम् एव जपन् नरः (०४०-०२२)
केशवं पुण्डरीकाक्षं (०४०-०२३)
पुष्कराक्षं तथा जपेत् (०४०-०२३)
नेत्रबाधासु सर्वासु (०४०-०२३)
हृषीकेशं भयेषु च (०४०-०२३)
अच्युतं चामृतं चैव (०४०-०२४)
जपेद् औषधकर्मणि (०४०-०२४)
भ्राजिष्णुम् अग्निहानौ च (०४०-०२४)
जपेद् आलम्बने स्थितम् (०४०-०२४)
संग्रामाभिमुखं गच्छन् (०४०-०२५)
संस्मरेद् अपराजितम् (०४०-०२५)
पातालनरसिंहं च (०४०-०२५)
जलप्रतरणे स्मरेत् (०४०-०२५)
चक्रिणं गदिनं चैव (०४०-०२६)
शार्ङ्गिनं खड्गिनं तथा (०४०-०२६)
क्षेमार्थे प्रसवन् राजन् (०४०-०२६)
दिक्षु प्राच्यादिषु स्मरेत् (०४०-०२६)
अजितं चाधिकं चैव (०४०-०२७)
सर्वं सर्वश्वरं तथा (०४०-०२७)
संस्मरेत् पुरुषो भक्त्या (०४०-०२७)
व्यवहारेषु सर्वदा (०४०-०२७)
नारायणं सर्वकालं (०४०-०२८)
क्षुतप्रस्खलितादिषु (०४०-०२८)
ग्रहनक्षत्रपीडासु (०४०-०२८)
देवबाधाटवीषु च (०४०-०२८)
अस्युवैरिनिरोधेषु (०४०-०२९)
व्याघ्रसिंहादिसंकटे (०४०-०२९)
अन्धकारे च तीव्रे च (०४०-०२९)
नरसिंहम् अनुस्मरेत् (०४०-०२९)
तरत्य् अखिलदुर्गाणि (०४०-०२९)
तापार्तो जलशायिनम् (०४०-०२९)
गरुडध्वजानुस्मरणाद् (०४०-०३०)
आपद्भ्यो मुच्यते नरः (०४०-०३०)
ज्वरदुष्टशिरोरोग- (०४०-०३०,*(४४))
विषवीर्यं प्रशाम्यति (०४०-०३०,*(४४))
स्नाने देवार्चने होमे (०४०-०३१)
प्रणिपाते प्रदक्षिणे (०४०-०३१)
कीर्तयेद् भगवन्नाम (०४०-०३१)
वासुदेवेति तत्परः (०४०-०३१)
स्थगने वित्तधान्यादेर् (०४०-०३२)
अपध्याने च दुष्टजे (०४०-०३२)
कुर्वीत तन्मना भूत्वा (०४०-०३२)
अनन्ताच्युतकीर्तनम् (०४०-०३२)
नारायणं शार्ङ्गधरं (०४०-०३३)
श्रीधरं पुरुषोत्तमम् (०४०-०३३)
वामनं खड्गिनं चैव (०४०-०३३)
दुःस्वप्नेषु च संस्मरेत् (०४०-०३३)
एकार्णवाहिपर्यङ्क- (०४०-०३४)
शायिनं च नरः स्मरेत् (०४०-०३४)
वाय्वग्नीगृहदाहाय (०४०-०३४)
प्रवृद्धाव् उपलक्ष्य च (०४०-०३४)
विद्यार्थी मोहविभ्रान्ति- (०४०-०३५)
वेगाघूर्णितमानसः (०४०-०३५)
मनुष्यो मुनिशार्दूल (०४०-०३५)
सदाश्वशिरसं स्मरेत् (०४०-०३५)
बलभद्रं समृद्ध्यर्थी (०४०-०३६)
सीरकर्मणि कीर्तयेत् (०४०-०३६)
जगत्सूतिम् अपत्यार्थी (०४०-०३६)
स्तुवन् भक्त्या न सीदति (०४०-०३६)
जप्तव्यं सुप्रजाख्यं तु (०४०-०३७)
देवदेवस्य सत्तम (०४०-०३७)
दम्पत्योर् आत्मसंबन्धे (०४०-०३७)
विवाहाख्ये पुनः पुनः (०४०-०३७)
श्रीशं सर्वाभ्युदयिके (०४०-०३८)
कर्मणि संप्रकीर्तयेत् (०४०-०३८)
अरिष्टान्तेष्व् अशेषेषु (०४०-०३८)
विशोकं च सदा जपेत् (०४०-०३८)
मरुत्प्रतापाग्निजल- (०४०-०३९)
बन्धनादिषु मृत्युषु (०४०-०३९)
स्वातन्त्र्यपरतन्त्रेषु (०४०-०३९)
वासुदेवं जपेद् बुधः (०४०-०३९)
सर्वार्थशक्तियुक्तस्य (०४०-०४०)
देवदेवस्य चक्रिणः (०४०-०४०)
यद् वाभिरोचते नाम (०४०-०४०)
तत् सर्वार्थेषु कीर्तयेत् (०४०-०४०)
सर्वार्थसिद्धिम् आप्नोति (०४०-०४१)
नाम्नाम् एकार्थता यतः (०४०-०४१)
सर्वाण्य् एतानि नामानि (०४०-०४१)
परस्य ब्रह्मणो ऽनघ (०४०-०४१)
एवम् एतानि नामानि (०४०-०४२)
देवदेवस्य कीर्तयेत् (०४०-०४२)
यं यं कामम् अभिध्यायेत् (०४०-०४२)
तं तम् आप्नोत्य् असंशयम् (०४०-०४२)
सर्वान् कामान् अवाप्नोति (०४०-०४२)
समाराध्य जगद्गुरुम् (०४०-०४२)
तन्मयत्वेन गोविन्दम् (०४०-०४३)
इत्य् एतद् दाल्भ्य नान्यथा (०४०-०४३)
तन्मयो वाञ्छितान् कामान् (०४०-०४३)
यद् अवाप्नोति मानवः (०४०-०४३)
निमित्तशक्तिः सा तस्य (०४०-०४४)
न भेदो दाल्भ्य मानसः (०४०-०४४)
वाङ्मनःकायिकं द्वेषं (०४०-०४४)
यच् च कुर्वन् प्रयात्य् अधः (०४०-०४४)
स्वरूपशक्तिः सा तस्य (०४०-०४५)
मतिभेदकृतं न तद् (०४०-०४५)
स शाक्तो निर्गुणः शुद्धो (०४०-०४५)
ब्रह्मभूतो जगद्गुरुः (०४०-०४५)
कर्मभिर् नामभिर् जीवो (०४०-०४६)
दृश्यते दाल्भ्य नैकधा (०४०-०४६)
यथा च गङ्गासलिलं (०४०-०४६)
सितम् अत्यन्तनिर्मलम् (०४०-०४६)
एकस्वरूपम् अध्यात्मं (०४०-०४७)
पुण्यापुण्यविभेदिभिः (०४०-०४७)
भ्रान्तिज्ञानान्वितैर् मिश्रं (०४०-०४७)
सितासितविचेष्टितैः (०४०-०४७)
दृश्यते नैकधा दाल्भ्य (०४०-०४७)
प्राणिभिर् भिन्नबुद्धिभिः (०४०-०४७)
तापार्तास् तापशमनम् (०४०-०४८)
अतिप्रीत्यतिशीतलम् (०४०-०४८)
कफदोषान्वितैर् नाति- (०४०-०४८)
प्रीतियुक्तैर् निरंशुभिः (०४०-०४८)
स्त्रीयोग्यम् एतन् नेतीति (०४०-०४९)
प्रीत्यप्रीतिसमन्वितैः (०४०-०४९)
मध्यस्थबुद्ध्या चैवान्ये (०४०-०४९)
नातिशीतातितापिभिः (०४०-०४९)
पवित्रम् इत्य् एतद् इति (०४०-०५०)
पुण्यबुद्ध्या तथापरैः (०४०-०५०)
मृष्टम् एतद् इतीत्य् अन्यैर् (०४०-०५०)
मत्स्याढ्यम् इति चापरैः (०४०-०५०)
तुल्यबुद्ध्यापि चैवान्यैर् (०४०-०५१)
हेयबुद्ध्या तथापरैः (०४०-०५१)
नातिवेगातिवेगं च (०४०-०५१)
हृष्टोद्विग्नैस् तथापरैः (०४०-०५१)
किम् एतेनेति चैवान्यैः (०४०-०५२)
परदाराभिलाषिभिः (०४०-०५२)
दाल्भ्य संदृश्यते चान्यैर् (०४०-०५२)
जन्तुभिर् भायकातरैः (०४०-०५२)
तद् एव पूयं पश्यन्ति (०४०-०५२)
प्रेताद्या हृतिपापिनः (०४०-०५२)
एतैश् चान्यैश् च बहुभिर् (०४०-०५३)
विशेषैर् बहुजन्तुभिः (०४०-०५३)
विशेषवत् कर्मभेदाद् (०४०-०५३)
एकम् एव हि दृश्यते (०४०-०५३)
नैते गङ्गाम्भसो भेदाः (०४०-०५४)
प्रीत्यप्रीतिप्रदायिनः (०४०-०५४)
प्राणिनां चेतसो भेदाद् (०४०-०५४)
दाल्भ्यैते कर्मयोनयः (०४०-०५४)
समस्तकर्मणा दाल्भ्य (०४०-०५५)
संक्षये भयम् एत्य् असौ (०४०-०५५)
विशेषकारणाभावाद् (०४०-०५५)
विशेषाभाव एव हि (०४०-०५५)
विष्ण्वाख्यम् एवं तद् ब्रह्म (०४०-०५६)
शुद्धम् अत्यन्तनिर्मलम् (०४०-०५६)
अभेदं बहुधा भिन्नं (०४०-०५६)
दृश्यते कर्मभेदिभिः (०४०-०५६)
योगिभिर् दृश्यते शुद्धं (०४०-०५७)
रागाद्युपशमामलैः (०४०-०५७)
रागिभिर् विषयाकारं (०४०-०५७)
तद् एव ब्रह्म दृश्यते (०४०-०५७)
कर्ममार्गाश्रितैः कर्म- (०४०-०५८)
भोक्तृत्वे च तथेष्यते (०४०-०५८)
किम् अप्य् अस्तीति चैवान्यैर् (०४०-०५८)
अविवेकिभिर् उच्यते (०४०-०५८)
सर्वम् एतत् तद् एवेति (०४०-०५९)
वदन्त्य् अद्वैतवादिनः (०४०-०५९)
प्रत्यक्षं दृश्यम् एवेति (०४०-०५९)
वदन्त्य् अन्ये दुरुक्तिभिः (०४०-०५९)
वदन्त्य् अन्ये तद् एवाहं (०४०-०६०)
नास्तीत्य् अन्ये वदन्ति तत् (०४०-०६०)
तिर्यङ्मनुष्यदेवाख्यं (०४०-०६०)
तद् अन्यैर् अभिधीयते (०४०-०६०)
वन्द्यबुद्ध्या तु तत् कैश्चिद् (०४०-०६१)
ध्येयबुद्ध्या तथापरैः (०४०-०६१)
गम्यबुद्ध्या तथान्यैश् च (०४०-०६१)
लभ्यबुद्ध्या च जन्तुभिः (०४०-०६१)
गृह्यते तत् परं ब्रह्म (०४०-०६२)
रिपुबुद्ध्या तथापरैः (०४०-०६२)
आत्मपुत्रसुहृद्भर्तृ- (०४०-०६२,*(४५))
परबुद्ध्या तथापरैः (०४०-*(४५))
परबुद्ध्या च नैकधा (०४०-०६२)
प्राणिभिः कर्मवैषम्य- (०४०-०६३)
भिन्नबुद्धिभिर् अव्ययम् (०४०-०६३)
तद् ब्रह्म गृह्यते दाल्भ्य (०४०-०६३)
परमार्थं निबोध मे (०४०-०६३)
भूतेन्द्रियान्तःकरण- (०४०-०६४)
प्रधानपुरुषात्मकम् (०४०-०६४)
अपरं ब्रह्मणो रूपं (०४०-०६४)
परं दाल्भ्य निशामय (०४०-०६४)
अहेयम् अक्षरं शुद्धम् (०४०-०६५)
असंभूतिनिरञ्जनम् (०४०-०६५)
विष्ण्वाख्यं परमं ब्रह्म (०४०-०६५)
यद् वै पश्यन्ति सूरयः (०४०-०६५)
यथैतद् भवता प्रोक्तं (०४१-००१)
धर्मार्थादेस् तु साधनम् (०४१-००१)
पत्नी नॄणां मुनिश्रेष्ठ (०४१-००१)
योषितस् च तथा नरः (०४१-००१)
तच् छ्रोतुम् इच्छे विप्रर्षे (०४१-००२)
विधवा स्त्री न जायते (०४१-००२)
उपोषीतेन येनाग्र्या (०४१-००२)
पत्न्या च रहितो नरः (०४१-००२)
अशून्यशयना नाम (०४१-००३)
द्वितीयां शृणु तां मम (०४१-००३)
याम् उपोष्य न वैधव्यं (०४१-००३)
प्रयाति स्त्री द्विजोत्तम (०४१-००३)
पत्नीवियुक्तश् च नरो (०४१-००४)
न कदाचित् प्रजायते (०४१-००४)
शेते जगत्पतिः कृष्णः (०४१-००४)
श्रिया सार्धं यदा द्विज (०४१-००४)
अशून्यशयना नाम (०४१-००५)
तदा ग्राह्या हि सा तिथिः (०४१-००५)
कृष्णपक्षद्वितीयायां (०४१-००५)
श्रावणे द्विजसत्तम (०४१-००५)
इदम् उच्चारयेन् नाम (०४१-००६)
प्रणम्य जगतः पतिम् (०४१-००६)
श्रीवत्सधारिणं श्रीशं (०४१-००६)
भक्त्याभ्यर्च्य श्रिया सह (०४१-००६)
श्रीवत्सधारिञ् श्रीकान्त (०४१-००७)
श्रीधाम श्रीपते ऽच्युत (०४१-००७)
गार्हस्थ्यं मा प्रणाशं मे (०४१-००७)
यातु धर्मार्थकामदम् (०४१-००७)
अग्नयो मा प्रणश्यन्तु (०४१-००८)
मा प्रणश्यन्तु देवताः (०४१-००८)
पितरो मा प्रणश्यन्तु (०४१-००८)
मत्तो दाम्पत्यभेदतः (०४१-००८)
लक्ष्म्या प्रयुज्यते देव (०४१-००९)
न कदाचिद् यथा भवान् (०४१-००९)
तथा कलत्रसंबन्धो (०४१-००९)
देव मा मे विभिद्यताम् (०४१-००९)
लक्ष्म्या न शून्यं वरद (०४१-०१०)
यथा ते शयनं सदा (०४१-०१०)
शय्या ममाप्य् अशून्यास्तु (०४१-०१०)
तथैव मधुसूदन (०४१-०१०)
एवं प्रसाद्य पूजां च (०४१-०११)
कृत्वा लक्ष्म्यास् तथा हरेः (०४१-०११)
फलानि दद्याच् छय्यायाम् (०४१-०११)
अभीष्टानि जगत्पतेः (०४१-०११)
नक्तं प्रणम्यायतने (०४१-०१२)
हविर् भुञ्जीत वाग्यतः (०४१-०१२)
ब्राह्मणाय द्वितीये ऽह्नि (०४१-०१२)
शक्त्या दद्याच् च दक्षिणाम् (०४१-०१२)
एवं करोति यः सम्यग् (०४१-०१३)
नरो मासचतुष्टयम् (०४१-०१३)
तस्य जन्मत्रयं दाल्भ्य (०४१-०१३)
गृहभङ्गो न जायते (०४१-०१३)
अशून्यशयनश् चासौ (०४१-०१४)
धर्मकर्मार्थसाधकः (०४१-०१४)
भवत्य् अव्याहतैश्वर्यः (०४१-०१४)
पुरुषो नात्र संशयः (०४१-०१४)
नारी च दाल्भ्य धर्मज्ञा (०४१-०१५)
व्रतम् एतद् यथाविधि (०४१-०१५)
या करोति न सा शोच्या (०४१-०१५)
बन्धुवर्गस्य जायते (०४१-०१५)
वैधव्यं दुर्भगत्वं वा (०४१-०१६)
भर्तृत्यागं च सत्तम (०४१-०१६)
नाप्नोति जन्मत्रितयम् (०४१-०१६)
एतच् चीर्त्वा पतिव्रता (०४१-०१६)
उपवासाश्रितं सम्यग् (०४२-००१)
लोकद्वयफलप्रदम् (०४२-००१)
कथितं भवता सर्वं (०४२-००१)
यत् पृष्टो ऽसि मया द्विज (०४२-००१)
अन्यद् इच्छाम्य् अहं श्रोतुं (०४२-००२)
तद् भवान् प्रब्रवीतु मे (०४२-००२)
संसारहेतुं मुक्तिं च (०४२-००२)
संसारान् मुनिसत्तम (०४२-००२)
अविद्याप्रभवं कर्म (०४२-००३)
हेतुभूतं द्विजोत्तम (०४२-००३)
संसारस्यास्य तन्मुक्तिः (०४२-००३)
संक्षेपाच् छ्रूयतां मम (०४२-००३)
स्वजातिविहितं कर्म (०४२-००४)
लोभद्वेषविवर्जितम् (०४२-००४)
कुर्वतः क्षीयते पूर्वं (०४२-००४)
मन्युबन्धश् च नेष्यते (०४२-००४)
अपूर्वसंभवाभवात् (०४२-००५)
क्षयं यात्य् आदिकर्मणि (०४२-००५)
दाल्भ्य संसारविच्छेदः (०४२-००५)
कारणाभावसंभवः (०४२-००५)
भवत्य् असंशयं चान्यच् (०४२-००६)
श्रूयताम् अत्र कारणम् (०४२-००६)
संसारान् मुच्यते दाल्भ्य (०४२-००६)
समासाद् वदतो मम (०४२-००६)
गृहीतकर्मणा येन (०४२-००७,*(४६))
पुंसां जातिर् द्विजोत्तम (०४२-००७,*(४६))
तत्प्रायश्चित्तभूतं वै (०४२-००७)
शृणु कर्मक्षयावहम् (०४२-००७)
ब्राह्मणक्षत्रियविशां (०४२-००८)
शूद्रान्त्यानां च सत्तम (०४२-००८)
स्वजातिविहितं कर्म (०४२-००८)
रागद्वेषादिवर्जितम् (०४२-००८)
जातिप्रदस्य क्षयदं (०४२-००९)
तद् एवाद्यस्य कर्मणः (०४२-००९)
ज्ञानकारणभावं च (०४२-००९)
तद् एव प्रतिपद्यते (०४२-००९)
पुमांश् चाधिगतज्ञानो (०४२-०१०)
भेदं नाप्नोति सत्तम (०४२-०१०)
ब्रह्मणा विष्णुसंज्ञेन (०४२-०१०)
परमेणाव्ययात्मना (०४२-०१०)
एतत् ते कथितं दाल्भ्य (०४२-०११)
संसारस्य समासतः (०४२-०११)
कारणं भवमुक्तिश् च (०४२-०११)
जायते योगिनो यथा (०४२-०११)
इति दाल्भ्यः पुलस्त्येन (०४३-००१)
यथावत् प्रतिबोधितः (०४३-००१)
आराधयाम् आस हरिं (०४३-००१)
लेभे कामांश् च वाञ्छितान् (०४३-००१)
तथा त्वम् अपि दैत्येन्द्र (०४३-००२)
केशवाराधनं कुरु (०४३-००२)
आराध्य तं जगन्नाथं (०४३-००२)
न कश्चिद् अवसीदति (०४३-००२)
इति शुक्रवचः श्रुत्वा (०४३-००३)
प्रह्लादो मधुसूदनम् (०४३-००३)
आराध्य प्राप्तवान् कृत्स्नं (०४३-००३)
त्रैलोकैश्वर्यम् ऊर्जितम् (०४३-००३)
एतन् मयोक्तं सकलं (०४३-००४)
तव भूमिप पृच्छतः (०४३-००४)
अनाराध्याच्युतं देवं (०४३-००४)
कः कामान् प्राप्नुते नरः (०४३-००४)
अम्बरीसो नरपतिर् (०४३-००५)
विष्णोर् माहात्म्यम् उत्तमम् (०४३-००५)
श्रुत्वा बभूव सततं (०४३-००५)
केशवार्पितमानसः (०४३-००५)
एवं त्वम् अपि कौरव्य (०४३-००६)
यदि मुक्तिम् अभीष्यसि (०४३-००६)
भोगान् वा विलुपान् देवात् (०४३-००६)
तस्माद् आराधयाच्युतम् (०४३-००६)
ददाति वाञ्छितान् कामान् (०४३-००७)
सकामैर् अर्चितो हरिः (०४३-००७)
मुक्तिं ददाति गोविन्दो (०४३-००७)
निष्कामैर् अभिपूजितः (०४३-००७)
भगवान् अवतीर्णो ऽभून् (०४३-००८)
मर्त्यलोकं जनार्दनः (०४३-००८)
भारावतरणार्थाय (०४३-००८)
भुवो भूतपतिर् हरिः (०४३-००८)
मानुषत्वे च गोविन्दो (०४३-००९)
मम पूर्वपितामहैः (०४३-००९)
चकार प्रीतिम् अतुलां (०४३-००९)
सामान्यपुरुषो यथा (०४३-००९)
सारथ्यं कृतवांश् चैव (०४३-०१०)
तेषां सर्वेश्वरो हरिः (०४३-०१०)
निस्तीर्णो येन भीष्मौघो (०४३-०१०)
कुरुसैन्यमहोदधिः (०४३-०१०)
उपकारी महाभागः (०४३-०११)
स तेषां सर्ववस्तुषु (०४३-०११)
केशवः पाण्डुपुत्राणां (०४३-०११)
सुतानां जनको यथा (०४३-०११)
धन्यास् ते कृतपुण्याश् च (०४३-०१२)
मम पाण्डुसुता मताः (०४३-०१२)
विविशुर् ये परिष्वङ्गे (०४३-०१२)
गोविन्दभुजपञ्जरम् (०४३-०१२)
राज्यहेतोर् अरीञ् जघ्नुर् (०४३-०१३)
अकस्मात् पाण्डुनन्दनाः (०४३-०१३)
सप्तलोकैकनाथेन (०४३-०१३)
ये ऽभवन्न् एकशायिनः (०४३-०१३)
आत्मानम् अवगच्छामि (०४३-०१४)
भगवन् धूतकल्मषम् (०४३-०१४)
जातं निर्धूतपापे ऽस्मिन् (०४३-०१४)
कुले विष्णुपरिग्रहे (०४३-०१४)
एवं देववरस् तेषां (०४३-०१५)
प्रसादसुमुखो हरिः (०४३-०१५)
पृच्छतां कच्चिद् आचष्टे (०४३-०१५)
किंचिद् गुह्यं महात्मनाम् (०४३-०१५)
गुह्यं जनार्दनं यांस् तु (०४३-०१६)
धर्मपुत्रो युधिष्ठिरः (०४३-०१६)
पप्रच्छ धर्मान् अखिलांस् (०४३-०१६)
तन् ममाख्यातुम् अर्हसि (०४३-०१६)
धर्मार्थकाममोक्षेषु (०४३-०१७)
यद् गुह्यं मधुसूदनः (०४३-०१७)
तेषाम् अवोचद् भगवाञ् (०४३-०१७)
श्रोतुम् इच्छामि तत् त्व् अहम् (०४३-०१७)
बहूनि धर्मगुह्यानि (०४३-०१८)
धर्मपुत्राय केशवः (०४३-०१८)
पुरा प्रोवाच राजेन्द्र (०४३-०१८)
प्रसादसुमुखो हरिः (०४३-०१८)
शरतल्पगताद् भीष्माद् (०४३-०१९)
धर्माञ् श्रुत्वा युधिष्ठिरः (०४३-०१९)
पृष्टवान् यज् जगन्नाथं (०४३-०१९)
तन् मे निगदतः शृणु (०४३-०१९)
पञ्चमेनाश्वमेधेन (०४४-००१)
यदा स्नातो युधिष्ठिरः (०४४-००१)
तदा नारायणं देवं (०४४-००१)
प्रश्नम् एतम् अपृच्छत (०४४-००१)
भगवन् वैष्णवा धर्माः (०४४-००२)
किंफलाः किंपरायणाः (०४४-००२)
किं कृत्यम् अधिकृत्यैते (०४४-००२)
भवतोत्पादिताः पुरा (०४४-००२)
यदि ते पाण्डुषु स्नेहो (०४४-००३)
विद्यते मधुसूदन (०४४-००३)
श्रोतव्याश् चेन् मया धर्मास् (०४४-००३)
ततस् तान् कथयाखिलान् (०४४-००३)
पवित्राश् चैव ये धर्माः (०४४-००४)
सर्वपापप्रणाशनाः (०४४-००४)
तव वक्त्रच्युता देव (०४४-००४)
सर्वधर्मेष्व् अनुत्तमाः (०४४-००४)
याञ् श्रुत्वा ब्रह्महा गोघ्नः (०४४-००५)
पितृघ्नो गुरुतल्पगः (०४४-००५)
सुरापो वा कृतघ्नश् च (०४४-००५)
मुच्यते सर्वकिल्बिषैः (०४४-००५)
एतन् मे कथितं सर्वं (०४४-००६)
सभामध्ये ऽरिसूदन (०४४-००६)
वसिष्ठाद्यैर् महाभागैर् (०४४-००६)
मुनिभिर् भावितात्मभिः (०४४-००६)
ततो ऽहं तव देवेश (०४४-००७)
पादमूलम् उपागतः (०४४-००७)
धर्मान् कथय तान् देव (०४४-००७)
यद्य् अहं भवतः प्रियः (०४४-००७)
श्रुता मे मानवा धर्मा (०४४-००८)
वासिष्ठाश् च महामते (०४४-००८)
पराशरकृताश् चैव (०४४-००८)
तथात्रेयस्य धीमतः (०४४-००८)
श्रुता गार्ग्यस्य शङ्खस्य (०४४-००९)
लिखितस्य यमस्य च (०४४-००९)
जापालेश् च महाबाहो (०४४-००९)
मुनेर् द्वैपायनस्य च (०४४-००९)
उमामहेश्वराश् चैव (०४४-०१०)
जातिधर्माश् च पावनाः (०४४-०१०)
गुणेश् च गुणबाहोश् च (०४४-०१०)
काश्यपेयास् तथैव च (०४४-०१०)
बह्वायनकृताश् चैव (०४४-०११)
शाकुनेयास् तथैव च (०४४-०११)
अगस्त्यगीता मौद्गल्याः (०४४-०११)
शाण्डिल्याः सौरभास् तथा (०४४-०११)
भृगोर् अङ्गिरसश् चैव (०४४-०१२)
कश्यपोद्दालकास् तथा (०४४-०१२)
सौमन्तूग्रायणाग्राश् च (०४४-०१२)
पैलस्य च महात्मनः (०४४-०१२)
वैशम्पायनगीताश् च (०४४-०१३)
पिशङ्गमकृताश् च ये (०४४-०१३)
ऐन्द्राश् च वारुणाश् चैव (०४४-०१३)
कौबेरा वात्स्यपौणकाः (०४४-०१३)
आपस्तम्बाः श्रुता धर्मास् (०४४-०१४)
तथा गोपालकस्य च (०४४-०१४)
भृग्वङ्गिरःकृताश् चैव (०४४-०१४)
सौर्या हारीतकास् तथा (०४४-०१४)
याज्ञवल्क्यकृताश् चैव (०४४-०१४)
तथा सप्तर्षयश् च ये (०४४-०१४)
एताश् चान्याश् च विविधाः (०४४-०१५)
श्रुता मे धर्मसंहिताः (०४४-०१५)
भगवञ् श्रोतुम् इच्छामि (०४४-०१५)
तव वक्त्राद् विनिःसृतान् (०४४-०१५)
एवम् उक्तः स पार्थेन (०४४-०१६)
प्रत्युवाच जनार्दनः (०४४-०१६)
बहुमानाच् च प्रीत्या च (०४४-०१६)
धर्मपुत्रं युधिष्ठिरम् (०४४-०१६)
इष्टस् त्वं हि महाबाहो (०४४-०१७)
सदा मम युधिष्ठिर (०४४-०१७)
परमार्थं तव ब्रूयां (०४४-०१७)
किं पुनर् धर्मसंहिताम् (०४४-०१७)
परमज्ञानिभिः सिद्धैर् (०४४-०१८)
युञ्जद्भिर् अपि नित्यशः (०४४-०१८)
प्रशान्तस्येव दीपस्य (०४४-०१८)
गतिर् मम दुरत्यया (०४४-०१८)
सर्ववेदमयं ब्रह्म (०४४-०१९)
पवित्रम् ऋषिभिः स्तुतम् (०४४-०१९)
कथयिष्यामि ते राजन् (०४४-०१९)
धर्मं धर्मभृताम् वर (०४४-०१९)
एवम् उक्ते तु कृष्णेन (०४४-०२०)
ऋषयो ऽमिततेजसः (०४४-०२०)
समाजग्मुः सभामध्ये (०४४-०२०)
श्रोतुकामा हरेर् गिरम् (०४४-०२०)
देवगन्धर्वऋषयो (०४४-*(४७))
गुह्यकाश् च महायशाः (०४४-*(४७))
वालखिल्या महात्मानो (०४४-*(४७))
मुनयः संमितव्रताः (०४४-*(४७))
पावनान् सर्वधर्मेभ्यो (०४४-*(४७))
रहस्यान् द्विजसत्तम (०४४-*(४७))
वैष्णवान् अखिलान् धर्मान् (०४४-०२१)
यः पठेत् पापनाशनान् (०४४-०२१)
भवेयुर् अक्षयास् तस्य (०४४-०२१)
लोकाः सत्पुण्यभागिनः (०४४-०२१)
कृष्णदृष्टिहतं चास्य (०४४-०२२)
किल्बिषं संप्रणश्यति (०४४-०२२)
वैष्णवस्य च यज्ञस्य (०४४-०२२)
फलं प्राप्नोति मानवः (०४४-०२२)
कौतूहलसमाविष्टः (०४५-००१)
पप्रच्छेदं युधिष्ठिरः (०४५-००१)
यमलोकस्य चाध्वानम् (०४५-००१)
अन्तरं मानुषस्य च (०४५-००१)
कीदृशं किंप्रमाणं वा (०४५-००२)
कथं वान्तं जनार्दन (०४५-००२)
तरन्ति पुरुषाः कृष्ण (०४५-००२)
केनोपायेन संशमे (०४५-००२)
तस्य तद् वचनं श्रुत्वा (०४५-००३)
विस्मितो मधुसूदनः (०४५-००३)
प्रत्युवाच महात्मानं (०४५-००३)
धर्मपुत्रं युधिष्ठिरम् (०४५-००३)
साधु साधुर् अयं प्रश्नः (०४५-००४)
श्रूयतां भो युधिष्ठिर (०४५-००४)
षडशीतिसहस्राणि (०४५-००४)
योजनानां नराधिप (०४५-००४)
यमलोकस्य चाध्वानम् (०४५-००५)
अन्तरं मानुषस्य च (०४५-००५)
ताम्रपात्रम् इवातप्तं (०४५-००५)
शूलव्यामिश्रकण्टकम् (०४५-००५)
द्वादशादित्यसंकाशं (०४५-००६)
भैरवं दुरतिक्रमम् (०४५-००६)
न तत्र वृक्षा न च्छाया (०४५-००६)
पानीयं केतनानि च (०४५-००६)
यत्र विश्रमते श्रान्तः (०४५-००७)
पुरुषो ऽध्वानको नृप (०४५-००७)
याम्यैर् दूतैर् नीयमानो (०४५-००७)
यमस्याज्ञाकरैर् बलात् (०४५-००७)
अवश्यं च महाराज (०४५-००८)
स गन्तव्यो महापथः (०४५-००८)
नरैः स्त्रीभिस् तथा तिर्यैः (०४५-००८)
पृथिव्यां जीवसंज्ञकैः (०४५-००८)
एकविंशच् च नरका (०४५-००९)
यमस्य विषये स्मृताः (०४५-००९)
ये तु दुष्कृतकर्माणस् (०४५-००९)
ते पतन्ति पृथक् पृथक् (०४५-००९)
नरको रौरवो नाम (०४५-०१०)
महारौरव एव च (०४५-०१०)
क्षुरधारा महारौद्रः (०४५-०१०)
सूकरस् ताल एव च (०४५-०१०)
वज्रकुम्भो महाघोरः (०४५-०११)
शाल्मलो ऽथ विमोहनः (०४५-०११)
कीटादः कृमिभक्षश् च (०४५-०११)
शाल्मलिश् च महाद्रुमः (०४५-०११)
तथा पूयवहः पापा (०४५-०१२)
रुधिरान्धो महत्तमः (०४५-०१२)
अग्निज्वालो महानादः (०४५-०१२)
संदाम्शः शुनभोजनः (०४५-०१२)
तथा वैतरणी चोष्णा (०४५-०१२)
असिपत्त्रवनं तथा (०४५-०१२)
विष्णोस् तद् वचनं श्रुत्वा (०४५-०१३)
पपात भुवि पाण्डवः (०४५-०१३)
स संज्ञश् च मुहूर्तेन (०४५-०१३)
भूयः केशवम् अब्रवीत् (०४५-०१३)
भीतश् चास्मि महाबाहो (०४५-०१४)
श्रुत्वा मार्गस्य विस्तरम् (०४५-०१४)
केनोपायेन तं मार्गं (०४५-०१४)
तरन्ति पुरुषाः सुखम् (०४५-०१४)
ब्राह्मणेभ्यः प्रदानानि (०४५-०१५)
नानारूपाणि पार्थिव (०४५-०१५)
यो दद्याच् छ्रद्धया युक्तः (०४५-०१५)
सुखं याति महापथम् (०४५-०१५)
उपानहप्रदा यान्ति (०४५-०१६)
सुखं छायासु च्छत्त्रदाः (०४५-०१६)
न तेषाम् अशुभं किंचिच् (०४५-०१६)
शूलादि न च कण्टकाः (०४५-०१६)
उपानहौ यो ददाति (०४५-०१७)
पात्रभूते द्विजोत्तमे (०४५-०१७)
अश्वतर्यः प्रदातारम् (०४५-०१७)
उपतिष्ठन्ति तं नरम् (०४५-०१७)
वितृष्णाश् चाम्बुदातारस् (०४५-०१८)
तर्पिताश् चान्नदास् तथा (०४५-०१८)
औप्रावृता वस्त्रदाश् च (०४५-०१८)
नग्ना वै यान्त्य् अवस्त्रदाः (०४५-०१८)
हिरण्यदाः सुखं यान्ति (०४५-०१९)
पुरुषाः स्वाभ्यलंकृताः (०४५-०१९)
गोप्रदा यान्ति च सुखं (०४५-०१९)
विमुक्ताः सर्वकिल्बिषैः (०४५-०१९)
भूमिदाः सुखम् अधन्ते (०४५-०२०)
सर्वकामैः सुतर्पिताः (०४५-०२०)
यान्ति चैवापरिक्लिष्टा (०४५-०२०)
नराः शय्यासनप्रदाः (०४५-०२०)
ततः सुखतरं यान्ति (०४५-०२१)
विमानेषु गृहप्रदाः (०४५-०२१)
क्षीरप्रदा हि दिव्याभिः (०४५-०२१)
ससर्पिभिस् तथैव च (०४५-०२१)
गोप्रदाता लभेत् तृप्तिं (०४५-०२२)
तस्मिन् देशे सुदुर्लभाम् (०४५-०२२)
आरामरोपी च्छायासु (०४५-०२२)
शीतलासु सुखं व्रजेत् (०४५-०२२)
सुगन्धिगन्धिनो यान्ति (०४५-०२३)
गन्धमाल्यप्रदा नरः (०४५-०२३)
अदत्तदाना गच्छन्ति (०४५-०२३)
पद्भ्यां यानेन यानदाः (०४५-०२३)
दीपप्रदाः सुखं यान्ति (०४५-०२३)
दीपयन्तश् च तत्पथम् (०४५-०२३)
विमानैर् हंसयुक्तैस् तु (०४५-०२४)
यान्ति मासोपवासिनः (०४५-०२४)
चक्रवाकप्रयुक्तेन (०४५-०२४)
पञ्चरात्रोपवासिनः (०४५-०२४)
ततो बर्हिणयुक्तेन (०४५-०२४)
षड्रात्रम् उपवासिनः (०४५-०२४)
त्रिरात्रम् एकभक्तेन (०४५-०२५)
क्षपयेद् यस् तु पाण्डव (०४५-०२५)
अनन्तरं च यो ऽश्नीयात् (०४५-०२५)
तस्य लोका यथा मम (०४५-०२५)
पनीयं परलोकेषु (०४५-०२६)
पावनं परमं स्मृतम् (०४५-०२६)
पानीयस्य प्रदानेन (०४५-०२६)
तृप्तिर् भवति शाश्वती (०४५-०२६)
पानीयस्य गुणा दिव्याः (०४५-०२६)
प्रेतलोके सुखावहाः (०४५-०२६)
तत्र पुण्योदका नाम (०४५-०२७)
नदी तेषां प्रवर्तते (०४५-०२७)
शीतलं सलिलं तत्र (०४५-०२७)
पिबन्ति ह्य् अमृतोपमम् (०४५-०२७)
ये च दुष्कृतकर्माणः (०४५-०२८)
पूयं तेषां प्रवर्तते (०४५-०२८)
एषा नदी महाराज (०४५-०२८)
सर्वकामदुघा शुभा (०४५-०२८)
अध्वनि खिन्नगात्रस् तु (०४५-०२९)
द्विजो यः क्षुत्तृष्णान्वितः (०४५-०२९)
पृच्छन् सदान्नदातारम् (०४५-०२९)
अभ्येति गृहम् आशया (०४५-०२९)
तं पूजय प्रयत्नेन (०४५-०२९)
सो ऽतिथिर् ब्राह्मणः स्मृतः (०४५-०२९)
पितरो देवताश् चैव (०४५-*(५०))
ऋषयश् च तपोधनाः (०४५-*(५०))
पूजिताः पूजिते तस्मिन् (०४५-*(५०))
निराशे तु निराशकाः (०४५-*(५०))
तम् एव गच्छन्तम् अनुव्रजन्ति (०४५-०३०)
देवाश् च सर्वे पितरस् तथैव (०४५-०३०)
तस्मिन् द्विजे पूजिते पूजितास् ते (०४५-०३०)
गते निराशे प्रतियान्ति नाशम् (०४५-०३०)
अहन्य् अहनि दातव्यं (०४५-*(५१))
ब्राह्मणेभ्यो युधिष्ठिर (०४५-*(५१))
आगमिष्यति यत् पात्रं (०४५-*(५१))
तत् पात्रं तारयिष्यति (०४५-*(५१))
न तथा हविषो होमैर् (०४६-००१)
न पुष्पैर् नानुलेपनैः (०४६-००१)
अग्नौ वा सुहुते राजन् (०४६-००१)
यथा ह्य् अतिथिपूजने (०४६-००१)
कपिलायां तु दत्तायां (०४६-००२)
यत् फलं ज्येष्ठपुष्करे (०४६-००२)
तत् फलं पाण्डवश्रेष्ठ (०४६-००२)
विप्राणां पादशौचने (०४६-००२)
द्विजपादोदकक्लिन्ना (०४६-००३)
यावत् तिष्ठति मेदिनी (०४६-००३)
तावत् पुष्करपात्रेषु (०४६-००३)
पिबन्ति पितरो जलम् (०४६-००३)
देवमाल्यापनयनं (०४६-००४)
द्विजोच्छिष्टापमार्जनम् (०४६-००४)
श्रान्तसंवाहनं चैव (०४६-००४)
दीनस्य परिपालनम् (०४६-००४)
एकैकं पाण्डवश्रेष्ठ (०४६-००४)
गोप्रदानाद् विशिष्यते (०४६-००४)
पादशौचं तथाभ्यङ्गं (०४६-००५)
दीपम् अन्नं प्रतिश्रयम् (०४६-००५)
ददन्ति ये महाराज (०४६-००५)
नोपसर्पन्ति ते यमम् (०४६-००५)
स्वागतेनाग्नयः प्रीता (०४६-००६)
आसनेन शतक्रतुः (०४६-००६)
पितरः पादशौचेन (०४६-००६)
अन्नाद्येन प्रजापतिः (०४६-००६)
अभयस्य प्रदानेन (०४६-*(५२))
भवेत् प्रीतिर् ममातुला (०४६-*(५२))
येषां तडागानि बहूदकानि (०४६-००७)
प्रपाश् च कूपाश् च प्रतिश्रयाश् च (०४६-००७)
अन्नप्रदानं मधुरा च वाणी (०४६-००७)
यमस्य ते निर्वचना भवन्ति (०४६-००७)
सवृषं गोशतं तेन (०४६-००८)
दत्तं भवति शाश्वतम् (०४६-००८)
पापं कर्म च यत् किंचिद् (०४६-००९)
ब्रह्महत्यासमं भवेत् (०४६-००९)
शोछयेत् कपिलां दत्त्वा (०४६-००९)
एतद् वै नात्र संशयः (०४६-००९)
प्रासादा यत्र सौवर्णा (०४६-०१०)
वसोर्धारा च स्यन्दते (०४६-०१०)
गन्धर्वाप्सरसो यत्र (०४६-०१०)
तत्र गच्छन्ति गोप्रदाः (०४६-०१०)
प्रयच्छते यः कपिलां सवत्सां (०४६-०११)
कांस्योपदोहां कनकाग्रशृङ्गीम् (०४६-०११)
यान् यान् हि कामान् अभिवाञ्छते ऽसौ (०४६-०११)
तांस् तान् अवाप्नोत्य् अमलांश् च लोकान् (०४६-०११)
यावद् वत्सस्य द्वौ पादौ (०४६-०१२)
शिरश् चैव प्रदृश्यते (०४६-०१२)
तावद् गौः पृथिवी ज्ञेया (०४६-०१२)
यावद् गर्भं न मुञ्चति (०४६-०१२)
तस्मिन् काले प्रदातव्या (०४६-०१२)
विधिना या मयोदिता (०४६-०१२)
अन्तरिक्षगतो वत्सो (०४६-०१३)
यावद् योन्यां प्रदृश्यते (०४६-०१३)
तावद् गौः पृथिवी ज्ञेया (०४६-०१३)
यावद् गर्भं न मुञ्चति (०४६-०१३)
यावन्ति तस्य रोमाणि (०४६-०१४)
तावद्वर्षाणि मानवः (०४६-०१४)
हंसयुक्तेन यानेन (०४६-*(५३))
युक्तेनाप्सरसां गणैः (०४६-*(५३))
गन्धर्वाप्सरसोद्गीतैः (०४६-०१४)
स्वर्गलोके महीयते (०४६-०१४)
तिलधेनुं प्रवक्ष्यामि (०४६-०१५)
यश् चास्या विधिर् उत्तमः (०४६-०१५)
सुवर्णनाभिं यः कृत्वा (०४६-०१५)
सुखूरं कृष्णमार्गणाम् (०४६-०१५)
कुतपप्रस्तरस्थां तु (०४६-०१६)
तिलां कृत्वा प्रयत्नतः (०४६-०१६)
तिलैः प्रस्थादि तां दद्यात् (०४६-०१६)
सर्वरत्नैर् अलंकृताम् (०४६-०१६)
ससमुद्रद्रुमा चैव (०४६-०१७)
सशैलवनकानना (०४६-०१७)
चतुरन्ता भवेद् दत्ता (०४६-०१७)
पृथिवी नात्र संशयः (०४६-०१७)
कृष्णाजिने तिलां कृत्वा (०४६-०१८)
कृष्णां वा यदि वेतराम् (०४६-०१८)
राजतेषु तु पात्रेषु (०४६-*(५४))
कोणेषु मधुसर्पिषी (०४६-*(५४))
प्रीयतां धर्मराजेति (०४६-०१८)
यद् वा मनसि वर्तते (०४६-०१८)
यावज् जीवकृतं पापं (०४६-०१८)
तेन दानेन पूयते (०४६-०१८)
धनं प्राप्नोति पुण्येन (०४७-००१)
मौनेनाज्ञां प्रयच्छति (०४७-००१)
उपभोगं तु दानेन (०४७-००१)
जीवितं ब्रह्मचर्यया (०४७-००१)
अहिंसया परं रूपम् (०४७-००२)
दीक्षया कुलजन्म च (०४७-००२)
फलमूलाशनाद् राज्यं (०४७-००२)
स्वर्गः पर्णाशनो भवेत् (०४७-००२)
पयोभक्ष दिवं यान्ति (०४७-००३)
स्नानेन द्रविणाधिकाः (०४७-००३)
शाकं साधयतो राज्यं (०४७-००३)
नाकपृष्ठम् अनाशनात् (०४७-००३)
स्थण्डिले च शयानस्य (०४७-००४)
गृहाणि शयनानि च (०४७-००४)
चीरवल्कलधारिणां (०४७-००४)
वस्त्राण्य् आभरणानि च (०४७-००४)
शयनासनयानानि (०४७-००५)
ये गता हि तपोवनम् (०४७-००५)
अग्निप्रवेशी नियतं (०४७-००५)
ब्रह्मलोके महीयते (०४७-००५)
रसानां प्रतिसंहारात् (०४७-००६)
सौभाग्यम् अभिजायते (०४७-००६)
आमिषप्रतिषेधात् तु (०४७-००६)
भवत्य् आयुष्मती प्रजा (०४७-००६)
उदवासं वसेद् यस् तु (०४७-००७)
नागानाम् अधिपो भवेत् (०४७-००७)
सत्यवादी नरश्रेष्ठ (०४७-००७)
देवतैह् सह मोदते (०४७-००७)
कीर्तिर् भवति दानेन (०४७-००८)
आरोग्यं चाप्य् अहिंसया (०४७-००८)
द्विजशुश्रूषया राज्यं (०४७-*(५५))
द्विजत्वं चापि पुष्कलम् (०४७-*(५५))
द्विजशुश्रूषया राज्यं (०४७-००८)
दिव्यरूपम् अवाप्नुते (०४७-००८)
अन्नपानप्रदानेन (०४७-००९)
कामभोगैस् तु तृप्यते (०४७-००९)
दीपालोकप्रदानेन (०४७-००९)
चक्षुष्माञ् जायते नरः (०४७-००९)
गन्धमाल्यप्रदानेन (०४७-०१०)
तुष्टिर् भवति पुष्कला (०४७-०१०)
केशश्मश्रून् धारयतो ह्य् (०४७-०१०)
अग्रा भवति संततिः (०४७-०१०)
वाक्शौचं मनसः शौचं (०४७-०११)
यच् च शौचं जलाश्रयम् (०४७-०११)
त्रिभिः शौचैर् उपेतो यः (०४७-०११)
स स्वर्गी नात्र संशयः (०४७-०११)
ताम्रायसानां भण्डानां (०४७-०१२)
दाता रत्नाधिपो भवेत् (०४७-०१२)
लभते तु परं स्थानं (०४७-०१२)
बलवान् पुष्यते सदा (०४७-०१२)
धान्यं क्रमेणार्जितवित्तसंचयं (०४८-००१)
विप्रे सुशीले ते प्रयच्छते यः (०४८-००१)
वसुंधरा तस्य भवेत् सुतुष्टा (०४८-००१)
धारा वसूनां प्रतिमुञ्चतीह (०४८-००१)
पुष्पोपभोगं च फलोपभोगं (०४८-००२)
यः पादपं स्पर्शयते द्विजाय (०४८-००२)
स श्रीसमृद्धं बहुरत्नपूर्णं (०४८-००२)
लभत्य् अधिष्ठानवरं समृद्धम् (०४८-००२)
इन्धनानि च यो दद्याद् (०४८-००३)
द्विजेभ्यः शिशिरागमे (०४८-००३)
कायाग्निदीप्तिं सौभाग्यम् (०४८-००३)
ऐश्वर्यं चाधिगच्छति (०४८-००३)
छत्त्रप्रदानेन गृहं वरिष्ठं (०४८-००४)
रथं तथोपानहसंप्रदानात् (०४८-००४)
धुर्यप्रदानेन गवाम् तथैव (०४८-००४)
लोकान् अवाप्नोति पुरंदरस्य (०४८-००४)
स्वर्गीयम् अप्य् आह हिरण्यदानम् (०४८-००४)
तथा वरिष्ठं कनकप्रदानम् (०४८-००४)
नैवेशिकं सर्वगुणोपपन्नं (०४८-००५)
प्रयच्छते यः पुरुषो द्विजाय (०४८-००५)
स्वाध्यायचारित्रगुणान्विताय (०४८-००५)
तस्यापि लोकाः प्रवरा भवन्ति (०४८-००५)
यो ब्रह्मदेयां प्रददाति कन्यां (०४८-००६)
भूमिप्रदानं च करोति विप्रे (०४८-००६)
हिरण्यदानं च तथा विशिष्टं (०४८-००६)
स शक्रो लोकं लभते दुरापम् (०४८-००६)
सुचित्रवस्त्राभरणोपधानं (०४८-००७)
दद्यान् नरो यः शयनं द्विजाय (०४८-००७)
रूपान्वितां दक्षवतीं मनोज्ञां (०४८-००७)
भार्याम् अयत्नोपचितां लभेत् सः (०४८-००७)
लवणस्य तु दातारस् (०४८-००८)
तिलानां सर्पिषस् तथा (०४८-००८)
तेजस्विनो ऽभिजायन्ते (०४८-००८)
भोगिनष् चिरजीविनः (०४८-००८)
स्वर्गे ऽप्सरोभिः सह भुक्तभोगस् (०४८-*(५६))
ततश् च्युतः शीलवतीं स भार्याम् (०४८-*(५६))
रूपान्वितां दक्षवतीं सुरक्तां (०४८-*(५६))
सुखेन धर्मेण तथापि काले (०४८-*(५६))
तस्यैव सार्धं सुरलोकम् एति (०४८-*(५६))
तस्यैव चान्यत् पुनर् एति जन्म (०४८-*(५६))
कीदृग्विधास्व् अवस्थासु (०४९-००१)
दत्तं दानं जनार्दन (०४९-००१)
इहलोकेष्व् अनुभवेत् (०४९-००१)
पुरुषस् तद् ब्रवीहि मे (०४९-००१)
गर्भस्थास्याथवा बाल्ये (०४९-००२)
यौवने वार्द्धके ऽपि वा (०४९-००२)
अवस्थां कृष्ण कथय (०४९-००२)
परं कौतूहलं हि मे (०४९-००२)
वृथाजन्मानि चत्वारि (०४९-००३)
वृथादानानि षोडश (०४९-००३)
अपुत्राणां वृथा जन्म (०४९-००३)
ये च धर्मबहिष्कृताः (०४९-००३)
परपाकं च ये ऽश्नन्ति (०४९-००३)
परदाररताश् च ये (०४९-००३)
पर्य् अस्थानं वृथा दानं (०४९-००४)
सदोषं परिकीर्तितम् (०४९-००४)
आरूढपतिते चैव (०४९-००४)
अन्यायोपार्जितं च यत् (०४९-००४)
व्यर्थं चाब्राह्मणे दानं (०४९-००५)
पतिते तस्करे तथा (०४९-००५)
गुरोश् चाप्रीतिजनके (०४९-००५)
कृतघ्ने ग्रामयाजके (०४९-००५)
ब्रह्मबन्धौ च यद् दत्तं (०४९-००६)
यद् दत्तं वृषलीपतौ (०४९-००६)
वेदविक्रयिणे चैव (०४९-००६)
यस्य चोपपतिर् गृहे (०४९-००६)
स्त्रीनिर्जितेषु यद् दत्तं (०४९-००७)
व्यालग्राहे तथैव च (०४९-००७)
परिचारके च यद् दत्तं (०४९-००७)
वृथादानानि षोडश (०४९-००७)
तमोवृतस् तु यो दद्याद् (०४९-००८)
भयात् क्रोधात् तथैव च (०४९-००८)
वृथा दानं तु तत् सर्वं (०४९-००८)
भुङ्क्ते गर्भस्थ एव तु (०४९-००८)
सेर्ष्यामन्युमनाश् चैव (०४९-००९)
दम्भार्थं चार्थकारणात् (०४९-००९)
यो ददाति द्विजातिभ्यः (०४९-००९)
स बालत्वे तद् अश्नुते (०४९-००९)
यः शुद्धिः प्रयतो भूत्वा (०४९-*(५८))
प्रसन्नमानसेन्द्रियः (०४९-*(५८))
प्रददाति द्विजातिभ्यो (०४९-*(५८))
यौवनस्थस् तद् अश्नुते (०४९-*(५८))
देशे देशे च पात्रे च (०४९-०१०)
यो ददाति द्विजातिषु (०४९-०१०)
मनसा परितुष्टेन (०४९-०१०)
यौवनस्थस् तद् अश्नुते (०४९-०१०)
तस्मात् सर्वास्व् अवस्थासु (०४९-०११)
सर्वदानानि पार्थिव (०४९-०११)
दातव्यानि द्विजातिभ्यः (०४९-०११)
स्वर्गमर्गम् अभीप्सता (०४९-०११)
त्रैलोक्य कृष्ण भूतानां (०५०-००१)
सर्वलोकात्मको ह्य् असि (०५०-००१)
नॄणां यदुवरश्रेष्ठ (०५०-००१)
तुष्यसे केन कर्मणा (०५०-००१)
ब्राह्मणैः पूजितैर् नित्यं (०५०-००२)
पूजितो ऽहं न संशयः (०५०-००२)
निर्भर्त्सितैश् च निर्भग्नस् (०५०-००२)
तस्याहं सर्वकर्मसु (०५०-००२)
विप्रापरा गतिर् मह्यं (०५०-००३)
यस् तान् पूजयते नृप (०५०-००३)
तम् अहं तेन रूपेण (०५०-००३)
प्रपश्यामि युधिष्ठिर (०५०-००३)
काणाः कुब्जाश् च खञ्जाश् च (०५०-००४)
दरिद्रा व्याधिताश् च ये (०५०-००४)
नावमन्येद् द्विजान् प्राज्ञो (०५०-००४)
मम रूपं हितं तथा (०५०-००४)
बहवो ऽपि न जानन्ते (०५०-००५)
नरा ज्ञानबहिष्कृताः (०५०-००५)
यथाहं द्विजरूपेण (०५०-००५)
चरामि पृथिवीतले (०५०-००५)
ये केचित् सागरान्तायां (०५०-००६)
पृथिव्यां कीर्तिता द्विजाः (०५०-००६)
तद् रूपं हि परं मह्यं (०५०-००६)
यो ऽर्चयेद् अर्चयेत् तु सः (०५०-००६)
तद्रूपान् घ्नन्ति ये विप्रान् (०५०-००७)
विकर्मसु च युञ्जन्ति (०५०-००७)
अप्रेषणे प्रेषयन्तो (०५०-००७)
दासत्वं कारयन्ति हि (०५०-००७)
मृतांस् तान् करपत्त्रेन (०५०-००८)
यमदूता महाबलाः (०५०-००८)
निकृन्तन्ति यथा काष्ठं (०५०-००८)
सूत्रमार्गेण शिल्पिनः (०५०-००८)
ये चैवाश्लक्ष्णया वाचा (०५०-००९)
तर्जयन्ति नराधमाः (०५०-००९)
वदन्ति क्रोधनिःस्पर्शं (०५०-००९)
पादेनाभिहनन्ति च (०५०-००९)
मृतांस् तान् यमलोकेषु (०५०-०१०)
निहत्य धरणीतले (०५०-०१०)
उरः पादेन चाक्रम्य (०५०-०१०)
क्रोधसंरक्तलोचनः (०५०-०१०)
अग्निवर्णैश् च संदंशैर् (०५०-०१०)
जिह्वाम् उद्धरते यमः (०५०-०१०)
पापाश् च नारके वह्नौ (०५०-*(५९))
धास्यन्ते यमकिंकरैः (०५०-*(५९))
ये तु विप्रान् निरीक्षन्ति (०५०-०११)
पापाः पापेन चक्षुषा (०५०-०११)
अब्रह्मण्याः श्रुतेर् बाह्या (०५०-०११)
नित्यं ब्रह्मद्विषो नराः (०५०-०११)
तेषां घोरा महाकाया (०५०-०१२)
वज्रतुण्डा भयानकाः (०५०-०१२)
उद्धरन्ति मुहूर्तेन (०५०-०१२)
चक्षुः काका यमाज्ञया (०५०-०१२)
यस् ताडयति विप्रांस् तु (०५०-०१३)
क्षतं कुर्यात् सशोणितम् (०५०-०१३)
अस्थिभङ्गं च यः कुर्यात् (०५०-०१३)
प्राणैर् वापि वियोजयेत् (०५०-०१३)
ब्रह्मघ्नः सो ऽनुपूर्वेण (०५०-०१४)
नरके वसुधाधिप (०५०-०१४)
कीलैर् विनिहतः पापो (०५०-०१४)
मीरायां पच्यते भृशम् (०५०-०१४)
सुबहूनि सहस्राणि (०५०-०१५)
वर्षाणां क्लेशभाग् भवेत् (०५०-०१५)
रवान् मुञ्चति दुर्बुद्धिर् (०५०-०१५)
न तस्मै निष्कृतिः स्मृता (०५०-०१५)
तस्माद् विप्रा नरश्रेष्ठ (०५०-०१६)
नमस्कार्याश् च नित्यशः (०५०-०१६)
अन्नपानप्रदानैस् तु (०५०-०१६)
पूजार्हाः सततं द्विजाः (०५०-०१६)
आमन्त्रयित्वा यो विप्रान् (०५०-०१७)
गन्धैर् माल्यैश् च मानवः (०५०-०१७)
तर्पयेच् छ्रद्धया युक्तः (०५०-०१७)
स माम् अर्चयते सदा (०५०-०१७)
स मां प्रसादयेच् चैव (०५०-०१७)
स च मां परितोषयेत् (०५०-०१७)
तपोदमान्वितेष्व् एव (०५०-*(६०))
नित्यं पूजां प्रयोजयेत् (०५०-*(६०))
ये ब्राह्मणाः सो ऽहम् असंशयं नृप (०५०-०१८)
तेष्व् अर्चितेष्व् अर्चितो ऽहं यथावत् (०५०-०१८)
तेष्व् एव तुष्टेष्व् अहम् एव तुष्टो (०५०-०१८)
वैरं च तैर् यस्य ममापि वैरम् (०५०-०१८)
सुगन्धिधूपादिभिर् अभ्यर्च्य विप्रं (०५०-*(६१),००१)
तम् अच्युतं नार्चयते सदैव (०५०-*(६१),००२)
यो भक्षतोयादिभिर् अन्नपानैर् (०५०-*(६१),००३)
अनुलेपाचमनप्रदानैः (०५०-*(६१),००४)
यः पूजयेद् भोजयित्वा द्विजाग्र्यान् (०५०-*(६१),००५)
संपूजयित्वा परितोषयेच् च (०५०-*(६१),००६)
अर्घ्यादिना ये ऽभिपूज्य (०५०-*(६१),००७)
पूजयन्ति सदाच्युतम् (०५०-*(६१),००७)
तेनैव माम् एव सदा (०५०-*(६१),००८)
पूजयन्ति न संशयः (०५०-*(६१),००८)
विरूपाश् च सुरूपाश् च (०५०-*(६१),००९)
विजनान् निष्कलान् अपि (०५०-*(६१),००९)
कृपया भावितात्मानो (०५०-*(६१),०१०)
ये ऽर्चयन्ति द्विजोत्तमान् (०५०-*(६१),०१०)
अनसूया हितात्मानो (०५०-*(६१),०११)
विप्रान् आराधते क्वचित् (०५०-*(६१),०११)
असंशयं सदा भक्त्या (०५०-*(६१),०१२)
माम् एवार्चयते हि सः (०५०-*(६१),०१२)
ततः पवित्रम् अतुलं (०५०-*(६१),०१३)
न पुण्यम् अधिकं ततः (०५०-*(६१),०१३)
यश् चन्दनैः सागरुगन्धमाल्यैर् (०५०-०१९)
अभ्यर्चयेद् दारुमयीं ममार्चाम् (०५०-०१९)
नासौ ममार्चाम् अर्चयते ऽर्चयन् वै (०५०-०१९)
विप्रार्चनाद् अर्चित एव चाहम् (०५०-०१९)
विप्रप्रसादान् मध एव चाहं (०५०-०२०)
विप्रप्रसादाद् असुराञ् जयामि (०५०-०२०)
विप्रप्रसादात् पुरुषोत्तमत्वं (०५०-०२०)
विप्रप्रसादाद् अजितो ऽस्मि नित्यम् (०५०-०२०)
सायं प्रातश् च यः संध्याम् (०५१-००१)
उपास्ते ऽस्कन्नमानसः (०५१-००१)
जपन् हि पावनीं देवीं (०५१-००१)
गायत्रीं वेदमातरम् (०५१-००१)
स तया पावितो देव्या (०५१-००२)
ब्राह्मणः पूतकिल्बिषः (०५१-००२)
न सीदेत् प्रतिगृह्णानः (०५१-००२)
पृथिवीं तु ससागराम् (०५१-००२)
ये चान्ये दारुणाः केचिद् (०५१-००३)
ग्रहाः सूर्यादयो दिवि (०५१-००३)
ते चास्य सौम्या जायन्ते (०५१-००३)
शिवाः शिवतमाह् सदा (०५१-००३)
यत्रतत्रगतं चैनं (०५१-००४)
दारुणाः पिशिताशनाः (०५१-००४)
घोररूपा महाकाया (०५१-००४)
न कर्षन्ति द्विजोत्तमम् (०५१-००४)
यावन्तश् च पृथिव्यां हि (०५१-००५)
चीर्णवेदव्रता द्विजाः (०५१-००५)
अचीर्णव्रतवेदा वा (०५१-००५)
विकर्मपथम् आश्रिताः (०५१-००५)
तेषां तु पावनार्थं हि (०५१-००६)
नित्यम् एव युधिष्ठिर (०५१-००६)
द्वे संध्ये ह्य् उपतिष्ठेत (०५१-००६)
तद् अस्कन्नं महाव्रतम् (०५१-००६)
नास्ति किंचिन् नरव्याघ्र (०५१-००७)
दुष्कृतं ब्राह्मणस्य तु (०५१-००७)
यत्र स्थितः सदाध्यात्मे (०५१-००७)
द्वे संध्ये ह्य् उपतिष्ठति (०५१-००७)
पूर्णाहुतिं वा प्राप्नोति (०५१-००८)
जुहुते च त्रयो ऽघ्नयः (०५१-००८)
दहन्ति दुष्कृतं तस्य (०५१-००८)
अग्नयो नात्र संशयः (०५१-००८)
एवं सर्वस्य विप्रस्य (०५१-००९)
किल्बिषं निर्दहाम्य् अहम् (०५१-००९)
उभे संध्ये ह्य् उपासिनस् (०५१-००९)
तस्मात् सर्वशुचिर् द्विजः (०५१-००९)
दैवे पित्र्ये च यत्नेन (०५१-०१०)
नियोक्तव्यो ऽजुगुप्सितः (०५१-०१०)
जुगुप्सितस् तु तच् छ्राद्धं (०५१-०१०)
दहत्य् अग्निर् इवेन्धनम् (०५१-०१०)
पुराणं मानवा धर्माः (०५२-००१)
साङ्गो वेदश् चिकित्सितम् (०५२-००१)
आज्ञासिद्धानि चत्वारि (०५२-००१)
न हन्तव्यानि हेतुभिः (०५२-००१)
हत्वा ह्य् एतानि संमूढः (०५२-००१)
कल्पं तमसि पच्यते (०५२-००१)
न ब्राह्मणं परीक्षेत (०५२-००२)
श्राद्धकाले ह्य् उपस्थिते (०५२-००२)
सुमहान् परिवादो हि (०५२-००२)
ब्राह्मणानां परीक्षणे (०५२-००२)
काणाः कुण्ठाश् च षण्डाश् च (०५२-००३)
दरिद्रा व्याधितास् तथा (०५२-००३)
सर्वे श्राद्धे नियोक्तव्या (०५२-००३)
मिश्रिता वेदपारगैः (०५२-००३)
अक्षयं तु भवेच् छ्राद्धम् (०५२-००३)
एतद् धर्मविदो विदुः (०५२-००३)
ब्राह्मणो हि महद् भूतं (०५२-००४)
जन्मना सह जायते (०५२-००४)
लोका लोकेश्वराश् चापि (०५२-००४)
सर्वे ब्राह्मणपूजकाः (०५२-००४)
ब्राह्मणाः कुपिता हन्युर् (०५२-००५)
भस्म कुर्युश् च तेजसा (०५२-००५)
लोकान् अन्यान् सृजेयुश् च (०५२-००५)
लोकपालांस् तथापरान् (०५२-००५)
ब्राह्मणा हि महात्मानो (०५२-००६)
विरजाः स्वर्गसंक्रमाः (०५२-००६)
ब्राह्मणानां परीवादाद् (०५२-००६)
असुराः सलिलेशयाः (०५२-००६)
अपेयः सागरो यैस् तु (०५२-००७)
कृतः कोपान् महात्मभिः (०५२-००७)
येषां कोपाग्निर् अद्यापि (०५२-००७)
दण्डके नोपशाम्यति (०५२-००७)
एते स्वर्गस्य नेतारो (०५२-००८)
भूमिदेवाः सनातनाः (०५२-००८)
एभिश् चाधिकृतः पन्था (०५२-००८)
देवयानः स उच्यते (०५२-००८)
ते पूज्यास् ते नमस्कार्यास् (०५२-००९)
तेषु सर्वं प्रतिष्ठितम् (०५२-००९)
ते वै लोकान् इमान् सर्वान् (०५२-००९)
धारयन्ति परस्परम् (०५२-००९)
प्रमाणं सर्वलोकानां (०५२-०१०)
नियता ब्रह्मचारिणः (०५२-०१०)
तान् अपाश्रित्य तिष्ठन्ते (०५२-०१०)
त्रयो लोकाः सनातनाः (०५२-०१०)
गूढस्वाध्यायतपसो (०५२-०११)
ब्राह्मणाः संशितव्रताः (०५२-०११)
विद्यास्नाता व्रतस्नाता (०५२-०११)
अनपाश्रित्यजीविनः (०५२-०११)
आशीविषा इव क्रुद्धा (०५२-०१२)
उपचर्या हि ब्राह्मणाः (०५२-०१२)
तपसा दीप्यमानास् ते (०५२-०१२)
दहेयुः सागरान् अपि (०५२-०१२)
ब्राह्मणेषु च तुष्टेषु (०५२-०१३)
तुष्यन्ते सर्वदेवताः (०५२-०१३)
ब्राह्मणानां नमस्कारैः (०५२-०१३)
सूर्यो दिवि विराजते (०५२-०१३)
ब्राह्मणानां परीवादात् (०५२-०१३)
पतेयुर् अपि देवताः (०५२-०१३)
धुरि ये नावसीदन्ति (०५२-०१४)
प्रणीते यज्ञवह्नयः (०५२-०१४)
भोजनाच्छादनैर् दानैस् (०५२-०१४)
तारयन्ति तपोधनाः (०५२-०१४)
ते गतिः सर्वभूतानाम् (०५२-०१५)
अध्यात्मगतिचिन्तकाः (०५२-०१५)
आदिमध्यावसानानां (०५२-०१५)
ज्ञानानां छिन्नसाम्शयाः (०५२-०१५)
परापरविशेषज्ञा (०५२-०१६)
नेतारः परमां गतिम् (०५२-०१६)
अवध्या ब्राह्मणास् तस्मात् (०५२-०१६)
पापेष्व् अपि रताः सदा (०५२-०१६)
यश् च सर्वम् इदं हन्याद् (०५२-०१७)
ब्राह्मणं वापि तत्समम् (०५२-०१७)
सो ऽग्निः सो ऽर्को महातेजा (०५२-०१८)
विषं भवति कोपितः (०५२-०१८)
भूतानां अग्रभुग् विप्रो (०५२-०१८)
वर्णश्रेष्ठः पिता गुरुः (०५२-०१८)
न स्कन्दते न व्यथते (०५२-०१९)
न च नश्यति कर्हिचित् (०५२-०१९)
वरिष्ठम् अग्निहोत्राद् धि (०५२-०१९)
ब्राह्मणस्य मुखे हुतम् (०५२-०१९)
अविद्यो वा सविद्यो वा (०५२-०२०)
ब्राह्मणो मम दैवतम् (०५२-०२०)
प्रणीतश् चाप्रणीतश् च (०५२-०२०)
यथाग्निर् दैवतं महत् (०५२-०२०)
एवं विद्वान् अविद्वान् वा (०५२-*(६३))
ब्राह्मणो दैवतं महत् (०५२-*(६३))
श्मशानेष्व् अपि तेजस्वी (०५२-०२१)
पावको नैव दुष्यति (०५२-०२१)
हव्यकव्यव्यपेतो ऽपि (०५२-०२१)
ब्राह्मणो नैव दुष्यति (०५२-०२१)
सर्वथा ब्राह्मणाः पूज्याः (०५२-०२२)
सर्वथा दैवतं महत् (०५२-०२२)
तस्मात् सर्वप्रयत्नेन (०५२-०२२)
रक्षेद् आपत्सु ब्राह्मणान् (०५२-०२२)
शक्रो ऽपि हि द्विजेन्द्राणां (०५२-०२२)
बिभेति विबुधाधिपः (०५२-०२२)
दानं देवाः प्रशंसन्ति (०५३-००१)
इति धर्मविदो विदुः (०५३-००१)
नानादानविधिं तस्माच् (०५३-००१)
शृणुष्व सुसमाहितः (०५३-००१)
हिरण्यदानं गोदानं (०५३-००२)
पृथिवीदानम् एव च (०५३-००२)
एतानि वै पवित्राणि (०५३-००२)
तारयन्ति परत्र च (०५३-००२)
यद् यद् इष्टतमं लोके (०५३-००३)
यच् चास्ति दयितं गृहे (०५३-००३)
तत् तद् गुणवते देयं (०५३-००३)
तद् एवाक्षयम् इच्छता (०५३-००३)
सुवर्णदानं गोदानं (०५३-००४)
पृथिवीदानम् एव च (०५३-००४)
एतत् प्रयच्छमानो वै (०५३-००४)
सर्वपापैः प्रमुच्यते (०५३-००४)
यद् ददासि विशिष्टेभ्यो (०५३-००५)
यच् चाश्नासि दिने दिने (०५३-००५)
तत् ते वित्तम् अहं मन्ये (०५३-००५)
शेषं कस्यापि रक्षसि (०५३-००५)
तुल्यनामानि शस्तानि (०५३-००६)
त्रीणि तुल्यफलानि च (०५३-००६)
नित्यं देयानि राजेन्द्र (०५३-००६)
गावः पृथ्वी सरस्वती (०५३-००६)
तद्वज् जलम् अमित्रघ्न (०५३-००७)
तत् तुल्यफलनामतः (०५३-००७)
दत्त्वा तृप्तिम् अवाप्नोति (०५३-००७)
यत्रतत्राभिजायते (०५३-००७)
संकल्पविहितो यो ऽर्थो (०५३-००८)
ब्राह्मणेभ्यः प्रदीयते (०५३-००८)
अर्थिभ्यो ह्य् अर्थहेतुभ्यो (०५३-००८)
मनस्वी तेन जायते (०५३-००८)
सीदते द्विजमुख्याय (०५३-००९)
यो ऽर्थिने न प्रयच्छति (०५३-००९)
अमर्थे सति दुर्बुद्धिर् (०५३-००९)
नरकायोपपद्यते (०५३-००९)
धेनवो ऽनडुहश् चैव (०५३-०१०)
छत्त्रं वस्त्रम् उपानहौ (०५३-०१०)
देयानि याचमानेभ्यः (०५३-०१०)
पानम् अन्नं तथैव च (०५३-०१०)
एवं दानं समुद्दिष्टं (०५३-०१०)
व्युष्टिमत् तारकं परम् (०५३-०१०)
एष ते विहितो यज्ञः (०५३-०११)
श्रद्धापूतः सदक्षिणः (०५३-०११)
विशिष्टः स च यज्ञेषु (०५३-०११)
ददताम् अनसूयया (०५३-०११)
दानविद्भिः कृतः पन्था (०५३-०१२)
येन यान्ति मनीषिणः (०५३-०१२)
यैर् दानैस् तर्पयिष्यन्ति (०५३-०१२)
श्रद्धापूतैर् द्विजोत्तमान् (०५३-०१२)
यथा हि सुकृते क्षेत्रे (०५३-०१३)
फलं विन्दति क्षेत्रिकः (०५३-०१३)
एवं दत्त्वा ब्राह्मणेभ्यो (०५३-०१३)
दाता फलम् उपाश्नुते (०५३-०१३)
ब्राह्मणाश् चैव विद्यन्ते (०५३-०१४)
सत्यवन्तो बहुश्रुताः (०५३-०१४)
न ददाति च दानानि (०५३-०१४)
मोघं तस्य धनार्जनम् (०५३-०१४)
उत्थायोत्थाय बोद्धव्यं (०५३-०१५)
किम् अद्य सुकृतं मया (०५३-०१५)
दत्तं वा दापितं वापि (०५३-०१५)
वोत्साह्यम् अपि वा कृतम् (०५३-०१५)
उत्थायोत्थाय दातव्यं (०५३-०१६)
ब्राह्मणेभ्यो युधिष्ठिर (०५३-०१६)
आगमिष्यति यत् पात्रं (०५३-०१६)
तत् पात्रं तारयिष्यति (०५३-०१६)
यच् च वेदमयं पात्रं (०५३-०१७)
यच् च पात्रं तपोमयम् (०५३-०१७)
असंकीर्णं च यत् पात्रं (०५३-०१७)
तत् पात्रं तारयिष्यति (०५३-०१७)
अध्यायं तपसो वक्ष्ये (०५४-००१)
तन् मे निगदतः शृणु (०५४-००१)
तपसो हि परं नास्ति (०५४-००१)
तपसा विन्दते फलम् (०५४-००१)
ऋषयस् तप आस्थाय (०५४-००२)
मोदन्ते दैवतैः सह (०५४-००२)
तपसा प्राप्यते स्वर्गं (०५४-००२)
तपसा प्राप्यते यशः (०५४-००२)
आयुःप्रकर्षं भोगांश् च (०५४-००३)
तपसा विन्दते नरः (०५४-००३)
ज्ञानं विज्ञानम् आस्तिक्यं (०५४-००३)
सौभाग्यं रूपम् उत्तमम् (०५४-००३)
तपसा लभ्यते सर्वं (०५४-००४)
मनसा यद् यद् इच्छति (०५४-००४)
नातप्ततपसो यान्ति (०५४-००४)
ब्रह्मलोकं कदाचन (०५४-००४)
यत् कार्यं किंचिद् आस्थाय (०५४-००५)
पुरुषस् तप्यते तपः (०५४-००५)
सर्वं तत् समवाप्नोति (०५४-००५)
परत्रेह च मानवः (०५४-००५)
सुरापः पारदारी च (०५४-००६)
भ्रूणहा गुरुतल्पगः (०५४-००६)
तपसा तरते सर्वं (०५४-००६)
सर्वतश् च विमुच्यते (०५४-००६)
अपि सर्वेश्वरः स्थाणुर् (०५४-००७)
विष्णुश् चैव सनातनः (०५४-००७)
ब्रह्मा हुताशनः शक्रस् (०५४-००७)
तपस्यन्ति सनातनाः (०५४-००७)
षडशीतिसहस्राणि (०५४-००८)
मुनीनाम् ऊर्ध्वरेतसाम् (०५४-००८)
तपसा दिवि मोदन्ते (०५४-००८)
समेता दैवतैः सह (०५४-००८)
तपसा प्राप्यते राज्यं (०५४-००९)
शक्रः सर्वसुरेश्वरः (०५४-००९)
तपसा पालयन् सर्वम् (०५४-००९)
अहन्य् अहनि वृत्रहा (०५४-००९)
सूर्याचन्द्रमसौ देवौ (०५४-०१०)
सर्वलोकहिते रतौ (०५४-०१०)
तपसैव प्रकाशेते (०५४-०१०)
नक्षत्राणि ग्रहास् तथा (०५४-०१०)
न चास्ति तत् सुखं लोके (०५४-०११)
यद् विना तपसा किल (०५४-०११)
तपसैव सुखं सर्वम् (०५४-०११)
इति धर्मविदो विदुः (०५४-०११)
विश्वामित्रश् च तपसा (०५४-*(६४))
ब्राह्मणत्वम् उपागतः (०५४-*(६४))
सर्वं च तपसाभ्येति (०५४-०१२)
सर्वं च सुखम् अश्नुते (०५४-०१२)
तपस् तप्यति यो ऽरण्ये (०५४-०१२)
मुनिर् मूलफलाशनः (०५४-०१२)
ऋचम् एकां अपि पठन् (०५४-०१२)
स याति परमां गतिम् (०५४-०१२)
तस्मात् तपः समास्थाय (०५४-*(६५))
प्रार्थयेद् यद् अभीप्सितम् (०५४-*(६५))
सत्यम् एव परं ब्रह्म (०५५-००१)
सत्यम् एव परं तपः (०५५-००१)
सत्यम् एव परो यज्ञः (०५५-००१)
सत्यम् एव परं श्रुतम् (०५५-००१)
सत्यं देवेषु जागर्ति (०५५-००१)
मुक्तिः सत्यतरोः फलम् (०५५-००१)
तपो यशश् च पुण्यं च (०५५-००२)
पितृदेवर्षिपूजनम् (०५५-००२)
आद्यो विधिश् च विद्या च (०५५-००२)
सर्वं सत्ये प्रतिष्ठितम् (०५५-००२)
सत्यं यज्ञस् तथा वेदा (०५५-००३)
मन्त्रा देवी सरस्वती (०५५-००३)
व्रतचर्या तथा सत्यम् (०५५-००३)
ओंकारः सत्यम् एव च (०५५-००३)
सत्येन वायुर् अभ्येति (०५५-००४)
सत्येन तपते रविः (०५५-००४)
सत्येन चाग्निर् दहति (०५५-००४)
स्वर्गं सत्येन गच्छति (०५५-००४)
सत्येन चापः क्षिपति (०५५-००४)
पर्जन्यः पृथिवीतले (०५५-००४)
पारणं सर्ववेदानां (०५५-००५)
सर्वतीर्थावगहनह् (०५५-००५)
सत्यं च वदतो लोके (०५५-००५)
तत् समं स्यान् न संशयः (०५५-००५)
अश्वमेधसहस्रं च (०५५-००६)
सत्यं च तुलया धृतम् (०५५-००६)
अश्वमेधसहस्राद् धि (०५५-००६)
सत्यम् एतद् विशिष्यते (०५५-००६)
मुनयः सत्यनिरता (०५५-*(६६))
मुनयः सत्यविक्रमाः (०५५-*(६६))
मुनयः सत्यप्रपथाः (०५५-*(६६))
परां सिद्धिम् इतो गताः (०५५-*(६६))
सत्येन देवाः प्रीयन्ते (०५५-००७)
पितरो ब्राह्मणास् तथा (०५५-००७)
सत्यम् आहुः परं धर्मं (०५५-००७)
तस्मात् सत्यं न लोपयेत् (०५५-००७)
मुनयः सत्यनिरतास् (०५५-००८)
तस्मात् सत्यं विशिष्यते (०५५-००८)
स्वर्गे सत्यपरा नित्यं (०५५-००८)
मोदन्ते देवता इव (०५५-००८)
अप्सरोगणसंकीर्णैर् (०५५-००९)
विमानैर् उपयान्ति ते (०५५-००९)
वक्तव्यं हि सदा सत्यं (०५५-००९)
न सत्याद् विद्यते परम् (०५५-००९)
एतत् प्रमाणं यः कुर्यात् (०५५-*(६७))
सर्वयज्ञफलं लभेत् (०५५-*(६७))
अगाधे विमले शुद्धे (०५५-०१०)
सत्यतीर्थे ह्रदे शुभे (०५५-०१०)
स्नातव्यं मनसा युक्तैः (०५५-०१०)
स्नानं तत् परमं स्मृतम् (०५५-०१०)
आत्मार्थे च परार्थे वा (०५५-०११)
पुत्रार्थे वापि पार्थिव (०५५-०११)
ये ऽनृतं नाभिभाषन्ते (०५५-०११)
ते नराः स्वर्गगामिनः (०५५-०११)
अपि चेदं पुरा गीतं (०५५-०१२)
धर्मविद्भिर् युधिष्ठिर (०५५-०१२)
यः सत्यवादी पुरुषो (०५५-०१२)
नानृतं परिभाषते (०५५-०१२)
संप्राप्य विरजांल् लोकान् (०५५-०१३)
उषित्वा शाश्वतीः समाः (०५५-०१३)
शुचीनां श्रीमतां गेहे (०५५-०१३)
जायते सुमहामतिः (०५५-०१३)
विद्यारोग्यसुखैश्वर्यैर् (०५५-*(६८))
युक्तो योगपरो भवेत् (०५५-*(६८))
आदित्यचन्द्राव् अनलानिलौ च (०५५-०१४)
द्यौर् भूमिर् आपो हृदयं यमश् च (०५५-०१४)
अहश् च रात्रिश् च उभे च संध्ये (०५५-०१४)
धर्मश् च जानाति नरस्य वृत्तम् (०५५-०१४)
तस्मान् न वाच्यम् अनृतं हि सद्भिर् (०५५-०१५)
एवंविधैर् धर्मविदो वदन्ति (०५५-०१५)
सत्यं वदंस् तेजसा दीप्यमानो (०५५-०१५)
न हीयते धर्मयशो ऽर्थकामैः (०५५-०१५)
एष वाणीकृतो धर्मो (०५५-०१६)
वैदिको धर्मनिश्चये (०५५-०१६)
एवम् एतद् यथान्यायं (०५५-०१६)
सत्याध्याये प्रकीर्तितम् (०५५-०१६)
तत् प्रमाणं बुधः कुर्यान् (०५५-०१६)
न सत्याद् विद्यते परम् (०५५-०१६)
सर्वेषाम् एव वर्णानां (०५६-००१)
प्रवक्ष्यामि युधिष्ठिर (०५६-००१)
उपोषितैश् च कौन्तेय (०५६-००१)
यत् प्रयोज्यं यथाविधि (०५६-००१)
फलं यद् उपवासस्य (०५६-००२)
तन् निबोध च पाण्डव (०५६-००२)
अवाप्नोति यथा कामान् (०५६-००२)
उपवासपरायणः (०५६-००२)
मयैते नृपते काम्या (०५६-००३)
विहिता हितम् इच्छता (०५६-००३)
उपवासा मनुष्याणां (०५६-००३)
मय्य् एवार्पितचेतसाम् (०५६-००३)
पञ्चमीं चैव षष्ठीं च (०५६-००४)
पौर्णमासीं च पाण्डव (०५६-००४)
उपोष्य रूपवान् धन्यः (०५६-००४)
सुभगश् चैव जायते (०५६-००४)
अष्टमीं चैव कौन्तेय (०५६-००५)
शुक्लपक्षे चतुर्दशीम् (०५६-००५)
उपोष्य व्याधिरहितो (०५६-००५)
वीर्यवांश् चैव जायते (०५६-००५)
मार्गशीर्षं तु यो मासं (०५६-००६)
नित्यम् एकाशनो भवेत् (०५६-००६)
कृषिभागी भवेद् राजन् (०५६-००६)
बहुपुत्रश् च जायते (०५६-००६)
पौषमासे तु राजेन्द्र (०५६-००७)
भक्तेनैकेन यः क्षपेत् (०५६-००७)
सुभगो दर्शनीयश् च (०५६-००७)
ज्ञानभागी च जायते (०५६-००७)
पितॄन् उद्दिश्य माघं तु (०५६-००८)
यः क्षपेद् एकभोजनम् (०५६-००८)
मासेन पुरुषव्याघ्र (०५६-००८)
सो ऽनन्त्यं फलम् अश्नुते (०५६-००८)
भगदैवतमासं तु (०५६-००९)
यः क्षपेद् एकभोजनम् (०५६-००९)
स्त्रीषु वल्लभतां याति (०५६-००९)
वश्याश् चास्य भवन्ति ताः (०५६-००९)
चैत्रं तु पुरुषव्याघ्र (०५६-०१०)
यः क्षपेद् एकभोजनम् (०५६-०१०)
मासेन पुरुषव्याघ्र (०५६-*(६९))
मौनन् तु फलम् अश्नुते (?) (०५६-*(६९))
भगदैवतमासं तु (०५६-*(६९))
यः क्षपेद् एकभोजनः (०५६-*(६९))
स्त्रीषु वल्लभतां याति (०५६-*(६९))
वश्याश् चास्य भवन्ति ताः (०५६-*(६९))
चैत्रं तु पुरुषव्याघ्र (०५६-*(६९))
यः क्षपेद् एकभोजनः (०५६-*(६९))
सुवर्णमणिमुक्ताढ्ये (०५६-०१०,*(६९))
कुले महति जायते (०५६-०१०,*(६९))
निस्तरेद् एकभक्तेन (०५६-०११,*(६९))
वैशाखं यो नराधिप (०५६-०११,*(६९))
नरो वा यदि वा नारी (०५६-०११)
ज्ञातीनां श्रेष्ठतां व्रजेत् (०५६-०११)
ज्येष्ठमासम् अपानीयम् (०५६-०१२)
एकभक्तेन यः क्षपेत् (०५६-०१२)
ऐश्वर्यं पुरुषव्याघ्र (०५६-०१२)
स्त्रीभागी चोपजायते (०५६-०१२)
आषाढं भरतश्रेष्ठ (०५६-०१३)
एकभक्तेन यः क्षपेत् (०५६-०१३)
शूरश् च बहुधान्यश् च (०५६-०१३)
बहुपुत्रश् च जायते (०५६-०१३)
श्रावणं तु नरव्याघ्र (०५६-०१४)
भक्तेनैकेन यः क्षपेत् (०५६-०१४)
यत्र यत्रोपपद्येत (०५६-०१४)
तत्र स्याज् ज्ञातिवर्धनः (०५६-०१४)
मासं भाद्रपदं राजन्न् (०५६-०१५)
एकभक्तेन यः क्षपेत् (०५६-०१५)
धनाढ्यो वीर्यवांश् चैव (०५६-०१५)
ऐश्वर्यं प्रतिपद्यते (०५६-०१५)
यः क्षपेद् एकभक्तेन (०५६-०१६)
मासम् आश्वयुजं नरः (०५६-०१६)
धनवान् वाहनाढ्यश् च (०५६-०१६)
बहुपुत्रश् च जायते (०५६-०१६)
कार्त्तिकं तु नरो मासं (०५६-०१७)
नित्यम् एकाशनो भवेत् (०५६-०१७)
शूरश् च बहुभार्यश् च (०५६-०१७)
कीर्तिमांश् चैव जायते (०५६-०१७)
एते मासा नरश्रेष्ठ (०५६-०१८)
एकभक्तेन कीर्तिताः (०५६-०१८)
तिथीनां नियमांश् चैव (०५६-०१८)
ताञ् शृणुष्व नराधिप (०५६-०१८)
पक्षे पक्षे चतुर्थं तु (०५६-०१९)
भक्तं यः क्षपयेन् नरः (०५६-०१९)
विपुलं धनम् आप्नोति (०५६-०१९)
भगवान् अग्निर् अब्रवीत् (०५६-०१९)
मासे मासे चतुर्थं तु (०५६-०२०)
भक्तम् एकं तु यः क्षपेत् (०५६-०२०)
कृषिभागी यशोभागी (०५६-०२०)
तेजस्वी चापि जायते (०५६-०२०)
पक्षे पक्षे त्रिरात्रं तु (०५६-०२१)
यः क्षपेन् नरपुङ्गव (०५६-०२१)
गणे घोषे पुरे ग्रामे (०५६-०२१)
माहात्म्यं प्रतिपद्यते (०५६-०२१)
मासे मासे त्रिरात्रं तु (०५६-०२२)
भक्तेनैकेन यः क्षपेत् (०५६-०२२)
गणाधिपत्यं लभते (०५६-०२२)
निःसपत्नम् अकण्टकम् (०५६-०२२)
यस् तु सायं तथा कल्यं (०५६-०२३)
भुङ्क्ते नैवान्तरा पिबेत् (०५६-०२३)
अहिंसानिरतो नित्यं (०५६-०२३)
जुह्वानो जातवेदसम् (०५६-०२३)
षड्भिर् एव तु वर्षैस् तु (०५६-०२४)
सिध्यते नात्र संशयः (०५६-०२४)
अग्निष्टोमस्य यज्ञस्य (०५६-०२४)
फलं प्राप्नोति मानवः (०५६-०२४)
अष्टमेन तु भक्तेन (०५६-०२५)
राजन् संवत्सरं नयेत् (०५६-०२५)
गवामयस्य यज्ञस्य (०५६-०२५)
फलं प्राप्नोति मानवः (०५६-०२५)
हंससारसयुक्तेन (०५६-०२६)
विमानेन स गच्छति (०५६-०२६)
पूर्णं वर्षसहस्रं तु (०५६-०२६)
स्वर्गलोके महीयते (०५६-०२६)
आर्तो वा व्याधितो वापि (०५६-०२७)
गच्छेद् अनशनं तु यः (०५६-०२७)
पदे पदे यज्ञफलं (०५६-०२७)
तस्य मन्नामकीर्तनात् (०५६-०२७)
दिव्यऋक्षप्रयुक्तेन (०५६-०२८)
विमानेन स गच्छति (०५६-०२८)
शतम् अप्सरसां चैव (०५६-०२८)
रमयन्तीह तं नरम् (०५६-०२८)
सहस्रशतसंयुक्ते (०५६-०२९)
विमाने सूर्यवर्चसे (०५६-०२९)
आरूढस्त्रीशताकीर्णे (०५६-०२९)
विहरन् सुखम् एधते (०५६-०२९)
न क्रुद्धो व्याधितो नार्तः (०५६-०३०)
प्रसन्नमनसेन्द्रियः (०५६-०३०)
गच्छेद् अनशनं यस् तु (०५६-०३०)
तस्यापि शृणु यत् फलम् (०५६-०३०)
शतं वर्षसहस्राणां (०५६-०३१)
स्वर्गलोके महीयते (०५६-०३१)
स्वस्थः सफलसंकल्पः (०५६-०३१)
सुखी विगतकल्मषः (०५६-०३१)
स्त्रीसहस्रसमाकीर्णे (०५६-०३१)
सुप्रभे सुखम् एधते (०५६-०३१)
यावन्ति रोमकूपानि (०५६-०३२)
तस्य गात्रेषु भारत (०५६-०३२)
तावद्वर्षसहस्राणि (०५६-०३२)
दिव्यानि दिवि मोदते (०५६-०३२)
नास्ति वेदात् परं शास्त्रं (०५६-०३३)
नास्ति मातृसमो गुरुः (०५६-०३३)
न धर्मात् परमो लाभस् (०५६-०३३)
तपो नानशनात् परम् (०५६-०३३)
ब्राह्मणेभ्यः परं नास्ति (०५६-०३४)
दिवि चेह च पावनम् (०५६-०३४)
उपवासैस् तथा तुल्यं (०५६-०३४)
तपो ह्य् अन्यन् न विद्यते (०५६-०३४)
उपोष्य विधिवद् देवास् (०५६-०३५)
त्रिदिवं प्रतिपेदिरे (०५६-०३५)
मुनयश् च परां सिद्धिम् (०५६-०३५)
उपवासैर् अवाप्नुवन् (०५६-०३५)
दिव्यं वर्षसहस्रं तु (०५६-०३६)
विश्वामित्रेण धीमता (०५६-०३६)
क्षान्तम् एकेन भक्तेन (०५६-०३६)
येन विप्रत्वम् आगतः (०५६-०३६)
च्यवनो जमदग्निश् च (०५६-०३७)
वसिष्ठो गौतमो भृगुः (०५६-०३७)
सर्वे ह्य् एते दिवं प्राप्ताः (०५६-०३७)
क्षमावन्तो बहुश्रुताः (०५६-०३७)
विधिनानेन राजेन्द्र (०५६-०३७)
यो मया परिकीर्तितः (०५६-०३७)
पठेत यो वै शृणुयाच् च भक्त्या (०५६-०३८)
न विद्यते तस्य नरस्य पापम् (०५६-०३८)
उपद्रवैर् मुच्यते सर्वाङ्गिकैर् (०५६-०३८)
न चापि पापैर् अभिभूयते नरः (०५६-०३८)
ब्राह्मणत्वं सुदुष्प्रापं (०५७-००१)
निसर्गाद् ब्राह्मणो भवेत् (०५७-००१)
क्षत्रियो वाथवा वैश्यो (०५७-००१)
निसर्गाद् एव जायते (०५७-००१)
दुष्कृतेन तु दुष्टात्मा (०५७-००२)
स्थानाद् भ्रश्यति मानवः (०५७-००२)
श्रेष्ठं स्थानं समासाद्य (०५७-००२)
तस्माद् रक्षेत पण्डितः (०५७-००२)
यस् तु विप्रत्वम् उत्सृज्य (०५७-००३)
क्षत्रियत्वं निषेवते (०५७-००३)
ब्राह्मण्यात् स परिभ्रष्टः (०५७-००३)
क्षत्रयोन्यां प्रसूयते (०५७-००३)
वैश्यकर्माणि वा कुर्वन् (०५७-००४)
वैश्ययोनौ प्रजायते (०५७-००४)
शूद्रकर्माणि कुर्वाणः (०५७-००४)
शूद्रत्वम् उपपद्यते (०५७-००४)
स तत्र दुर्गतिं प्राप्य (०५७-००५)
स्थानाद् भ्रष्टो युधिष्ठिर (०५७-००५)
शूद्रयोनिम् अनुप्राप्तो (०५७-००५)
यदि धर्मं न सेवते (०५७-००५)
मानुष्यात् स परिभ्रष्टस् (०५७-००६)
तिर्यग्योनौ प्रजायते (०५७-००६)
अधर्मसेवनान् मूढस् (०५७-००६)
तमोपहतचेतनः (०५७-००६)
जात्यन्तरसहस्राणि (०५७-००७)
तत्रैव परिवर्तते (०५७-००७)
तस्मात् प्राप्य शुभं स्थानं (०५७-००७)
प्रमादान् न तु नाशयेत् (०५७-००७)
शूद्रान्नेनावशेषेण (०५७-००८)
यो म्रियेज् जठरे द्विजः (०५७-००८)
आहिताग्निस् तथा यज्वा (०५७-००८)
स शूद्रगतिभाग् भवेत् (०५७-००८)
क्षत्रान्नेनावशेषेण (०५७-००९)
क्षत्रत्वम् उपपद्यते (०५७-००९)
वैश्यान्नेनावशेषेण (०५७-००९)
वैश्यत्वम् उपपद्यते (०५७-००९)
तां योनिं लभते विप्रो (०५७-००९)
भुक्त्वान्नं यस्य वै मृतः (०५७-००९)
ब्राह्मणत्वं शुभं प्राप्य (०५७-०१०)
दुर्लभं यो ऽवमन्यते (०५७-०१०)
भोज्याभोज्यं न जानाति (०५७-०१०)
स भवेत् क्षत्रियो द्विजः (०५७-०१०)
कर्मणा येन मेधावी (०५७-०११)
शूद्रो वैश्यो ऽभिजायते (०५७-०११)
तत् ते वक्ष्यामि निखिलं (०५७-०११)
येन वर्णोत्तमो भवेत् (०५७-०११)
शूद्रकर्म यथोद्दिष्टं (०५७-०१२)
शूद्रो भूत्वा समाचरेत् (०५७-०१२)
यथावत् परिचर्यां तु (०५७-०१२)
त्रिषु वर्णेषु नित्यदा (०५७-०१२)
कुरुते ऽविमना यस् तु (०५७-०१२)
स शूद्रो वैश्यतां व्रजेत् (०५७-०१२)
क्षत्रियत्वं यथा वैश्यस् (०५७-०१३)
तद् वक्ष्याम्य् अनुपूर्वशः (०५७-०१३)
चौक्षः पापजनद्वेष्टा (०५७-०१३)
शेषान्नकृतभोजनः (०५७-०१३)
अग्निहोत्रम् उपादाय (०५७-०१४)
जुह्वानश् च यथाविधि (०५७-०१४)
स वैश्यः क्षत्रियकुले (०५७-०१४)
जायते नात्र संशयः (०५७-०१४)
क्षत्रियो ब्रह्मयोन्यां तु (०५७-०१५)
जायते शृणु तद् यथा (०५७-०१५)
ददाति यजते यज्ञैर् (०५७-०१५)
विधिवच् चाप्तदक्षिणैः (०५७-०१५)
अधीते स्वर्गम् अन्विच्छंस् (०५७-०१५)
त्रेताग्निशरणः सदा (०५७-०१५)
आर्तहस्तप्रदो नित्यं (०५७-०१६)
प्रजा धर्मेण पालयन् (०५७-०१६)
ऋतुकाले तु स्वां भार्याम् (०५७-०१६)
अभिगच्छन् विधानतः (०५७-०१६)
सर्वातिथ्यं त्रिवर्गस्य (०५७-०१७)
दीयतां भुज्यताम् इति (०५७-०१७)
शूद्राणां याचकानां च (०५७-०१७)
नित्यं सिद्धिम् इति ब्रुवन् (०५७-०१७)
गोब्राह्मणस्य चार्थाय (०५७-०१८)
रणे चाभिमुखो हतः (०५७-०१८)
त्रेताग्निमन्त्रपूतात्मा (०५७-०१८)
क्षत्रियो ब्राह्मणो भवेत् (०५७-०१८)
विधिज्ञः क्षत्रियकुले (०५७-०१८)
याजकः स तु जायते (०५७-०१८)
प्राप्यते ऽविकलः स्वर्गो (०५७-०१९)
वर्णैः सत्पथम् आस्थितैः (०५७-०१९)
ब्राह्मणत्वं सुदुष्प्रापं (०५७-०१९)
कृच्छ्रेणासाद्यते नरैः (०५७-०१९)
तस्मात् सर्वप्रयत्नेन (०५७-०१९)
रक्षेद् ब्राह्मण्यम् उत्तमम् (०५७-०१९)
सुवर्णं परमं दानं (०५८-००१)
सुवर्णं दक्षिणा परा (०५८-००१)
एतत् पवित्रं परमम् (०५८-००१)
एतत् स्वस्त्ययनं महत् (०५८-००१)
दश पूर्वापरान् वंशान् (०५८-००२)
आत्मानं च विशाम्यते (०५८-००२)
अपि पापशतं कृत्वा (०५८-००२)
दत्त्वा विप्रेषु तारयेत् (०५८-००२)
सुवर्णं ये प्रयच्छन्ति (०५८-००३)
नराः शुद्धेन चेतसा (०५८-००३)
देवतास् ते प्रयच्छन्ति (०५८-००३)
समस्ता इति नः श्रुतम् (०५८-००३)
अग्निर् हि देवताः सर्वाः (०५८-००४)
सुवर्णं च हुताशनः (०५८-००४)
तस्मात् सुवर्णं ददता (०५८-००४)
दत्ताः सर्वाश् च देवताः (०५८-००४)
अग्न्यभावे च कुर्वन्ति (०५८-००५)
वह्निस्थानेषु काञ्चनम् (०५८-००५)
सर्ववेदप्रमाणज्ञा (०५८-००५)
वेदश्रुतिनिदर्शनात् (०५८-००५)
ये त्व् एनं ज्वालयित्वाग्निम् (०५८-००६)
आदित्योदयनं प्रति (०५८-००६)
दद्युर् वै व्रतम् उद्दिश्य (०५८-००६)
सर्वान् कामान् अवाप्नुयुः (०५८-००६)
सुवर्णदः स्वर्गलोके (०५८-००७)
कामान् इष्टान् उपाश्नुते (०५८-००७)
विरजाम्बरसंवीतः (०५८-००७)
परियाति यतस् ततः (०५८-००७)
विमानेनार्कवर्णेन (०५८-००८)
भास्वरेण विराजता (०५८-००८)
अप्सरोगणसंकीर्णे (०५८-००८)
भास्वता स्वेन तेजसा (०५८-००८)
हंसबर्हिणयुक्तेन (०५८-००९)
कामगेन नरोत्तमः (०५८-००९)
दिव्यगन्धवहः स्वर्गे (०५८-००९)
परिगच्छेद् इतस् ततः (०५८-००९)
तस्मात् स्वशक्त्या दातव्यं (०५८-०१०)
काञ्चनं मानवैर् भुवि (०५८-०१०)
न ह्य् अतः परमं लोके (०५८-०१०)
सद्यः पापविमोचनम् (०५८-०१०)
सुवर्णस्य तु शुद्धस्य (०५८-०११)
सुवर्णं यः प्रयच्छति (०५८-०११)
बहून्य् अब्दसहस्राणि (०५८-०११)
स्वर्गलोके महीयते (०५८-०११)
लोकांस् तु सृजता पूर्वं (०५९-००१)
गावः सृष्टाः स्वयंभुवा (०५९-००१)
प्रीत्यर्थं सर्वभूतानां (०५९-००१)
तस्मात् ता मातरः स्मृताः (०५९-००१)
तास् तु दत्त्वा सौरभेयीः (०५९-००२)
स्वर्गलोके महीयते (०५९-००२)
तस्मात् ता वर्णयिष्यामि (०५९-००२)
दानं चासां यथाविधि (०५९-००२)
यादृशी विधिना येन (०५९-००३)
दातव्या यादृशाय च (०५९-००३)
द्विजाय पोषणार्थं तु (०५९-००३)
होमधेनुकृते न वै (०५९-००३)
प्रथमा गौरकपिला (०५९-*(७०))
द्वितीया गौरपिङ्गला (०५९-*(७०))
तृतीया रक्तकपिला (०५९-*(७०))
चतुर्थी नीलपिङ्गला (०५९-*(७०))
पञ्चमी शुक्लपिङ्गाक्षी (०५९-*(७०))
षष्ठी तु शुक्लपिङ्गला (०५९-*(७०))
सप्तमी चित्रपिङ्गाक्षी (०५९-*(७०))
अष्टमी बभ्रुरोहिणी (०५९-*(७०))
नवमी श्वेतपिङ्गाक्षी (०५९-*(७०))
दशमी श्वेतपिङ्गला (०५९-*(७०))
तादृशा ये ऽप्य् अनड्वाहः (०५९-*(७०))
कपिलास् ते प्रकीर्तिताः (०५९-*(७०))
ब्राह्मणो वाहयेत् तांस् तु (०५९-*(७०))
नान्यो वर्णः कदाचन (०५९-*(७०))
धेनुं दत्त्वा सुव्रतां सोपधानां (०५९-००४)
कल्याणवत्सां च पयस्विनीं च (०५९-००४)
यावन्ति रोमाणि भवन्ति धेन्वा (०५९-००४)
दुह्येत कामान् नृप वर्षाणि तावत् (०५९-००४)
प्रयच्छते यः कपिलां सवत्सां (०५९-००५)
कांस्योपदोहां कनकाग्रशृङ्गीम् (०५९-००५)
तैस् तैर् गुणैः काम्दुघा हि भूत्वा (०५९-००५)
नरं प्रदातारम् उपैति सा गौः (०५९-००५)
गोसहस्रं तु यो दद्यात् (०५९-००६)
सर्वकामैर् अलंकृतम् (०५९-००६)
परां वृद्धिं श्रियं प्राप्य (०५९-००६)
स्वर्गलोके महीयते (०५९-००६)
दश चोभयतः प्रेत्य (०५९-००७)
मातामहपितामहैः (०५९-००७)
गच्छेत् सुकृतिनां लोकान् (०५९-००७)
गावो दत्त्वा यथाविधि (०५९-००७)
दायादलब्धैर् अर्थैर् यो (०५९-००८)
गवाः क्रीत्वा प्रयच्छति (०५९-००८)
तस्यापि चाक्षया लोका (०५९-००८)
भवन्तीह परत्र च (०५९-००८)
यो द्यूतेन धनं जित्वा (०५९-००९)
क्रीत्वा गावः प्रयच्छति (०५९-००९)
स गच्छेद् विरजांल् लोकान् (०५९-००९)
गोप्रदानफलार्जितान् (०५९-००९)
प्रतिगृह्य तु यो दद्याद् (०५९-०१०)
गावः शुद्धेन चेतसा (०५९-०१०)
स गत्वा दुर्गमं स्थानम् (०५९-०१०)
अमरैः सह मोदते (०५९-०१०)
यश् चात्मविक्रयं कृत्वा (०५९-०११)
गावो दद्याद् यथाविधि (०५९-०११)
स गत्वा विरजांल् लोकान् (०५९-०११)
सुखं वसति देववत् (०५९-०११)
संग्रामे यस् तनुं त्यक्त्वा (०५९-०१२)
गावः क्रीत्वा प्रयच्छति (०५९-०१२)
देहविक्रयमूल्यस् ताः (०५९-०१२)
शाश्वताः कामदोहनाः (०५९-०१२)
रूपान्विताः शीलवयोपपन्नाः (०५९-०१३)
सर्वाः प्रशस्ता हि सुगन्धवत्यः (०५९-०१३)
यथा हि गङ्गा सरितां वरिष्ठा (०५९-०१३)
तथार्जुनीनां कपिला वरिष्ठा (०५९-०१३)
अन्तर्जाताः सुक्रयज्ञानलब्धाः (०५९-०१४)
प्राणांस् त्यक्त्वा सोदकाः सोद्वहाश् च (०५९-०१४)
कृच्छ्रोत्सृष्टाः पोषणायाभ्युपेता (०५९-०१४)
द्वारैर् एतैर् गोविशेषा वरिष्ठाः (०५९-०१४)
तिस्रो रात्र्यश् चाप्य् उपोष्येह दाता (०५९-०१५)
तृप्ता गा वै तर्पितेभ्यः प्रयच्छेत् (०५९-०१५)
वत्सैः पीताः सोपधानास् त्र्यहं च (०५९-०१५)
दत्त्वा गा वै गोरसैर् वर्तितव्यम् (०५९-०१५)
लोके ज्येष्ठा लोकवृत्तान्तवृत्ता (०५९-०१६)
वेदैर् गीताः सोमनिष्यन्दभूताः (०५९-०१६)
सौम्याः पुण्याः कामदाः प्राणदाश् च (०५९-०१६)
गावो दत्त्वा सर्वदा सन्ति सन्तः (०५९-०१६)
न चैवासां दानमात्रं प्रशस्तं (०५९-०१७)
पात्रं कालो गोविशेषो विधिश् च (०५९-०१७)
दृष्ट्वा गावः पावकादित्यभूताः (०५९-०१७)
स्वाध्यायाढ्ये पात्रवर्ये विशिष्टे (०५९-०१७)
वैतानस्थं सत्यवाक्यं कृतज्ञं (०५९-०१८)
गोषु क्षान्तं गोशरण्यं सुवृत्तं (०५९-०१८)
शस्तं पात्रं गोप्रदानस्य भूमेस् (०५९-०१८)
तथा सुवर्णस्य च सर्वकालम् (०५९-०१८)
भिक्षादानं चाधिकं संप्रशस्तं (०५९-*(७१))
पाथोदानं चान्नदानं तथा च (०५९-*(७१))
भिक्षते बहुभृत्याय (०५९-०१९)
श्रोत्रियायाहिताग्नये (०५९-०१९)
दातव्या गौः प्रयत्नेन (०५९-०१९)
एकाप्य् अतिफला हि सा (०५९-०१९)
तां चेद् विक्रीणते राजन् (०५९-०२०)
वचसा कलुषीकृताम् (०५९-०२०)
नासौ प्रशस्यते विप्रो (०५९-०२०)
ब्राह्मणो नैव स स्मृतः (०५९-०२०)
तस्याधर्मप्रवृत्तस्य (०५९-०२१)
लुब्धस्यानृतवादिनः (०५९-०२१)
हव्यकव्यव्यपेतस्य (०५९-०२१)
न देया गौः कथंचन (०५९-०२१)
जीर्णां चैवोपभुक्तां च (०५९-०२२)
जरत्कूपम् इवाफलाम् (०५९-०२२)
तमः प्रविशते दाता (०५९-०२२)
द्विजं क्लेशेन योजयन् (०५९-०२२)
दुष्टाः कृशाश् चैव पालयतीश् च (०५९-०२३)
नैतादृशा दानयोग्या भवन्ति (०५९-०२३)
क्लेशैर् विप्रं यो ऽफलैः संयुनक्ति (०५९-०२३)
गच्छेत् स तिर्यग् विफलांश् च लोकान् (०५९-०२३)
अनड्वाहं सुव्रतं यो ददाति (०५९-०२४)
हलस्य वोढारम् अनन्तवीर्यम् (०५९-०२४)
युगंधरं बलवन्तं युवानं (०५९-०२४)
प्राप्नोति लोकान् दशधेनुदस्य (०५९-०२४)
प्रयच्छते यः पुरुषो द्विजाय (०५९-०२५)
स्वाध्यायचारित्रगुणान्विताय (०५९-०२५)
बलेन युक्तं वृषभं तु नीलं (०५९-०२५)
षडाङ्गवं प्रीतिकरं सुरूपम् (०५९-०२५)
युवानं बलिनं श्यामं (०५९-०२६)
शतेन सह यूथपम् (०५९-०२६)
गवेन्द्रं ब्राह्मणेन्द्राय (०५९-०२६)
भूरिशृङ्गम् अलंकृतम् (०५९-०२६)
वृषभं ये प्रयच्छन्ति (०५९-०२७)
श्रोत्रियायाहिताग्नये (०५९-०२७)
ते गत्वा तद्गवां लोकं (०५९-*(७२))
देवलोकान् महत्तरम् (०५९-*(७२))
तत्र स्थित्वा तु सुचिरं (०५९-*(७२))
सर्वकामैः सुतर्पिताः (०५९-*(७२))
ऐश्वर्ये ते ऽभिजायन्ते (०५९-०२७)
जायमानाः पुनः पुनः (०५९-०२७)
सदक्षिणां काञ्चनरूप्यशृङ्गीं (०५९-०२८)
कांस्योपदोहां कनकोत्तरीयाम् (०५९-०२८)
धेनुं तिलानां कनकोत्तरीयाम् (०५९-०२८)
लोका वसूनाम् अचला भवन्ति (०५९-०२८)
तिलालाभे तु यो दद्याद् (०५९-०२९)
घृतधेनुं यतव्रतः (०५९-०२९)
स दुर्गात् तारितो धेन्वा (०५९-०२९)
ब्रह्मलोके महीयते (०५९-०२९)
घृतालाभे तु यो दद्याज् (०५९-०३०)
जलधेनुं यतव्रतः (०५९-०३०)
स सर्वं तरते दुर्गं (०५९-०३०)
जलं दिव्यं समश्नुते (०५९-०३०)
ब्राह्मणाश् चैव गावश् च (०५९-०३१)
कुलम् एकं द्विधाकृतम् (०५९-०३१)
एकत्र मन्त्रास् तिष्ठन्ति (०५९-०३१)
हविर् एकत्र तिष्ठति (०५९-०३१)
उपगम्य तु यो दद्याद् (०५९-०३२)
गावः शुद्धेन चेतसा (०५९-०३२)
यावन्ति तासां रोमाणि (०५९-०३२)
तावत् स्वर्गे महीयते (०५९-०३२)
शृणु त्वं मे गवां लोका (०५९-०३३)
यादृशा यत्र वा स्थिताः (०५९-०३३)
मनोज्ञा रमणीयाश् च (०५९-०३३)
सर्वकामदुघाः सदा (०५९-०३३)
पुण्याः पापहराश् चैव (०५९-०३४)
गवां लोका न संशयः (०५९-०३४)
अत्यन्तसुखिनस् तत्र (०५९-०३४)
सर्वपापविवर्जिताः (०५९-०३४)
प्रमोदन्ते महास्थाने (०५९-०३५)
नरा विगतकल्मषाः (०५९-०३५)
ते व्रजन्ते विमानेषु (०५९-०३५)
ग्रहा दिवि गता इव (०५९-०३५)
एवं यैर् दत्तसत्काराः (०५९-०३६)
सुरभ्यश् चार्चिताः सदा (०५९-०३६)
कामरूपा महात्मानः (०५९-०३६)
पूता विगतकिल्बिषाः (०५९-०३६)
तुल्यप्रभावा देवैस् ते (०५९-०३७)
मोदन्ते ऽप्सरसां गणैः (०५९-०३७)
गन्धर्वैर् उपगीयन्ते (०५९-०३७)
गोशरण्या न संशयः (०५९-०३७)
ब्रह्मण्याः साधुवृत्ताश् च (०५९-०३८)
दयावन्तो ऽनुकम्पिनः (०५९-०३८)
घृणिनः शुभकर्माणो (०५९-०३८)
मोदन्ते ते ऽमरैः सह (०५९-०३८)
यथैव सलिले मत्स्यः (०५९-०३९)
सलिलेन सहोह्यते (०५९-०३९)
गोभिः पापकृतं कर्म (०५९-०३९)
दृढम् एव मयोह्यते (०५९-०३९)
मातरः सर्वभूतानां (०५९-०४०)
प्रजासंरक्षणे स्मृताः (०५९-०४०)
ब्रह्मणा लोकसारेण (०५९-०४०)
गावः पापभयापहाः (०५९-०४०)
तासु दत्तासु राजेन्द्र (०५९-०४१)
किं न दत्तं भवेद् इह (०५९-०४१)
कृशाय तु विशेषेण (०५९-०४१)
वृत्तिग्लानाय सीदते (०५९-०४१)
भूदानेन समं दानं (०६०-००१)
न भूतं न भविष्यति (०६०-००१)
इति धर्मविदः प्राहुस् (०६०-००१)
तन् मे निगदतः शृणु (०६०-००१)
षष्टिं वर्षसहस्राणि (०६०-००२)
स्वर्गे वसति भूमिदः (०६०-००२)
आच्छेत्ता चानुमन्ता च (०६०-००२)
तान्य् एव नरके वसेत् (०६०-००२)
अतिदानं तु सर्वेषां (०६०-००३)
भूमिदानम् इहोच्यते (०६०-००३)
अचला ह्य् अक्षया भूमिः (०६०-००३)
सर्वान् कामान् प्रयच्छति (०६०-००३)
भूमिदः स्वर्गम् आरुह्य (०६०-००४)
शाश्वतीर् एधति समाः (०६०-००४)
पुनश् च जन्म संप्राप्य (०६०-००४)
भवेद् भूमिपतिर् ध्रुवम् (०६०-००४)
यथा भूमिः सदा देवी (०६०-००५)
दातारं कुरुते पतिम् (०६०-००५)
एवं सदक्षिणा दत्ता (०६०-००५)
कुरुते गौर् जनाधिपम् (०६०-००५)
अपि पापकृतं प्राप्य (०६०-००६)
प्रतिगृह्णीत भूमिदम् (०६०-००६)
महीं ददन् पवित्री स्यात् (०६०-००६)
पुण्या हि जगती यतः (०६०-००६)
नाम वै प्रियदत्तेति (०६०-००७)
गुह्यम् एतत् सनातनम् (०६०-००७)
तद् अस्याः सततं प्रीत्यै (०६०-००७)
कीर्तनीयं प्रयच्छता (०६०-००७)
यत् किंचित् कुरुते पापं (०६०-००८)
पुरुषो वृत्तिकर्षितः (०६०-००८)
अपि गोचर्ममात्रेण (०६०-००८)
भूमिदानेन शुध्यति (०६०-००८)
सुवर्णं रजतं ताम्रं (०६०-००९)
मणिमुक्तावसूनि च (०६०-००९)
सर्वान् एतान् महाप्राज्ञ (०६०-००९)
ददाति वसुधां ददन् (०६०-००९)
तपो यज्ञाः श्रुतं शीलम् (०६०-०१०)
अलोभः सत्यवादिता (०६०-०१०)
गुरुदैवतपूजा च (०६०-०१०)
नातिक्रमन्ति भूमिदम् (०६०-०१०)
भर्तुर् निःश्रेयसे युक्तास् (०६०-०११)
त्यक्तात्मानो रणे हताः (०६०-०११)
ब्रह्मलोकगताः सन्तो (०६०-०११)
नातिक्रामन्ति भूमिदम् (०६०-०११)
फलकृष्टां महीं दत्त्वा (०६०-०१२)
सोदकां सफलान्विताम् (०६०-०१२)
सोदकं वापि शरणं (०६०-०१२)
प्राप्नोति मम संपदम् (०६०-०१२)
रत्नोपकीऋणां वसुधां (०६०-०१३)
यो ददाति द्विजातये (०६०-०१३)
मुक्तः स कलुषैः सर्वैः (०६०-०१३)
स्वर्गलोके महीयते (०६०-०१३)
इक्षुभिः संततां भूमिं (०६०-०१४)
यवगोधूमशाड्बलाम् (०६०-०१४)
ये प्रयच्छन्ति विप्रेभ्यो (०६०-०१४)
नोपसर्पन्ति ते यमम् (०६०-०१४)
सर्वकामदुघां धेनुं (०६०-०१५)
सर्वसस्यसमुद्भवाम् (०६०-०१५)
यो ददाति द्विजेन्द्राय (०६०-०१५)
ब्रह्मलोकं स गच्छति (०६०-०१५)
भूमिदानं नरः कुर्वन् (०६०-०१६)
मुच्यते महतो भयात् (०६०-०१६)
न भूयो भूमिदानाद् धि (०६०-०१६)
दानम् अन्यद् विशिष्यते (०६०-०१६)
पुण्यां सर्वरसां भूमिं (०६०-०१७)
यो ददाति नरर्षभ (०६०-०१७)
न तस्य लोकाः क्षीयन्ते (०६०-०१७)
भूमिदस्य महात्मनः (०६०-०१७)
यथा जनित्री पुष्णाति (०६०-०१८)
क्षीरेण स्वसुतं नृप (०६०-०१८)
एवं सर्वगुणा भूमिर् (०६०-०१८)
दातारम् अनुपुष्यति (०६०-०१८)
अग्निष्टोमादिभिर् यज्ञैर् (०६०-०१९)
इष्ट्वा विपुलदक्षिणैः (०६०-०१९)
न तत् फलं अवाप्नोति (०६०-०१९)
यद् दत्त्वा वसुधां नृप (०६०-०१९)
मृत्योर् हि किंकरा दण्डा ह्य् (०६०-०२०)
अग्नितापाः सुदारुणाः (०६०-०२०)
घोराश् च वारुणाः पाशा (०६०-०२०)
नोपसर्पन्ति भूमिदम् (०६०-०२०)
पितरः पितृलोकस्था (०६०-०२१)
देवलोके दिवौकसः (०६०-०२१)
संतर्पयन्ति दातारं (०६०-०२१)
भूमेः प्रभवतां वर (०६०-०२१)
कृशाय कृशभृत्याय (०६०-०२२)
वृत्तिक्षीणाय सीदते (०६०-०२२)
भूमिं वृत्तिकारीं दत्त्वा (०६०-०२२)
सत्त्री भवति मानवः (०६०-०२२)
सिंहासनं तथा च्छत्त्रं (०६०-०२३)
वराश्वा वरवारणाः (०६०-०२३)
भूमिदानस्य पुष्पाणि (०६०-०२३)
फलं स्वर्गं तथैव च (०६०-०२३)
आदित्या इव दीप्यन्ते (०६०-०२४)
तेजसा दिवि मानवाः (०६०-०२४)
ये प्रयच्छन्ति वसुधां (०६०-०२४)
ब्राह्मणायाहिताग्नये (०६०-०२४)
यथा बीजानि रोहन्ति (०६०-०२५)
प्रकीर्णानि महीतले (०६०-०२५)
तथा कामाधिरोहन्ति (०६०-०२५)
भूमिदानगुणार्जिताः (०६०-०२५)
आस्फोटयन्ति पितरः (०६०-०२६)
प्रवल्गन्ति पितामहाः (०६०-०२६)
भूमिदो नः कुले जातः (०६०-०२६)
स नः संतारयिष्यति (०६०-०२६)
आदित्या वसवो रुद्रा ह्य् (०६०-०२७)
अश्विनौ वसुभिः सह (०६०-०२७)
शूलपाणिश् च भगवान् (०६०-०२७)
अभिनन्दन्ति भूमिदम् (०६०-०२७)
स नः कुलस्य पुरुषः (०६०-०२८)
स नो बन्धुः स नो गतिः (०६०-०२८)
स दाता स च विक्रान्तो (०६०-०२८)
यो ददाति वसुंधराम् (०६०-०२८)
दातारम् अनुगृह्णाति (०६०-०२९)
यथा दत्तेन रोचते (०६०-०२९)
पूर्वदत्तां हरन् भूमिं (०६०-०२९)
नरकायोपपद्यते (०६०-०२९)
विन्ध्याटवीष्व् अतोयासु (०६०-०३०)
शुष्ककोटरवासिनः (०६०-०३०)
कृष्णसर्पा हि जायन्ते (०६०-०३०)
ये हरन्ति वसुंधराम् (०६०-०३०)
पतन्त्य् अश्रूणि रुदतां (०६०-०३१)
दीनानाम् अवसीदताम् (०६०-०३१)
ब्राह्मणानां हृतं क्षेत्रं (०६०-०३१)
हन्यात् त्रिपुरुषं कुलम् (०६०-०३१)
साधुभ्यो भूमिम् आक्षिप्य (०६०-०३२)
न भूतिं विन्दते क्वचित् (०६०-०३२)
दत्त्वा हि भूमिं साधुभ्यो (०६०-०३२)
विन्दते भूतिम् उत्तमाम् (०६०-०३२)
पूर्वदत्तां द्विजातिभ्यो (०६०-०३३)
यत्नाद् रक्ष युधिष्ठिर (०६०-०३३)
महीं महीभृतां श्रेष्ठ (०६०-०३३)
दानाच् छ्रेयो ऽनुपालनम् (०६०-०३३)
यत्रैषः पठ्यते श्राद्धे (०६०-०३४)
भूमिदानस्य संस्तवः (०६०-०३४)
न तत्र रक्षसां भागो (०६०-०३४)
नासुराणां कथंचन (०६०-०३४)
अक्षयं तु भवेच् छ्राद्धं (०६०-०३५)
पितॄणां नात्र संशयः (०६०-०३५)
तस्माद् विश्रावयेद् एनं (०६०-०३५)
श्राद्धेषु ब्राह्मणान् सदा (०६०-०३५)
एवम् एतद् यथोद्दिष्टं (०६०-०३६)
पितॄणां दत्तम् अक्षयम् (०६०-०३६)
भूमिदानं महाराज (०६०-०३६)
सर्वपापापहं शुभम् (०६०-०३६)
अग्निष्टोमादिभिर् यज्ञैर् (०६१-००१)
इष्ट्वा विपुलदक्षिणैः (०६१-००१)
न तत् फलम् अवाप्नोति (०६१-००१)
संग्रामे यद् अवाप्नुयात् (०६१-००१)
इति यज्ञविदः प्राहुर् (०६१-००२)
यज्ञकर्मविशारदाः (०६१-००२)
तस्मात् तत् ते प्रवक्ष्यामि (०६१-००२)
यत् फलं शस्त्रजीविनाम् (०६१-००२)
धर्मलाभो ऽर्थलाभश् च (०६१-००३)
यशोलाभस् तथैव च (०६१-००३)
यः शूरो वध्यते युद्धे (०६१-००३)
विमृदन् परवाहिनीम् (०६१-००३)
तस्य धर्मार्थकामाश् च (०६१-००३)
यज्ञाश् चैवाप्तदक्षिणाः (०६१-००३)
परं ह्य् अभिमुखं हत्वा (०६१-००४)
तद्यानं यो ऽधिरोहति (०६१-००४)
विष्णुक्रान्तं स यजत (०६१-००४)
एवं युध्यन् रणाजिरे (०६१-००४)
अश्वमेधान् अवाप्नोति (०६१-००४)
चतुरस् तेन कर्मणा (०६१-००४)
यस् तु शस्त्रम् अनुत्सृज्य (०६१-००५)
वीर्यवान् वाहिनीमुखे (०६१-००५)
संमुखो वर्तते शूरः (०६१-००५)
स स्वर्गान् न विवर्तते (०६१-००५)
राजानं राजपुत्रं वा (०६१-००६)
सेनापतिम् अथापि वा (०६१-००६)
हन्यात् क्षत्रेण यः शूरस् (०६१-००६)
तस्य लोको ऽक्षयो ध्रुवः (०६१-००६)
यावन्ति तस्य शस्त्राणि (०६१-००७)
भिन्दन्ति त्वचम् आहवे (०६१-००७)
तावतो लभते लोकान् (०६१-००७)
सर्वकामदुघो ऽक्षयान् (०६१-००७)
वीरासनं वीरशय्या (०६१-००८)
वीरस्थानस्थितिः स्थिरा (०६१-००८)
गवार्थे ब्राह्मणार्थे वा (०६१-००८)
स्वाम्यर्थे तु कृतं च यैः (०६१-००८)
ते गच्छन्त्य् अमलं स्थानं (०६१-००८)
यथा सुकृतिनस् तथा (०६१-००८)
अभग्नं यः परं हन्याद् (०६१-००९)
भग्नं च परिरक्षति (०६१-००९)
यस्मिन् स्थिते पलायन्ति (०६१-००९)
सो ऽपि प्राप्नोति स्वर्गतिम् (०६१-००९)
ऊर्ध्वं तिर्यक् च यश् चार्वाक् (०६१-०१०)
प्राणान् संत्यजते युधि (०६१-०१०)
हताश्वश् च पतेद् युद्धे (०६१-०१०)
स स्वर्गान् न निवर्तते (०६१-०१०)
यस्य चिह्नीकृतं गात्रं (०६१-०११)
शरशक्त्यृष्टितोमरैः (०६१-०११)
देवकन्यास् तु तं वीरं (०६१-०११)
रमयन्ति रमन्ति च (०६१-०११)
वराप्सरःसहस्राणि (०६१-०१२)
शूरम् आयोधने हतम् (०६१-०१२)
त्वरितान्य् अभिधावन्ति (०६१-०१२)
मम भर्ता ममेति च (०६१-०१२)
हतस्याभिमुखस्याजौ (०६१-०१३)
पतितस्यानिवर्तिनः (०६१-०१३)
ह्रियते यत् परैर् द्रव्यं (०६१-०१३)
नरमेधफलं तु तत् (०६१-०१३)
भूयो गतिं प्रवक्ष्यामि (०६१-०१४)
रणे ये ऽभिमुखा हताः (०६१-०१४)
शक्यं त्व् इह समृद्धैस् तु (०६१-०१५)
यष्टुं क्रतुशतैर् नरैः (०६१-०१५)
आत्मदेहं तु विप्रार्थे (०६१-०१५)
त्यक्तुं युद्धे सुदुष्करम् (०६१-०१५)
यां यज्ञसंघैस् तपसा च विप्राः (०६१-०१६)
स्वर्गैषिणस् तत्र चयैः प्रयान्ति (०६१-०१६)
क्षणेन ताम् एव गतिं प्रयान्ति (०६१-०१६)
महाहवे स्वां तनुं संत्यजन्तः (०६१-०१६)
सर्वांश् च वेदान् सह षड्भिर् अङ्गैः (०६१-०१७)
सांख्यं च योगं च वने च वासम् (०६१-०१७)
एतान् गुणान् एक एवातिशेते (०६१-०१७)
संग्रामधाम्न्य् आत्मतनुं त्यजेद् यः (०६१-०१७)
इमां गिरं चित्रपदां शुभाक्षरां (०६१-०१८)
सुभाषितां वृतभिदां दिवौकसाम् (०६१-०१८)
चमूमुखे यः स्मरते दृढस्मृतिर् (०६१-०१८)
न हन्यते हन्ति च सो ऽरणे रिपून् (०६१-०१८)
एष पुण्यतमः स्वर्ग्यः (०६१-०१९)
सुयज्ञः सर्वतोमुखः (०६१-०१९)
सर्वेषाम् एव वर्णानां (०६१-०१९)
क्षत्रियस्य विशेषतः (०६१-०१९)
भूयश् चैव प्रवक्ष्यामि (०६१-०२०)
भीष्मवाक्यम् अनुत्तमम् (०६१-०२०)
यादृशाय प्रहर्तव्यं (०६१-०२०)
यादृशं परिवर्जयेत् (०६१-०२०)
आततायिनम् आयान्तम् (०६१-०२१)
अपि वेदान्तगं रणे (०६१-०२१)
जिघांसन्तं जिघांसीयान् (०६१-०२१)
न तेन ब्रह्महा भवेत् (०६१-०२१)
हताश्वश् च न हन्तव्यः (०६१-०२२)
पानीयं यश् च याचते (०६१-०२२)
व्याधितो दुर्बलश् चैव (०६१-०२२)
रथहीनस् तथैव च (०६१-०२२)
भग्नधन्वाच्छिनगुणः (०६१-०२३)
प्राणेप्सुः कृपणं ब्रुवन् (०६१-०२३)
विमुक्तकेशो धावेद् यो (०६१-०२३)
यश् चोन्मत्ताकृतिर् भवेत् (०६१-०२३)
पर्णशाखातृणग्राही (०६१-०२४)
तवास्मीति च यो वदेत् (०६१-०२४)
ब्राह्मणो ऽस्मीति यश् चाह (०६१-०२४)
बालो वृद्धो नपुंसकः (०६१-०२४)
तस्माद् एतान् परिहरेद् (०६१-०२५)
यथोद्दिष्टान् रणाजिरे (०६१-०२५)
हतो न हन्यते सद्भिर् (०६१-०२५)
हता एव हि भीरवः (०६१-०२५)
अमांसभक्षणे राजन् (०६२-००१)
यो धर्मः कुरुपुङ्गव (०६२-००१)
तन् मे शृणु यथातथ्यं (०६२-००१)
यश् चास्य विधिर् उत्तमः (०६२-००१)
मासि मास्य् अश्वमेधेन (०६२-००२)
यो यजेत शतं समाः (०६२-००२)
न च खादति यो मांसं (०६२-००२)
समम् एतद् युधिष्ठिर (०६२-००२)
सदा यजति सत्त्रेण (०६२-००३)
सदा दानं प्रयच्छति (०६२-००३)
सदा तपस्वी भवति (०६२-००३)
मधुमांसविवर्जनात् (०६२-००३)
सर्ववेदा न तत् कुर्युः (०६२-००४)
सर्वदानानि चैव हि (०६२-००४)
यो मांसरसम् आस्वाद्य (०६२-००४)
सर्वमांसानि वर्जयेत् (०६२-००४)
दुष्करं हि रसज्ञेन (०६२-००५)
मांसस्य परिवर्जनम् (०६२-००५)
चतुर्व्रतम् इदं श्रेष्ठं (०६२-००५)
प्राणिनां मृत्युभीरुणाम् (०६२-००५)
तदा भवति लोके ऽस्मिन् (०६२-००६)
प्राणिनां जीवितैषिणाम् (०६२-००६)
विश्वास्यश् चोपगम्यश् च (०६२-००६)
न हि हिंसारुदिर् यदा (०६२-००६)
दुष्टरांस् तरते म॥॥आं (०६२-*(७४))
मांसस्य परिवर्जनात् (०६२-*(७४))
प्राणा यथात्मनो ऽभीष्टा (०६२-००७)
भूतानाम् अपि ते तथा (०६२-००७)
आत्मौपम्येन गन्तव्यं (०६२-००७)
बुद्धिमद्भिर् महात्मभिः (०६२-००७)
अहिंसा परमो धर्मः (०६२-००८)
सत्यम् एव च पाण्डव (०६२-००८)
अहिंसा चैव सत्यं च (०६२-००८)
धर्मो हि परमः स्मृतः (०६२-००८)
न हि मांसं तृणात् काष्ठाद् (०६२-००९)
उपलाद् वापि जायते (०६२-००९)
जीवाद् उत्पद्यते मांसं (०६२-*(७५))
तस्माद् गर्हन्ति तद् बुधाः (०६२-*(७५))
यदि वै खादको न स्यान् (०६२-००९)
न तदा घातको भवेत् (०६२-००९)
लोभाद् वा बुद्धिमोहाद् वा (०६२-०१०)
यो मांसान्य् अत्ति मानवः (०६२-०१०)
निर्घृणः स हि मन्तव्यः (०६२-०१०)
सद्धर्मपरिवर्जितः (०६२-०१०)
स्वमांसं परमांसेन (०६२-०११)
यो वर्धयितुम् इच्छति (०६२-०११)
उद्विग्नवासे वसति (०६२-०११)
यत्रतत्राभिजायते (०६२-०११)
धनेन क्रायको हन्ति (०६२-०१२)
उपभोगेन खादकः (०६२-०१२)
घातको वधबन्धाभ्याम् (०६२-०१२)
इत्य् एष त्रिविधो वधः (०६२-०१२)
भक्षयित्वा तु यो मांसं (०६२-०१३)
पश्चाद् अपि निवर्तते (०६२-०१३)
तस्यापि सुमहान् धर्मो (०६२-०१३)
यः पापाद् विनिवर्तते (०६२-०१३)
वरम् एकस्य सत्त्वस्य (०६२-*(७६))
दद्याद् अक्षयदक्षिणाम् (०६२-*(७६))
न तु विप्रसहस्रस्य (०६२-*(७६))
गोसहस्रं सकाञ्चनम् (०६२-*(७६))
यो दद्यात् काञ्चनं मेरुं (०६२-*(७६))
कृत्स्नां वापि वसुंधराम् (०६२-*(७६))
अभक्षणं च मांसस्य (०६२-*(७६))
न तु तुल्यं युधिष्ठिर (०६२-*(७६))
इदम् अन्यत् प्रवक्ष्यामि (०६२-०१३)
पुराणम् ऋषिनिर्मितम् (०६२-०१३)
श्रूयते च पुराकल्पे ह्य् (०६२-०१४)
ऋषीणां व्रीहयः पशुः (०६२-०१४)
यजन्ते येन वै यज्ञान् (०६२-०१४)
ऋषयः पुण्यकर्मिणः (०६२-०१४)
ऋषिभिः संशयं पृष्टो (०६२-०१५)
वसू राजा ततः पुरा (०६२-०१५)
अभक्ष्यं भक्ष्यम् इति वै (०६२-०१५)
मांसम् आह नराधिप (०६२-०१५)
आकाशान् मेदिनीं प्राप्तस् (०६२-०१६)
ततः स पृथिवीपतिः (०६२-०१६)
एतद् एव पुनश् चोक्त्वा (०६२-०१६)
विवेश धरणीतलम् (०६२-०१६)
कौमुदं तु विशेषेण (०६२-०१७)
शुक्लपक्षे नराधिप (०६२-०१७)
वर्जयेत् सर्वमांसानि (०६२-०१७)
धर्मो ह्य् अत्र विधीयते (०६२-०१७)
चतुरो वार्षिकान् मासान् (०६२-०१८)
यो मांसं परिवर्जयेत् (०६२-०१८)
चत्वारि भद्राण्य् आप्नोति (०६२-०१८)
कीर्तिर् आयुर् यशो बलम् (०६२-०१८)
अप्य् एकम् इह यो मासं (०६२-०१९)
सर्वमांसानि वर्जयेत् (०६२-०१९)
अतीत्य सर्वदुःखानि (०६२-०१९)
सुखं जीवेन् निरामयः (०६२-०१९)
यो हि वर्षशतं पूर्णं (०६२-०२०)
तपस् तप्येत् सुदारुणम् (०६२-०२०)
अप्य् एकं वर्जयेन् मासं (०६२-०२०)
मांसम् एतत् समं मतम् (०६२-०२०)
यो वर्जयति मांसानि (०६२-०२१)
मासं पक्षम् अथापि वा (०६२-०२१)
स वै हिंसानिवृत्तस् तु (०६२-०२१)
ब्रह्मलोके महीयते (०६२-०२१)
सर्वकालं तु मांसानि (०६२-०२२)
वर्जितानि महर्षिभिः (०६२-०२२)
मन्वा क्षुपेण श्वेतेन (०६२-०२२)
तथैवेक्ष्वाकुनापि च (०६२-०२२)
भृगुणा नलरामाभ्यां (०६२-०२३)
दिलीपरघुपौरवैः (०६२-०२३)
आयुषा चैव गार्ग्येण (०६२-०२३)
जनकैश् चक्रवर्तिभिः (०६२-०२३)
धुन्धुमाराम्बरीषाभ्यां (०६२-०२४)
नहुषेण च धीमता (०६२-०२४)
गाधिना पुरुकुत्सेन (०६२-०२४)
कुरुणा पुरुणा तथा (०६२-०२४)
मुचुकुन्देन मान्धात्रा (०६२-०२५)
सगरेण महात्मना (०६२-०२५)
शिबिना चाश्वपतिना (०६२-०२५)
वीरसेनादिभिस् तथा (०६२-०२५)
संजयेनाथ भीष्मेण (०६२-०२६)
पुष्करेणाथ पाण्डुना (०६२-०२६)
सुवर्णष्ठीविना चैव (०६२-०२६)
दुष्वन्तनृगरोहितैः (०६२-०२६)
एतैश् चान्यैश् च बहुभिः (०६२-०२७)
सर्वैर् मांसं न भक्षितम् (०६२-०२७)
शरत्कौमुदिकं मासं (०६२-०२७)
ततः स्वर्गं गता नृपाः (०६२-०२७)
सर्वकामसमृद्धास् ते (०६२-०२७)
वसन्ति दिवि संस्थिताः (०६२-०२७)
ब्रह्मलोके च पूज्यन्ते (०६२-०२८)
ज्वलमानाः श्रियावृताः (०६२-०२८)
उपास्यमाना गान्धर्वैः (०६२-०२८)
स्त्रीसहस्रसमन्विताः (०६२-०२८)
तद् एवम् उत्तमं धर्मम् (०६२-०२९)
अहिंसालक्षणं शुभन् (०६२-०२९)
ये रक्षन्ति महात्मानो (०६२-०२९)
नाकपृष्ठे वसन्ति ते (०६२-०२९)
मधु मांसं च ये नित्यं (०६२-०३०)
वर्जयन्तीह मानवाः (०६२-०३०)
जन्मप्रभृति मद्यं च (०६२-०३०)
सर्वे ते मुनयः स्मृताः (०६२-०३०)
आपन्नश् चापदो मुच्येद् (०६२-०३१)
बद्धो मुच्येत बन्धनात् (०६२-०३१)
व्याधितो मुच्यते रोगाद् (०६२-०३१)
दुःखान् मुच्येत दुःखितः (०६२-०३१)
यश् चैनं पठते नित्यं (०६२-०३२)
प्रयत्नाद् भरतर्षभ (०६२-०३२)
घोरं संतरते दुर्गं (०६२-०३२)
स्वर्गवासं च विन्दति (०६२-०३२)
तिर्यग्योनिं न गच्छेच् च (०६२-०३२)
रूपवांश् चैव जायते (०६२-०३२)
एतत् ते कथितं राजन् (०६२-०३३)
मांसस्य परिवर्जनम् (०६२-०३३)
प्रवृत्तौ च निवृत्तौ च (०६२-०३३)
प्रमाणम् ऋषिसत्तमैः (०६२-०३३)
गोब्राह्मणहितार्थाय (०६३-००१)
चातुर्वर्ण्यहिताय च (०६३-००१)
अशिष्टनिग्रहार्थाय (०६३-००१)
शिष्टानां रक्षणाय च (०६३-००१)
युधिष्ठिरस्य राजर्षेर् (०६३-००१)
एवं नारायणो ऽब्रवीत् (०६३-००१)
पञ्च रूपाणि राजानो (०६३-००२)
धारयन्त्य् अमितौजसः (०६३-००२)
अग्नेर् इन्द्रस्य सोमस्य (०६३-००२)
यमस्य वरुणस्य च (०६३-००२)
तान् न हिंसेन् न चाक्रोशेन् (०६३-००३)
नाक्षिपेन् नाप्रियं वदेत् (०६३-००३)
देवा मानुषरूपेण (०६३-००३)
चरन्ति पृथिवीम् इमाम् (०६३-००३)
इन्द्रात् प्रभुत्वं ज्वलनात् प्रतापं (०६३-००४)
क्रौर्यं यमाद् वैश्रवणात् प्रभावम् (०६३-००४)
सत्त्वस्थितिं रामजनार्दनाभाम् (०६३-००४)
आदाय राज्ञः क्रियते शरीरम् (०६३-००४)
न चापि राजा मन्तव्यो (०६३-००५)
मनुष्यो ऽयम् इति प्रभो (०६३-००५)
महती देवता ह्य् एषा (०६३-००५)
नररूपेण तिष्ठति (०६३-००५)
स्वयम् इन्द्रो नरो भूत्वा (०६३-००६)
पृथिवीम् अनुशासति (०६३-००६)
न हि पालयितुं शक्तो (०६३-००६)
मनुष्यः पृथिवीम् इमाम् (०६३-००६)
यत् प्रजापालनैः पुण्यं (०६३-००७)
प्राप्नुवन्तीह पार्थिवाः (०६३-००७)
न तत् क्रतुसहस्रेण (०६३-००७)
प्राप्नुवन्ति द्विजोत्तमाः (०६३-००७)
अधीतहुततप्तस्य (०६३-००८)
कर्मणः सुकृतस्य च (०६३-००८)
षष्ठं लभति भागं तु (०६३-००८)
प्रजा धर्मेण पालयन् (०६३-००८)
ग्रामाधिपत्यं नगराधिपत्यं (०६३-००९)
देशाधिपत्यं पृथिवीपतित्वम् (०६३-००९)
न प्राप्नुवन्तीह मनुष्यमात्रा (०६३-००९)
ये देवतानां न भवन्ति भागाः (०६३-००९)
न तद् अस्ति व्रतं लोके (०६३-०१०)
यद् राज्ञश् चरितोपमम् (०६३-०१०)
न तद् वेदरहस्यं वा (०६३-०१०)
यद् राज्ञः फलतो ऽधिकम् (०६३-०१०)
एवंवृत्तास् तु राजानो (०६३-०१०)
देवभागा न मानुषाः (०६३-०१०)
चतुर्वेद्यं हुतच॥न (०६३-*(७७))
यो हिंसेत नराधिपः (०६३-*(७७))
दण्डस्यैते भयाद् भीता (०६३-*(७७))
न खादन्ति परस्परम् (०६३-*(७७))
ज॥दण्डभयात् के॥। (०६३-*(७७))
न दुर्वन्ति हि पातकम् (०६३-*(७७))
यमदण्डभयाद् अन्ये (०६३-*(७७))
न दुर्वन्ति परस्परम् (०६३-*(७७))
नाभीतो यजते कांश्चन् (?) (०६३-*(७७))
नाभीतो दण्डम् इच्छति (०६३-*(७७))
य एव देवा हन्तारस् (०६३-०११)
तांल् लोको ऽर्चयते भृशम् (०६३-०११)
हन्ता शक्रश् च रुद्रश् च (०६३-०११)
हन्ता वैश्रवणो यमः (०६३-०११)
वरुणो वायुर् आदित्यः (०६३-०११)
पर्जन्यो ऽग्निर् बृहस्पतिः (०६३-०११)
एतान् देवान् नमस्यन्ति (०६३-०१२)
प्रतापप्रणता जनाः (०६३-०१२)
न ब्रह्माणं न धातारं (०६३-०१२)
न पूषाणं कथंचन (०६३-०१२)
दण्डग्रस्तं जगत् सर्वं (०६३-०१३)
वश्यत्वम् अनुगच्छति (०६३-०१३)
नायं क्लीबस्य लोको ऽस्ति (०६३-०१३)
न परः पार्थिवोत्तम (०६३-०१३)
न हि पश्यामि जीवन्तं (०६३-०१४)
राजन् कंचिद् अहिंसया (०६३-०१४)
उदके जन्तवो नित्यं (०६३-०१४)
पृथिव्यां च फलेषु च (०६३-०१४)
न हत्वा लिप्यते राजा (०६३-०१४)
प्रजा धर्मेण पालयन् (०६३-०१४)
यदि दण्डो न विद्येत (०६३-०१५)
दुर्विनीतास् तथो नराः (०६३-०१५)
हन्युः पशून् मनुष्यांश् च (०६३-०१५)
याज्ञियानि हविंषि च (०६३-०१५)
वृकवत् क्षपयेयुश् च (०६३-*(७८))
यो यस्य बलवत्तरः (०६३-*(७८))
तस्मात् प्राणिहिते दण्डे (०६३-*(७९))
हिंसादोषो न बाधते (०६३-*(७९))
नैवोस्त्रा न बलीवर्दा (०६३-०१६)
नाश्वाश्वतरगर्दभाः (०६३-०१६)
युक्ता वहेयुर् यानानि (०६३-०१६)
दण्डश् चेन् नोद्यतो भवेत् (०६३-०१६)
सत्यं किलैतद् यद् उवाच शक्रो (०६३-०१७)
दण्डः प्रजा रक्षति साधुवृत्तः (०६३-०१७)
यस्याग्नयः प्रतिमासस्य भीताः (०६३-०१७)
संतर्जिता दण्डभयाज् ज्वलन्ति (०६३-०१७)
यत्र श्यामो लोहिताक्षो (०६३-०१८)
दण्डश् चरति पापहा (०६३-०१८)
प्रजास् तत्र न मुह्यन्ते (०६३-०१८)
नेता चेत् साधु पश्यति (०६३-०१८)
दण्डनीतौ सुनीतायां (०६३-०१९)
सर्वे सिध्यन्त्य् उपक्रमाः (०६३-०१९)
दण्डश् चेन् न प्रवर्तेत (०६३-०१९)
विनश्येयुर् इमाः प्रजाः (०६३-०१९)
वृकवद् भक्षयेयुश् च (०६३-०२०)
यो यस्य बलवत्तरः (०६३-०२०)
काकाद्याश् च पुरोदाशं (०६३-०२०)
श्वा चैवावलिहेद् धविः (०६३-०२०)
स्वाम्यं च न स्यात् कस्मिंश्चित् (०६३-०२१)
प्रवर्तेताधरोत्तरम् (०६३-०२१)
चातुर्वर्ण्यविमोक्षाय (०६३-०२१)
दुर्विनीतभयाय च (०६३-०२१)
दण्डेन नियतो लोको (०६३-०२२)
धर्मस्थानं च रक्षति (०६३-०२२)
सर्वो दण्डजितो लोको (०६३-०२२)
दुर्लभो हि शुचिर् जनः (०६३-०२२)
दण्डस्य हि भयाद् भीता (०६३-०२३)
नरास् तिष्ठन्ति शासने (०६३-०२३)
ति ऽपि भोगाय कल्पन्ते (०६३-०२३)
दण्डेनोपरिपीडिताः (०६३-०२३)
गुरुर् आत्मवतां शास्ता (०६३-०२४)
शास्ता राजा दुरात्मनां (०६३-०२४)
इहप्रच्छन्नपापानां (०६३-०२४)
शास्ता वैवस्वतो यमः (०६३-०२४)
पापानाम् अथ मूढानां (०६३-०२५)
परद्रव्यापहारिणाम् (०६३-०२५)
परदाररता ये च (०६३-०२५)
ये च पातकसंज्ञिताः (०६३-०२५)
तेषां तु शासनार्थाय (०६३-०२५)
मयैतत् समुदाहृतम् (०६३-०२५)
ब्राह्मण्यं दुष्करं ज्ञात्वा (०६३-०२६)
तस्य दण्डं निपातयेत् (०६३-०२६)
कर्मानुरूपो दण्डः स्याद् (०६३-०२६)
गोहिरण्यादिको भवेत् (०६३-०२६)
अवध्यो ब्राह्मणो राजन् (०६३-०२६)
स्त्री वृद्धो बाल एव च (०६३-०२६)
यश् चरेद् अशुभं कर्म (०६३-०२७)
पापं राजविगर्हितम् (०६३-०२७)
पातकेषु च वर्तेत (०६३-०२७)
निग्रहं तस्य कारयेत् (०६३-०२७)
शिरसो मुण्डनं कृत्वा (०६३-०२८)
गोमयेनानुलेपयेत् (०६३-०२८)
खरयानेन नगरं (०६३-०२८)
डिण्डिमेन तु भ्रामयेत् (०६३-०२८)
राजनिर्दिष्टदण्डस्य (०६३-०२८)
प्रायश्चित्तं न विद्यते (०६३-०२८)
एष ते कथितो दण्डो (०६३-०२९)
ब्राह्मणस्य युधिष्ठिर (०६३-०२९)
क्षत्रियस्य तु यो दण्डस् (०६३-०२९)
तं वक्ष्याम्य् अनुपूर्वशः (०६३-०२९)
परद्रव्यादिहरणे (०६३-०३०)
परदाराभिमर्दने (०६३-०३०)
पातकेषु च सर्वेषु (०६३-०३०)
यो हि वर्तेत क्षत्रियः (०६३-०३०)
तस्य दण्डं प्रवक्ष्यामि (०६३-०३०)
तन् मे निगदतः शृणु (०६३-०३०)
हस्तपादपरिच्छेदं (०६३-०३१)
कर्णनासावकर्तनम् (०६३-०३१)
सर्वस्वहरणं कृत्वा (०६३-०३१)
परराष्ट्राय प्रेशयेत् (०६३-०३१)
राज्यं काङ्क्षेत यो मूढो (०६३-०३२)
राजपत्नीम् अथापि वा (०६३-०३२)
शरैस् तु राजा विध्येत (०६३-०३२)
शक्तिचक्रगदादिभिः (०६३-०३२)
क्षत्रियस्य तु दुष्टस्य (०६३-०३३)
दण्ड एष विधीयते (०६३-०३३)
वैश्यस्यापि च यो दण्डस् (०६३-०३३)
तं प्रवक्ष्यामि भारत (०६३-०३३)
पातकेष्व् एव क्रूरेषु (०६३-०३४)
यस् तु वैश्यः प्रवर्तते (०६३-०३४)
परदारे परद्रव्ये (०६३-०३४)
तस्य निग्रहम् आदिशेत् (०६३-०३४)
शूलायां भेदनं तस्य (०६३-०३५)
वृक्षशाखावलम्बनम् (०६३-०३५)
एतद् वैश्यस्य निर्दिष्टं (०६३-०३५)
शूद्रस्याप्य् अनुपूर्वशः (०६३-०३५)
शूले शूद्रस्य यो दुष्टस् (०६३-०३६)
तस्यैकस्य वधः स्मृतः (०६३-०३६)
कुञ्जरेणाभिमर्देत (०६३-०३६)
मीनीयाम् अथ पाचयेत् (०६३-०३६)
एतच् छूद्रस्य निर्दिष्टं (०६३-०३६)
नान्यो दण्डो विधीयते (०६३-०३६)
नैकस्यार्थे कुलं हन्यान् (०६३-०३७)
न राष्ट्रं न च ग्रामकम् (०६३-०३७)
धनलोभान् न मोक्तव्यो (०६३-*(८०))
रागाद् वा शासनं विना (०६३-*(८०))
एकं सुशिष्टितं कृत्वा (०६३-०३७)
शेषं कोशं प्रवेशयेत् (०६३-०३७)
युधिष्ठिरस्य राजर्षेर् (०६३-०३८)
एवं नारायणो ऽब्रवीत् (०६३-०३८)
समासेन यथान्यायं (०६३-०३८)
दण्डनीतिम् अनुत्तमाम् (०६३-०३८)
उत्तमाधमकार्येषु (०६३-०३९)
समेषु विषमेषु च (०६३-०३९)
राजधर्मांस् तु पश्येत (०६३-०३९)
विष्णुना समुदाहृतान् (०६३-०३९)
एतान् धर्माञ् जगन्नाथः (०६४-००१)
पाण्डुपुत्राय पृच्छते (०६४-००१)
जगाद पुरुषव्याघ्र (०६४-००१)
किम् अन्यच् छ्रोतुम् इच्छसि (०६४-००१)
भगवन् वहतां भक्तिं (०६४-००२)
देवदेवे जनार्दने (०६४-००२)
यत् फलं कथितं तज्ज्ञैस् (०६४-००२)
तन् मे विस्तरतो वद (०६४-००२)
यत् फलं वहतां भक्तिम् (०६४-००३)
अच्युते भवति प्रभो (०६४-००३)
न तद् वर्णयितुं शक्यं (०६४-००३)
हरिः सर्वेप्सितप्रदः (०६४-००३)
यादृक् सत्त्वं मनुष्याणां (०६४-००४)
तादृग् आराध्य केशवम् (०६४-००४)
फलम् इच्छन्ति तादृच् च (०६४-००४)
लभ्यते तैर् नरेश्वर (०६४-००४)
मुक्तिकामा नरा मुक्तिं (०६४-००५)
स्वर्गं देवत्वम् ईप्सवः (०६४-००५)
गन्धर्वयक्षसिद्धानां (०६४-००५)
वृण्वन्त्य् अन्ये सलोकताम् (०६४-००५)
वर्षेष्व् अभीप्सवो विष्णुं (०६४-००६)
पातालेषु तथापरे (०६४-००६)
भोगान् अभीप्सवो विष्णुं (०६४-००६)
तोषयण्ति नराधिप (०६४-००६)
तथापरे नरैश्वर्यम् (०६४-००७)
आरोग्यं गुणवद् भुवि (०६४-००७)
प्रार्थयन्त्य् अच्युतं देवम् (०६४-००७)
आराध्य जगतो गतिम् (०६४-००७)
धर्मोपदेशाद् अचलां (०६४-००८)
वहन् भक्तिं जनार्दने (०६४-००८)
सशरीरो गतः स्वर्गं (०६४-००८)
धर्मपुत्रो युधिष्ठिरः (०६४-००८)
तथैव जनकः कृष्णे (०६४-००९)
विनिवेश्य स्वमानसम् (०६४-००९)
अवाप परमां सिद्धिं (०६४-००९)
वसुः प्रायात् त्रिपिष्टपम् (०६४-००९)
अन्ये च ये ये मुनयो (०६४-०१०)
ये ये च वसुधाधिपाः (०६४-०१०)
अवापुर् अतुलान् कामांस् (०६४-०१०)
ते ते संतोष्य केशवम् (०६४-०१०)
अनाराध्य जगन्नाथं (०६४-०११)
सर्वपापहरं हरिम् (०६४-०११)
सद्गतिः केन संप्राप्ता (०६४-०११)
भोगाश् चापि मनोरमाः (०६४-०११)
द्रौणिब्रह्मास्त्रनिर्दग्धस् (०६४-०१२)
तव राजन् पितामहः (०६४-०१२)
विष्णोः कार्यमनुष्यस्य (०६४-०१२)
दर्शनाद् उत्थितः पुनः (०६४-०१२)
नामसंकीर्तनाद् यस्य (०६४-०१३)
पापम् अन्यैर् उपद्रवैः (०६४-०१३)
समं विनाशम् आयाति (०६४-०१३)
देवः को ऽभ्यधिकस् ततः (०६४-०१३)
राष्ट्रस्य शरणं राजा (०६४-०१४)
पितरौ बालकस्य च (०६४-०१४)
धर्मः समस्तमर्त्यानां (०६४-०१४)
सर्वस्य शरणं हरिः (०६४-०१४)
मुक्तिहेतुम् अनाद्यन्तम् (०६४-०१५)
अजम् अक्षयम् अच्युतम् (०६४-०१५)
नमस्यन् सर्वलोकस्य (०६४-०१५)
नमस्यो जायते नरः (०६४-०१५)
न हि तस्य गुणाः सर्वे (०६४-०१६)
सर्वैर् मुनिगणैर् अपि (०६४-०१६)
वक्तुं शक्या वियुक्तस्य (०६४-०१६)
सत्त्वाद्यैर् अखिलैर् गुणैः (०६४-०१६)
श्रुतं मया यथा पूर्वम् (०६४-०१७)
आर्यको मे युधिष्ठिरः (०६४-०१७)
सशरीरो गतः स्वर्गं (०६४-०१७)
जितम् आत्मीयकर्मभिः (०६४-०१७)
यत् त्व् एतद् भगवान् आह (०६४-०१८)
स यथा पाण्दुपूर्वजः (०६४-०१८)
धर्मोपदेशाद् गोविन्दम् (०६४-०१८)
आराधयत तद् वद (०६४-०१८)
पुरा शासति धर्मज्ञे (०६४-०१९)
धर्मपुत्रे युधिष्ठिरे (०६४-०१९)
तस्यैव वैश्वदेवान्ते (०६४-०१९)
चण्डालो ऽभ्यागमत् किल (०६४-०१९)
समुपेत्य गृहं तस्य (०६४-०२०)
धर्मपुत्रस्य विस्मितः (०६४-०२०)
उवाच श्वपचो द्वाःस्थं (०६४-०२०)
प्रश्रयावनतस्थितः (०६४-०२०)
कस्यैतद् भवनं दिव्यं (०६४-०२१)
मणिरत्नविभूषितम् (०६४-०२१)
शुद्धस्फटिकसोपानं (०६४-०२१)
मणिकाञ्चनतोरणम् (०६४-०२१)
अष्टाशीतिसहस्राणि (०६४-०२२)
ब्राह्मणानां दिने दिने (०६४-०२२)
युधिष्ठिरम् ऋते भूपं (०६४-०२२)
भुञ्जते कस्य वेश्मनि (०६४-०२२)
कथम् एतन् न जानीषे (०६४-०२३)
चन्द्रबिम्बम् इवापरम् (०६४-०२३)
युधिष्ठिरस्य भवनं (०६४-०२३)
देवराजगृहोपमम् (०६४-०२३)
अबलस्य बलं राजा (०६४-०२४)
बालस्य रुदितं बलम् (०६४-०२४)
बलं मूर्खस्य वै मौनं (०६४-०२४)
तस्करस्यानृतं बलम् (०६४-०२४)
गच्छ जल्प स्वराजानं (०६४-०२५)
प्रतीहार वचो मम (०६४-०२५)
दुःखार्तः कार्यवान् राजंश् (०६४-०२५)
चण्डालो द्वारि तिष्ठति (०६४-०२५)
केनापि हेतुमात्रेण (०६४-*(८१))
भवन्तं दुष्टम् आगतः (०६४-*(८१))
इत्य् उक्तो धर्मराजस्य (०६४-०२६)
प्रतीहारो यथोदितम् (०६४-०२६)
निवेदयाम् आस तथा (०६४-०२६)
धर्मराजो ऽब्रवीद् इदम् (०६४-०२६)
किं रूपं कीदृशं शीलं (०६४-०२७)
को ऽस्यार्थः किं प्रयोजनम् (०६४-०२७)
ब्रूहि द्वाःस्थ यथावन् मे (०६४-०२७)
नरस् तिष्ठति कीदृशः (०६४-०२७)
काककोकिलकृष्णाङ्गो (०६४-०२८)
भग्ननासारुणेक्षणः (०६४-०२८)
यवमध्यः कृशग्रीवो (०६४-०२८)
वक्रपादो महाहनुः (०६४-०२८)
ब्रूहि गच्छ दुराचारं (०६४-०२९)
चण्डालं पापकर्मिणम् (०६४-०२९)
देवकार्यस्य वेलायां (०६४-०२९)
दुतस् त्वं प्रत्युपस्थितः (०६४-०२९)
चण्डालपतितौ दृष्ट्वा (०६४-०३०)
नरः पश्येत भास्करम् (०६४-०३०)
स्नातस् त्व् एताव् अथालोक्य (०६४-०३०)
सचैलस्नानम् अर्हति (०६४-०३०)
इत्य् आज्ञप्ते तथोक्तस् तु (०६४-०३१)
चण्डालस् तेन वै ततः (०६४-०३१)
प्रत्युवाच प्रतीहारम् (०६४-०३१)
ईषन् मन्युपरिप्लुतः (०६४-०३१)
किं देवकार्येण नराधिपस्य (०६४-०३२)
कृत्वा हि मन्युं विषयस्थितानाम् (०६४-०३२)
तद् देवकार्यं स च यज्ञहोमो (०६४-०३२)
यद् अश्रुपाता न पतन्ति राष्ट्रे (०६४-०३२)
इदं वचनम् अव्यग्रं (०६४-*(८२))
प्रतीहार त्वरा मम (०६४-*(८२))
निवेदय स्वराजेन्द्रं (०६४-*(८२))
यथेष्टं स करोतु वै (०६४-*(८२))
इत्य् उक्तः सत्वरं गत्वा (०६४-*(८२))
धर्मराजं तथा तथं (?) (०६४-*(८२))
कथयाम् आस तत् सर्वं (०६४-*(८२))
चाण्डालेन यद् ईरितम् (०६४-*(८२))
सुशोभनम् इदं वाक्यं (०६४-*(८२))
न भवेद् अन्त्यजातिषु (०६४-*(८२))
चिन्तयित्वा ततो राजा (०६४-*(८२))
निर्जगाम युधिष्ठिरः (०६४-*(८२))
इत्य् एतद् वचनं श्रुत्वा (०६४-०३३)
निर्जगाम युधिष्ठिरः (०६४-०३३)
प्रत्युवाच च चण्डालम् (०६४-०३३)
ईषन् कोपसमन्वितः (०६४-०३३)
कुतस् ते भयम् उत्पन्नं (०६४-०३४)
येन त्वं गृहम् आगतः (०६४-०३४)
आवाधाकारणं सर्वं (०६४-०३४)
यथावत् कथयस्व मे (०६४-०३४)
तद् अहं ते प्रतिज्ञाय (०६४-०३५)
चण्डकर्मकरक्षणम् (०६४-०३५)
अपास्य देवकार्यार्थं (०६४-०३५)
प्रविश्याम्य् अन्तरं पुनः (०६४-०३५)
न भुञ्जते ब्राह्मणा मे (०६४-०३६)
सर्वाश् चोद्विजते जनः (०६४-०३६)
प्राणिहिंसा च नो वृत्तिर् (०६४-०३६)
देव पुष्णाति मे ऽनृतम् (०६४-०३६)
अनेकजन्मसाहस्रीं (०६४-०३७)
प्राप्य संसारपद्धतिम् (०६४-०३७)
मानुष्ये कुत्सितां जातिम् (०६४-०३७)
आपन्नो मुषितो ऽस्मि भोः (०६४-०३७)
कर्मभूमिम् इमां राजन् (०६४-०३८)
प्रार्थयन्ति दिवौकसः (०६४-०३८)
तां संप्राप्य वृथाजन्मा (०६४-०३८)
मुष्टो ऽस्मि कुरुसत्तम (०६४-०३८)
दुःखे दुःखाधिकान् पश्येत् (०६४-०३९)
सुखे पश्येत् सुखाधिकान् (०६४-०३९)
आत्मानं शोकहर्षाभ्यां (०६४-०३९)
शत्रुभ्याम् इव नार्पयेत् (०६४-०३९)
सो ऽहम् इच्छामि विज्ञातुम् (०६४-०४०)
अतिदुष्कृतकर्मकृत् (०६४-०४०)
वक्तुम् अर्हसि धर्मज्ञ (०६४-०४०)
कः पापिष्ठतरो मया (०६४-०४०)
अध्वानम् उपरि श्रान्तं (०६४-०४१)
ब्राह्मणं गृहम् आगतम् (०६४-०४१)
अनर्चयित्वा यो भुङ्क्ते (०६४-०४१)
स पापिष्ठतरस् त्वया (०६४-०४१)
मातरं पितरं चैव (०६४-०४२)
विकलं नेत्रदुर्बलम् (०६४-०४२)
यो नाभ्युद्धरते पुत्रः (०६४-०४२)
स पापिष्ठतरस् त्वया (०६४-०४२)
गोधनस्य तृषार्तस्य (०६४-०४३)
जलार्थं परिधावतः (०६४-०४३)
विघ्नम् आचरते यस् तु (०६४-०४३)
स पापिष्ठतरस् त्वया (०६४-०४३)
विवाहयित्वा यः कन्यां (०६४-०४४)
कुलजां शीलमण्डनाम् (०६४-०४४)
विना त्यजति दोषेण (०६४-०४४)
स पापिष्ठतरस् त्वया (०६४-०४४)
आशाकारस् त्व् अदाता यो (०६४-०४५)
दातुश् च प्रतिषेधकः (०६४-०४५)
दत्तं च यः कीर्तयति (०६४-०४५)
स पापिष्ठतरस् त्वया (०६४-०४५)
बहुभृत्यैर् दरिद्रैश् च (०६४-०४६)
धनं सन्तं द्विजोत्तमैः (०६४-०४६)
याचितो न प्रयच्छेद् यः (०६४-०४६)
स पापिष्ठतरस् त्वया (०६४-०४६)
ब्राह्मणः क्षत्रियो वापि (०६४-०४७)
वैश्यः शूद्रो ऽपि वा नरः (०६४-०४७)
स्वधर्मं संत्यजेद् यस् तु (०६४-०४७)
स पापिष्ठतरस् त्वया (०६४-०४७)
कृतार्थो ऽहं गमिष्यामि (०६४-०४८)
यशोधर्मम् अवाप्नुहि (०६४-०४८)
तुष्टो ऽस्म्य् अहं स्वया योन्या (०६४-०४८)
मत्तः प्रोक्तास् त्वयाधमाः (०६४-०४८)
देवतानाम् ऋषीणां च (०६४-०४९)
पितॄणां च कृतं मया (०६४-०४९)
सांप्रतं देशकालो ऽयं (०६४-०४९)
त्वम् एवात्र भवातिथिः (०६४-०४९)
चण्डालो ऽहं महाराज (०६४-०५०)
पतितो लोकवर्जितः (०६४-०५०)
कथं निहीनो वर्णेभ्यो (०६४-०५०)
भोक्ष्यामि भवतो गृहे (०६४-०५०)
चण्डालो भव पापो वा (०६४-०५१)
शत्रुर् वा पितृघातकः (०६४-०५१)
देशकालाभ्युपेतं त्वां (०६४-०५१)
भरणीयं हि वेद्म्य् अहम् (०६४-०५१)
दशसूनासमं चक्रं (०६४-०५२)
दशचक्रसमो ध्वजः (०६४-०५२)
दशध्वजसमा वेश्या (०६४-०५२)
दशवेश्यासमो नृपः (०६४-०५२)
दश सूनासहस्राणि (०६४-०५३)
कुरुते यो हि सौनिकः (०६४-०५३)
तेन तुल्यः स्मृतो राजा (०६४-०५३)
घोरस् तस्य प्रतिग्रहः (०६४-०५३)
नानागोत्रादिचरणा (०६४-०५४)
भुञ्जते ब्राह्मणा मम (०६४-०५४)
न ते वदन्ति वाग्दुष्टं (०६४-०५४)
यथैतत् कीर्तितं त्वया (०६४-०५४)
लोभात्मानो न जानीयुर् (०६४-०५५)
ब्राह्मणा राजकिल्बिषम् (०६४-०५५)
वरं स्वमांसम् अत्तव्यं (०६४-०५५)
न तु राजप्रतिग्रहम् (०६४-०५५)
राजकिल्बिषदग्धानां (०६४-०५६)
ब्राह्मणानां युधिष्ठिर (०६४-०५६)
छिन्नानाम् इव बीजानां (०६४-०५६)
पुनर्जन्म न विद्यते (०६४-०५६)
राजप्रतिग्रहो घोरो (०६४-०५७)
मध्वास्वादो विषोपमः (०६४-०५७)
बुधेन प्रतिहर्तव्यः (०६४-०५७)
स्वमांसस्येव भक्षणम् (०६४-०५७)
अधीत्य चतुरो वेदान् (०६४-०५८)
सर्वशास्त्रार्थतत्त्ववित् (०६४-०५८)
नरेन्द्रभवने भुङ्क्त्वा (०६४-०५८)
विष्ठायां जायते कृमिः (०६४-०५८)
निन्दसे सर्वराजानो (०६४-०५९)
न चात्मानं प्रशंससि (०६४-०५९)
धैर्यवान् आत्मनो ऽनिन्द्यो (०६४-*(८४))
नाश्वासार्थं च पृच्छसि (०६४-*(८४))
विमुक्तक्रोधहर्शश् च (०६४-*(८४))
को ऽप्य् अत्र प्रतिभासि नः (०६४-*(८४))
अनिन्द्यो निन्द्यरूपेण (०६४-*(८४))
महात्मा त्वं हि मे मतः (०६४-*(८४))
को भवान् ब्रूहि सत्यं मे (०६४-*(८४))
किमर्थम् इह चागतः (०६४-*(८४))
भवान् उपेन्द्रः शक्रो वा (०६४-*(८४))
शर्वो वा त्वं पिनाकधृक् (०६४-*(८४))
अथवा निन्द्यरूपेण (०६४-०५९)
पिता नस् त्वम् इहागतः (०६४-०५९)
ज्ञातो ऽस्मि पृथिवीपाल (०६४-०६०)
तुष्टश् च तव दर्शनात् (०६४-०६०)
नन्दन्तु भूमिभागास् ते (०६४-०६०)
येषु त्वं पृथिवीपतिः (०६४-०६०)
निर्जित्य परसैन्यानि (०६४-०६१)
क्षितिं धर्मेण पालय (०६४-०६१)
स्वल्पम् अप्य् अस्तु ते वेलां (०६४-०६१)
मा गोविन्दोज्झितं मनः (०६४-०६१)
किं मे राज्येन भोस् तात (०६४-०६२)
विषयैर् जीवितेन वा (०६४-०६२)
यो ऽहं सूनासहस्रैस् तु (०६४-०६२)
दशभिः परिवेष्टितः (०६४-०६२)
मा विषादं नरश्रेष्ठ (०६४-०६३)
समुपैहि युधिष्ठिर (०६४-०६३)
यज्ञेश्वरं यज्ञमूर्तिं (०६४-०६३)
त्वं च विष्णुं समाश्रितः (०६४-०६३)
येषां न विषये विप्रा (०६४-०६४)
यज्ञैर् यज्ञपतिं हरिम् (०६४-०६४)
यजन्ति भूभुजस् तेषाम् (०६४-०६४)
एतत् सूनोदितं फलम् (०६४-०६४)
येषां पाषण्डसंकीर्णं (०६४-०६५)
न राष्ट्रं ब्राह्मणोत्कटम् (०६४-०६५)
ते तु सूनासहस्राणां (०६४-०६५)
दशानां भागिनो नृपाः (०६४-०६५)
येषां न यज्ञपुरुषः (०६४-०६६)
कारणं पुरुषोत्तमः (०६४-०६६)
ते तु पापसमाचाराः (०६४-०६६)
सूनापापौघभागिनः (०६४-०६६)
त्वं तु मत्प्रभवस् तात (०६४-०६७)
विष्णुभक्तस् तथैव च (०६४-०६७)
इष्टिर् वैश्वानरी पापम् (०६४-०६७)
उपहंस्यति ते ऽखिलम् (०६४-०६७)
अवश्यं विषये कश्चिद् (०६४-०६८)
ब्राह्मणः संश्रितव्रतः (०६४-०६८)
इष्टिं वैश्वानरीं कॢप्तां (०६४-०६८)
निर्वपेद् अब्दपर्यये (०६४-०६८)
तस्य षड्भागमात्रेण (०६४-०६८)
त्वं पापं निर्दहिष्यसि (०६४-०६८)
स त्वं वरय भद्रं ते (०६४-०६९)
वरं यन् मनसेच्छसि (०६४-०६९)
सम्यक् श्रद्धासमाचाराद् (०६४-०६९)
अहम् आराधितस् त्वया (०६४-०६९)
अथ पातकभीतस् त्वं (०६४-०७०)
सर्वभावेन भारत (०६४-०७०)
विमुक्तान्यसमारम्भो (०६४-०७०)
नारायणपरो भव (०६४-०७०)
परः पराणाम् आद्यो ऽसौ (०६४-०७१)
ज्ञेयो ध्येयो जनार्दनः (०६४-०७१)
तदर्थम् अपि कर्माणि (०६४-०७१)
कुर्वन् पापं व्यपोहति (०६४-०७१)
लोभादिव्याप्तहृदयो (०६४-०७२)
यत् पापं कुरुते नरः (०६४-०७२)
विलयं याति तत् सर्वम् (०६४-०७२)
अच्युते हृदये स्थिते (०६४-०७२)
शमायालं जलं वह्नेस् (०६४-०७३)
तमसो भास्करादयः (०६४-०७३)
क्षान्तिः कलेर् अघौघस्य (०६४-०७३)
नामसंकीर्तनं हरेः (०६४-०७३)
प्रसन्नो यदि मे तात (०६४-०७४)
वरार्हो यदि चाप्य् अहम् (०६४-०७४)
वरं तद् एकम् एवैतं (०६४-०७४)
प्राप्तुम् इच्छाम्य् अहं पितः (०६४-०७४)
जाग्रत्स्वप्नसुषुप्तेषु (०६४-०७५)
योगस्थस्य सदा मम (०६४-०७५)
या काचिन् मनसो वृत्तिः (०६४-०७५)
सा भवत्व् अच्युताश्रया (०६४-०७५)
या या जायेत मे बुद्धिर् (०६४-०७६)
यावज् जीवाम्य् अहं पितः (०६४-०७६)
सा सा छिनत्तु संदेहान् (०६४-०७६)
कृष्णाप्तौ परिपन्थिनः (०६४-०७६)
यथा गोविन्दम् आराध्य (०६४-०७७)
सशरीरः सुरालयम् (०६४-०७७)
प्राप्नुयाम् इति मे तात (०६४-०७७)
प्रयच्छ प्रवरं वरम् (०६४-०७७)
एवम् एतद् अशेषं ते (०६४-०७८)
मत्प्रसादाद् भविष्यति (०६४-०७८)
नास्ति गोविन्दभक्तानां (०६४-०७८)
वाञ्छितं भुवि दुर्लभम् (०६४-०७८)
इति धर्मोपदेशेन (०६४-०७९)
सर्वदेववरं हरिम् (०६४-०७९)
आराध्य पाण्डवो यातः (०६४-०७९)
सशरीरः सुरालयम् (०६४-०७९)
भूयश् च शृणु राजेन्द्र (०६५-००१)
जनकेन महात्मना (०६५-००१)
यद् गीतं वहता भक्तिं (०६५-००१)
ज्ञानम् आसाद्य केशवे (०६५-००१)
सर्वत्र समदृष्टिं तं (०६५-००२)
जनकं मिथिलेश्वरम् (०६५-००२)
पश्यन्तम् अच्युतमयं (०६५-००२)
सर्वं च सचराचरम् (०६५-००२)
द्विजरूपं समास्थाय (०६५-००३)
देवदेवो जनार्दनः (०६५-००३)
उपतस्थे महाभागं (०६५-००३)
प्रत्युवाच च पार्थिवम् (०६५-००३)
राजञ् जनक भद्रं ते (०६५-००४)
यद् ब्रवीमि निबोध तत् (०६५-००४)
कुरुष्व च महाबुद्धे (०६५-००४)
यदि साधु मतं तव (०६५-००४)
पृथिवीं पृथिवीपालः (०६५-००५)
पालयित्वा पिता तव (०६५-००५)
स्वर्गं गतस् तथा भ्राता (०६५-००५)
सम्यक् सत्यध्वजो नृपः (०६५-००५)
त्वं पुनर् निरभीमानः (०६५-००६)
सर्वत्र समदर्शनः (०६५-००६)
रिपुमित्रादिवर्गेषु (०६५-००६)
कथम् एतद् भविष्यति (०६५-००६)
मित्रेषु मित्रवन् न त्वं (०६५-००७)
नाहितेष्व् अरिवद् भवान् (०६५-००७)
मध्यस्थभाग् न चैव त्वं (०६५-००७)
तथोदासीनवृत्तिषु (०६५-००७)
शब्दादयो ये विशयास् (०६५-००८)
ते वैराग्यफला नृप (०६५-००८)
नीत्या विहीनस् तु भवान् (०६५-००८)
कथं राज्यं करिष्यति (०६५-००८)
सर्वैर् नीतिं समास्थाय (०६५-००९)
यथा ते प्रपितामहैः (०६५-००९)
कृतं राज्यं तथा भूप (०६५-००९)
कुरु मातिजडो भव (०६५-००९)
तव प्रज्ञा मता ह्य् एषा (०६५-०१०)
मम मोहो महीपते (०६५-०१०)
त्रिवर्गसाधनं प्रज्ञा (०६५-०१०)
न धर्मादिविरोधिनी (०६५-०१०)
सम्यग् आह भवान् विप्र (०६५-०११)
वाच्यम् एवं भवद्विधैः (०६५-०११)
ममापि श्रूयतां वाक्यं (०६५-०११)
भवतो यदि रोचते (०६५-०११)
यदा सर्वगतो विष्णुः (०६५-०१२)
परमात्मा प्रजापतिः (०६५-०१२)
तदा मित्रादिमध्यस्थ- (०६५-०१२)
संज्ञा केषु निपात्यताम् (०६५-०१२)
पिता माता तथा भ्राता (०६५-०१३)
यदा नान्यज् जनार्दनात् (०६५-०१३)
पितृमातृमयीं संज्ञां (०६५-०१३)
तदा कुत्र करोम्य् अहम् (०६५-०१३)
सो ऽहं ब्रवीमि यद् वाक्यं (०६५-०१४)
तन् निबोध द्विजोत्तम (०६५-०१४)
अनेकरूपरूपो ऽयं (०६५-०१४)
विष्णुर् एवाखिलं जगत् (०६५-०१४)
विष्णुः पिता मे जगतः प्रतिष्ठा (०६५-०१५)
विष्णुर् माता विष्णुर् एवाग्रजो मे (०६५-०१५)
विष्णुर् गतिर् विष्णुमयस् तथास्मि (०६५-०१५)
विष्णौ स्थितो ऽस्म्य् अक्षगतश् च विष्णुः (०६५-०१५)
यो मे ममत्वोपगतः स विष्णुर् (०६५-०१६)
यश् चारिभूतो मम सो ऽपि विष्णुः (०६५-०१६)
दिवं वियद् भूः ककुभश् च विष्णुर् (०६५-०१६)
भूतानि विष्णुर् भुवनानि विष्णुः (०६५-०१६)
पश्यामि विष्णुं न परं ततो ऽन्यच् (०६५-०१७)
शृणोमि विष्णुं न परं ततो ऽन्यत् (०६५-०१७)
स्पृशामि विष्णुं न परं ततो ऽन्यज् (०६५-०१७)
जिघ्रामि विष्णुं न परं ततो ऽन्यत् (०६५-०१७)
रसामि विष्णुं न परं ततो ऽन्यन् (०६५-०१८)
मन्ये च विष्णुं न परं ततो ऽन्यत् (०६५-०१८)
जिघ्रामि विष्णुं न परं ततो ऽन्यच् (०६५-*(८५))
नमामि विष्णुं न परं ततो ऽन्यत् (०६५-*(८५))
बुध्यामि विष्णुं न परं ततो ऽन्यत् (०६५-०१८)
सर्वं हि विष्णुर् न परं ततो ऽन्यत् (०६५-०१८)
विष्णुः समस्तं न परं ततो ऽस्ति (०६५-०१९)
विष्णुः समस्तं न परं च देवः (०६५-०१९)
विष्णुः स्थारीयान् न परं ततो ऽस्ति (०६५-*(८६))
विष्णुर् लघीयान् न परं ततो ऽस्ति (०६५-०१९)
विष्णुर् गरीयान् न परं ततो ऽन्यत् (०६५-०१९)
यथा न विष्णुव्यतिरिक्तम् अन्यच् (०६५-०२०)
शृणोमि पश्यामि तथा स्पृशामि (०६५-०२०)
सत्येन तेनोपशमं प्रयान्तु (०६५-०२०)
दोषा विमुक्तेः परिपन्थिनो ये (०६५-०२०)
न मे ऽस्ति बन्धुर् न च मे ऽस्ति शत्रुर् (०६५-०२१)
न भूतवर्गो न जनो मदन्यः (०६५-०२१)
त्वं चाहं अन्ये च शरीरभेदैर् (०६५-०२१)
विभिन्नम् ईशस्य हरेः स्वरूपम् (०६५-०२१)
मूर्तामूर्तिविशेषं तु (०६५-०२२)
पश्यतस् तन्मयं द्विज (०६५-०२२)
क्रोधहर्षादयो भावाः (०६५-०२२)
स्थास्यन्ति हृदये कथम् (०६५-०२२)
स त्वं प्रसीद मोहो ऽयम् (०६५-०२३)
अथ चेन् मम सुव्रत (०६५-०२३)
तथापि मा रुषं कार्षीर् (०६५-०२३)
अचिकित्स्या हि मोहिताः (०६५-०२३)
बहुरूपस् ततो रूपं (०६५-०२४)
शङ्खचक्रगदाधरम् (०६५-०२४)
दर्शयाम् आस सुप्रीतो (०६५-०२४)
जनकाय जनार्दनः (०६५-०२४)
ततस् तद्दर्शनाद् भूपं (०६५-०२५)
शिरसा प्रणतं प्रभुः (०६५-०२५)
आद्यः प्रजापतिपतिः (०६५-०२५)
प्रत्युवाचाच्युतो हरिः (०६५-०२५)
वरं वरय भूपाल (०६५-०२६)
परितुष्टो ऽस्मि ते ऽनघ (०६५-०२६)
मय्य् अर्पितमनोबुद्धेः (०६५-०२६)
सदैवाहं न दुर्लभः (०६५-०२६)
यदि देव प्रसन्नो ऽसि (०६५-०२७)
सम्यग् आराधितो मया (०६५-०२७)
तद् वृणोमि वरं भक्तिस् (०६५-०२७)
त्वय्य् एवास्तु सदा मम (०६५-०२७)
एवं भविष्यतीत्य् उक्त्वा (०६५-०२८)
गतो ऽन्तर्धानम् ईश्वरः (०६५-०२८)
सो ऽपि लेभे लयं विष्णौ (०६५-०२८)
भक्त्या योगिसुदुर्लभम् (०६५-०२८)
इति कृष्णे नरव्याघ्र (०६५-०२९)
कुर्वन् भक्तिं नरः सदा (०६५-०२९)
प्राप्नोति पुरुषव्याघ्र (०६५-०२९)
मुक्तिं चाप्य् अतिदुर्लभाम् (०६५-०२९)
जगद्धातुर् अनन्तस्य (०६६-००१)
वासुदेवस्य भार्गव (०६६-००१)
ममावतारान् अखिलाञ् (०६६-००१)
श्रोतुम् इच्छा प्रवर्तते (०६६-००१)
यथा यथा हि कृष्णस्य (०६६-००२)
कथेयं कथ्यते त्वया (०६६-००२)
जायते मनसः प्रीतिर् (०६६-००२)
उद्भूतपुलकस् तथा (०६६-००२)
मनःप्रीतिर् अनायासाद् (०६६-००३)
अपुण्यचयसंक्षयः (०६६-००३)
प्राप्यते पुरुषैर् ब्रह्मञ् (०६६-००३)
शृण्वद्भिर् भगवत्कथाम् (०६६-००३)
स कुरुष्वामलमते (०६६-००४)
प्रसादप्रवणं मनः (०६६-००४)
अवतारान् सुरेशस्य (०६६-००४)
विष्णोर् इच्छामि वेदितुम् (०६६-००४)
जगद्गुरुं जगद्योनिम् (०६६-००५)
अनन्तम् उदकेशयम् (०६६-००५)
नारायणं पुराकल्पे (०६६-००५)
पृष्टवान् कमलोद्भवः (०६६-००५)
विनिर्जग्मुर् मुखेभ्यस् तु (०६६-००६)
ब्रह्मणो व्यक्तजन्मनः (०६६-००६)
ओंकारप्रवणा वेदा (०६६-००६)
जग्मुस् ते च रसातलम् (०६६-००६)
एकार्णवे जगत्य् अस्मिन् (०६६-००७)
ब्रह्मण्य् अमिततेजसि (०६६-००७)
कृष्णनाभिह्रदोद्भूत- (०६६-००७)
कमलोदरशायिनि (०६६-००७)
भोगिशय्याशयः कृष्णो (०६६-००८)
द्वितीयां तनुम् आत्मनः (०६६-००८)
कृत्वा मीनमयीं सद्यः (०६६-००८)
प्रविवेश रसातलम् (०६६-००८)
वेदमूर्तिस् ततो वेदान् (०६६-००९)
आनिन्ये ब्रह्मणो ऽन्तिकम् (०६६-००९)
मधुकैटभाभ्यां च पुनर् (०६६-००९)
भोगिशय्यागतो हरिः (०६६-००९)
हृतान् हयशिरा भूत्वा (०६६-००९)
वेदान् आहृतवान् रसात् (०६६-००९)
आहृतेष्व् अथ वेदेषु (०६६-०१०)
देवदेवं पितामहः (०६६-०१०)
तुष्टाव प्रणतो भक्त्या (०६६-०१०)
तस्य चाविर् बभौ हरिः (०६६-०१०)
अथामरगुरुं विष्णुम् (०६६-०११)
अनन्तम् अजम् अव्ययम् (०६६-०११)
उवाच प्रकटीभूतं (०६६-०११)
प्रणिपत्याब्जसंभवः (०६६-०११)
नमः सूक्ष्मातिसूक्ष्माय (०६६-०१२)
नमस् तुभ्यं त्रिमूर्तये (०६६-०१२)
बहुरूपादिमध्यान्त (०६६-०१२)
परिणामविवर्जित (०६६-०१२)
जगदीशस्य सर्वस्य (०६६-०१३)
जगतः सर्वकामद (०६६-०१३)
अहम् आत्मभवो देव (०६६-०१३)
त्वयाध्यक्षो निरूपितः (०६६-०१३)
सो ऽहम् इच्छामि तं ज्ञातुम् (०६६-०१४)
आत्मानं प्रभवाव्ययम् (०६६-०१४)
विश्वस्य च विरूपस्य (०६६-०१४)
स्थावरस्य चरस्य च (०६६-०१४)
यदि ते ऽनुग्रहकृता (०६६-०१५)
मयि बुद्धिर् जनार्दन (०६६-०१५)
तन् मां भक्त इति ज्ञात्वा (०६६-०१५)
कथयात्मानम् अच्युत (०६६-०१५)
कथयामि तवात्मानम् (०६६-०१६)
अनाख्यागोदरं परम् (०६६-०१६)
न वाचां विषये यो ऽसाव् (०६६-०१६)
अविशेषणलक्षणः (०६६-०१६)
प्रसादसुमुखः सो ऽहम् (०६६-०१७)
इमं यच्छामि ते वरम् (०६६-०१७)
अनाख्यातस्वरूपं मां (०६६-०१७)
भवाञ् ज्ञास्यति योगतः (०६६-०१७)
भक्तो मां तत्त्वतो वेत्ति (०६६-०१८)
मयि भक्तिश् च ते परा (०६६-०१८)
मज्जिज्ञासा परा ब्रह्मंस् (०६६-०१८)
तेन जाता मतिस् तव (०६६-०१८)
एवम् उक्तस् ततो ब्रह्मा (०६६-०१९)
विष्णुना प्रभविष्णुना (०६६-०१९)
विष्णोः स्वरूपं जिज्ञासुर् (०६६-०१९)
युयोजात्मानम् आत्मना (०६६-०१९)
स ददर्शातिसूक्ष्मं च (०६६-०२०)
सूक्ष्मज्योतिष्य् अजं विभुम् (०६६-०२०)
नियुतार्धार्धमात्रेण (०६६-०२०)
व्याप्ताशेषचराचरम् (०६६-०२०)
आत्मानम् इन्द्ररुद्रार्क- (०६६-०२१)
चन्द्राश्विवसुमारुतान् (०६६-०२१)
खादीन्य् अथ च शब्दादीन् (०६६-०२१)
ददृशे च स तन्मयान् (०६६-०२१)
ये व्यक्ता ये तथाव्यक्ता (०६६-०२२)
भावा ये चापि पौरुषाः (०६६-०२२)
तांश् च तत्रातिसूक्ष्मो ऽपि (०६६-०२२)
दृष्टवान् अखिलान् विभुः (०६६-०२२)
ततः प्रणम्य देवेशम् (०६६-०२३)
अजम् आर्तिहरं हरिम् (०६६-०२३)
पितामहः प्रह्वतनुर् (०६६-०२३)
वाक्यम् एतद् उवाच ह (०६६-०२३)
ज्ञातं स्वरूपम् अज्ञात- (०६६-०२४)
स्वरूप भगवंस् तव (०६६-०२४)
मया न यद् वाग्विषये (०६६-०२४)
तत्रस्थं चाखिलं जगत् (०६६-०२४)
धन्यो ऽस्म्य् अनुगृहीतो ऽस्मि (०६६-०२५)
स्वरूपं यन् मया तव (०६६-०२५)
भगवञ् ज्ञातम् अज्ञातम् (०६६-०२५)
अनन्ताज नमो ऽस्तु ते (०६६-०२५)
यदि प्रसादं देव त्वं (०६६-०२६)
प्रकरोषि ममापरम् (०६६-०२६)
परमं चावतारेषु (०६६-०२६)
यद् रूपं तद् वदस्व मे (०६६-०२६)
केषु केषु मया ज्ञेयः (०६६-०२७)
स्थानेषु त्वम् अधोक्षज (०६६-०२७)
संभूतयो ममाचक्ष्व (०६६-०२७)
या भविष्यन्ति ते भुवि (०६६-०२७)
देवलोके नृलोके वा (०६६-०२८)
पाताले खे ऽन्यतो ऽपि वा (०६६-०२८)
संभूतयो यास् तु भवान् (०६६-०२८)
करिष्यति वदस्व ताः (०६६-०२८)
त्वं कर्ता सर्वभूतानां (०६६-०२९)
संहर्ता चेश्वरेश्वरः (०६६-०२९)
तवापि कर्ता नान्यो ऽस्ति (०६६-०२९)
स्वेच्छया क्रीडते भवान् (०६६-०२९)
अहं वेद्मि भवन्तं हि (०६६-०२९)
न तवान्यो ऽस्ति वेदिता (०६६-०२९)
यन् मां त्वं पृच्छसि ब्रह्मन् (०६६-०३०)
अवताराश्रितं परम् (०६६-०३०)
तत् ते सम्यक् प्रवक्ष्यामि (०६६-०३०)
निबोध मम सुव्रत (०६६-०३०)
मम प्रकृत्या संयोगः (०६६-०३१)
स्वेच्छया संप्रवर्तते (०६६-०३१)
देवेषु नॄषु तिर्यक्षु (०६६-०३१)
स्थावरेषु चरेषु च (०६६-०३१)
ममावताराः कार्यार्थं (०६६-०३१)
जगतश् चोपकारिणः (०६६-०३१)
यदा यदा हि धर्मस्य (०६६-०३२)
ग्लानिः समुपजायते (०६६-०३२)
अभ्युत्थानम् अधर्मस्य (०६६-०३२)
तदात्माङ्गं सृजाम्य् अहम् (०६६-०३२)
परित्राणाय साधूनां (०६६-०३३)
विनाशाय च दुष्कृतां (०६६-०३३)
धर्मसंस्थापनार्थाय (०६६-०३३)
संभवामि युगे युगे (०६६-०३३)
पूर्वोत्पन्नेषु भूतेषु (०६६-०३४)
नृदेवादिषु चाप्य् अहम् (०६६-०३४)
अनुप्रविश्य धर्मस्य (०६६-०३४)
करोमि परिपालनम् (०६६-०३४)
प्रविश्य च तथा पूर्वं (०६६-०३५)
तनुं धर्मभृतां वर (०६६-०३५)
जगतो ऽस्य जगत्सृष्टिं (०६६-०३५)
करोमि स्थितिपालनम् (०६६-०३५)
देवत्वे देविका चेष्टा (०६६-०३६)
तिर्यक्त्वे मम तामसी (०६६-०३६)
इच्छया मानुषत्वे च (०६६-०३६)
विचरामि नृचेष्टया (०६६-०३६)
प्रतिक्षणं च भूतेषु (०६६-०३७)
सृजामि जगतः स्थितिम् (०६६-०३७)
करोमि विद्यमानेषु (०६६-०३७)
धर्मसंस्थापनेषु च (०६६-०३७)
यद् वै धर्मोपकाराय (०६६-०३८)
यच् च दुष्टनिवर्हणम् (०६६-०३८)
चरितं मानुषादीनां (०६६-०३८)
तद् वै जानीहि मत्कृतम् (०६६-०३८)
यच् च पृच्छसि मां ब्रह्मन् (०६६-०३९)
काः काः संभूतयस् तव (०६६-०३९)
ताः शृणुष्व समासेन (०६६-०३९)
या भविष्यन्ति सांप्रतम् (०६६-०३९)
मत्स्येन भूत्वा पातालात् (०६६-०४०)
तव वेदाः समुद्धृताः (०६६-०४०)
मधुकैटभाभ्यां च हृता (०६६-०४०)
दत्ताश्वशिरसा मया (०६६-०४०)
त्वम् अप्य् अत्र महाभाग (०६६-०४१)
मदंशः कमलोदरात् (०६६-०४१)
मन्नाभिसंभवाज् जातः (०६६-०४१)
प्रजासृष्टिकरः परः (०६६-०४१)
एकार्णवं च यद् इदं (०६६-०४२)
ब्रह्मन् पश्यस्य् अशेषतः (०६६-०४२)
अस्मिन् वसुमतीं देवीं (०६६-०४२)
मग्नां पातालम् आगताम् (०६६-०४२)
वेदपादो यूपदंष्ट्रः (०६६-०४३)
क्रतुदन्तश् चितीमुखः (०६६-०४३)
अग्निजिह्वो दर्भरोमा (०६६-०४३)
ब्रह्मशीर्षो महातपाः (०६६-०४३)
अहोरात्रेक्षणधरो (०६६-०४४)
वेदाङ्गश्रुतिभूषणः (०६६-०४४)
आज्यनासः श्रुवस्तुण्डः (०६६-०४४)
सामघोषस्वरो महान् (०६६-०४४)
प्राग्वंशकायो द्युतिमान् (०६६-०४५)
नानादीक्षाभिर् आचितः (०६६-०४५)
दक्षिणाहृदयो योगी (०६६-०४५)
महासत्त्रमयो महान् (०६६-०४५)
उपकर्मेष्टिरुचिरः (०६६-०४६)
प्रवर्गावर्तभूषणः (०६६-०४६)
नानाच्छन्दोगतिपथो (०६६-०४६)
ब्रह्मोक्तिकर्मविक्रमः (०६६-०४६)
भूत्वा यज्ञवराहो ऽहम् (०६६-०४७)
इति ब्रह्मन् रसातलात् (०६६-०४७)
पृथिवीम् उद्धरिष्यामि (०६६-०४७)
स्थापयैष्यामि च स्थितौ (०६६-०४७)
पर्वतानां नदीनां च (०६६-०४८)
द्वीपादीनां च या स्थितिः (०६६-०४८)
तां च तद्वत् करिष्यामि (०६६-०४८)
शैलादीनाम् अनुक्रमात् (०६६-०४८)
हिरण्याक्षं च दुर्वृत्तं (०६६-०४९)
कश्यपस्यात्मसंभवम् (०६६-०४९)
तेनैव घातयिष्यामि (०६६-०४९)
रूपेणाहं प्रजापते (०६६-०४९)
उत्पाद्य पृथिवीं सम्यक् (०६६-०५०)
स्थापयित्वा यथा पुरा (०६६-०५०)
सृष्टिं ततः करिष्यामि (०६६-०५०)
त्वाम् आविश्य प्रजापतिम् (०६६-०५०)
जानासि कापिलं रूपं (०६६-*(८८))
प्रथमं पौरुषं मम (०६६-*(८८))
सर्वविद्याप्रणेतारं (०६६-*(८८))
त्वया वेदेषु दर्शितम् (०६६-*(८८))
रविमण्डलमध्यस्थम् (०६६-*(८८))
अग्नेर् यत् परमं पदम् (०६६-*(८८))
तत उत्सृज्य रूपाणि (०६६-०५१)
अमरादिविभेदतः (०६६-०५१)
व्यापयिष्यामि लोकांस् तु (०६६-०५१)
भूलोकादीम् अशेषतः (०६६-०५१)
सृष्टं जगद् इदं देव- (०६६-०५२)
मानुष्यादिविशेषणम् (०६६-०५२)
हिरण्यकशिपुर् दैत्यस् (०६६-०५२)
तापयिष्यति विक्रमात् (०६६-०५२)
व्यंसयित्वा वरांस् तस्य (०६६-०५३)
तैस् तैर् हेतुभिर् आत्मवान् (०६६-०५३)
नृसिंहरूपं कृत्वाहं (०६६-०५३)
घातयिष्यामि तं रिपुम् (०६६-०५३)
क्षीराब्दौ कूर्मरूपो ऽहं (०६६-०५४)
देवानां कमलोद्भव (०६६-०५४)
मन्दरं धारयिष्यामि (०६६-०५४)
पृष्ठेनामृतमन्थने (०६६-०५४)
हरिष्यति च देवानां (०६६-०५५)
यज्ञभागान् यदा बलिः (०६६-०५५)
तदाहं वामनो भूत्वा (०६६-०५५)
गत्वा तस्य महाध्वरम् (०६६-०५५)
वञ्चयित्वासुरपतिं (०६६-०५६)
करिष्यामि त्रिपिष्टपम् (०६६-०५६)
बलिं चापि करिष्यामि (०६६-०५६)
पातालतलवासिनम् (०६६-०५६)
अत्रेर् दत्त्वा वरं चैव (०६६-०५७)
तस्य पुत्रत्वम् आगतः (०६६-०५७)
दत्तात्रेयो भविष्यामि (०६६-०५७)
निहंस्यामि तथासुरान् (०६६-०५७)
सत्त्वानाम् उपकाराय (०६६-०५८)
प्रधानपुरुषान्तरम् (०६६-०५८)
दर्शयिष्यामि लोकेषु (०६६-०५८)
कापिलं रूपम् आस्थितः (०६६-०५८)
कार्तवीर्यादिभिश् चान्यैश् (०६६-०५९)
चतुर्दशभिर् अन्विताः (०६६-०५९)
भविष्यन्ति मदंशेन (०६६-०५९)
त्रेतायां चक्रवर्तिनः (०६६-०५९)
ततश् च भार्गवो रामो (०६६-०६०)
गृहीतपरशुर् द्विजः (०६६-०६०)
भूत्वा क्षत्रियहीनां च (०६६-०६०)
करिष्यामि वसुंधराम् (०६६-०६०)
पुनश् च राघवो रामो (०६६-०६१)
भूत्वा दशरथात्मजः (०६६-०६१)
बद्ध्वा महोदधिं कर्ता (०६६-०६१)
राक्षसानां कुलक्षयम् (०६६-०६१)
उत्तीर्य च परं पारं (०६६-*(८९))
लङ्काम् आसाद्य दुर्जयाम् (०६६-*(८९))
निहत्य रावणं वीरं (०६६-*(८९))
वरदानेन दर्पितम् (०६६-*(८९))
मायाविनां महावीर्यं (०६६-*(८९))
रक्षसां वनशायिनाम् (०६६-*(८९))
लक्ष्मणानुचरो रामः (०६६-*(८९))
करिष्यामि कुलक्षयम् (०६६-*(८९))
अष्टाविंशतिमे प्राप्ते (०६६-०६२)
द्वापरे कंसम् उच्छ्रितम् (०६६-०६२)
केशिनं धेनुकं चैव (०६६-०६२)
शकुनिं पूतनां तथा (०६६-०६२)
अरिष्टं च हनिष्यामि (०६६-०६२)
मुरुं नरकम् एव च (०६६-०६२)
निशुम्भं सहयग्रीवण् (०६६-०६३)
तथान्यांश् चासुरेश्वरान् (०६६-०६३)
हनिष्यामि सुदुर्वृत्तांल् (०६६-०६३)
लोकानां हितकाम्यया (०६६-०६३)
प्रवर्षति स देवेन्द्रे (०६६-०६४)
महोभङ्गविरोधिते (०६६-०६४)
गोवर्धनं गिरिवरं (०६६-०६४)
धारयिष्यामि बाहुना (०६६-०६४)
भाराक्रान्ताम् इमाम् उर्वीं (०६६-०६५)
धनंजयसहायवान् (०६६-०६५)
घातयित्वाखिलान् भूपांल् (०६६-०६५)
लघ्वीं कर्तास्मि सत्तम (०६६-०६५)
प्राप्ते कलियुगे कृत्स्नम् (०६६-०६६)
उपसंहृत्य वै कुलम् (०६६-०६६)
द्वारकां प्लावयिष्यामि (०६६-०६६)
उत्स्रक्ष्यामि मनुष्यताम् (०६६-०६६)
द्वितीयो यो ममांशस् तु (०६६-०६७)
रामो ऽनन्तः स लाङ्गली (०६६-०६७)
सो ऽपि संत्यज्य वसुधां (०६६-०६७)
रसातलम् उपेष्यति (०६६-०६७)
ततः कलियुगे घोरे (०६६-०६८)
संप्राप्ते ऽब्जसमुद्भव (०६६-०६८)
शुद्धोदनसुतो बुद्धो (०६६-०६८)
भविष्यामि विमत्सरः (०६६-०६८)
बौद्धं धर्मम् उपाश्रित्य (०६६-०६९)
करिष्ये धर्मदेशनाम् (०६६-०६९)
नराणाम् अथ नारीणां (०६६-०६९)
दयां भूतेषु दर्शयन् (०६६-०६९)
रक्ताम्बरा ह्य् आञ्जिताक्षाः (०६६-०७०)
प्रशान्तमनसस् ततः (०६६-०७०)
शूद्रा धर्मं प्रवक्ष्यन्ति (०६६-०७०)
मयि बुद्धत्वम् आगते (०६६-०७०)
एडूकचिह्ना पृथिवी (०६६-०७१)
न देवगृहभूषिता (०६६-०७१)
भवित्री प्रायशो ब्रह्मन् (०६६-०७१)
मयि बुद्धत्वम् आगते (०६६-०७१)
स्कन्धदर्शनमात्रं हि (०६६-०७२)
पश्यन्तः सकलं जगत् (०६६-०७२)
शूद्राः शूद्रेषु दास्यन्ति (०६६-०७२)
मयि बुद्धत्वम् आगते (०६६-०७२)
अल्पायुषस् ततो मर्त्या (०६६-०७३)
मोहोपहतचेतसः (०६६-०७३)
नरकार्हाणि कर्माणि (०६६-०७३)
करिष्यन्ति प्रजापते (०६६-०७३)
स्वाध्यायेष्व् अवसीदन्तो (०६६-०७४)
ब्राह्मणाः शौचवर्जिताः (०६६-०७४)
अन्त्यप्रतिग्रहादानं (०६६-०७४)
करिष्यन्त्य् अल्पमेधसः (०६६-०७४)
न श्रोष्यन्ति पितुः पुत्राः (०६६-०७५)
श्वश्रूश्वशुरयोः स्नुषाः (०६६-०७५)
न भार्या भर्तुर् ईशस्य (०६६-०७५)
न भृत्या विनयस्थिताः (०६६-०७५)
वर्णसंकरतां प्राप्ते (०६६-०७६)
लोके ऽस्मिन् दस्युतां गते (०६६-०७६)
ब्राह्मणादिषु वर्णेषु (०६६-०७६)
भविष्यत्य् अधरोत्तरम् (०६६-०७६)
धर्मकञ्चुकसंवीता (०६६-०७७)
विधर्मरुचयस् तथा (०६६-०७७)
मानुषान् भक्षयिष्यन्ति (०६६-०७७)
म्लेच्छाः पार्थिवरूपिणः (०६६-०७७)
ततः कलियुगस्यान्ते (०६६-०७८)
वेदो वाजसनेयकः (०६६-०७८)
दश पञ्च च वै शाखाः (०६६-०७८)
प्रमाणेन भविष्यति (०६६-०७८)
ततो ऽहं संभविष्यामि (०६६-०७९)
ब्राह्मणो हरिपिङ्गलः (०६६-०७९)
कल्की विष्णुयशःपुत्रो (०६६-०७९)
याज्ञवल्क्यपुरोहितः (०६६-०७९)
म्लेच्छान् उत्सादयिष्यामि (०६६-०८०)
गृहीतास्त्रः कुशायुधः (०६६-०८०)
स्थापयिष्यामि मर्यादाश् (०६६-०८०)
चातुर्वर्ण्ये यथोदिताः (०६६-०८०)
तथाश्रमेषु सर्वेषु (०६६-०८१)
ब्रह्मचारिव्रतादिकाः (०६६-०८१)
स्थापयित्वा ततः सर्वाः (०६६-०८१)
प्रजाः सद्धर्मवर्त्मनि (०६६-०८१)
कल्किरूपं परित्यज्य (०६६-०८१)
दिवम् एष्याम्य् अहं पुनः (०६६-०८१)
ततः कृतयुगं भूयः (०६६-०८२)
पूर्ववत् संप्रवर्त्स्यते (०६६-०८२)
वर्णाश्रमाश् च धर्मेषु (०६६-०८२)
द्वेषु स्थास्यन्ति सत्तम (०६६-०८२)
एवं सर्वेषु कल्पेषु (०६६-०८३)
सर्वमन्वन्तरेषु च (०६६-०८३)
ममावताराः शतशो (०६६-०८३)
ये भवन्ति जगद्धिताः (०६६-०८३)
संकर्षणात्मजश् चैव (०६६-०८४)
कल्पान्ते च रसातलात् (०६६-०८४)
समुत्पत्स्येत् तदा रुद्रः (०६६-०८४)
कालाग्निर् इति यः श्रुतः (०६६-०८४)
ततः क्षयं करिष्यामि (०६६-०८५)
जगत् स्थावरजङ्गमम् (०६६-०८५)
भूयश् चैव हि स्वप्स्यामि (०६६-०८५)
जगत्य् एकार्णवे स्थिते (०६६-०८५)
त्वद्रूपी च ततो भूत्वा (०६६-०८५)
जगत् स्रक्ष्याम्य् अहं पुनः (०६६-०८५)
एतत् संक्षेपतो ब्रह्मन् (०६६-०८६)
मयाख्यातं यथातथम् (०६६-०८६)
अंशावतरणं सर्वं (०६६-०८६)
मत्तः संक्षेपतः शृणु (०६६-०८६)
यद् दृश्यं यच् च वै स्पृश्यं (०६६-०८७)
यद् घ्रेयं रस्यते च यत् (०६६-०८७)
यच् छ्रव्यं यच् च मन्तव्यं (०६६-०८७)
बोधव्यं चाहम् अंशगः (०६६-०८७)
यत् तु बुद्धेः परतरम् (०६६-०८८)
अनाख्येयम् अनोपमम् (०६६-०८८)
तद् अहं ब्रह्म निर्द्वन्द्वं (०६६-०८८)
यद् वै पश्यन्ति सूरयः (०६६-०८८)
इदं जन्मरहस्यं मे (०६६-०८९)
यो नरः कीर्तयिष्यति (०६६-०८९)
सुलभो ऽहं भविष्यामि (०६६-०८९)
तस्य जन्मनि जन्मनि (०६६-०८९)
पठन्न् एतद् ब्रह्महा तु (०६६-०९०)
सुरापो गुरुतल्पगः (०६६-०९०)
स्तेयी कृतघ्नो गोघ्नश् च (०६६-०९०)
सर्वपापैः प्रमुच्यते (०६६-०९०)
गर्भिणी जनयेत् पुत्रं (०६६-०९१)
कन्या विन्दति सत्पतिम् (०६६-०९१)
लभन्ते ऽभिमतान् कामान् (०६६-०९१)
नरास् तांस् तान् यथेप्सितान् (०६६-०९१)
इति देवातिदेवेन (०६६-०९२)
ब्रह्मणो व्यक्तजन्मनः (०६६-०९२)
रहस्यम् इदम् आख्यातं (०६६-०९२)
तवापि कथितं मया (०६६-०९२)
विष्णुः सर्वगतो ऽनन्तः (०६६-०९३)
सर्वं तत्र प्रतिष्ठितम् (०६६-०९३)
स च सर्वम् इदं राजन् (०६६-०९३)
न ततो विद्यते परम् (०६६-०९३)
एतत् पवित्रं पठितं (०६६-०९४)
तथा दुःस्वप्ननाशनम् (०६६-०९४)
जातिस्मरत्वं प्रज्ञां च (०६६-०९४)
ददाति पठतां नृणाम् (०६६-०९४)
मया हि देवदेवस्य (०६७-००१)
विष्णोर् अमिततेजसः (०६७-००१)
श्रुताः संभूतयः सर्वा (०६७-००१)
गदतस् तव सुव्रत (०६७-००१)
यदि प्रसन्नो भगवान् (०६७-००२)
अनुग्राह्यो ऽस्मि वा यदि (०६७-००२)
तद् अहं श्रोतुम् इच्छामि (०६७-००२)
नॄणां दुःस्वप्ननाशनम् (०६७-००२)
स्वप्ना हि सुमहाभाग (०६७-००३)
दृश्यन्ते ये शुभाशुभाः (०६७-००३)
फलानि ते प्रयच्छन्ति (०६७-००३)
तद्गुणान्य् एव भार्गव (०६७-००३)
यद् यत् पुण्यं पवित्रं च (०६७-००४)
नॄणाम् अतिशुभप्रदम् (०६७-००४)
दुःस्वप्नोपशमायालं (०६७-००४)
तन् मे विस्तरतो वद (०६७-००४)
इदम् एव महाराज (०६७-००५)
पृष्टवांस् ते पितामहः (०६७-००५)
भीष्मं धर्मभृतां श्रेष्ठं (०६७-००५)
धर्मपुत्रो युधिष्ठिरः (०६७-००५)
देवव्रतं महाप्राज्ञं (०६७-००६)
सर्वशास्त्रविशारदम् (०६७-००६)
विनयेनोपसंगम्य (०६७-००६)
पर्यपृच्छद् युधिष्ठिरः (०६७-००६)
दुःस्वप्नदर्शनं घोरम् (०६७-००७)
अवेक्ष्य भरतर्षभ (०६७-००७)
प्रयतः किं जपेज् जप्यं (०६७-००७)
विबुद्धः किम् अनुस्मरेत् (०६७-००७)
पितामह महाबुद्धे (०६७-००८)
बुद्धेर् भेदो महान् अयम् (०६७-००८)
तद् अहं श्रोतुम् इच्छामि (०६७-००८)
ब्रूहि मे वदतां वर (०६७-००८)
शृणु राजन् महाबाहो (०६७-००९)
वर्तयिष्यामि ते ऽखिलम् (०६७-००९)
दुःस्वप्नदर्शने जप्यं (०६७-००९)
यद् वै नित्यं समाहितैः (०६७-००९)
अत्राप्य् उदाहरन्तीमम् (०६७-०१०)
इतिहासं पुरातनम् (०६७-०१०)
गजेन्द्रमोक्षणं पुण्यं (०६७-०१०)
कृष्णस्याक्लिष्टकर्मणः (०६७-०१०)
सर्वरत्नमयः श्रीमांस् (०६७-०११)
त्रिकूटो नाम पर्वतः (०६७-०११)
सुतः पर्वतराजस्य (०६७-०११)
सुमेरोर् भास्करद्युतेः (०६७-०११)
क्षीरोदजलवीच्यग्रैर् (०६७-०१२)
धौतामलशिलातलः (०६७-०१२)
उत्थितः सागरं भित्त्वा (०६७-०१२)
देवर्षिगणसेवितः (०६७-०१२)
अप्सरोभिः समाकीर्णः (०६७-०१३)
श्रीमान् प्रस्रवणाकुलः (०६७-०१३)
गन्धर्वैः किंनरैर् यक्षैः (०६७-०१३)
सिद्धचारणपन्नगैः (०६७-०१३)
विद्याधरैः सपत्निकैः (०६७-*(९२))
संयतैश् च तपस्विभिः (०६७-*(९२))
मृगैर् द्वीपैर् द्विजैश् चैव (०६७-०१४)
वृतः सौवर्णराजतैः (०६७-०१४)
पुंनागैः कर्णिकारैश् च (०६७-०१४)
पुष्पितैर् उपशोभितः (०६७-०१४)
चूतनीपकदम्बैश् च (०६७-०१५)
चन्दनागरुचम्पकैः (०६७-०१५)
शालैस् तालैस् तमालैश् च (०६७-०१५)
कुटजैश् चार्जुनैस् तथा (०६७-०१५)
एवं बहुविधैर् वृक्षैः (०६७-०१६)
सर्वतः समलंकृतः (०६७-०१६)
नानाधातूज्ज्वलैः शृङ्गैः (०६७-०१६)
प्रस्रवद्भिः समन्ततः (०६७-०१६)
मृगैः शाखामृगैः सिंहैर् (०६७-०१७)
मातंगैश् च सदामदैः (०६७-०१७)
जीवंजीवकसंघुष्टं (०६७-०१७)
चकोरशिखिनादितम् (०६७-०१७)
तस्यैकं काञ्चनं शृङ्गं (०६७-०१८)
सेवते यद् दिवादरः (०६७-०१८)
नानापुष्पसमाकीर्णं (०६७-०१८)
नानागन्धसमाकुलम् (०६७-०१८)
द्वितीयं राजतं शृङ्गं (०६७-०१९)
सेवते यन् निशाकरः (०६७-०१९)
पाण्डुराम्बुदसंकाशं (०६७-०१९)
तुषारचयसंनिभम् (०६७-०१९)
वज्रेन्द्रनीलवैडूर्य- (०६७-०२०)
तेजोभिर् भासयन् नभः (०६७-०२०)
तृतीयं ब्रह्मसदनं (०६७-०२०)
प्रकृष्टं शृङ्गम् उत्तमम् (०६७-०२०)
न तत् कृतघ्नाः पश्यन्ति (०६७-०२१)
न नृशंसा न नास्तिकाः (०६७-०२१)
नातप्ततपसः शैलं (०६७-०२१)
तं वै पश्यन्ति मानवाः (०६७-०२१)
तस्य सानुमतः पृष्ठे (०६७-०२२)
सरः काञ्चनपङ्कजम् (०६७-०२२)
कारण्डवसमाकीर्णं (०६७-०२२)
राजहंसोपशोभितम् (०६७-०२२)
मत्तभ्रमरसंघुष्टं (०६७-०२३)
फुल्लपङ्कजशोभितम् (०६७-०२३)
कुमुदोत्पलकल्हार- (०६७-०२३)
पुण्डरीकोपशोभितम् (०६७-०२३)
उत्पलैः शतपत्त्रैश् च (०६७-०२४)
काञ्चनैः समलंकृतम् (०६७-०२४)
पत्त्रैर् मणिदलप्रख्यैः (०६७-०२४)
पुष्पैः काञ्चनसंनिभैः (०६७-०२४)
गुल्मैः कीचकवेणूनां (०६७-०२४)
समन्तात् परिवारितम् (०६७-०२४)
तस्मिन् सरसि दुष्टात्मा (०६७-०२५)
विरूपो ऽन्तर्जलाशयः (०६७-०२५)
आसीद् ग्राहो गजेन्द्राणां (०६७-०२५)
दुराधर्षो महाबलः (०६७-०२५)
अथ दन्तोज्ज्वलमुखः (०६७-०२६)
कदाचिद् गजयूथपः (०६७-०२६)
आजगामासिताभ्राभः (०६७-०२६)
करेणुपरिवारितः (०६७-०२६)
मदस्रावी महारौद्रः (०६७-०२७)
पादचारीव पर्वतः (०६७-०२७)
वासयन् मदगन्धेन (०६७-०२७)
गिरिम् ऐरावतोपमः (०६७-०२७)
स गजो ऽञ्जनसंकाशो (०६७-०२८)
मदाच् चलितमानसः (०६७-०२८)
गन्धहस्तीति विख्यातः (०६७-*(९४))
सरः समभिगम्य तत् (०६७-*(९४))
तृषितः स जलं प्राप्य (०६७-*(९४))
कुसुमाकरशीतलम् (०६७-*(९४))
अपिबत् सहसा राजन् (०६७-*(९४))
करेणुपरिवारितः (०६७-*(९४))
सलीलं पङ्कजवने (०६७-०२८)
यूथमध्यगतो ऽव्रजत् (०६७-०२८)
गृहीतस् तेन रौद्रेण (०६७-०२९)
ग्राहेणाव्यक्तमूर्तिना (०६७-०२९)
पश्यन्तीनां करेणूनां (०६७-०२९)
क्रोशन्तीनां च दारुणम् (०६७-०२९)
क्रियते पङ्कजवने (०६७-*(९५))
ग्राहेणातिबलीयसा (०६७-*(९५))
गजश् चाकर्षते तीरं (०६७-*(९६))
ग्राहश् चाकर्षते जलम् (०६७-*(९६))
तयोर् द्वन्द्व महायुद्धं (०६७-*(९६))
दिव्यवर्षसहस्रिकम् (०६७-*(९६))
वारुणैः संयतः पाशैर् (०६७-०३०)
निःप्रयत्नगतिः कृतः (०६७-०३०)
वेष्ट्यमानः सुघोरैस् तु (०६७-०३०)
पाशैर् नागो दृढैस् तथा (०६७-०३०)
विस्फुर्ज्य च यथाशक्ति (०६७-०३१)
विक्रुश्य च महारवान् (०६७-०३१)
व्यथितः संनिरुत्साहो (०६७-०३१)
गृहीतो घोरकर्मणा (०६७-०३१)
परमापदम् आपन्नो (०६७-०३२)
मनसाचिन्तयद् धरिम् (०६७-०३२)
स तु नागवरः श्रीमान् (०६७-०३२)
नारायणपरायणः (०६७-०३२)
तम् एव परमं देवं (०६७-०३३)
गतः सर्वात्मना तदा (०६७-०३३)
एकाग्रं चिन्तयाम् आस (०६७-०३३)
विशुद्धेनान्तरात्मना (०६७-०३३)
जन्मजन्मान्तराभ्यासाद् (०६७-०३४)
भक्तिमान् गरुडध्वजे (०६७-०३४)
आद्यं देवं महात्मानं (०६७-०३४)
पूजयाम् आस केशवम् (०६७-०३४)
नवमेघप्रतीकाशं (०६७-०३५)
शङ्खचक्रगदाधरम् (०६७-०३५)
सहस्रशुभनामानम् (०६७-०३५)
आदिदेवम् अजं परम् (०६७-०३५)
दिग्बाहुं सर्वमूर्धानं (०६७-*(९८))
भूपादं गगनोदरम् (०६७-*(९८))
आदित्यचन्द्रनयनं (०६७-*(९८))
समग्रं लोकसाक्षिणम् (०६७-*(९८))
भगवन्तं प्रसन्नो ऽहं (०६७-*(९९))
विष्णुम् अप्रतिमौजसम् (०६७-*(९९))
प्रगृह्य पुष्कराग्रेण (०६७-०३६)
काञ्चनं कमलोत्तमम् (०६७-०३६)
आपद्विमोक्षम् अन्विच्छन् (०६७-०३६)
गजः स्तोत्रम् उदैरयत् (०६७-०३६)
ॐ नमो मूलप्रकृतये (०६७-*(१००),००१)
अजिताय महात्मने (०६७-*(१००),००१)
अनाश्रिताय देवाय (०६७-*(१००),००२)
निःस्पृहाय नमो नमः (०६७-*(१००),००२)
नम आद्याय बीजाय (०६७-*(१००),००३)
शिवाय च प्रशान्ताय (०६७-*(१००),००३)
आर्षेयाय प्रवर्तिने (०६७-*(१००),००४)
निश्चलाय यशस्विने (०६७-*(१००),००४)
अनन्तराय चैकाय (०६७-*(१००),००५)
सनातनाय पूर्वाय (०६७-*(१००),००५)
अव्यक्ताय नमो नमः (०६७-*(१००),००६)
पुराणाय नमो नमः (०६७-*(१००),००६)
नमो गुह्याय गूढाय (०६७-*(१००),००७)
गुणायागुणवर्तिने (०६७-*(१००),००८)
अतर्क्यायाप्रमेयाय (०६७-*(१००),००९)
अनन्ताय नमो नमः (०६७-*(१००),०१०)
नमो देवातिदेवाय (०६७-*(१००),०११)
अप्रभाय नमो नमः (०६७-*(१००),०१२)
नमो जगत्प्रस्थिताय (०६७-*(१००),०१३)
गोविन्दाय नमो नमः (०६७-*(१००),०१३)
नमो ऽस्तु पद्मनाभाय (०६७-*(१००),०१४)
सांख्ययोगोद्भवाय च (०६७-*(१००),०१४)
विश्वेश्वराय देवाय (०६७-*(१००),०१५)
शिवाय हरये नमः (०६७-*(१००),०१५)
नमो ऽस्तु तस्मै देवाय (०६७-*(१००),०१६)
निर्गुणाय गुणात्मने (०६७-*(१००),०१६)
नारायणाय विश्वाय (०६७-*(१००),०१७)
देवानां परमात्मने (०६७-*(१००),०१७)
नमो नमः कारणवामनाय (०६७-०३७)
नारायणायामितविक्रमाय (०६७-०३७)
श्रीशार्ङ्गचक्रासिगदाधराय (०६७-०३७)
नमो ऽस्तु तस्मै पुरुषोत्तमाय (०६७-०३७)
आद्याय वेदनिलयाय महोदराय (०६७-०३८)
सिंहाय दैत्यनिधनाय चतुर्भुजाय (०६७-०३८)
ब्रह्मेन्द्ररुद्रमुनिचारणसंस्तुताय (०६७-०३८)
देवोत्तमाय वरदाय नमो ऽच्युताय (०६७-०३८)
नागेन्द्रभोगशयनासनसुप्रियाय (०६७-०३९)
गोक्षीरहेमशुकनीलघनोपमाय (०६७-०३९)
पीताम्बराय मधुकैटभनाशनाय (०६७-०३९)
विश्वाय चारुमुकुटाय नमो ऽक्षराय (०६७-*(१०१))
भक्तिप्रियाय वरदीप्तसुदर्शनाय (०६७-०३९)
नाभिप्रजातकमलस्थचतुर्मुखाय (०६७-०४०)
क्षीरोदकार्णवनिकेतयशोधनाय (०६७-०४०)
नानाविचित्रमुकुटाङ्गदभूषणाय (०६७-०४०)
सर्वेश्वराय वरदाय नमो वराय (०६७-०४०)
विश्वात्मने परमकारणकारणाय (०६७-०४१)
फुल्लारविन्दविमलायतलोचनाय (०६७-०४१)
देवेन्द्रदानवपरीक्षितपौरुषाय (०६७-०४१)
योगेश्वराय विजयाय नमो वराय (०६७-०४१)
लोकायनाय त्रिदशायनाय (०६७-०४२)
ब्रह्मायनायात्मभवायनाय (०६७-०४२)
धर्मायनायैकजलायनाय (०६७-०४२)
महावराहाय सदा नतो ऽस्मि (०६७-०४२)
अचिन्त्यम् अव्यक्तम् अनन्तरूपं (०६७-०४३)
नारायणं कारणम् आदिदेवम् (०६७-०४३)
युगान्तशेषं पुरुषं पुराणं (०६७-०४३)
तं वासुदेवं शरणं प्रपद्ये (०६७-०४३)
योगेश्वरं चारुविचित्रमौलिम् (०६७-*(१०४))
आज्ञेयमौख्यं प्रकृतेः परस्थम् (०६७-*(१०४))
क्षेत्रज्ञम् आत्मप्रभवं वरेण्यं (०६७-*(१०४))
तं वासुदेवं शरणं प्रपद्ये (०६७-*(१०४))
अदृश्यम् अच्छेद्यम् अनादिमध्यं (०६७-०४४)
महर्षयो ब्रह्मविदः सुरेशम् (०६७-०४४)
वदन्ति यं वै पुरुषं सनातनं (०६७-०४४)
तं वासुदेवं शरणं प्रपद्ये (०६७-०४४)
यद् अक्षरं ब्रह्म वदन्ति सर्वगं (०६७-०४५)
निशाम्य यं मृत्युमुखात् प्रमुच्यते (०६७-०४५)
तम् ईश्वरं तृप्तम् अनोपमैर् गुणैः (०६७-०४५)
परायणं विष्णुम् उपैमि शाश्वतम् (०६७-०४५)
कार्यं क्रियाकारणम् अप्रमेयं (०६७-०४६)
हिरण्यनाभं वरपद्मनाभम् (०६७-०४६)
महाबलं वेदनिधिं सुरोत्तमं (०६७-०४६)
व्रजामि विष्णुं शरणं जनार्दनम् (०६७-०४६)
विचित्रकेयूरमहार्हनिष्कं (०६७-०४७)
रत्नोत्तमालंकृतसर्वगात्रम् (०६७-०४७)
पीताम्बरं काञ्चनभक्तिचित्रं (०६७-०४७)
मालाधरं केशवम् अभ्युपैमि (०६७-०४७)
भवोद्भवं वेदविदां वरिष्ठं (०६७-०४८)
योगात्मानं सांख्यविदां वरिष्ठम् (०६७-०४८)
आदित्यचन्द्राश्विवसुप्रभावं (०६७-०४८)
प्रभुं प्रपद्ये ऽच्युतम् आत्मभूतम् (०६७-०४८)
श्रीवत्साङ्कं महादेवं (०६७-०४९)
वेदगुह्यम् अनुत्तमम् (०६७-०४९)
प्रपद्ये सूक्ष्मम् अचलं (०६७-०४९)
भक्तानाम् अभयप्रदम् (०६७-०४९)
प्रभवं सर्वलोकानां (०६७-०५०)
निर्गुणं परमेश्वरम् (०६७-०५०)
प्रपद्ये मुक्तसंगानां (०६७-०५०)
यतीनां परमां गतिम् (०६७-०५०)
भगवन्तं सुराध्यक्षम् (०६७-०५१)
अक्षरं पुष्करेक्षणम् (०६७-०५१)
शरण्यं शरणं भक्त्या (०६७-०५१)
प्रपद्ये ब्राह्मणप्रियम् (०६७-०५१)
त्रिविक्रमं त्रिलोकेशम् (०६७-०५२)
आद्यम् एकम् अनामयम् (०६७-०५२)
भूतात्मानं महात्मानं (०६७-०५२)
प्रपद्ये मधुसूदनम् (०६७-०५२)
आदिदेवम् अजं शम्भुं (०६७-*(१०५))
व्यक्ताव्यक्तं जनार्दनम् (०६७-*(१०५))
क्षेत्रज्ञं पुरुषं यज्ञं (०६७-०५३)
त्रिगुणातीतम् अव्ययम् (०६७-०५३)
नारायणम् अणीयांसं (०६७-०५३)
प्रपद्ये परमेश्वरम् (०६७-०५३)
एकाय लोकत्रयाय (०६७-०५४)
परतः परमात्मने (०६७-०५४)
नमः सहस्रशिरसे (०६७-०५४)
अनन्ताय महात्मने (०६७-०५४)
वरेण्यम् अनघं देवम् (०६७-०५५)
ऋषयो वेदपारगाः (०६७-०५५)
कीर्तयन्ति च यं सर्वे (०६७-०५५)
तं प्रपद्ये सनातनम् (०६७-०५५)
नमस् ते पुण्डरीकाक्ष (०६७-०५६)
भक्तानाम् अभयप्रद (०६७-०५६)
सुब्रह्मण्य नमस् ते ऽस्तु (०६७-०५६)
त्राहि मां शरणागतम् (०६७-०५६)
भक्तिं तस्यानुसंचिन्त्य (०६७-०५७)
नागस्यामोघसंस्तवम् (०६७-०५७)
प्रीतिमान् अभवद् राजञ् (०६७-०५७)
शङ्खचक्रगदाधरः (०६७-०५७)
सांनिध्यं कल्पयाम् आस (०६७-०५७)
तस्मिन् सरसि माधवः (०६७-०५७)
ग्राहग्रस्तं गजं तं च (०६७-०५८)
संगृह्य सलिलाशयात् (०६७-०५८)
उज्जहाराप्रमेयात्मा (०६७-०५८)
तरसैवारिसूदनः (०६७-०५८)
स्थलस्थं दारयाम् आस (०६७-०५९)
ग्राहं चक्रेण माधवः (०६७-०५९)
मोक्षयाम् आस च गजं (०६७-०५९)
पाशेभ्यः शरणागतम् (०६७-०५९)
स हि देवलशापेन (०६७-०६०)
हूहू गन्धर्वसत्तमः (०६७-०६०)
गजत्वम् अगमत् कृष्णान् (०६७-०६०)
मोक्षं प्राप्य दिवं गतः (०६७-०६०)
शापाद् विमुक्तः सद्यश् च (०६७-०६०)
गजो गन्धर्वतां गतः (०६७-०६०)
ग्राहो ऽपि यक्षतां यातो (०६७-०६१)
यः कृष्णेन निपातितः (०६७-०६१)
तस्यापि शापमोक्षो ऽसौ (०६७-०६१)
जैगीषव्यकृतो ऽभवत् (०६७-०६१)
प्रीतिमांस् त्राति गोविन्दः (०६७-०६२)
सद्यः संसारसागरात् (०६७-०६२)
क्रुद्धो ऽपि निघ्नन् देवत्वम् (०६७-०६२)
अरातीनां प्रयच्छति (०६७-०६२)
तौ च स्वं स्वं वपुः प्राप्य (०६७-०६३)
प्रणिपत्य जनार्दनम् (०६७-०६३)
गन्धर्वराट् तथा यक्षः (०६७-०६३)
परां निर्वृतिम् आगतौ (०६७-०६३)
इदं चैव महाबाहो (०६७-०६४)
देवदेवो ऽभ्यभाषत (०६७-०६४)
दृष्ट्वा मुक्तौ गजग्रहौ (०६७-०६४)
भगवान् मधुसूदनः (०६७-०६४)
यो ग्राहं नागराजं च (०६७-०६५)
मां चैव प्रणिधानवान् (०६७-०६५)
स्मरिष्यति सरश् चेदं (०६७-०६५)
युवयोर् मोक्षणं तथा (०६७-०६५)
गुल्मं कीचकवेणूनां (०६७-०६६)
तं च शैलवरं तथा (०६७-०६६)
अश्वत्थं भास्करं गङ्गां (०६७-०६६)
नैमिषारण्यम् एव च (०६७-०६६)
संस्मरिष्यन्ति ये मर्त्याः (०६७-०६७)
सम्यक् श्रोष्यन्ति वापि ये (०६७-०६७)
न ते दुःस्वप्नपापस्य (०६७-०६७)
भोक्तारो मत्परिग्रहात् (०६७-०६७)
सर्वपापैः प्रमोक्ष्यन्ते (०६७-०६८)
कल्याणानां च भागिनः (०६७-०६८)
भविष्यन्ति तथा पुण्यां (०६७-०६८)
गतिं यास्यन्ति मानवाः (०६७-०६८)
दुःस्वप्नं च नृणां तेषां (०६७-०६८)
सुस्वप्नं च भविष्यति (०६७-०६८)
कौर्मं मात्स्यं च वाराहं (०६७-०६९)
वामनं तार्क्ष्यम् एव च (०६७-०६९)
नारसिंहं तथा रूपं (०६७-०६९)
सृष्टिसंहारकारकम् (०६७-०६९)
एतानि प्रातर् उत्थाय (०६७-०७०)
संस्मरिष्यन्ति ये नराः (०६७-०७०)
सर्वपापविनिर्मुक्तास् (०६७-०७०)
ते यान्ति परमां गतिम् (०६७-०७०)
एवम् उक्त्वा तु राजेन्द्र (०६७-०७१)
देवदेवो जनार्दनः (०६७-०७१)
अस्पृशद् गजगन्धर्वं (०६७-०७१)
ग्राहयक्षं च तं तदा (०६७-०७१)
तेन स्पृष्टाव् उभौ सद्यो (०६७-०७२)
दिव्यमाल्याम्बरान्वितौ (०६७-०७२)
विमाने ऽभिमते प्राप्य (०६७-०७२)
जग्मतुस् त्रिदशालयम् (०६७-०७२)
ततो देवपतिः कृष्णो (०६७-०७३)
मोक्षयित्वा गजोत्तमम् (०६७-०७३)
ऋषिभिः स्तूयमानो हि (०६७-०७३)
गुह्यैर् वेदपदाक्षरैः (०६७-०७३)
गतः स भगवान् विष्णुर् (०६७-०७३)
दुर्विज्ञेयगतिः प्रभुः (०६७-०७३)
गजेन्द्रमोक्षणं दृष्ट्वा (०६७-०७४)
सर्वे चेन्द्रपुरोगमाः (०६७-०७४)
ब्रह्माणम् अग्रतः कृत्वा (०६७-०७४)
सर्वे प्राञ्जलयो ऽभवन् (०६७-०७४)
ववन्दिरे महात्मानं (०६७-*(१०७))
प्रभुं नारायणं हरिम् (०६७-*(१०७))
विस्मयोत्फुल्लनयनाः (०६७-*(१०७))
प्रजापतिपुरःसराः (०६७-*(१०७))
य इदं शृणुयान् नित्यं (०६७-*(१०७))
प्रातर् उत्थाय मानवः (०६७-*(१०७))
प्राप्नुयात् परमां सिद्धिं (०६७-*(१०७))
दुःस्वप्नस् तस्य नश्यति (०६७-*(१०७))
गजेन्द्रमोक्षणं पुण्यं (०६७-०७५)
सर्वपापप्रमोचनम् (०६७-०७५)
श्रावयेत् प्रातर् उत्थाय (०६७-०७५)
सर्वपापैः प्रमुच्यते (०६७-०७५)
श्रद्धया हि कुरुश्रेष्ठ (०६७-०७६)
स्मृतेन कथितेन च (०६७-०७६)
गजेन्द्रमोक्षणेनेह (०६७-०७६)
दीर्घम् आयुर् अवाप्नुयात् (०६७-०७६)
मया ते कथितं दिव्यं (०६७-०७७)
पवित्रं पापनाशनम् (०६७-०७७)
कीर्तयस्व महाबाहो (०६७-०७७)
महादुःस्वप्ननाशनम् (०६७-०७७)
कीर्त्यमानं च विप्रेभ्यः (०६७-*(१०८))
शृणु भक्त्या यथोदितम् (०६७-*(१०८))
गजेन्द्रमोक्षणं श्रुत्वा (०६७-०७८)
कुन्तीपुत्रो युधिष्ठिरः (०६७-०७८)
भीष्माद् भगीरथीपुत्रात् (०६७-०७८)
पूजयाम् आस केशवम् (०६७-०७८)
ये चापि पाण्डुपुत्रस्य (०६७-०७९)
समीपस्था द्विजोत्तमाः (०६७-०७९)
ते ऽपि भीष्मस्य पार्श्वस्थं (०६७-०७९)
वासुदेवं प्रणेमिरे (०६७-०७९)
वरं वरेण्यं वरपद्मनाभं (०६७-०८०)
नारायणं ब्रह्मनिधिं सुरेशम् (०६७-०८०)
तं देवगुह्यं पुरुषं पुराणं (०६७-०८०)
ववन्दिरे ब्रह्मविदां वरिष्ठम् (०६७-०८०)
एतत् पुण्यं महाराज (०६७-०८१)
नराणां पापकर्मणाम् (०६७-०८१)
दुःस्वप्नदर्शने घोरे (०६७-०८१)
श्रुत्वा पापात् प्रमुच्यते (०६७-०८१)
भक्तिमान् पुण्डरीकाक्षे (०६७-०८१)
गजो दुःखाद् विमोचितः (०६७-०८१)
तथा त्वम् अपि राजेन्द्र (०६७-०८२)
प्रपद्य शरणं हरिम् (०६७-०८२)
विमुक्तः सर्वपापेभ्यः (०६७-०८२)
प्राप्स्यसे परमां गतिम् (०६७-०८२)
महामते महाप्राज्ञ (०६८-००१)
सर्वशास्त्रविशारद (०६८-००१)
अक्षीणकर्मबन्धस् तु (०६८-००१)
पुरुषो द्विजसत्तम (०६८-००१)
मरणे यज् जपञ् जप्यं (०६८-००२)
यच् च भावं अनुस्मरन् (०६८-००२)
परं पदम् अवाप्नोति (०६८-००२)
तन् मे वद महामुने (०६८-००२)
श्रीवत्साङ्कं जगद्बीजम् (०६८-००३)
अनन्तं लोकभावनम् (०६८-००३)
पुरा नारायणं देवं (०६८-००३)
नारदः पर्यपृच्छत (०६८-००३)
भगवन् भूतभव्येश (०६८-००४)
श्रद्दधानैर् जितेन्द्रियैः (०६८-००४)
कथं भक्तैर् विचिन्त्यो ऽसि (०६८-००४)
मरणे प्रत्युपस्थिते (०६८-००४)
किं वा जप्यं जपेन् नित्यं (०६८-००५)
कल्यम् उत्थाय मानवः (०६८-००५)
स्वपन् विबुध्यन् ध्यायंश् च (०६८-००५)
तन् मे ब्रूहि सनातन (०६८-००५)
श्रुत्वा तस्य तु देवर्षेर् (०६८-००६)
वाक्यं वाक्यविशारदः (०६८-००६)
प्रोवाच भगवान् विष्णुर् (०६८-००६)
नारदं जगतो गतिः (०६८-००६)
हन्त ते कथयिष्यामि (०६८-००७)
मुने दिव्याम् अनुस्मृतिम् (०६८-००७)
मरणे याम् अनुस्मृत्य (०६८-००७)
प्राप्नोति परमां गतिम् (०६८-००७)
ओंकारम् आदितः कृत्वा (०६८-००८)
माम् अनुस्मृत्य मन्मनाः (०६८-००८)
एकाग्रप्रयतो भूत्वा (०६८-००८)
इदं मन्त्रम् उदीरयेत् (०६८-००८)
अव्यक्तं शाश्वतं देवम् (०६८-००९)
अनन्तं पुरुषोत्तमम् (०६८-००९)
प्रपद्ये प्राञ्जलिर् विष्णुम् (०६८-००९)
अच्युतं परमेश्वरम् (०६८-००९)
पुराणं परमं विष्णुम् (०६८-०१०)
अद्भुतं लोकभावनम् (०६८-०१०)
प्रपद्ये पुण्डरीकाक्षम् (०६८-०१०)
ईशं भक्तानुकम्पिनम् (०६८-०१०)
लोकनाथं प्रपन्नो ऽस्मि (०६८-०११)
अक्षरं परमं पदम् (०६८-०११)
भगवन्तं प्रपन्नो ऽस्मि (०६८-०११)
भूतभव्यभवत्प्रभुम् (०६८-०११)
स्रष्टारं सर्वभूतानाम् (०६८-०१२)
अनन्तबलपौरुषम् (०६८-०१२)
पद्मनाभं हृषीकेशं (०६८-०१२)
पपद्ये सत्यम् अव्ययम् (०६८-०१२)
हिरण्यगर्भं भूगर्भम् (०६८-०१३)
अमृतं विश्वतोमुखम् (०६८-०१३)
आभास्वरम् अनाद्यन्तं (०६८-०१३)
प्रपद्ये भास्करद्युतिम् (०६८-०१३)
सहस्रशिरसं देवं (०६८-०१४)
वैकुण्ठं तार्क्ष्यवाहनम् (०६८-०१४)
प्रपद्ये सूक्ष्मम् अचलं (०६८-०१४)
वरेण्यम् अभयप्रदम् (०६८-०१४)
नारायणं नरं हंसं (०६८-०१५)
योगात्मानं सनातनम् (०६८-०१५)
शरण्यं सर्वलोकानां (०६८-०१५)
प्रपद्ये ध्रुवम् ईश्वरम् (०६८-०१५)
यः प्रभुः सर्वलोकानां (०६८-०१६)
येन सर्वम् इदं ततम् (०६८-०१६)
चराचरगुरुर् देवः (०६८-०१६,*(११०))
स नो विष्णुः प्रसीदतु (०६८-०१६,*(११०))
यस्माज् जातः पुरा ब्रह्मा (०६८-०१७)
पद्मयोनिः पितामहः (०६८-०१७)
प्रसीदतु स नो विष्णुः (०६८-०१७)
पिता माता पितामहः (०६८-०१७)
यः पुरा प्रलये प्राप्ते (०६८-०१८)
नष्टे लोके चराचरे (०६८-०१८)
एकस् तिष्ठति योगात्मा (०६८-०१८)
स नो विष्णुः प्रसीदतु (०६८-०१८)
चतुर्भिश् च चतुर्भिश् च (०६८-*(१०९))
द्वाभ्यां पञ्चभिर् एव च (०६८-*(१०९))
हूयते च पुनर् द्वाभ्यां (०६८-*(१०९))
स नो विष्णुः प्रसीदतु (०६८-*(१०९))
पर्जन्यः पृथिवी सस्यं (०६८-०१९)
कालो धर्मः क्रिया फलम् (०६८-०१९)
गुणाकरः स नो बभ्रुर् (०६८-०१९)
वासुदेवः प्रसीदतु (०६८-०१९)
योगावास नमस् तुभ्यं (०६८-०२०)
सर्वावास वरप्रद (०६८-०२०)
यज्ञगर्भ महाभाग (०६८-०२०)
पञ्चयज्ञ नमो ऽस्तु ते (०६८-०२०)
चतुर्मूर्ते जगद्धाम (०६८-०२१)
लक्ष्म्यावास वरप्रद (०६८-०२१)
सर्वावास नमस् ते ऽस्तु (०६८-०२१)
साक्षिभूत जगत्पते (०६८-०२१)
अजेय खण्डपरशो (०६८-०२२)
विश्वमूर्ते वृषाकपे (०६८-०२२)
त्रिगर्ते पञ्चकालज्ञ (०६८-०२२)
नमस् ते ज्ञानसागर (०६८-०२२)
अव्यक्ताद् अण्डम् उत्पन्नम् (०६८-०२३)
अव्यक्ताद्यः परः प्रभुः (०६८-०२३)
यस्मात् परतरं नास्ति (०६८-०२३)
तम् अस्मि शरणं गतः (०६८-०२३)
चिन्तयन्तो हि यं नित्यं (०६८-०२४)
ब्रह्मेशानादयः प्रभुम् (०६८-०२४)
निश्चयं नाधिगच्छन्ति (०६८-०२४)
तम् अस्मि शरणं गतः (०६८-०२४)
जितेन्द्रिया महात्मानो (०६८-०२५)
ज्ञानध्यानपरायणाः (०६८-०२५)
यं प्राप्य न निवर्तन्ते (०६८-०२५)
तम् अस्मि शरणं गतः (०६८-०२५)
एकांशेन जगत् सर्वं (०६८-०२६)
यो ऽवष्टभ्य विभुः स्थितः (०६८-०२६)
अग्राह्यो निर्गुणः शास्ता (०६८-०२६)
तम् अस्मि शरणं गतः (०६८-०२६)
दिवाकरस्य सौम्यं हि (०६८-०२७)
मध्ये ज्योतिर् अवस्थितम् (०६८-०२७)
क्षेत्रज्ञम् इति यं प्राहुः (०६८-०२७)
स महात्मा प्रसीदतु (०६८-०२७)
अव्यक्तम् अनवस्थानो (०६८-०२८)
दुर्विज्ञेयः सनातनः (०६८-०२८)
आस्थितः प्रकृतिं भुङ्क्ते (०६८-०२८)
स महात्मा प्रसीदतु (०६८-०२८)
क्षेत्रज्ञः पञ्चधा भुङ्क्ते (०६८-०२९)
प्रकृतिं बहुभिर् गुणैः (०६८-०२९)
मनोगुणांश् च यो भुङ्क्ते (०६८-०२९)
स महात्मा प्रसीदतु (०६८-०२९)
सांख्या योगाश् च ये चान्ये (०६८-०३०)
सिद्धाश् चैव महर्षयः (०६८-०३०)
यं विदित्वा विमुच्यन्ते (०६८-०३०)
स महात्मा प्रसीदतु (०६८-०३०)
नमस् ते सर्वतोभद्र (०६८-०३१)
सर्वतोऽक्षिशिरोमुख (०६८-०३१)
निर्विकार नमस् ते ऽस्तु (०६८-०३१)
साक्षिभूत हृदि स्थित (०६८-०३१)
अतीन्द्रिय नमस् तुभ्यं (०६८-०३१)
लिङ्गेभ्यस् त्वं प्रमीयसे (०६८-०३१)
ये तु त्वां नाभिजानन्ति (०६८-०३२)
संसारे संसरन्ति ते (०६८-०३२)
रागद्वेषविनिर्मुक्तं (०६८-०३२)
लोभमोहविवर्जितम् (०६८-०३२)
अशरीरं शरीरस्थं (०६८-०३२)
समं सर्वेषु देहिषु (०६८-०३२)
अव्यक्तं बुद्ध्यहंकारौ (०६८-०३३)
महाभूतेन्द्रियाणि च (०६८-०३३)
त्वयि तानि न तेषु त्वं (०६८-०३३)
तेषु त्वं तानि न त्वयि (०६८-०३३)
स्रष्टा भोक्तासि कूटस्थो (०६८-०३४)
गुणानां प्रभुर् ईश्वरः (०६८-०३४)
अकर्ता हेतुरहितः (०६८-०३४)
प्रभुः स्वात्मन्य् अवस्थितः (०६८-०३४)
नमस् ते पुण्डरीकाक्ष (०६८-०३५)
पुनर् एव नमो ऽस्तु ते (०६८-०३५)
ईश्वरो ऽसि जगन्नाथ (०६८-०३५)
किम् अतः परम् उच्यते (०६८-०३५)
भक्तानां यद् धितं देव (०६८-०३५)
तद् ध्याय त्रिदशेश्वर (०६८-०३५)
मा मे भूतेषु संयोगः (०६८-०३६)
पुनर् भवतु जन्मनि (०६८-०३६)
अहंकारेण बुद्ध्या वा (०६८-०३६)
तथा सत्त्वादिभिर् गुणैः (०६८-०३६)
मा मे धर्मो ह्य् अधर्मो वा (०६८-०३७)
पुनर् भवतु जन्मनि (०६८-०३७)
विषयैर् इन्द्रियैर् वापि (०६८-०३७)
मा मे भूयात् समागमः (०६८-०३७)
पृथिवीं यातु मे घ्राणं (०६८-०३८)
यातु मे रसना जलम् (०६८-०३८)
चक्षुर् हुताशनं यातु (०६८-०३८)
स्पर्शो मे यातु मारुतम् (०६८-०३८)
शब्दो ह्य् आकाशम् अभ्येतु (०६८-०३९)
मनो वैकारिकं तथा (०६८-०३९)
अहंकारश् च मे बुद्धिं (०६८-०३९)
त्वयि बुद्धिः समेतु च (०६८-०३९)
वियोगः सर्वकरणैर् (०६८-०४०)
गुणैर् भूतैश् च मे भवेत् (०६८-०४०)
सत्त्वं रजस् तमश् चैव (०६८-०४०)
प्रकृतिं प्रविशन्तु मे (०६८-०४०)
निष्केवलं पदं चैव (०६८-०४१)
प्रयामि परमं तव (०६८-०४१)
एकीभावस् त्वयैवास्तु (०६८-०४१)
मा मे जन्म भवेत् पुनः (०६८-०४१)
नमो भगवते तस्मै (०६८-०४२)
विष्णवे प्रभविष्णवे (०६८-०४२)
त्वन्मनस् त्वद्गतपृआणस् (०६८-०४२)
त्वद्भक्तस् त्वत्परायणः (०६८-०४२)
त्वाम् एवानुस्मरे देव (०६८-०४२)
मरणे प्रत्युपस्थिते (०६८-०४२)
पूर्वदेहकृता ये मे (०६८-०४३)
व्याधयस् ते विशन्तु माम् (०६८-०४३)
आर्दयन्तु च दुःखानि (०६८-०४३)
प्रविमुञ्चामि यद् ऋणम् (०६८-०४३)
उपतिष्ठन्तु मे रोगा (०६८-०४४)
ये मया पूर्वसंचिताः (०६८-०४४)
अनृणो गन्तुम् इच्छामि (०६८-०४४)
तद् विष्णोः परमं पदम् (०६८-०४४)
अहं भगवतस् तस्य (०६८-०४५)
मम चासौ सुरेश्वरः (०६८-०४५)
तस्याहं न प्रणश्यामि (०६८-०४५)
स च मे न प्रणश्यति (०६८-०४५)
नमो भगवते तस्मै (०६८-०४६)
येन सर्वम् इदं ततम् (०६८-०४६)
तम् एव च प्रपन्नो ऽस्मि (०६८-०४६)
मम यो यस्य चाप्य् अहम् (०६८-०४६)
इमाम् अनुस्मृतिं नित्यं (०६८-०४७)
वैष्णवीं पापनाशनीम् (०६८-०४७)
स्वपञ् जाग्रत् पठेद् यस् तु (०६८-०४७)
त्रिसंध्यं वापि यः स्मरेत् (०६८-०४७)
मरणे चाप्य् अनुप्राप्ते (०६८-०४८)
यस् त्व् इमां समनुस्मरेत् (०६८-०४८)
अपि पापसमाचारः (०६८-०४८)
सो ऽपि याति परां गतिम् (०६८-०४८)
अर्चयन्न् अपि यो देवं (०६८-०४९)
गृहे वापि बलिं ददेत् (०६८-०४९)
जुह्वद् अग्निं स्मरेद् वापि (०६८-०४९)
लभते स परां गतिम् (०६८-०४९)
पौर्णमास्याम् अमावास्यां (०६८-०५०)
द्वादश्यां च विशेषतः (०६८-०५०)
श्रावयेच् छ्रद्दधानंस् तु (०६८-०५०)
ये चान्ये माम् उपाश्रिताः (०६८-०५०)
नम इत्य् एव यो ब्रूयान् (०६८-०५१)
मद्भक्तः श्रद्धयान्वितः (०६८-०५१)
तस्य स्युर् अक्षया लोकाः (०६८-०५१)
श्वपाकस्यापि नारद (०६८-०५१)
किं पुनर् ये यजन्ते मां (०६८-०५२)
साधवो विधिपूर्वकम् (०६८-०५२)
ध्यायन्ति च यथान्यायं (०६८-०५२)
ते यान्ति परमां गतिम् (०६८-०५२)
अश्वमेधसहस्राणां (०६८-०५३)
यः सहस्रं समाचरेत् (०६८-०५३)
नासौ तत् पदम् आप्नोति (०६८-०५३)
मद्भक्तैर् यद् अवाप्यते (०६८-०५३)
इष्टं दत्तं तपो ऽधीतं (०६८-०५४)
व्रतानि नियमाश् च ये (०६८-०५४)
सर्वम् एतद् विनाशान्तं (०६८-०५४)
ज्ञानस्यान्तो न विद्यते (०६८-०५४)
तस्मात् प्रदेयं साधुभ्यो (०६८-०५५)
धर्म्यं सत्त्वाभयंकरम् (०६८-०५५)
दानादीन्य् अन्तवन्तीह (०६८-०५५)
मद्भक्तो नान्तम् अश्नुते (०६८-०५५)
यो दद्याद् भगवज्ज्ञानं (०६८-०५६)
कुर्याद् वा धर्मदेशनाम् (०६८-०५६)
कृत्स्नां वा पृथिवीं दद्यान् (०६८-०५६)
न तु तुल्यं कथंचन (०६८-०५६)
कान्तारवनदुर्गेषु (०६८-०५७)
कृच्छ्रेष्व् आपत्सु संभ्रमे (०६८-०५७)
दस्युभिः संनिरुद्धश् च (०६८-०५७)
नामभिर् मां प्रकीर्तयेत् (०६८-०५७)
वराहो रक्षतु जले (०६८-०५८)
विषमेषु च वामनः (०६८-०५८)
रामो रामश् च रामश् च (०६८-*(१११))
त्रायन्तां दस्युदोषतः (०६८-*(१११))
अटव्यां नारसिंहस् तु (०६८-०५८)
सर्वतः पातु केशवः (०६८-०५८)
बद्धः परिकरस् तेन (०६८-०५९)
मोक्षाय गमनं प्रति (०६८-०५९)
सकृद् उच्चारितं येन (०६८-०५९)
हरिर् इत्य् अक्षरद्वयम् (०६८-०५९)
जन्मान्तरसहस्राणि (०६८-*(११२))
तपोज्ञानसमाधिभिः (०६८-*(११२))
नराणां क्षीणपापानां (०६८-*(११२))
कृष्णे भक्तिः प्रजायते (०६८-*(११२))
गत्वा गत्वा निवर्तने (०६८-*(११२))
चन्द्रसूर्यादयो ग्रहाः (०६८-*(११२))
अद्यापि न निवर्तन्ते (०६८-*(११२))
द्वादशाक्षरचिन्तकाः (०६८-*(११२))
न वासुदेवात् परम् अस्ति मङ्गलं (०६८-*(११२))
न वासुदेवात् परमं पवित्रम् (०६८-*(११२))
न वासुदेवात् परम् अस्ति दैवतं (०६८-*(११२))
न वासुदेवं प्रणिपत्य सीदति (०६८-*(११२))
तस्मान् माम् एव देवर्षे (०६८-०६०)
ध्यायस्वातन्द्रितः सदा (०६८-०६०)
अवाप्स्यसि ततः सिद्धिं (०६८-०६०)
पदं द्रक्ष्यसि च ध्रुवम् (०६८-०६०)
एवं स देवदेवेन (०६८-०६१)
नारदः प्रतिबोधितः (०६८-०६१)
चकार केशवे भक्तिं (०६८-०६१)
तस्मात् त्वं कुरु भूपते (०६८-०६१)
यः पठेत् परया भक्त्या (०६८-*(११३))
स गच्छेद् विष्णुसाम्यताम् (०६८-*(११३))
एतत् पुण्यं पापहरं (०६८-*(११३))
धन्यं दुःस्वप्ननाशनम् (०६८-*(११३))
पापं प्रणश्यते येन (०६९-००१)
पुण्यं येन विवर्धते (०६९-००१)
यज् जपन् सुगतिं याति (०६९-००१)
शृण्वंश् च मम तद् वद (०६९-००१)
कश्चिद् आसीद् द्विजद्रोग्धा (०६९-००२)
पिशुनः क्षत्रियाधमः (०६९-००२)
परपीडारुचिर् दुष्टः (०६९-००२)
स्वभावाद् एव निर्घृणः (०६९-००२)
परिभूताः सदा तेन (०६९-००३)
पितृदेवद्विजातयः (०६९-००३)
परदारेषु चैवास्य (०६९-००३)
बभूवाभिरतं मनः (०६९-००३)
स त्व् आयुषि परिक्षीणे (०६९-००४)
जज्ञे घोरो निशाचरः (०६९-००४)
तेन वै कर्मदोषेण (०६९-००४)
स्वेन पापकृतां वरः (०६९-००४)
क्रूरैर् एव ततो वृत्तिं (०६९-००५)
राक्षसत्वे विशेषतः (०६९-००५)
चकार कर्मभिः पापः (०६९-००५)
सर्वप्राणिविहिंसकः (०६९-००५)
तस्य पापरतस्यैवं (०६९-००६)
जग्मुर् वर्षशतानि वै (०६९-००६)
तेन वै कर्मदोषेण (०६९-००६)
नान्या वृत्तिर् अरोचत (०६९-००६)
यद् यत् पश्यति सत्त्वं स (०६९-००७)
तत् तद् आदाय राक्षसः (०६९-००७)
चखाद पुरुषव्याघ्र (०६९-००७)
बाहुगोचरम् आगतम् (०६९-००७)
एवं तस्यातिदुष्टस्य (०६९-००८)
कुर्वतः प्राणिनां वधम् (०६९-००८)
जगाम सुमहान् कालः (०६९-००८)
परिणामं तथा वयः (०६९-००८)
स ददर्श तपस्यन्तं (०६९-००९)
तापसं संश्रितव्रतम् (०६९-००९)
ऊर्ध्वबाहुं महाभागं (०६९-००९)
कृतरक्षं समन्ततः (०६९-००९)
तं दृष्ट्वा स तु दुर्बुद्धिर् (०६९-०१०)
ब्राह्मणं राक्षसाधमः (०६९-०१०)
समभ्यधावद् वेगेन (०६९-०१०)
समादातुं चिखादिषुः (०६९-०१०)
तेन रक्षा च या दिक्षु (०६९-०११)
ब्राह्मणेनाभवत् कृता (०६९-०११)
तया निरस्तं तद् रक्षो (०६९-०११)
निपपाताविदूरतः (०६९-०११)
भगवन् कीदृशीं रक्षां (०६९-०१२)
स चकार द्विजोत्तमः (०६९-०१२)
यया निर्धूतवीर्यो ऽसौ (०६९-०१२)
निरस्तो रजनीचरः (०६९-०१२)
एकाग्रचित्तो गोविन्दे (०६९-०१३)
तज् जपंस् तत्परायणः (०६९-०१३)
तपश् चचार विप्रो ऽसौ (०६९-०१३)
प्रविष्टो विष्णुपञ्जरम् (०६९-०१३)
विष्णुपञ्जरम् इच्छामि (०६९-०१४)
श्रोतुं धर्मभृतां वर (०६९-०१४)
सदा सर्वभयेभ्यस् तु (०६९-०१४)
रक्षा या परमाभवत् (०६९-०१४)
त्रिपुरं जघ्नुषः पूर्वं (०६९-०१५)
ब्रह्मणा विष्णुपञ्जरः (०६९-०१५)
शंकरस्य कुरुश्रेष्ठ (०६९-०१५)
रक्षणाय निरूपितः (०६९-०१५)
वागीशेन तु शक्रस्य (०६९-०१६)
बलं हन्तुं प्रयास्यतः (०६९-०१६)
तस्य रूपं प्रवक्ष्यामि (०६९-०१६)
तन् निबोध महीपते (०६९-०१६)
विष्णुः प्राच्यां स्थितश् चक्री (०६९-०१७)
विष्णुर् दक्षिणतो गदी (०६९-०१७)
प्रतीच्यां शार्ङ्गधृग् विष्णुर् (०६९-०१७)
विष्णुः खड्गी ममोत्तरे (०६९-०१७)
हृषीकेशो विकोणेषु (०६९-०१८)
तच्छिद्रेषु जनार्दनः (०६९-०१८)
क्रोडरूपी हरिर् भूमौ (०६९-०१८)
नरसिंहो ऽम्बरे मम (०६९-०१८)
क्षुरान्तम् अमलं चक्रं (०६९-०१९)
भ्रमत्य् एतत् सुदर्शनम् (०६९-०१९)
अस्यांशुमाला दुःप्रेक्षा (०६९-०१९)
हन्तु प्रेतनिशाचरान् (०६९-०१९)
गदा चेयं सहस्रार्चिर् (०६९-०२०)
उद्वमत्पावकोल्वणा (०६९-०२०)
रक्षोभूतपिशाचानां (०६९-०२०)
डाकिणीनां च नाशनी (०६९-०२०)
शार्ङ्गविस्फूर्जितं चैव (०६९-०२१)
वासुदेवस्य मद्रिपून् (०६९-०२१)
तिर्यङ्मनुष्यकूष्माण्ड- (०६९-०२१)
प्रेतादीन् हन्त्व् अशेषतः (०६९-०२१)
खड्गधाराज्वलज्ज्योत्स्ना- (०६९-०२२)
निर्धूता ये समाहताः (०६९-०२२)
ते यान्तु सौम्यतं सद्यो (०६९-०२२)
गरुडेनेव पन्नगाः (०६९-०२२)
ये कूष्माण्डास् तथा यक्षा (०६९-०२३)
ये दैत्या ये निशाचराः (०६९-०२३)
प्रेता विनायकाः क्रूरा (०६९-०२३)
मनुष्या जम्भकाः खगाः (०६९-०२३)
सिंहादयो ये पशवो (०६९-०२४)
दन्दसूकाश् च पन्नगाः (०६९-०२४)
सर्वे भवन्तु ते सौम्याः (०६९-०२४)
कृष्णशङ्खरवाहताः (०६९-०२४)
चित्तवृत्तिहरा ये मे (०६९-०२५)
ये जनाः स्मृतिहारकाः (०६९-०२५)
बलौजसां च हर्तारश् (०६९-०२५)
छायाविभ्रंशकाश् च ये (०६९-०२५)
ये चोपभोगहर्तारो (०६९-०२६)
ये च लक्षणनाशकाः (०६९-०२६)
कूष्माण्डास् ते प्रणश्यन्तु (०६९-०२६)
विष्णुचक्ररयाहताः (०६९-०२६)
बुद्धिस्वास्थ्यं मनःस्वास्थ्यं (०६९-०२७)
स्वास्थ्यम् ऐन्द्रियकं तथा (०६९-०२७)
ममास्तु देवदेवस्य (०६९-०२७)
वासुदेवस्य कीर्तनात् (०६९-०२७)
पृष्ठे पुरस्तान् मम दक्षिणोत्तरे (०६९-०२८)
विकोणगश् चास्तु जनार्दनो हरिः (०६९-०२८)
तद् ईड्यम् ईशानम् अनन्तम् ईश्वरं (०६९-०२८)
जनार्दनं प्रणिपतितो न सीदति (०६९-०२८)
यथा परं ब्रह्म हरिस् तथा परं (०६९-०२९)
जगत्स्वरूपश् च स एव केशवः (०६९-०२९)
ऋतेन तेनाच्युतनामकीर्तनात् (०६९-०२९)
प्रणाशम् एतु त्रिविधं ममाशुभम् (०६९-०२९)
इत्य् असाव् आत्मरक्षार्थं (०७०-००१)
न्यस्तवान् विष्णुपञ्जरम् (०७०-००१)
तेनासाध्यः स दुष्टानां (०७०-००१)
बभूव नृप रक्षसाम् (०७०-००१)
एतयारक्षया रक्षो (०७०-००२)
निर्धूतं भुवि पातितम् (०७०-००२)
जप्यावसाने विप्रो ऽसौ (०७०-००२)
ददर्श विगतौजसम् (०७०-००२)
दृष्ट्वा च कृपयाविष्टः (०७०-००३)
समाश्वास्य निशाचरम् (०७०-००३)
पप्रच्छागमने हेतुं (०७०-००३)
तं चाचष्ट यथातथम् (०७०-००३)
कथयित्वा च तत् सर्वं (०७०-००३)
राक्षसः पुनर् अब्रवीत् (०७०-००३)
प्रसीद विप्रवर्य त्वं (०७०-००४)
निर्विण्णस्यातिपापिनः (०७०-००४)
पापप्रशमनायालम् (०७०-००४)
उपदेशं प्रयच्छ मे (०७०-००४)
बहूनि पापानि मया (०७०-००५)
कृतानि बहवो हताः (०७०-००५)
कृताः स्त्रियश् च मे बह्व्यो (०७०-००५)
विधवा हतपुत्रिकाः (०७०-००५)
अनागसां च सत्त्वानाम् (०७०-००५)
अनेकानां क्षयः कृतः (०७०-००५)
सो ऽहम् इच्छामि विप्रर्षे (०७०-००६)
प्रसादात् तव सुव्रत (०७०-००६)
पापस्यास्य क्षयं कर्तुं (०७०-००६)
कुरु मे धर्मदेशनाम् (०७०-००६)
कथं क्रूरस्वभावस्य (०७०-००७)
सतस् तव निशाचर (०७०-००७)
सहसैव समायाता (०७०-००७)
जिज्ञासा धर्मवर्त्मनि (०७०-००७)
त्वाम् अत्तुम् आगतः क्षिप्तो (०७०-००८)
रक्षया कृतया त्वया (०७०-००८)
तत्संस्पर्शाच् च मे ब्रह्मन् (०७०-००८)
साध्व् एतन् मनसि स्थितम् (०७०-००८)
का सा रक्षा न तां वेद्मि (०७०-००९)
वेद्मि नास्याः परायणम् (०७०-००९)
किंत्व् अस्याः संगम् आसाद्य (०७०-००९)
निर्वेदं प्रापितं परम् (०७०-००९)
स कृपां कुरु धर्मज्ञ (०७०-०१०)
मय्य् अनुक्रोशम् आवह (०७०-०१०)
यथा पापापनोदो मे (०७०-०१०)
भवत्य् आर्य तथा कुरु (०७०-०१०)
इत्य् एवम् उक्तः स मुनिः (०७०-०११)
सदयस् तेन रक्षसा (०७०-०११)
प्रत्युवाच महाभाग (०७०-०११)
विमृश्य सुचिरं तदा (०७०-०११)
यत् त्वम् आत्थोपदेशार्थं (०७०-०१२)
निर्विण्णः स्वेन कर्मणा (०७०-०१२)
युक्तम् एतन् न पापानां (०७०-०१२)
निवृत्तेर् उपकारकम् (०७०-०१२)
करिष्ये यातुधानानां (०७०-०१३)
न त्व् अहं धर्मदेशनाम् (०७०-०१३)
तांस् त्वं पृच्छ द्विजान् सौम्य (०७०-०१३)
ये वै प्रवचने रताः (०७०-०१३)
एवम् उक्त्वा ययौ विप्रश् (०७०-०१४)
चिन्ताम् आप च राक्षसः (०७०-०१४)
कथं पापापनोदः स्याद् (०७०-०१४)
इत्य् असौ व्याकुलेन्द्रियः (०७०-०१४)
न तदा खादते सत्त्वान् (०७०-०१५)
क्षुधा संपीडितो ऽपि सन् (०७०-०१५)
षष्ठे षष्ठे तदा काले (०७०-०१५)
जन्तुम् एकम् अभक्षयत् (०७०-०१५)
स कदाचित् क्षुधाविष्टः (०७०-०१६)
पर्यटन् विपिने वने (०७०-०१६)
ददर्शाथ फलाहारम् (०७०-०१६)
अग्रतः कौशिकं द्विजम् (०७०-०१६)
तं जग्राह च भक्षार्थं (०७०-०१७)
षष्ठे काले बुभुक्षितः (०७०-०१७)
गुरोर् अर्थे फलाहारम् (०७०-०१७)
आगतं ब्रह्मचारिणम् (०७०-०१७)
गृहीतो रक्षसा तेन (०७०-०१८)
स तदा मुनिदारकः (०७०-०१८)
निराशो जीविते प्राह (०७०-०१८)
सामपूर्वं निशाचरम् (०७०-०१८)
भो भद्रमुख यत्कार्यं (०७०-०१९)
गृहीतो ऽहम् इह त्वया (०७०-०१९)
तद् ब्रवीहि यथातत्त्वम् (०७०-०१९)
अयम् अस्म्य् अनुशाधि माम् (०७०-०१९)
षष्ठे काले ममाहारः (०७०-०२०)
क्षुधितस्य त्वम् आगतः (०७०-०२०)
निःशूकस्यातिपापस्य (०७०-०२०)
निर्घृणस्य द्विजद्रुहः (०७०-०२०)
यद्य् अवश्यं त्वयाध्याहं (०७०-०२१)
भक्षणीयो निशाचर (०७०-०२१)
आयास्यामि तद् अद्यैव (०७०-०२१)
निवेद्य गुरवे फलम् (०७०-०२१)
गुरुमूले तद् आगत्य (०७०-०२२)
यत् फलग्रहणं कृतम् (०७०-०२२)
ममात्र निष्ठां प्राप्तस्य (०७०-०२२)
तत् पापाय निवेदितम् (०७०-०२२)
स त्वं मुहूर्तमात्रं माम् (०७०-०२३)
अत्रैव प्रतिपालय (०७०-०२३)
निवेद्य गुरवे यावद् (०७०-०२३)
इहागच्छाम्य् अहं फलम् (०७०-०२३)
षष्ठे काले न मे ब्रह्मन् (०७०-०२४)
कश्चिद् ग्रहणम् आगतः (०७०-०२४)
प्रमुच्यते निबोधैतद् (०७०-०२४)
इति मे पापजीविकाम् (०७०-०२४)
एक एवात्र मोक्षस्य (०७०-०२५)
तव हेतुः शृणुष्व तम् (०७०-०२५)
मुञ्चाम्य् अहम् असंदिग्धं (०७०-०२५)
यदि तत् कुरुते भवान् (०७०-०२५)
गुरोर् यन् न विरोधाय (०७०-०२६)
यन् न धर्मोपरोधकम् (०७०-०२६)
तत् करिष्याम्य् अहं रक्षो (०७०-०२६)
यन् न व्रतहरं मम (०७०-०२६)
मया निसर्गतो ब्रह्मञ् (०७०-०२७)
जातिदोषाद् विशेषतः (०७०-०२७)
निर्विवेकेन पापेन (०७०-०२७)
पापं कर्म सदा कृतम् (०७०-०२७)
आ बाल्यान् मम पापेषु (०७०-०२८)
न पुण्येषु रतं मनः (०७०-०२८)
तत्पापसंचयान् मोक्षं (०७०-०२८)
प्राप्नुयां येन तद् वद (०७०-०२८)
यानि पापानि कर्माणि (०७०-०२९)
बालत्वाच् चरितानि मे (०७०-०२९)
दुष्टां योनिम् इमां प्राप्य (०७०-०२९)
तन्मुक्तिं कथय द्विज (०७०-०२९)
यद्य् एतद् द्विजपुत्र त्वं (०७०-०३०)
ममाख्यास्यस्य् अशेषतः (०७०-०३०)
तत् क्षुधार्तात् समार्तस् त्वं (०७०-०३०)
नियतं मोक्षम् आप्स्यसि (०७०-०३०)
न चैतत् पापशीलो ऽहम् (०७०-०३१)
अद्य त्वां क्षुत्पिपासितः (०७०-०३१)
षष्ठे काले नृशंसात्मा (०७०-०३१)
भक्षयिष्यामि निर्घृणः (०७०-०३१)
एवम् उक्तो मुनिसुतस् (०७०-०३२)
तेन घोरेण रक्षसा (०७०-०३२)
चिन्ताम् अवाप महतीम् (०७०-०३२)
अशक्तस् तद् उदीरितुम् (०७०-०३२)
विमृश्य सुचिरं विप्रः (०७०-०३३)
शरणं जातवेदसम् (०७०-०३३)
जगाम ज्ञानदानाय (०७०-०३३)
संशयं परमं गतः (०७०-०३३)
यदि शुश्रूषितो वह्निर् (०७०-०३४)
गुरोः शुश्रूषणाद् अनु (०७०-०३४)
व्रतानि वा सुचीर्णानि (०७०-०३४)
सप्तार्चिः पातु मां ततः (०७०-०३४)
न मातरं न पितरं (०७०-०३५)
गौरवेण यथा गुरुम् (०७०-०३५)
यथाहम् अवगच्छामि (०७०-०३५)
तथा मां पातु पावकः (०७०-०३५)
यथा गुरुं न मनसा (०७०-०३६)
कर्मणा वचसापि वा (०७०-०३६)
अवजानाम्य् अहं तेन (०७०-०३६)
पातु सत्येन पावकः (०७०-०३६)
इत्य् एवं शपथान् सत्यान् (०७०-०३७)
कुर्वतस् तस्य तत् पुनः (०७०-०३७)
सप्तार्चिषा समादिष्टा (०७०-०३७)
प्रादुरासीत् सरस्वती (०७०-०३७)
सा चोवाच द्विजसुतं (०७०-०३७)
राक्षसग्रहणाकुलम् (०७०-०३७)
मा भैर् द्विजसुताहं त्वां (०७०-०३८)
मोक्षयाम्य् अतिसंकटात् (०७०-०३८)
यद् अस्य रक्षसः श्रेयो (०७०-०३९)
जिह्वाग्रे ऽहं स्थिता तव (०७०-०३९)
तत् सर्वं कथयिष्यामि (०७०-०३९)
ततो मोक्षम् अवाप्स्यसि (०७०-०३९)
अदृश्या रक्षसा तेन (०७०-०४०)
प्रोक्त्वेत्थं तं सरस्वती (०७०-०४०)
अदर्शनम् इता सो ऽपि (०७०-०४०)
द्विजः प्राह निशाचरम् (०७०-०४०)
श्रूयतां तव यच् छ्रेयस् (०७०-०४१)
तथान्येषां च पापिनाम् (०७०-०४१)
समस्तपापशुद्ध्यर्थं (०७०-०४१)
पुण्योपचयदं च यत् (०७०-०४१)
प्रातर् उत्थाय सततं (०७०-०४२)
मध्याह्ने ऽह्नः क्षये ऽपि वा (०७०-०४२)
अयं शस्तः सदा जापः (०७०-०४२)
सर्वपापोपशान्तिदः (०७०-०४२)
हरिं कृष्णं हृषीकेशं (०७०-०४३)
वासुदेवं जनार्दनम् (०७०-०४३)
प्रणतो ऽस्मि जगन्नाथं (०७०-०४३)
स मे पापं व्यपोहतु (०७०-०४३)
विश्वेश्वरम् अजं विष्णुम् (०७०-०४४)
अप्रमेयपराक्रमम् (०७०-०४४)
प्रणतो ऽस्मि प्रजापालं (०७०-०४४)
स मे पापं व्यपोहतु (०७०-०४४)
विष्णुम् अच्युतम् ईशानम् (०७०-०४५)
अनन्तम् अपराजितम् (०७०-०४५)
प्रणतो ऽस्मि महात्मानं (०७०-०४५)
स मे पापं व्यपोहतु (०७०-०४५)
चराचरगुरुं नाथं (०७०-०४६)
गोविन्दं शेषशायिनम् (०७०-०४६)
प्रणतो ऽस्मि परं देवं (०७०-०४६)
स मे पापं व्यपोहतु (०७०-०४६)
गोवर्धनधरं धीरं (०७०-०४७)
गोब्राह्मणहिते स्थितम् (०७०-०४७)
प्रणतो ऽस्मि गदापाणिं (०७०-०४७)
स मे पापं व्यपोहतु (०७०-०४७)
शङ्खिनं चक्रिणं शान्तं (०७०-०४८)
शार्ङ्गिणं स्रग्धरं परम् (०७०-०४८)
प्रणतो ऽस्मि पतिं लक्ष्म्याः (०७०-०४८)
स मे पापं व्यपोहतु (०७०-०४८)
दामोदरम् उदाराक्षं (०७०-०४९)
पुण्डरीकाक्षम् अव्ययम् (०७०-०४९)
प्रणतो ऽस्मि स्तुतं स्तुत्यैः (०७०-०४९)
स मे पापं व्यपोहतु (०७०-०४९)
नारायणं नरं शौरिं (०७०-०५०)
माधवं मधुसूदनम् (०७०-०५०)
प्रणतो ऽस्मि धराधारं (०७०-०५०)
स मे पापं व्यपोहतु (०७०-०५०)
केशवं केशिहन्तारं (०७०-०५१)
कंसारिष्टनिसूदनम् (०७०-०५१)
प्रणतो ऽस्मि चतुर्बाहुं (०७०-०५१)
स मे पापं व्यपोहतु (०७०-०५१)
श्रीवत्सवक्षसं श्रीशं (०७०-०५२)
श्रीधरं श्रीनिकेतनम् (०७०-०५२)
प्रणतो ऽस्मि श्रियः कान्तं (०७०-०५२)
स मे पापं व्यपोहतु (०७०-०५२)
यम् ईशं सर्वभूतानां (०७०-०५३)
ध्यायन्ति यतयो ऽक्षरम् (०७०-०५३)
वासुदेवम् अनिर्देश्यं (०७०-०५३)
तम् अस्मि शरणं गतः (०७०-०५३)
समस्तालम्बनेभ्यो ऽयं (०७०-०५४)
संहृत्य मनसो गतिम् (०७०-०५४)
ध्यायन्ति वासुदेवाख्यं (०७०-०५४)
तम् अस्मि शरणं गतः (०७०-०५४)
सर्वगं सर्वभूतं च (०७०-०५५)
सर्वस्याधातम् ईश्वरम् (०७०-०५५)
वासुदेवं परं ब्रह्म (०७०-०५५)
तम् अस्मि शरणं गतः (०७०-०५५)
परमात्मानम् अव्यक्तं (०७०-०५६)
यं प्रयान्ति सुमेधसः (०७०-०५६)
कर्मक्षये ऽक्षयं देवं (०७०-०५६)
तम् अस्मि शरणं गतः (०७०-०५६)
पुण्यपापविनिर्मुक्ता (०७०-०५७)
यं प्रविश्य पुनर्भवम् (०७०-०५७)
न योगिनः प्राप्नुवन्ति (०७०-०५७)
तम् अस्मि शरणं गतः (०७०-०५७)
ब्रह्मा भूत्वा जगत् सर्वं (०७०-०५८)
सदेवासुरमानुषम् (०७०-०५८)
यः सृजत्य् अच्युतो देवस् (०७०-०५८)
तम् अस्मि शरणं गतः (०७०-०५८)
ब्रह्मत्वे यस्य वक्त्रेभ्यश् (०७०-०५९)
चतुर्वेदमयं वपुः (०७०-०५९)
सूतं प्रभो पुरा जज्ञे (०७०-०५९)
तम् अस्मि शरणं गतः (०७०-०५९)
ब्रह्मरूपधरं देवं (०७०-०६०)
जगद्योनिं जनार्दनम् (०७०-०६०)
स्रष्टृत्वे संस्थितं सृष्टौ (०७०-०६०)
प्रणतो ऽस्मि सनातनम् (०७०-०६०)
यः पाति सृष्टं च विभुः (०७०-०६१)
स्थिताव् असुरसूदनः (०७०-०६१)
तम् आदिपुरुषं विष्णुं (०७०-०६१)
प्रणतो ऽस्मि सनातनम् (०७०-०६१)
धृता मही हता दैत्याः (०७०-०६२)
परित्रातास् तथामराः (०७०-०६२)
येन तं विष्णुम् आद्येशं (०७०-०६२)
प्रणतो ऽस्मि सनातनम् (०७०-०६२)
यज्ञैर् यजन्ति यं विप्रा (०७०-०६३)
यज्ञेशं यज्ञभावनम् (०७०-०६३)
तं यज्ञपुरुषं विष्णुं (०७०-०६३)
प्रणतो ऽस्मि सनातनम् (०७०-०६३)
वर्णाश्रमान् स्थिताव् आद्यो (०७०-०६४)
यः स्थापयति वर्त्मनि (०७०-०६४)
तम् आदिपुरुषं विष्णुं (०७०-०६४)
प्रणतो ऽस्मि सनातनम् (०७०-०६४)
कल्पान्ते रुद्ररूपो यः (०७०-०६५)
संहरत्य् अखिलं जगत् (०७०-०६५)
तम् आदिपुरुषं विष्णुं (०७०-०६५)
प्रणतो ऽस्मि जनार्दनम् (०७०-०६५)
पातालवीथीभूरादींस् (०७०-०६६)
तथा लोकान् बिभर्ति यः (०७०-०६६)
तम् अन्तपुरुषं विष्णुं (०७०-०६६)
प्रणतो ऽस्मि जनार्दनम् (०७०-०६६)
संभक्षयित्वा सकलं (०७०-०६७)
यथा सृष्टम् इदं जगत् (०७०-०६७)
यो नृत्यत्य् अतिरौद्रात्मा (०७०-०६७)
प्रणतो ऽस्मि जनार्दनम् (०७०-०६७)
सुरासुराः पितृगणा (०७०-०६८)
यक्षगन्धर्वराक्षसाः (०७०-०६८)
यस्यांशभूता देवस्य (०७०-०६८)
सर्वगं तं नमाम्य् अहम् (०७०-०६८)
समस्तदेवाः सकला (०७०-०६९)
मानुषाणां च जातयः (०७०-०६९)
यस्यांशभूता देवस्य (०७०-०६९)
सर्वगं तं नमाम्य् अहम् (०७०-०६९)
वृक्षगुल्मादयो यस्य (०७०-०७०)
तथा पशुमृगादयः (०७०-०७०)
एकांशभूता देवस्य (०७०-०७०)
सर्वगं तं नमाम्य् अहम् (०७०-०७०)
यस्मान् नान्यत् परं किंचिद् (०७०-०७१)
यस्मिन् सर्वं महात्मनि (०७०-०७१)
यः सर्वम् अव्ययो ऽनन्तः (०७०-०७१)
सर्वगं तं नमाम्य् अहम् (०७०-०७१)
यथा सर्वेषु भूतेषु (०७०-०७२)
स्थावरेषु चरेषु च (०७०-०७२)
विष्णुर् एव तथा पापं (०७०-०७२)
ममाशेषं प्रणश्यतु (०७०-०७२)
यथा विष्णुमयं सर्वं (०७०-०७३)
यत् सर्वेन्द्रियगोचरम् (०७०-०७३)
यच् च ज्ञानपरिच्छेद्यं (०७०-०७३)
पापं नश्यतु मे तथा (०७०-०७३)
प्रवृत्तं च निवृत्तं च (०७०-०७४)
कर्म विष्णुमयं यथा (०७०-०७४)
अनेकजन्मकर्मोत्थं (०७०-०७४)
पापं नश्यतु मे तथा (०७०-०७४)
यन् निशायां तथा प्रातर् (०७०-०७५)
यच् च मध्यापराह्णयोः (०७०-०७५)
संध्ययोश् च कृतं पापं (०७०-०७५)
कर्मणा मनसा गिरा (०७०-०७५)
तिष्ठता व्रजता यच् च (०७०-०७६)
शय्यासनगतेन च (०७०-०७६)
कृतं यद् अशुभं कर्म (०७०-०७६)
कायेन मनसा गिरा (०७०-०७६)
अज्ञानतो ज्ञानतो वा (०७०-०७७)
वासुदेवस्य कीर्तनात् (०७०-०७७)
तत् सर्वं विलयं यातु (०७०-०७७)
तोयस्थं लवणं यथा (०७०-०७७)
परदारपरद्रव्य- (०७०-०७८)
वाञ्छाद्रोहोद्भवं च यत् (०७०-०७८)
परिपीडोद्भवं निन्दां (०७०-०७८)
कुर्वतो यन् महात्मनाम् (०७०-०७८)
यच् च भोज्ये तथा पेये (०७०-०७९)
यच् च कण्डूयनादिषु (०७०-०७९)
तद् यातु विलयं तोये (०७०-०७९)
यथा लवणभाजनम् (०७०-०७९)
यद् बाल्ये यच् च कौमारे (०७०-०८०)
यत् पापं यौवने मम (०७०-०८०)
वयःपरिणतौ यच् च (०७०-०८०)
यच् च जन्मान्तरेषु मे (०७०-०८०)
तन् नारायणगोविन्द- (०७०-०८१)
हरिकृष्णेशकीर्तनात् (०७०-०८१)
प्रयातु विलयं तोये (०७०-०८१)
यथा लवणभाजनम् (०७०-०८१)
विष्णवे वासुदेवाय (०७०-०८२)
हरये केशवाय च (०७०-०८२)
जनार्दनाय कृष्णाय (०७०-०८२)
नमो भूयो नमो नमः (०७०-०८२)
इदं सारस्वतं स्तोत्रम् (०७०-०८३)
अशेषाघविनाशनम् (०७०-०८३)
पठतां शृण्वतां चैव (०७०-०८३)
सर्वपापविनाशनम् (०७०-०८३)
इदं यः प्रातर् उत्थाय (०७०-०८४)
प्रणिपत्य जनार्दनम् (०७०-०८४)
जपत्य् एकमनाः पापं (०७०-०८४)
समस्तं स व्यपोहति (०७०-०८४)
यस् तु संवत्सरं पूर्णं (०७०-०८५)
सायं प्रातः समाहितः (०७०-०८५)
जपत्य् एतन् नरः पुण्यं (०७०-०८५)
कृत्वा मनसि केशवम् (०७०-०८५)
शारीरं मानसं वाग्जं (०७०-०८६)
ज्ञानतो ऽज्ञानतो ऽपि वा (०७०-०८६)
कृतं तेन तु यत् पापं (०७०-०८६)
सप्त जन्मान्तराणि वै (०७०-०८६)
महापातकम् अल्पं वा (०७०-०८७)
तथा यच् चोपपातकम् (०७०-०८७)
सकलं नाशयत्य् एतत् (०७०-०८७)
तथान्यत् पुण्यम् ऋच्छति (०७०-०८७)
विप्राय सुविशिष्टाय (०७०-०८८)
तिलपात्राणि षोडश (०७०-०८८)
अहन्य् अहनि यो दद्यात् (०७०-०८८)
पठत्य् एतच् च तत् समम् (०७०-०८८)
अविप्लुतमतिश् चान्ते (०७०-०८९)
संप्राप्य स्मरणं हरेः (०७०-०८९)
विष्णुलोकम् अवाप्नोति (०७०-०८९)
सत्यम् एतन् मयोदितम् (०७०-०८९)
यथैनं पठति नित्यं (०७०-*(११४))
स्तवं सारस्वतं पुमान् (०७०-*(११४))
अपि पापसमायुक्तो (०७०-*(११४))
मोक्षं प्राप्नोत्य् असाव् अपि (०७०-*(११४))
यथैतत् सत्यम् उक्तं मे (०७०-०९०)
नात्राल्पम् अपि वै मृषा (०७०-०९०)
राक्षसग्रस्तसर्वाङ्गं (०७०-०९०)
तथा माम् एष मुञ्चतु (०७०-०९०)
एवम् उच्चारिते मुक्तः (०७०-०९१)
स तदा तेन रक्षसा (०७०-०९१)
अकामेन द्विजो भूयस् (०७०-०९१)
तम् आह रजनीचरम् (०७०-०९१)
एतद् भद्रमुखाख्यातं (०७०-०९२)
तव पातकनाशनम् (०७०-०९२)
विष्णोः सारस्वतं स्तोत्रं (०७०-०९२)
यज् जगाद सरस्वती (०७०-०९२)
हुताशनेन प्रहिता (०७०-०९३)
मम जिह्वाग्रसंस्थिता (०७०-०९३)
जगादेमं स्तवं विष्णोः (०७०-०९३)
सर्वपापप्रशान्तिदम् (०७०-०९३)
अनेनैव जगन्नाथं (०७०-०९४)
त्वम् आराधय केशवम् (०७०-०९४)
ततः पापापनोदं तु (०७०-०९४)
स्तुते प्राप्स्यसि केशवे (०७०-०९४)
अहर्निशं हृषीकेशं (०७०-०९५)
स्तवेनानेन राक्षस (०७०-०९५)
स्तौहि भक्तिं परां कृत्वा (०७०-०९५)
ततः पापाद् विमोक्ष्यसे (०७०-०९५)
स्तुतो हि सर्वपापानि (०७०-०९६)
नाशयिष्यत्य् असंशयम् (०७०-०९६)
भक्त्या राक्षसशार्दूल (०७०-०९६)
सर्वपापहरो हरिः (०७०-०९६)
ततः प्रणम्य तं विप्रं (०७०-०९७)
प्रसाद्य च निशाचरः (०७०-०९७)
शालग्रामं महाराज (०७०-०९७)
तदैव तपसे ययौ (०७०-०९७)
तत्राहर्निशम् एवैतज् (०७०-०९८)
जपञ् जप्यं नराधिप (०७०-०९८)
देवक्रियारतिर् भूत्वा (०७०-०९८)
तपस् तेपे स राक्षसः (०७०-०९८)
आराध्य च जगन्नाथं (०७०-०९९)
स तत्र पुरुषोत्तमम् (०७०-०९९)
सर्वपापविनिर्मुक्तो (०७०-०९९)
विष्णुलोकम् अवाप्तवान् (०७०-०९९)
तथा त्वम् अपि राजर्षे (०७०-१००)
सर्वपापप्रशान्तिदम् (०७०-१००)
आराधय हृषीकेशं (०७०-१००)
जपन् सारस्वतं स्तवम् (०७०-१००)
य एतत् परमं स्तोत्रं (०७०-१०१)
वासुदेवस्य मानवः (०७०-१०१)
पठिष्यति स सर्वेभ्यः (०७०-१०१)
पापेभ्यो मोक्षम् आप्स्यति (०७०-१०१)
ब्रह्मन्न् असारे संसारे (०७१-००१)
रोगादिव्याप्तमानसः (०७१-००१)
शब्दादिलुब्धः पुरुषः (०७१-००१)
किं कुर्वन् नावसीदति (०७१-००१)
स्वे महिम्नि स्थितं देवम् (०७१-००२)
अप्रमेयम् अजं विभुम् (०७१-००२)
शोकमोहविनिर्मुक्तं (०७१-००२)
विष्णुं ध्यायन् न सीदति (०७१-००२)
अप्राणचितिकं ब्रह्म (०७१-००३)
वेदान्तेषु प्रकाशितम् (०७१-००३)
आद्यं पुरुषम् ईशानं (०७१-००३)
विष्णुं ध्यायन् न सीदति (०७१-००३)
अशनाद्यैर् असंस्पृष्टं (०७१-००४)
सेवितं योगिभिः सदा (०७१-००४)
सर्वदोषविनिर्मुक्तं (०७१-००४)
विष्णुं ध्यायन् न सीदति (०७१-००४)
धामत्रयविनिर्मुक्तं (०७१-००५)
सुप्रभातं सुनिर्मलम् (०७१-००५)
निष्कलं शाश्वतं देवं (०७१-००५)
विष्णुं ध्यायन् न सीदति (०७१-००५)
क्षराक्षरविनिर्मुक्तं (०७१-००६)
जन्ममृत्युविवर्जितम् (०७१-००६)
अभयं सत्यसंकल्पं (०७१-००६)
विष्णुं ध्यायन् न सीदति (०७१-००६)
अमृतं साधनं साध्यं (०७१-००७)
यं पश्यन्ति मनीषिणः (०७१-००७)
ज्ञेयाख्यं परमात्मानं (०७१-००७)
विष्णुं ध्यायन् न सीदति (०७१-००७)
अतुलं सुखधर्माणं (०७१-००८,*(११५))
व्योमदेहं सनातनम् (०७१-००८,*(११५))
धर्माधर्मविनिर्मुक्तं (०७१-००८,*(११५))
विष्णुं ध्यायन् न सीदति (०७१-००८,*(११५))
व्यासाद्यैर् मुनिभिः सर्वैर् (०७१-००९)
ध्यानयोगपरायणैः (०७१-००९)
अर्चितं भावकुसुमैर् (०७१-००९)
विष्णुं ध्यायन् न सीदति (०७१-००९)
विष्ण्वष्टकम् इदं पुण्यं (०७१-०१०)
योगिनां प्रीतिवर्धनम् (०७१-०१०)
यः पठेत् परया प्रीत्या (०७१-०१०)
स गच्छेद् विष्णुसात्म्यताम् (०७१-०१०)
एतत् पुण्यं पापहरं (०७१-०११)
धन्यं दुःस्वप्ननाशनम् (०७१-०११)
पठतां शृण्वतां चैव (०७१-०११)
विष्णोर् माहात्म्यम् उत्तमम् (०७१-०११)
कुर्वन् भक्तिं हृषीकेशे (०७२-००१)
मानवो भृगुनन्दन (०७२-००१)
निर्वाणं समवाप्नोति (०७२-००१)
यादृशं तद् वदस्व मे (०७२-००१)
दृश्यन्ते पुरुषा भक्तिम् (०७२-००२)
उद्वहन्तो जनार्दने (०७२-००२)
तथाप्य् अनेकदेहार्ति- (०७२-००२)
मनस्तापातुरा मुने (०७२-००२)
स्मृतमात्रः सुरेन्द्रस्य (०७२-००३)
यो ऽर्तिहा मधुसूदनः (०७२-००३)
तस्यापि कर्माभिरता (०७२-००३)
दुःखभाजः कथं नराः (०७२-००३)
कैश् च दानैर् जगत्स्वामी (०७२-००४)
स्वामी नारायणो नृणाम् (०७२-००४)
उपकाराय भक्तानां (०७२-००४)
जायते स महामुने (०७२-००४)
त्वद्युक्तो ऽयम् अनुप्रश्नो (०७२-००५)
महाराज शृणुष्व तम् (०७२-००५)
यथा पृष्टम् इदं सम्यक् (०७२-००५)
कथ्यमानं यथाखिलम् (०७२-००५)
पृथिवीं रत्नसंपूर्णां (०७२-००६)
यः कृष्णाय प्रयच्छति (०७२-००६)
तस्याप्य् अन्यमनस्कस्य (०७२-००६)
सुलभो न जनार्दनः (०७२-००६)
नाराध्यते ऽच्युतो दानैर् (०७२-००७)
न होमैर् भाववर्जितैः (०७२-००७)
ऐकात्म्यं पुरुषैर् याति (०७२-००७)
तन्मयैर् एव माधवः (०७२-००७)
श्रूयते च पुराख्यातो (०७२-००८)
राजोपरिचरो वसुः (०७२-००८)
इयाज सुबहून् यज्ञाञ् (०७२-००८)
श्रद्धापूतेन चेतसा (०७२-००८)
स विप्रशापाद् राजर्षिः (०७२-००९)
कस्मिंश्चित् कारणान्तरे (०७२-००९)
आकाशचारी सहसा (०७२-००९)
प्रविवेश रसातलम् (०७२-००९)
रसातलम् अनुप्राप्तस् (०७२-०१०)
तथापि जगतः प्रभुम् (०७२-०१०)
तुष्टाव तन्मयो भूत्वा (०७२-०१०)
दिव्यैर् मन्त्रैर् जनार्दनम् (०७२-०१०)
देवानाम् एष यज्ञांशैर् (०७२-०११)
यज्वी पक्षविवर्धनः (०७२-०११)
चेदिराड् इति दैत्यानां (०७२-०११)
मतिर् आसीद् रसातले (०७२-०११)
अनेन विविधैर् यज्ञैस् (०७२-०१२)
तर्पितस् त्रिदशेश्वरः (०७२-०१२)
जघान दैत्यान् वध्यो ऽयं (०७२-०१२)
प्राप्तो ऽस्मद्गोचरं रिपुः (०७२-०१२)
इति संमन्त्र्य ते दैत्याश् (०७२-०१३)
चेदिराजजिघांसवः (०७२-०१३)
तत्समीपम् अनुप्राप्ता (०७२-०१३)
गृहीतविविधायुधाः (०७२-०१३)
परमामर्षसंयुक्तास् (०७२-०१४)
ततस् ते चेदिपुङ्गवम् (०७२-०१४)
हन्तुं न शेकुः शस्त्रैस् तु (०७२-०१४)
यत्नवन्तो ऽपि पार्थिवम् (०७२-०१४)
स चापि वसुर् आसीनः (०७२-०१५)
केशवार्पितमानसः (०७२-०१५)
जजाप मन्त्रम् ओंकारं (०७२-०१५)
प्रणवं द्वादशाक्षरम् (०७२-०१५)
ददर्श च स विश्वेशं (०७२-०१६)
ध्यानावस्थितमानसः (०७२-०१६)
कृत्वान्यविषयत्यागि (०७२-०१६)
चित्तम् अत्यन्तनिश्चलम् (०७२-०१६)
प्राग् ईशम् अक्षरं ध्यानं (०७२-०१७)
ज्ञानं ज्ञेयं जगद्गुरुम् (०७२-०१७)
संचिन्त्य वासुदेवाख्यम् (०७२-०१७)
अनिर्देश्यं परायणम् (०७२-०१७)
ततो ऽन्तर्यामिरुपेण (०७२-०१८)
प्राकृतेन च संस्थितम् (०७२-०१८)
ब्रह्मविष्णुशिवानां च (०७२-०१८)
स्वरूपैः संस्थितं त्रिधा (०७२-०१८)
पुनश् च देवगन्धर्व- (०७२-०१९)
सिद्धादिमनुजादिषु (०७२-०१९)
स्थावरान्तेषु भूतेषु (०७२-०१९)
सर्वेष्व् एव समास्थितम् (०७२-०१९)
दिक्ष्व् अम्बरधराभूभृत्- (०७२-०२०)
तोयवाय्वनलादिषु (०७२-०२०)
दृश्यादृश्येषु चैवेशं (०७२-०२०)
चिन्तयाम् आस पार्थिवः (०७२-०२०)
सर्वत्र दृष्ट्वा तं देवम् (०७२-०२१)
आत्मन्य् अपि च सर्वगम् (०७२-०२१)
सर्वं च तन्मयं दृष्ट्वा (०७२-०२१)
विरराम समाधितः (०७२-०२१)
इन्द्रियाणीन्द्रियार्थेषु (०७२-०२२)
पूर्ववत् स नराधिपः (०७२-०२२)
विनिवेश्य ततो ऽपश्यद् (०७२-०२२)
असुरान् उद्यतायुधान् (०७२-०२२)
तान् स दृष्ट्वा गृहीतार्घ्य (०७२-०२३)
एकैकस्यैव पार्थिवः (०७२-०२३)
पाद्यपूर्वेण विधिना (०७२-०२३)
पूजयाम् आस भक्तिमान् (०७२-०२३)
प्रसादं कुरु भद्रं वो (०७२-०२४)
भगवाञ् जगतः पतिः (०७२-०२४)
वासुदेवो भवान् प्राप्तो (०७२-०२४)
ममानुग्रहकाम्यया (०७२-०२४)
इत्य् एवं चेदिराजो ऽसाव् (०७२-०२५)
एकैकस्य च दानवान् (०७२-०२५)
पूजयाम् आस पाद्यादि (०७२-०२५)
निवेद्य वचसा तथा (०७२-०२५)
ते ऽपि तं चेदिराजानं (०७२-०२६)
पप्रच्छुर् असुरास् तदा (०७२-०२६)
क्व वासुदेवो ऽत्र वयं (०७२-०२६)
प्राप्ता दाक्षायणीसुताः (०७२-०२६)
इत्य् एवं वदतो दैत्यान् (०७२-०२७)
स जगाद पुनर् वसुः (०७२-०२७)
प्रणामनम्रो राजेन्द्र (०७२-०२७)
सर्वदर्शी महामतिः (०७२-०२७)
वासुदेवो जगत् सर्वं (०७२-०२८)
यच् चेङ्गं यच् च नेङ्गति (०७२-०२८)
ब्रह्मादिषु तृणान्तेषु (०७२-०२८)
स एवैको जगद्गुरुः (०७२-०२८)
अहं भवन्तो देवाद्या (०७२-०२९)
मनुष्याः पशवश् च ये (०७२-०२९)
ते ऽपि देवा जगद्धातुर् (०७२-०२९)
व्यतिरिक्ता न केशवात् (०७२-०२९)
तेनैव माया वितता (०७२-०३०)
वैष्णवी भिन्नदर्शनी (०७२-०३०)
तया स्वाङ्गेषु देवो ऽसौ (०७२-०३०)
प्रदर्शयति सर्वशः (०७२-०३०)
तद् यूयम् अहम् अन्ये च (०७२-०३१)
यच् च स्थावरजङ्गमम् (०७२-०३१)
वासुदेवात्मकं सर्वम् (०७२-०३१)
इति मत्वा नमो ऽस्तु वः (०७२-०३१)
इत्य् उक्तास् तेन ते दैत्या (०७२-०३२)
न शक्ता मनुजेश्वरम् (०७२-०३२)
यत्नवन्तो ऽपि तं हन्तुं (०७२-०३२)
प्रययुः स्वान् अथालयान् (०७२-०३२)
ततः पुरोहितं सर्वे (०७२-०३३)
काव्यं नीतिविशारदम् (०७२-०३३)
समेत्य ते यथावृत्तं (०७२-०३३)
सर्वम् अस्मै न्यवेदयन् (०७२-०३३)
अस्माकम् अत्यन्तरिपुर् (०७२-०३४)
अयं प्राप्तो रसातलम् (०७२-०३४)
देवानाम् उपकृद् ब्रह्मन् (०७२-०३४)
यज्वा चेदिपतिर् वसुः (०७२-०३४)
अस्मत्पक्षक्षयायैष (०७२-०३५)
देवानां पक्षवर्धनः (०७२-०३५)
तत्र यत् प्रतिपत्तव्यं (०७२-०३५)
तन् नो ब्रूहि महामते (०७२-०३५)
स्वगोचरम् अरिः प्राप्तः (०७२-०३६)
शत्रुपक्षोपकारकः (०७२-०३६)
न हन्तव्य इतीदं को (०७२-०३६)
नीतिमान् प्रवदिष्यति (०७२-०३६)
तस्मात् प्रगृह्य दिव्यानि (०७२-०३७)
सर्वास्त्राण्य् अमरार्दनाः (०७२-०३७)
निपातयत तं गत्वा (०७२-०३७)
चेदिराजं स्वगोचरे (०७२-०३७)
सर्वम् एतन् महाभाग (०७२-०३८)
तस्मिन्न् अस्माभिर् उद्यतैः (०७२-०३८)
कृतं न शकितो हन्तुं (०७२-०३८)
निर्यत्नो ऽपि हि पार्थिवः (०७२-०३८)
किं तद् योगफलं तस्य (०७२-०३९)
किं वा जपफलं मुने (०७२-०३९)
तपसो वा मुनिश्रेष्ठ (०७२-०३९)
विस्तरात् तद् वदस्व नः (०७२-०३९)
नित्यं संचिन्तयत्य् एष (०७२-०४०)
योगयुक्तो जनार्दनम् (०७२-०४०)
सास्य रक्षा परा मन्ये (०७२-०४०)
को हिनस्त्य् अच्युताश्रयम् (०७२-०४०)
कीर्तितः संस्मृतो ध्यातः (०७२-०४१)
पूजितः संस्तुतस् तथा (०७२-०४१)
ऐहिकामुष्मिकीं रक्षां (०७२-०४१)
करोति भगवान् हरिः (०७२-०४१)
यद् दुर्लभं यद् अप्राप्यं (०७२-०४२)
मनसो यन् न गोचरे (०७२-०४२)
तद् अप्य् अप्रार्थितं ध्यातो (०७२-०४२)
ददाति मधुसूदनः (०७२-०४२)
शरीरारोग्यम् अर्थांश् च (०७२-०४३)
भोगांश् चैवानुषङ्गिकान् (०७२-०४३)
ददाति ध्यायतां नित्यम् (०७२-०४३)
अपवर्गप्रदो हरिः (०७२-०४३)
यद् इदं चेदिराजानं (०७२-०४४)
हन्तुम् इच्छथ दानवाः (०७२-०४४)
तद् अस्य केशवाच् चित्तम् (०७२-०४४)
उपायेनापनीयताम् (०७२-०४४)
ततस् ते तद्वचः श्रुत्वा (०७२-०४५)
दानवाः कुरुपुङ्गव (०७२-०४५)
ब्रह्मरूपप्रतिच्छन्ना (०७२-०४५)
जग्मुर् यत्र स्थितो वसुः (०७२-०४५)
ददृशुस् ते महात्मानं (०७२-०४६)
प्रणतं चेदिपुङ्गवम् (०७२-०४६)
कृतपूजं जगद्धातुर् (०७२-०४६)
वासुदेवस्य पार्थिवम् (०७२-०४६)
संस्तुताव् उद्यतं शान्तं (०७२-०४७)
सर्वत्र समदर्शिनम् (०७२-०४७)
कृष्णार्पितमनोवृत्तिं (०७२-०४७)
जानुभ्याम् अवनिंगतम् (०७२-०४७)
ततः संशृण्वतां तेषां (०७२-०४८)
तुष्टाव मधुसूदनम् (०७२-०४८)
तन्नामस्मरणोद्भूत- (०७२-०४८)
पुलकश् चेदिपुङ्गवः (०७२-०४८)
जगाद यं स राजर्षिः (०७२-०४९)
स्तवं कृष्णस्य शौनक (०७२-०४९)
शृण्वतां दानवेन्द्राणां (०७२-०४९)
तन् मे पापहरं वद (०७२-०४९)
शृणु यद् देवदेवस्य (०७२-०५०)
विष्णोर् अद्भुतकर्मणः (०७२-०५०)
स्तोत्रं जगाद राजासौ (०७२-०५०)
रसातलतलं गतः (०७२-०५०)
स्तौमि देवम् अजं नित्यं (०७२-०५१)
परिणामविवर्जितम् (०७२-०५१)
अवृद्धिक्षयम् ईशानम् (०७२-०५१)
अच्युतं परतः परम् (०७२-०५१)
कल्पनाकृतनामानम् (०७२-०५२)
अनिर्देश्यम् अजं विभुम् (०७२-०५२)
मूलहेतुम् अहेतुं त्वां (०७२-०५२)
वासुदेवं नमाम्य् अहम् (०७२-०५२)
परमार्थपरैर् ईशश् (०७२-०५३)
चिन्त्यते यः प्रजाकरैः (०७२-०५३)
तं वासुदेवम् ईशेशं (०७२-०५३)
नमाम्य् अद्य गुणं परम् (०७२-०५३)
यस्माद् इदं यत्र चेदम् (०७२-०५४)
इदं यो विश्वम् अव्ययम् (०७२-०५४)
तं वासुदेवम् अमलं (०७२-०५४)
नमामि परमेश्वरम् (०७२-०५४)
ज्ञेयं ज्ञातारम् अजरं (०७२-०५५)
भोक्तारं प्रकृतेः प्रभुम् (०७२-०५५)
पुरुषस्वरूपिणं देवं (०७२-०५५)
नतो ऽस्मि पुरुषं परम् (०७२-०५५)
प्रधानादिविशेषान्त- (०७२-०५६)
स्वरूपम् अजम् अव्ययम् (०७२-०५६)
स्थूलसूक्ष्ममयं सर्वं- (०७२-०५६)
व्यापिनं तं नमाम्य् अहम् (०७२-०५६)
स्रष्टा पालयिता चान्ते (०७२-०५७)
यश् च संहारकारकः (०७२-०५७)
त्रयीमयं तं त्रिगुणं (०७२-०५७)
नतो ऽस्मि पुरुषोत्तमम् (०७२-०५७)
आब्रह्मस्थावरान्ते च (०७२-०५८)
यो जगत्य् अत्र संस्थितः (०७२-०५८)
व्यक्तरूपी च तं देवं (०७२-०५८)
नतो ऽहं विष्णुम् अव्ययम् (०७२-०५८)
नमो नमो ऽस्तु ते देव (०७२-०५९)
जगताम् ईश्वरेश्वर (०७२-०५९)
परमार्थ पराचिन्त्य (०७२-०५९)
विधातः परमेश्वर (०७२-०५९)
त्वम् आदिर् अन्तो मध्यं च (०७२-०६०)
जगतो ऽस्य जगत्पते (०७२-०६०)
जगत् त्वयि जगच् च त्वं (०७२-०६०)
जगत् त्वत्तो जगन्मय (०७२-०६०)
तवाग्निर् आसं वसुधाङ्घ्रियुग्मं (०७२-०६१)
नभः शिरश् चन्द्ररवी च नेत्रे (०७२-०६१)
समस्तलोका जठरं भुजाश् च (०७२-०६१)
दिशश् चतस्रो भगवन् नमस् ते (०७२-०६१)
यद् भूगतं यद् गगनान्तराले (०७२-०६२)
यद् वा नभस्य् अखिललोकगं च (०७२-०६२)
यत् स्थूलं सूक्ष्मं परतस् ततो ऽपि (०७२-०६२)
यद् अस्ति यन् नास्ति च तत् त्वम् ईश (०७२-०६२)
वेदाश् च वेद्यं च भगवान् अनन्तो (०७२-०६३)
वेदान्तवेद्यश् च समस्तहेतो (०७२-०६३)
वदन्ति तत् त्वा मुनयः परेशं (०७२-०६३)
त्वयि प्रसन्ने परमार्थदृश्ये (०७२-०६३)
नमो हृषीकेश तवाप्रमेय (०७२-०६४)
नमश् च तुभ्यं परमार्थसार (०७२-०६४)
विष्णो नमस् ते ऽस्तु परापरेश (०७२-०६४)
कृष्णाच्युतानन्त जगन्निवास (०७२-०६४)
नमो ऽस्तु तुभ्यं परमेश्वराय (०७२-०६५)
नमस् तथान्तःकारणस्थिताय (०७२-०६५)
प्रधानभूताय नमश् च तुभ्यम् (०७२-०६५)
व्यक्तस्वरूपेण च संस्थिताय (०७२-०६५)
संहृत्य विश्वं जलशायिने नमो (०७२-०६६)
नमश् च ते कैटभसूदनाय (०७२-०६६)
स्वनाभिपद्मोदरशायिने च (०७२-०६६)
ब्रह्मस्वरूपोपनताय चैव (०७२-०६६)
स्रष्ट्रे नमः पालयित्रे स्थितौ च (०७२-०६७)
सर्वेश तुभ्यं पुरुषोत्तमाय (०७२-०६७)
रुद्राय चान्ते क्षयहेतवे ते (०७२-०६७)
नतो ऽस्मि संहारकराय विष्णो (०७२-०६७)
जय प्रपन्नार्तिहराप्रमेय (०७२-०६८)
जयाग्निवस्वश्विमय प्रजेश (०७२-०६८)
रुद्रेन्द्रचन्द्रस्तुत देवदेव (०७२-०६८)
जयामराणाम् अरिशातनाय (०७२-०६८)
जितं त्वया सर्वग सर्वसारं (०७२-०६९)
सर्वात्मभूताखिल वेदवेद्य (०७२-०६९)
जितं जिताक्षामलचित्तदृश्य (०७२-०६९)
चराचराधार धराधरेड्य (०७२-०६९)
यज्ञाश्रयो यज्ञपुमान् अशेष (०७२-०७०)
देवेश मर्त्यासुरयज्ञभोक्तः (०७२-०७०)
त्वम् ईड्यमानो ऽभिमतं ददासि (०७२-०७०)
धराधरेशाच्युत वासुदेव (०७२-०७०)
नमस् ते देवदेव त्वं (०७२-०७१)
यथा पास्य् अखिलं जगत् (०७२-०७१)
स्थितौ तथा समस्तेभ्यो (०७२-०७१)
दोषेभ्यो मां समुद्धर (०७२-०७१)
कृष्णाच्युत हृषीकेश (०७२-०७२)
सर्वभूतेश केशव (०७२-०७२)
महात्मंस् त्राहि मां भक्तं (०७२-०७२)
वासुदेव प्रसीद मे (०७२-०७२)
इति स्तोत्रावसाने तं (०७२-०७३)
चेदिराजं ततो ऽसुराः (०७२-०७३)
जहसुः सतलाक्षेपं (०७२-०७३)
प्रोचुश् च द्विजरूपिणः (०७२-०७३)
प्राज्ञः किल प्रजापालश् (०७२-०७४)
चेदिराट् संश्रुतो भुवि (०७२-०७४)
तस् अस्य ज्ञानम् अखिलं (०७२-०७४)
विपरीतार्थम् ईदृशम् (०७२-०७४)
क्व वासुदेवः क्व भवान् (०७२-०७५)
इमाम् अन्त्यां दशां गतः (०७२-०७५)
यो भवान् विप्रशापेन (०७२-०७५)
रसातलतलाश्रयः (०७२-०७५)
भविष्यति स्मृतो देवस् (०७२-०७६)
त्राता किल तवाच्युतः (०७२-०७६)
यो ऽसाव् आप्याय्यते विप्रैर् (०७२-०७६)
अध्वरेषु हविःस्रवैः (०७२-०७६)
यो ऽन्यत्रस् त्राणकामो वा (०७२-०७७)
यज्ञभागम् अभीप्सते (०७२-०७७)
स त्राता तव गोविन्दो (०७२-०७७)
भविष्यत्य् अतिविस्मयः (०७२-०७७)
यदा त्वं भगवद्भक्तो (०७२-०७८)
विप्रशापान् निपातितः (०७२-०७८)
तदा स वासुदेवस् ते (०७२-०७८)
क्व गतो ऽल्पश्रुतो ऽव्ययः (०७२-०७८)
न वासुदेवो न हरिर् (०७२-०७९)
न गोविन्दो न केशवः (०७२-०७९)
शापं ददत्सु विप्रेषु (०७२-०७९)
परित्राणपरो भवेत् (०७२-०७९)
स त्वम् आर्तप्रलापेभ्यो (०७२-०८०)
विरमाद्य यदीच्छसि (०७२-०८०)
कुबुद्धिम् एतां संत्यज्य (०७२-०८०)
स्वपौरुषपरो भव (०७२-०८०)
न वयं पुण्डरीकाक्षं (०७२-०८१)
नानन्तं नाच्युतं हरिम् (०७२-०८१)
संश्रिता न च सीदामः (०७२-०८१)
स्वपौरुषम् उपाश्रिताः (०७२-०८१)
यद्य् अस्मद्वचनं वीर (०७२-०८२)
न मोहेन विशङ्कसे (०७२-०८२)
तदाश्रयस्व स्वं वीर्यं (०७२-०८२)
परित्यज्य विमूढताम् (०७२-०८२)
इत्य् उदीरितम् आकर्ण्य (०७२-०८३)
स तेषां चेदिपुङ्गवः (०७२-०८३)
अज्ञानपटलच्छन्नान् (०७२-०८३)
हृदयेन शुशोच तान् (०७२-०८३)
उवाच चेदिराजो वै हृदये कृतमत्सरः (०७२-*(११६))
अहो मोहो ऽयम् एतेषाम् (०७२-०८४)
अहंकारसमुद्भवः (०७२-०८४)
येन सर्वेश्वरे विष्णाव् (०७२-०८४)
एतेषाम् आवृता मतिः (०७२-०८४)
प्रकाशं च स तान् आह (०७२-०८५)
दानवान् प्रीतिपूर्वकम् (०७२-०८५)
पापतस् तत्परित्राणं (०७२-०८५)
चिकीर्षुर् वसुधाधिपः (०७२-०८५)
मैवं भो भगवद्भक्तिं (०७२-०८६)
कुरुध्वं द्विजसत्तमाः (०७२-०८६)
संसाराब्धौ मनुष्याणाम् (०७२-०८६)
एकः पोतो जनार्दनः (०७२-०८६)
यूयं वयं तथैवान्ये (०७२-०८७)
तस्य सर्वे विभूतयः (०७२-०८७)
ब्रह्मादिस्थावरान्तं हि (०७२-०८७)
तस्य देवस्य विस्तृतिः (०७२-०८७)
सुखदुःखमयो नॄणां (०७२-०८८)
विपाकः कर्मणां च यः (०७२-०८८)
संशुद्धिहेतुः स्वच्छन्दात् (०७२-०८८)
सो ऽपि विप्राः प्रवर्तते (०७२-०८८)
परीक्षां च जगन्नाथः (०७२-०८९)
करोत्य् अदृढचेतसाम् (०७२-०८९)
नराणाम् अर्थविध्वंस- (०७२-०८९)
निकाशेषु जनार्दनः (०७२-०८९)
अल्पयत्नेन चायान्ति (०७२-०९०)
विमुक्तिं केशवाश्रयात् (०७२-०९०)
तद्विघाताय शक्राद्या (०७२-०९०)
यतन्ते विघ्नहेतुभिः (०७२-०९०)
यदा जनार्दने भक्तिं (०७२-०९१)
वहन् सीदति मानवः (०७२-०९१)
निर्विण्णचेताः शैथिल्यं (०७२-०९१)
मनसः कुरुते तदा (०७२-०९१)
देवानां महती शङ्का (०७२-०९२)
भक्तियुक्ता जनार्दने (०७२-०९२)
मुक्तिभाजो भविष्यन्तीत्य् (०७२-०९२)
अतस् ते परिपन्थिनः (०७२-०९२)
प्रायो भवन्ति गोविन्दे (०७२-०९३)
भक्तिव्याघातहेतवः (०७२-०९३)
विघ्नाश् चित्तविघाता हि (०७२-०९३)
विमुक्तिपरिपन्थिनः (०७२-०९३)
सत्यं शतेन विघ्नानां (०७२-०९४)
सहस्रेण तथा तपः (०७२-०९४)
विघ्नायुतेन गोविन्दे (०७२-०९४)
नॄणां भक्तिर् निवार्यते (०७२-०९४)
स्वं चापि कर्म पुरुषः (०७२-०९५)
शुभाशुभम् उपागतम् (०७२-०९५)
भुङ्क्ते किम् अत्र देवस्य (०७२-०९५)
गर्ह्यते येन केशवः (०७२-०९५)
मर्यादां च कृतां तेन (०७२-०९६)
यो भिनत्ति स मानवः (०७२-०९६)
न विष्णुभक्तो मन्तव्यः (०७२-०९६)
साधु धर्मार्चनो हरिः (०७२-०९६)
न पुष्पैर् न च धूपेन (०७२-०९७)
नोपहारानुलेपनैः (०७२-०९७)
तोषं प्रयाति गोविन्दः (०७२-०९७)
स्वकर्माभ्यर्चितो यथा (०७२-०९७)
ब्राह्मणा देवदेवेन (०७२-०९८)
मुखात् सृष्टा महात्मना (०७२-०९८)
देवानाम् अपि संपूज्य (०७२-०९८)
भूमिदेवा द्विजोत्तमाः (०७२-०९८)
अनुवृत्तिः सदा कार्या (०७२-०९८)
तेषां वर्णैर् अनुव्रतैः (०७२-०९८)
ते पूज्यास् ते नमस्कार्यास् (०७२-०९९)
तोषणीयाश् च यत्नतः (०७२-०९९)
तेषु तुष्टेष्व् अशेषाणां (०७२-०९९)
देवानां प्रीतिर् उत्तमा (०७२-०९९)
तेषां मया यद् अज्ञानाज् (०७२-१००)
ज्ञानाद् वा कृतम् अप्रियम् (०७२-१००)
तेनापि तुष्ट एवाहं (०७२-१००)
विष्णोर् अंशा द्विजोत्तमाः (०७२-१००)
क्रियावान् मम पोतो ऽयं (०७२-१०१)
भूतलाद् यो रसातले (०७२-१०१)
पतितस्यातिभीमे ऽस्मिन् (०७२-१०१)
दुरुत्तारे भवार्णवे (०७२-१०१)
रसातलतलोत्तारं (०७२-१०२)
न हि वाञ्छाम्य् अहं द्विजाः (०७२-१०२)
संसारगर्ताद् उत्तारं (०७२-१०२)
वृणोम्य् आराधनाद् धरेः (०७२-१०२)
यथाहं नाभिवाञ्छामि (०७२-१०३)
भोगान् आराध्य केशवम् (०७२-१०३)
तेन सत्येन विष्णुर् मे (०७२-१०३)
सर्वदोषान् व्यपोहतु (०७२-१०३)
यथा न माता न पिता (०७२-१०४)
नात्मा न सुहृदः सुताः (०७२-१०४)
कृष्णालापात् प्रियतरास् (०७२-१०४)
तथा मां पातु केशवः (०७२-१०४)
यथा विष्णुमयं सर्वम् (०७२-१०५)
एतत् पश्याम्य् अहं जगत् (०७२-१०५)
तथा मम मनोदोषान् (०७२-१०५)
अशेषान् स व्यपोहतु (०७२-१०५)
जाता विष्णुविलोमेषु (०७२-१०६)
भवत्स्व् अपि दया मम (०७२-१०६)
यथा तेनाद्य सत्येन (०७२-१०६)
भवन्तः सन्तु तन्मयाः (०७२-१०६)
यथा नाहं भवद्द्वेषान् (०७२-१०७)
न संहर्षाद् ब्रवीम्य् अहम् (०७२-१०७)
कृपयैव तथा सर्वे (०७२-१०७)
भवन्तः सन्तु तन्मयाः (०७२-१०७)
यो यो न भक्तो गोविन्दे (०७२-१०८)
तत्र तत्र कृपा यथा (०७२-१०८)
ममारिवर्गे ऽपि तथा (०७२-१०८)
भक्तिर् वो ऽस्तु जनार्दने (०७२-१०८)
एवम् उच्चारिते तेषां (०७२-१०९)
दैत्यानां तत्क्षणात् तथा (०७२-१०९)
तस्मिन् राजन्य् अभून् मैत्री (०७२-१०९)
तथान्येषु च जन्तुषु (०७२-१०९)
देवदेवे ऽप्य् अभूद् भक्तिर् (०७२-११०)
भावो नष्टस् तथासुरः (०७२-११०)
स्वरूपधारिणश् चैनं (०७२-११०)
प्रणम्यासुरपुङ्गवाः (०७२-११०)
प्रत्यूचुः पार्थिवं विष्णु- (०७२-११०)
भक्तं सद्ब्रह्मचारिणम् (०७२-११०)
चेदिभूपाल भद्रं ते (०७२-१११)
भवतो ऽतुलविक्रम (०७२-१११)
संसारे त्वत्समैः सङ्गः (०७२-१११)
पुण्यभाजां प्रवर्तते (०७२-१११)
वयं स्वजातिदोषेण (०७२-११२)
देवपक्षविरोधिनः (०७२-११२)
भवन्तम् आगता हन्तुं (०७२-११२)
देवप्रीणनतत्परम् (०७२-११२)
यदा न शक्तितो हन्तुम् (०७२-११३)
अस्माभिस् त्वं निरायुधः (०७२-११३)
विष्णुध्यानमहारक्षा- (०७२-११३)
कक्षान्तरगतः प्रभो (०७२-११३)
त्याजयद्भिस् तथा भक्तिं (०७२-११४)
केशवाद् इति दर्शितम् (०७२-११४)
वैफल्यम् अतिपुण्येषु (०७२-११४)
विष्णुशुश्रूषणा नृणाम् (०७२-११४)
स त्वं देवातिदेवस्य (०७२-११५)
विष्णोर् अमिततेजसः (०७२-११५)
अनुग्राह्यो यथा तेयम् (०७२-११५)
अच्युते निश्चला मतिः (०७२-११५)
दिष्ट्या क्रोधाभिभूतानाम् (०७२-११६)
अस्माकं त्वन्निवर्हणे (०७२-११६)
मतिर् जाता यतः प्राप्ता (०७२-११६)
त्वत्सङ्गाद् दुर्लभा मतिः (०७२-११६)
कुरुष्व च प्रसादं त्वं (०७२-११७)
प्रणतानां नरेश्वर (०७२-११७)
शत्राव् अपि कृपाशीलं (०७२-११७)
यन् नो दुष्टम् अभून् मनः (०७२-११७)
दिशां वैमल्यं विमलं (०७२-११८)
चक्षुषश् चोपपादितम् (०७२-११८)
भवता दुष्टतां एताम् (०७२-११८)
आसुरीम् अपमार्जता (०७२-११८)
दुष्टाः स्म वर्षपूगानि (०७२-११९)
यद् यातानि वृथैव नः (०७२-११९)
विषयाक्षिप्तचित्तानां (०७२-११९)
कृष्णे भक्तिम् अकुर्वताम् (०७२-११९)
कर्मभूमौ मनुष्याणां (०७२-१२०)
तद् एव विफलं दिनम् (०७२-१२०)
यद् अच्युतकथालाप- (०७२-१२०)
ध्यानार्चारहितं गतम् (०७२-१२०)
इत्य् उक्त्वा ते ऽसुरा भूयः (०७२-१२१)
प्रसाद्य च तथा वसुम् (०७२-१२१)
विष्णौ भक्तिपरा यातास् (०७२-१२१)
तीव्रसंयोगिनो ऽलयन् (०७२-१२१)
स चापि चेदिराट् तस्माद् (०७२-१२२)
देवदेवेन चक्रिणा (०७२-१२२)
पातालाद् उद्धृतः पश्चात् (०७२-१२२)
संसारगहनाद् अपि (०७२-१२२)
इत्य् एतत् सर्वम् आख्यातं (०७२-१२३)
यन् मां त्वं परिपृच्छसि (०७२-१२३)
यथावसीदन्ति नरा (०७२-१२३)
भक्तिमन्तो ऽपि केशवे (०७२-१२३)
दृढा जनार्दने भक्तिर् (०७२-१२४)
यदैवाव्यभिचारिणी (०७२-१२४)
तदा कियत् स्वर्गसुखं (०७२-१२४)
सैव निर्वाणहेतुकी (०७२-१२४)
इत्य् एतद् असुरैः सार्धं (०७२-१२५)
संवादं यः पुरा वसोः (०७२-१२५)
पठिष्यत्य् अखिलं भक्त्या (०७२-१२५)
स तल्लोकम् उपैष्यति (०७२-१२५)
जगत्प्रभुं देवदेवम् (०७३-००१)
अशेषेशम् जनार्दनम् (०७३-००१)
प्रणिपत्याहम् एतं त्वां (०७३-००१)
यत् पृच्छामि तद् उच्यताम् (०७३-००१)
यैर् उपायैः प्रदानैर् वा (०७३-००२)
नराणाम् अमरार्चितः (०७३-००२)
प्रीतिमान् पुण्डरीकाक्षो (०७३-००२)
भवत्य् आचक्ष्व तन् मम (०७३-००२)
ये स्वधर्मे स्थिता वर्णा (०७३-००३)
विप्राद्याः कुरुनन्दन (०७३-००३)
विधर्मेषु न वर्तन्ते (०७३-००३)
प्रीतिमांस् तेषु केशवः (०७३-००३)
ब्रह्मचारिगृहस्थाद्या (०७३-००४)
न च्यवन्त्य् आश्रमाच् च ये (०७३-००४)
स्वधर्मतो हरिस् तेषां (०७३-००४)
प्रीतिमान् एव सर्वदा (०७३-००४)
ये न दम्भेन वर्तन्ते (०७३-००५)
नरा भूतेष्व् अलोलुपाः (०७३-००५)
त्यक्तग्राम्यादिसंगाश् च (०७३-००५)
तेषु प्रीतिः परा हरेः (०७३-००५)
दातारो नापहर्तारः (०७३-००६)
परस्वानाम् अमायिनः (०७३-००६)
ये नरास् तेषु गोविन्दः (०७३-००६)
पुत्रेष्व् इव सदा हितः (०७३-००६)
येषां नराणां न मतिर् (०७३-००७)
जिह्वा वासत्यम् उज्झति (०७३-००७)
ते प्रिया वासुदेवस्य (०७३-००७)
ये च द्विजपरायणाः (०७३-००७)
कर्मणा मनसा वाचा (०७३-००८)
ये न हिंसानुवर्तिनः (०७३-००८)
ते नरा वासुदेवस्य (०७३-००८)
प्रियाः पाण्डुकुलोद्वह (०७३-००८)
सर्वदेवेषु ये विष्णुं (०७३-००९)
सर्वभूतेष्व् अवस्थितम् (०७३-००९)
मन्यन्ते वासुदेवस्य (०७३-००९)
ते प्रियाः पुत्रवत् सदा (०७३-००९)
ब्रह्माद्यं स्थावरान्तं च (०७३-०१०)
भूतग्रामं जनार्दनात् (०७३-०१०)
ये च पश्यन्त्य् अभेदेन (०७३-०१०)
ते विष्णोः सततं प्रियाः (०७३-०१०)
देववेदद्विजातीनां (०७३-०११)
निन्दायां ये न मानवाः (०७३-०११)
प्रीतिभाजो भवन्तीष्टास् (०७३-०११)
ते सदा शार्ङ्गधन्विनः (०७३-०११)
प्रियाणाम् अथ सर्वेषां (०७३-०१२)
देवदेवस्य स प्रियः (०७३-०१२)
आपत्स्व् अपि सदा यस्य (०७३-०१२)
भक्तिर् अव्यभिचारिणी (०७३-०१२)
तस्मात् प्रियत्वं कृष्णस्य (०७३-०१३)
वाञ्छता निजधर्मजैः (०७३-०१३)
गुणैर् आत्मा सदा योज्यो (०७३-०१३)
न दूरे गुणिनो हरिः (०७३-०१३)
येषां न गृद्धिः पारक्ये (०७३-०१४)
दारे द्रव्ये च चेतसः (०७३-०१४)
हिंसायां च मनुष्याणां (०७३-०१४)
ते कृष्णेनावलोकिताः (०७३-०१४)
वेदाः प्रमाणं स्मृतयो (०७३-०१५)
येषां सन्मार्गसेविनाम् (०७३-०१५)
परोपकारसक्तानां (०७३-०१५)
ते कृष्णेनावलोकिताः (०७३-०१५)
कलिकल्मषदोषेण (०७३-०१६)
येषां नोपहता मतिः (०७३-०१६)
पाषण्डानुगता नैव (०७३-०१६)
ते कृष्णेनावलोकिताः (०७३-०१६)
येषां क्लेशो गुरोर् अर्थे (०७३-०१७)
देवविप्रोद्भवो ऽपि वा (०७३-०१७)
न विवित्सासमुद्भूतस् (०७३-०१७)
ते कृष्णेनावलोकिताः (०७३-०१७)
स्वपन्तः संस्थिता यान्तस् (०७३-०१८)
तिष्ठन्तश् च जनार्दनम् (०७३-०१८)
ये चिन्तयन्त्य् अविरतं (०७३-०१८)
ते कृष्णेनावलोकिताः (०७३-०१८)
यथात्मनि तथापत्ये (०७३-०१९)
येषां अद्रोहिणी मतिः (०७३-०१९)
समस्तसत्त्वजातेषु (०७३-०१९)
ते कृष्णेनावलोकिताः (०७३-०१९)
देवपूजाम् अनुदिनं (०७३-०२०)
गुरुविप्रार्थसत्क्रियाम् (०७३-०२०)
ये कुर्वन्ति नरा विद्धि (०७३-०२०)
ते कृष्णेनावलोकिताः (०७३-०२०)
सुवर्णं रत्नम् अथवा (०७३-०२१)
पारक्यं विजने वने (०७३-०२१)
विलोक्य नैति यो लोभं (०७३-०२१)
तं अवैहि हरेः प्रियम् (०७३-०२१)
देवान् पितॄंस् तथापन्नान् (०७३-०२२)
अतिथीञ् जामयो ऽध्वगान् (०७३-०२२)
यो बिभर्ति विजानीहि (०७३-०२२)
तं नरं भगवत्प्रियम् (०७३-०२२)
न क्रोधम् एति क्रुद्धेभ्यः (०७३-०२३)
सहते यो निराक्रियाम् (०७३-०२३)
तं विजानीहि भर्तव्यं (०७३-०२३)
देवदेवस्य शार्ङ्गिनः (०७३-०२३)
परलोकप्रतीकार- (०७३-०२४)
करणाय सदोद्यमम् (०७३-०२४)
कुर्वन्न् आलक्ष्यताम् एति (०७३-०२४)
केशवेनावलोकितः (०७३-०२४)
नात्मसंस्तवम् अन्येषां (०७३-०२५)
न निन्दां चार्थलिप्सया (०७३-०२५)
करोति पुरुषव्याघ्र (०७३-०२५)
यस्य नारायणो हृदि (०७३-०२५)
सर्वभूतदयां सत्यम् (०७३-०२६)
अक्रोधं धर्मशीलताम् (०७३-०२६)
भजन्ते पुरुषा देवे (०७३-०२६)
गोविन्दे हृदये स्थिते (०७३-०२६)
न कलौ न परद्रव्ये (०७३-०२७)
परदाराश्रिता मतिः (०७३-०२७)
नराणां जायते राजन् (०७३-०२७)
गोविन्दे हृदयस्थिते (०७३-०२७)
क्षमां करोति क्रुद्धेषु (०७३-०२८)
दयां मूढेषु मानवः (०७३-०२८)
मुदं च धर्मशीलेषु (०७३-०२८)
गोविन्दे हृदये स्थिते (०७३-०२८)
यदा बिभेत्य् अधर्मादेर् (०७३-०२९)
धर्मादींश् च यदेच्छति (०७३-०२९)
तदा कुरुवरश्रेष्ठ (०७३-०२९)
नरः कृष्णेन वीक्षितः (०७३-०२९)
पुत्रदारगृहक्षेत्र- (०७३-०३०)
द्रव्यादेर् ममतां नरः (०७३-०३०)
नायास्यति जगन्नाथे (०७३-०३०)
हृषीकेशे पराङ्मुखे (०७३-०३०)
कलौ कृतयुगं तेषां (०७३-०३१)
क्लेशास् तेषां सुखाधिकाः (०७३-०३१)
येषां शरीरग्रहणे (०७३-०३१)
हरिशुश्रूषणे मतिः (०७३-०३१)
यदा नेच्छति पापानि (०७३-०३२)
यदा पुण्यानि वाञ्छति (०७३-०३२)
ज्ञेयस् तदा मनुष्येण (०७३-०३२)
हृदये ऽस्य हरिः स्थितः (०७३-०३२)
परमार्थे मतिः पुंसाम् (०७३-०३३)
असारे तु भवार्णवे (०७३-०३३)
कथं भवति राजेन्द्र (०७३-०३३)
विष्वक्सेन पराङ्मुखे (०७३-०३३)
श्रद्दधानो दयाशीलः (०७३-०३४)
समलोष्टाश्मकाञ्चनः (०७३-०३४)
परार्थे मानवः कृष्णे (०७३-०३४)
प्रसन्ने नृप जायते (०७३-०३४)
वहतो ऽपि सदा कृष्णे (०७३-०३५)
भक्तिम् अव्यभिचारिणीम् (०७३-०३५)
पाणिष्व् असमदृग्बुद्धेः (०७३-०३५)
सुलभो नैव केशवः (०७३-०३५)
ये दाम्भिका भिन्नवृत्ता (०७३-०३६)
ये च धर्मध्वजोच्छ्रयाः (०७३-०३६)
दुर्लभो भगवान् देवस् (०७३-०३६)
तेषां सुयतताम् अपि (०७३-०३६)
कामलोभाश्रितं येषां (०७३-०३७)
चित्तं क्रोधादिदूषितम् (०७३-०३७)
तेषां जन्मसहस्रे ऽपि (०७३-०३७)
न मतिः केशवाश्रया (०७३-०३७)
हेयां कृष्णाश्रयां वृत्तिं (०७३-०३८)
मन्यन्ते हेतुसंश्रिताः (०७३-०३८)
अवियोपहतज्ञाना (०७३-०३८)
ये ऽज्ञाने ज्ञानमानिनः (०७३-०३८)
वेदवादविरोधेन (०७३-०३९)
कूटयुक्तिम् अपाश्रिताः (०७३-०३९)
ये केशवस् तद्धृदये (०७३-०३९)
न कदाचित् प्रियातिथिः (०७३-०३९)
मानुषं तं मनुष्यत्वे (०७३-०४०)
मन्यमानाः कुबुद्धयः (०७३-०४०)
कर्माणि ये ऽस्य निन्दन्ति (०७३-०४०)
न तेषां निष्कृतिर् नृणाम् (०७३-०४०)
केचिद् वदन्ति तं देवं (०७३-०४१)
मनुष्यं चाल्पमेधसः (०७३-०४१)
तिर्यक्त्वं चापरे विष्णुं (०७३-०४१)
मायया तस्य मोहिताः (०७३-०४१)
देवत्वम् अपि कृष्णस्य (०७३-०४२)
यस्य निन्दा महात्मनः (०७३-०४२)
स्तुतिं तस्य कथं शक्ताः (०७३-०४२)
कर्तुम् ईशस्य मानवाः (०७३-०४२)
व्यापित्वं शाश्वतत्वं च (०७३-०४३)
जन्मभावविवर्जितम् (०७३-०४३)
यदास्य प्रोच्यते कास्य (०७३-०४३)
स्तुतिर् अर्थे तथा स्थितौ (०७३-०४३)
सर्वेश्वरेश्वरः कृष्णः (०७३-०४४)
प्रोच्यते यदि पण्डितः (०७३-०४४)
तथापि स्वल्पम् एवोक्तं (०७३-०४४)
भूतार्थे कतमा स्तुतिः (०७३-०४४)
आब्रह्मस्तम्बपर्यन्ते (०७३-०४५)
संसारे यस्य संस्थितिः (०७३-०४५)
निन्दापि तस्य न नृभिः (०७३-०४५)
कर्तुम् ईशस्य शक्यते (०७३-०४५)
यदा काणाश् च कूण्ठाश् च (०७३-०४६)
मूढो दुर्बुद्धिर् आतुरः (०७३-०४६)
सर्वगत्वात् स एवैकस् (०७३-०४६)
तदासौ निन्द्यते कथम् (०७३-०४६)
स्रष्टा पालयिता हर्ता (०७३-०४७)
जगतो ऽस्य जगच् च सः (०७३-०४७)
यष्टा याजयिता याज्यः (०७३-०४७)
स एव भगवान् हरिः (०७३-०४७)
दाता दानं तथादाता (०७३-०४८)
कर्ता कार्यं तथा क्रियाः (०७३-०४८)
हन्ता घातयिता हिंस्यो (०७३-०४८)
हार्यं हर्ता च यः स्वयम् (०७३-०४८)
सर्वकारणभूतस्य (०७३-०४९)
तस्येशस्य महात्मनः (०७३-०४९)
कः करोति स्तुतिं विष्णोर् (०७३-०४९)
निन्दां वा पृथिवीपते (०७३-०४९)
तस्मात् सर्वेश्वरो विष्णुर् (०७३-०५०)
न स्तोतुं न च निन्दितुम् (०७३-०५०)
शक्यते सर्वभूतत्वाच् (०७३-०५०)
चोक्षाचोक्षस्वरूपिणा (०७३-०५०)
स्तुतेः पादाद् यतो नान्यद् (०७३-०५१)
उत्कृष्टम् उपलभ्यते (०७३-०५१)
तस्याप्य् उच्चारणेनेशो (०७३-०५१)
न स्तोतुं शक्यते हरिः (०७३-०५१)
भूतार्थवादस्तुतये (०७३-०५२)
न निन्दायै विधीयते (०७३-०५२)
यतो ऽतः सर्वभूतस्य (०७३-०५२)
का निन्दा तस्य का स्तुतिः (०७३-०५२)
येन सर्वात्मना तत्र (०७३-०५३)
हृदयं संनिवेशितम् (०७३-०५३)
अपि मौनवतस् तस्य (०७३-०५३)
सुलभो ऽयं जनार्दनः (०७३-०५३)
तस्मात् त्वं कुरुशार्दूल (०७३-०५४)
स्वधर्मपरिपालनम् (०७३-०५४)
कुरु विष्णुं च हृदये (०७३-०५४)
सर्वव्यापिनम् ईश्वरम् (०७३-०५४)
तन्मना भव तद्भक्तस् (०७३-०५५)
तद्याजी तं नमस्कुरु (०७३-०५५)
विष्णोर् एवं प्रियत्वं त्वम् (०७३-०५५)
आशु यास्यसि पार्थिव (०७३-०५५)
यं स्तुवन् स्तव्यताम् एति (०७३-०५६)
वन्द्यमानश् च वन्द्यताम् (०७३-०५६)
तम् ईश्वरेश्वरं विष्णुं (०७३-०५६)
हृदये संनिवेशय (०७३-०५६)
संपूज्य यं पूज्यतमो (०७३-०५७)
भवत्य् अत्र जगत्त्रये (०७३-०५७)
तम् ईश्वरेश्वरं विष्णुं (०७३-०५७)
हृदये कुरु पार्थिव (०७३-०५७)
स्ववर्णकर्माभिरतः (०७३-०५८)
कुरु चित्ते जनार्दनम् (०७३-०५८)
एष शास्त्रार्थसद्भावः (०७३-०५८)
किम् उक्तैर् बहुविस्तरैः (०७३-०५८)
यस्मिन् प्रसन्नचित्तस् त्वं (०७३-०५९)
यस्मिन् कोपम् उपैषि च (०७३-०५९)
ताव् उभाव् अपि तद्भूतौ (०७३-०५९)
चिन्तयन् सिद्धिम् एष्यसि (०७३-०५९)
यत्र यत्र स्थितं चेतः (०७३-०६०)
प्रीत्या स्नेहेन वा तव (०७३-०६०)
तं तं चिन्तय गोविन्दं (०७३-०६०)
मनसः स्थैर्यकारणात् (०७३-०६०)
स्वपन् विबुद्ध्यन्न् उत्तिष्ठन् (०७३-०६१)
स्थितो भुञ्जन् पिबन् व्रजन् (०७३-०६१)
सर्वगं सर्वकर्तारं (०७३-०६१)
विष्णुं सर्वत्र चिन्तय (०७३-०६१)
यथाग्निसंगात् कनकम् (०७३-०६२)
अपदोषं प्रजायते (०७३-०६२)
संश्लिष्टं वासुदेवेन (०७३-०६२)
मनुष्याणां तथा मनः (०७३-०६२)
यज्विनो यं नमस्यन्ति (०७३-०६३)
यं नमस्यन्ति देवताः (०७३-०६३)
योगिनो यं नमस्यन्ति (०७३-०६३)
तं नमस्यं नमाम्य् अहम् (०७३-०६३)
भूयश् च शृणु राजेन्द्र (०७४-००१)
यज् जगाद जनार्दनः (०७४-००१)
नागपर्यङ्कशयने (०७४-००१)
पृष्टः क्षीराब्धिकन्यया (०७४-००१)
पुरा शयानं गोविन्दं (०७४-००२)
प्रावृट्काले महोदधौ (०७४-००२)
शेषभोगिमहाभोगे (०७४-००२)
वीच्यम्बुकणशीतले (०७४-००२)
वक्षःस्थलस्थिता देवी (०७४-००३)
जगन्माता जगत्पतिम् (०७४-००३)
अनन्यासक्तदृष्टिं च (०७४-*(११७))
किम् अप्य् एकाग्रमानसम् (०७४-*(११७))
श्रीवत्सव्क्षसं लक्ष्मीः (०७४-००३)
करसंवाहनादृता (०७४-००३)
योगनिद्रावसानस्थम् (०७४-००४)
अच्युतं जगतः पतिम् (०७४-००४)
पप्रच्छ पुण्डरीकाक्षं (०७४-००४)
पुण्डरीककरा हरिम् (०७४-००४)
सृष्टं जगद् इदं सर्वं (०७४-००५)
बहुशश् चोपसंहृतम् (०७४-००५)
त्वया जगत्पते चात्र (०७४-००५)
किं कश्चिद् दयितस् तव (०७४-००५)
देवान् मनुष्यान् गन्धर्वान् (०७४-००६)
यक्षविद्याधरासुरान् (०७४-००६)
सृष्ट्वा सृष्टान् निर्घृणत्वाद् (०७४-००६)
उपसंहरते भवान् (०७४-००६)
कश्चिद् एतेषु भूतेषु (०७४-००७)
देवादिषु तवाच्युत (०७४-००७)
द्वेषो ऽस्ति प्रीतिर् अथवा (०७४-००७)
समः सर्वत्र वा भवान् (०७४-००७)
समो ऽस्मि सर्वभूतेषु (०७४-००८)
न मे द्वेष्यो ऽस्ति न प्रियः (०७४-००८)
तथापि गुणगृह्यो ऽहं (०७४-००८)
प्रत्येकहृदयस्थितः (०७४-००८)
अन्तरात्मनि सर्वस्य (०७४-००९)
लोकस्याहम् अवस्थितः (०७४-००९)
पुण्यापुण्यकृतौ तेषु (०७४-००९)
प्रीतिद्वेषौ शुभे मम (०७४-००९)
पुण्यं प्रीत्यनुभावेन (०७४-०१०)
साधु बुद्धिषु वर्तते (०७४-०१०)
द्वेषानुभावेनापुण्यं (०७४-०१०)
फलदं तेषु भामिनि (०७४-०१०)
श्रूयतां च महाभागे (०७४-०११)
नरेषु शुभचारिषु (०७४-०११)
सततं येषु मे प्रीतिस् (०७४-०११)
तथाप्रीतिर् वरानने (०७४-०११)
प्रलयोत्पत्तितत्त्वज्ञा (०७४-०१२)
आत्मज्ञानपराश् च ये (०७४-०१२)
एते स्वकर्मणा भद्रे (०७४-०१२)
मम प्रीतिपथं गताः (०७४-०१२)
वाङ्मनःकायिकीं हिंसां (०७४-०१३)
ये न कुर्वन्ति कुत्रचित् (०७४-०१३)
सर्वमैत्रा नरा लक्ष्मि (०७४-०१३)
दयितास् ते सदा मम (०७४-०१३)
स्वकीयद्रव्यसंतुष्टा (०७४-०१४)
निवृत्ताश् चौर्यकर्मणः (०७४-०१४)
सत्यशीलदयायुक्ता (०७४-०१४)
नरा मम सदा प्रियाः (०७४-०१४)
मातृस्वसृसुतातुल्यान् (०७४-०१५)
परदारांश् च ये नराः (०७४-०१५)
मन्यन्ते ते च मे लक्ष्मि (०७४-०१५)
दृढं प्रियतमाः सदा (०७४-०१५)
न कामान् न च संरम्भान् (०७४-०१६)
न द्वेषाद् ये च भामिनि (०७४-०१६)
संत्यजन्ति स्वकं कर्म (०७४-०१६)
ते ऽतीव दयिता मम (०७४-०१६)
विश्वास्याः सर्वभूतानाम् (०७४-०१७)
अहिंस्राश् च दयालवः (०७४-०१७)
त्यक्तानृतकथा देवि (०७४-०१७)
मनुष्या दयिता मम (०७४-०१७)
धर्मलब्धांस् तु ये भोगान् (०७४-०१८)
भुञ्जते नातिकीकटाः (०७४-०१८)
परलोकाविरोधेन (०७४-०१८)
ते ममातिप्रिया नराः (०७४-०१८)
न लोभे न च कार्पण्ये (०७४-०१९)
न स्तेये न च मत्सरे (०७४-०१९)
येषां मतिर् मनुष्याणां (०७४-०१९)
ते ऽतीव दयिता मम (०७४-०१९)
धर्मलब्धेषु दारेषु (०७४-०२०)
ऋतुकालाभिगामिनः (०७४-०२०)
गृहस्थकर्माभिरता (०७४-०२०)
नरास् ते दयिता मम (०७४-०२०)
पररन्ध्रेषु जात्यन्धाः (०७४-०२१)
परदारेष्व् अपुंसकाः (०७४-०२१)
परापवादे ये मूका (०७४-०२१)
दयितास् ते नरा मम (०७४-०२१)
परापवादं निन्दां च (०७४-०२२)
परमर्मावघट्टनम् (०७४-०२२)
ये न कुर्वन्ति पुरुषास् (०७४-०२२)
ते देवि मम वल्लभाः (०७४-०२२)
सत्यां श्लक्ष्णां निराबाधां (०७४-०२३)
मधुरां प्रीतिदायिनीम् (०७४-०२३)
ये वाचम् ईरयन्ति स्म (०७४-०२३)
ते मनुष्या मम प्रियाः (०७४-०२३)
ये ब्राह्मणार्थे संत्यज्य (०७४-०२४)
सद्यः स्वम् अपि जीवितम् (०७४-०२४)
यतन्ते परया भक्त्या (०७४-०२४)
ते देवि दयिता मम (०७४-०२४)
साक्षाद् देवम् इवायान्तं (०७४-०२५)
या पतिं नित्यम् अर्चति (०७४-०२५)
पादशौचादिभिर् नारी (०७४-०२५)
तस्या नाहं सुदुर्लभः (०७४-०२५)
पूर्णचन्द्रम् इवोद्यतं (०७४-०२६)
भर्तारं या गृहागतम् (०७४-०२६)
हृष्टा पश्यति तां विद्धि (०७४-०२६)
दयितां योषितं मम (०७४-०२६)
ते भक्ता ये सदा विप्रान् (०७४-०२७)
पूजयन्त्य् अब्धिसंभवे (०७४-०२७)
यथाविभवतो भक्त्या (०७४-०२७)
स्वकर्माभिरता नराः (०७४-०२७)
श्रुतिस्मृत्युदितं धर्मं (०७४-०२८)
मनसापि न ये नराः (०७४-०२८)
समुल्लङ्घ्य प्रवर्तन्ते (०७४-०२८)
ते भक्ता मम भामिनि (०७४-०२८)
ब्रह्मरूपधरस्यास्यान् (०७४-०२९)
मम वेदा विनिःसृताः (०७४-०२९)
मन्वादिरूपिणश् चैव (०७४-०२९)
समस्ताः स्मृतयः स्मृताः (०७४-०२९)
श्रुतिः स्मृतिर् ममैवाज्ञा (०७४-०३०)
ताम् उल्लङ्घ्य यजेच् छुभे (०७४-०३०)
सर्वस्वेनापि मां देवि (०७४-०३०)
नाप्नोत्य् आज्ञाविघातकृत् (०७४-०३०)
यः स्वधर्मान् न चलति (०७४-०३१)
हिंसाधौ यो न सज्यते (०७४-०३१)
वहतस् तस्य मद्भक्तिं (०७४-०३१)
सदैवाहं न दुर्लभः (०७४-०३१)
एतद् देवि मयाख्यातं (०७४-०३२)
यत् पृष्टो ऽहम् इह त्वया (०७४-०३२)
प्रियाणां मम सर्वेषां (०७४-०३२)
शृणु यो ऽतितरं प्रियः (०७४-०३२)
ब्राह्मणः क्षत्रियो वैश्यः (०७४-०३३)
शूद्रश् च वरवर्णिनि (०७४-०३३)
स्वधर्माद् अचलन् देवि (०७४-०३३)
दयावान् सर्वजन्तुषु (०७४-०३३)
सत्यवाच् छौचसंपन्नो (०७४-०३४)
न द्रोही न च मत्सरी (०७४-०३४)
वाङ्मनःकर्मभिः शान्तो (०७४-०३४)
दयितः सततं मम (०७४-०३४)
एवं श्रीर् देवदेवेन (०७४-०३५)
प्राग् उक्ता हरिमेधसा (०७४-०३५)
तवापि हि नरश्रेष्ठ (०७४-०३५)
यथावत् कथितं मया (०७४-०३५)
संवादम् एतद् देवस्य (०७४-०३६)
सह लक्ष्म्या जगत्पतेः (०७४-०३६)
यः शृणोति स पापेभ्यः (०७४-०३६)
समस्तेभ्यः प्रमुच्यते (०७४-०३६)
भूयो ऽखिलं जगद्धातुर् (०७५-००१)
वासुदेवस्य भार्गव (०७५-००१)
सम्यगाराधनायालं (०७५-००१)
क्रियायोगं ब्रवीहि मे (०७५-००१)
यत् फलं केशवस्यार्चां (०७५-००२)
प्रतिष्ठाप्य लभेन् नरः (०७५-००२)
यच् च देवकुलं विष्णोः (०७५-००२)
कारयित्वा फलं लभेत् (०७५-००२)
यद् दीपधूपपुष्पाणां (०७५-००३)
गन्धानां च निवेदने (०७५-००३)
ध्वजादिदाने यत् पुण्यं (०७५-००३)
यत् पुण्यं गीतवादिते (०७५-००३)
तथा पवित्रपठने (०७५-००४)
जयशब्दाद्युदीरणे (०७५-००४)
संमार्जनादौ यत् पुण्यं (०७५-००४)
नमस्कारे प्रदक्षिणे (०७५-००४)
शीर्णस्फुटितसंस्कार- (०७५-००५)
करणे चापि यत् फलम् (०७५-००५)
तन् मे विस्तरतः सर्वं (०७५-००५)
भगवन् वक्तुम् अर्हसि (०७५-००५)
यैश् चोपवासैर् भगवान् (०७५-००६)
नरैर् आराध्यते हरिः (०७५-००६)
तेषां फलं च यत् कृत्स्नं (०७५-००६)
तन् ममाचक्ष्व विस्तरात् (०७५-००६)
संक्षेपात् पूर्वम् एवैतद् (०७५-००७)
भवतः कथितं मया (०७५-००७)
विस्तरेण महाराज (०७५-००७)
श्रूयतां ब्रुवतो मम (०७५-००७)
अदितिर् नाम देवानां (०७५-००८)
माता परमदुश्चरम् (०७५-००८)
तपश् चचार वर्षाणां (०७५-००८)
सहस्रं पृथिवीपते (०७५-००८)
आराधनाय कृष्णस्य (०७५-००९)
वाग्यता वायुभोजना (०७५-००९)
दैत्यैर् निराकृतान् दृष्ट्वा (०७५-००९)
तनयान् कुरुनन्दन (०७५-००९)
वृथापुत्राहम् अस्मीति (०७५-०१०)
निर्वेदात् प्रणता हरिम् (०७५-०१०)
तुष्टाव वाग्भिर् इष्टाभिः (०७५-०१०)
परमार्थावबोधिनी (०७५-०१०)
शरण्यं शरणं विष्णुं (०७५-*(११८))
प्रणता भक्तवत्सलम् (०७५-*(११८))
देवदैत्यनृपश्वाप- (०७५-०१०)
व्योमवाय्वादिरूपिणम् (०७५-०१०)
नमः स्मृतार्तिनाशाय (०७५-०११)
नमः पुष्करमालिने (०७५-०११)
नमः परमकल्याण- (०७५-०११)
कल्याणायादिवेधसे (०७५-०११)
नमः पङ्कजनेत्राय (०७५-०१२)
नमः पङ्कजनाभये (०७५-०१२)
नमः पङ्कजसंभूति- (०७५-०१२)
संभवायात्मयोनये (०७५-०१२)
श्रियः कान्ताय दान्ताय (०७५-०१३)
दान्तदृश्याय चक्रिणे (०७५-०१३)
नमः शङ्खासिहस्ताय (०७५-०१३)
नमः कनकरेतसे (०७५-०१३)
तथात्मज्ञानविज्ञान- (०७५-०१४)
योगचित्तात्मयोगिने (०७५-०१४)
निर्गुणाय विशेषाय (०७५-०१४)
हरये ब्रह्मरूपिणे (०७५-०१४)
जगत् प्रतिष्ठितं यत्र (०७५-०१५)
जगता यो न दृश्यते (०७५-०१५)
नमः स्थूलातिसूक्ष्माय (०७५-०१५)
तस्मै देवाय शङ्खिने (०७५-०१५)
यं न पश्यन्ति पश्यन्तो (०७५-०१६)
जगद् अप्य् अखिलं नराः (०७५-०१६)
अपश्यद्भिर् जगद् यच् च (०७५-०१६)
दृश्यते स्वहृदि स्थितः (०७५-०१६)
बहिर्ज्योतिषि लक्ष्यो यो (०७५-*(११९))
लक्ष्यते ज्योतिषः परः (०७५-*(११९))
यस्मिन्न् एतद् यतश् चैतद् (०७५-०१७)
यश् चैतद् अखिलं जगत् (०७५-०१७)
तस्मै समस्तजगताम् (०७५-०१७)
आधाराय नमो नमः (०७५-०१७)
आद्यः प्रजापतिपतिर् (०७५-०१८)
यः पितॄणां परः पतिः (०७५-०१८)
पतिः सुराणां यस् तस्मै (०७५-०१८)
नमः कृष्णाय वेधसे (०७५-०१८)
यः प्रवृत्तैर् निवृत्तैश् च (०७५-०१९)
कर्मभिर् विभुर् इज्यते (०७५-०१९)
स्वर्गापवर्गफलदो (०७५-०१९)
नमस् तस्मै गदाधृते (०७५-०१९)
यश् चिन्त्यमानो मनसा (०७५-०२०)
सद्यः पापं व्यपोहति (०७५-०२०)
नमस् तस्मै विशुद्धाय (०७५-०२०)
परस्मै हरिमेधसे (०७५-०२०)
यं प्रविश्याखिलाधारम् (०७५-०२१)
ईशानम् अजम् अव्ययम् (०७५-०२१)
न पुनर् जन्ममरणे (०७५-०२१)
प्राप्नुवन्ति नमामि तम् (०७५-०२१)
यो यज्ञे यज्ञपरमैर् (०७५-०२२)
इज्यते यज्ञसंस्थितिः (०७५-०२२)
तं यज्ञपुरुषं विष्णुं (०७५-०२२)
नमामि प्रभुम् ईश्वरम् (०७५-०२२)
गीयते सर्ववेदेषु (०७५-०२३)
वेदविद्भिर् विदां गतिः (०७५-०२३)
यस् तस्मै वेदवेद्याय (०७५-०२३)
विष्णवे जिष्णवे नमः (०७५-०२३)
यतो विश्वं समुद्भूतं (०७५-०२४)
यस्मिंश् च लयम् एष्यति (०७५-०२४)
विश्वोद्भवप्रतिष्ठाय (०७५-०२४)
नमस् तस्मै महात्मने (०७५-०२४)
ब्रह्मादिस्तम्बपर्यन्तं (०७५-०२५)
विना येन तताम् इमाम् (०७५-०२५)
मायां नालं समुत्तर्तुं (०७५-०२५)
तम् उपेन्द्रं नमाम्य् अहम् (०७५-०२५)
यम् आराध्य विशुद्धेन (०७५-*(१२०))
मनसा कर्मणा गिरा (०७५-*(१२०))
हरत्य् अविद्याम् अखिलां (०७५-*(१२०))
तम् उपेन्द्रं नमाम्य् अहम् (०७५-*(१२०))
विषादतोषरोषाद्यैर् (०७५-*(१२०))
यो ऽजस्रं सुखदुःखजैः (०७५-*(१२०))
नृत्यत्य् अखिलभूतस्थस् (०७५-*(१२०))
तम् उपेन्द्रं नमाम्य् अहम् (०७५-*(१२०))
यो ऽन्नतोयस्वरूपस्थो (०७५-०२६)
बिभर्त्य् अखिलम् ईश्वरः (०७५-०२६)
विश्वं विश्वपतिं विष्णुं (०७५-०२६)
तं नमामि प्रजापतिम् (०७५-०२६)
मूर्तं तमो ऽसुरमयं (०७५-०२७)
तद्वधाद् विनिहन्ति यः (०७५-०२७)
रात्रिजं सूर्यरूपी च (०७५-०२७)
तम् उपेन्द्रं नमाम्य् अहम् (०७५-०२७)
कपिलादिस्वरूपस्थो (०७५-०२८)
यश् चाज्ञानमयं तमः (०७५-०२८)
हन्ति ज्ञानप्रदानेन (०७५-०२८)
तम् उपेन्द्रं नमाम्य् अहम् (०७५-०२८)
यस्याक्षिणी चन्द्रसूर्यौ (०७५-०२९)
सर्वलोकशुभाशुभम् (०७५-०२९)
पश्येते कर्म सततं (०७५-०२९)
तम् उपेन्द्रं नमाम्य् अहम् (०७५-०२९)
यस्मिन् सर्वेश्वरे सर्वं (०७५-०३०)
सत्यम् एतन् मयोदितम् (०७५-०३०)
नानृतं तम् अजं विष्णुं (०७५-०३०)
नमामि प्रभवाव्ययम् (०७५-०३०)
यथैतत् सत्यम् उक्तं मे (०७५-०३१)
भूयश् चातो जनार्दनः (०७५-०३१)
सत्येन तेन सकलाः (०७५-०३१)
पूर्यन्तां मे मनोरथाः (०७५-०३१)
एवं स्तुतो ऽथ भगवान् (०७५-०३२)
वासुदेव उवाच ताम् (०७५-०३२)
अदृश्यः सर्वभूतानां (०७५-०३२)
तस्याः संदर्शने स्थितः (०७५-०३२)
मनोरथांस् त्वम् अदिते (०७५-०३३)
यान् इच्छस्य् अभिपूरितान् (०७५-०३३)
तांस् तान् प्राप्स्यसि धर्मज्ञे (०७५-०३३)
मत्प्रसादाद् असंशयम् (०७५-०३३)
शृणुष्व च महाभागे (०७५-०३४)
वरं यस् ते हृदि स्थितः (०७५-०३४)
तं प्रयच्छामि नियतं (०७५-*(१२२))
मात्र कार्या विचारणा (०७५-*(१२२))
मद्दर्शनं हि विफलं (०७५-०३४)
न कदाचिद् भविष्यति (०७५-०३४)
यदि देव प्रसन्नस् त्वं (०७५-०३५)
भक्ताया भक्तवत्सल (०७५-०३५)
त्रैलोक्याधिपतिः पुत्रस् (०७५-०३५)
तद् अस्तु मम वासवः (०७५-०३५)
हृतराज्यो हृतश् चास्य (०७५-०३६)
यज्ञभागो महासुरैः (०७५-०३६)
त्वयि प्रसन्ने वरद (०७५-०३६)
तं प्राप्नोतु सुतो मम (०७५-०३६)
हृतं राज्यं न दुःखाय (०७५-०३७)
मम पुत्रस्य केशव (०७५-०३७)
सपत्नाद् आयतिभ्रंशो (०७५-०३७)
बाधां नः कुरुते हृदि (०७५-०३७)
कृतः प्रसादो हि मया (०७५-०३८)
तव देवि यथेप्सितः (०७५-०३८)
स्वांशेन चैव ते गर्भे (०७५-०३८)
संभविष्यामि कश्यपात् (०७५-०३८)
तव गर्भसमुद्भूतः (०७५-०३९)
सुतस् ते ये सुरारयः (०७५-०३९)
तान् अहं निहनिष्यामि (०७५-०३९)
निर्वृता भव नन्दिनि (०७५-०३९)
प्रसीद देवदेवेश (०७५-०४०)
नमस् ते विश्वभावन (०७५-०४०)
नाहं त्वाम् उदरेणेश (०७५-०४०)
वोढुं शक्ष्यामि केशव (०७५-०४०)
यस्मिन् प्रतिष्ठितं विश्वं (०७५-०४१)
यो विश्वं स्वयम् ईश्वर (०७५-०४१)
तद् अहं नोदरेण त्वां (०७५-०४१)
वोढुं शक्ष्यामि दुर्धरम् (०७५-०४१)
सत्यम् आत्थ महाभागे (०७५-०४२)
मयि सर्वम् इदं जगत् (०७५-०४२)
प्रतिष्ठितं न मां शक्ता (०७५-०४२)
वोढुं सेन्द्रा दिवौकसः (०७५-०४२)
किन्त्व् अहं सकलांल् लोकान् (०७५-०४३)
सदेवासुरमानुषान् (०७५-०४३)
जङ्गमाजङ्गमं सर्वं (०७५-०४३)
त्वां च देवि सकाश्यपाम् (०७५-०४३)
धारयिष्यामि भद्रं ते (०७५-०४३)
तव गर्भशयो ऽदिते (०७५-०४३)
न ते ग्लानिर् न ते खेदो (०७५-०४४)
गर्भस्थे भविता मयि (०७५-०४४)
दाक्षायणि प्रसादं ते (०७५-०४४)
करोम्य् अन्यैः सुदुर्लभम् (०७५-०४४)
गर्भस्थे मयि पुत्राणां (०७५-०४५)
तव यो ऽरिर् भविष्यति (०७५-०४५)
तेजसस् तस्य हानिं च (०७५-०४५)
करिष्ये मा व्यथां कृताः (०७५-०४५)
एवम् उक्त्वा ततः सद्यो (०७५-०४६)
गतो ऽन्तर्धानम् ईश्वरः (०७५-०४६)
सापि कालेन तं गर्भम् (०७५-०४६)
अवाप कुरुसत्तम (०७५-०४६)
गर्भस्थिते ततः कृष्णे (०७५-०४७)
चचाल सकला क्षितिः (०७५-०४७)
चकम्पिरे महाशैला (०७५-०४७)
जग्मुः क्षोभम् अथाब्धयः (०७५-०४७)
यतो यतो ऽदितिर् यान्ती (०७५-०४८)
ददाति ललितं पदम् (०७५-०४८)
ततस् ततः क्षितिः खेदान् (०७५-०४८)
ननाम वसुधाधिप (०७५-०४८)
दैत्यानाम् अपि सर्वेषां (०७५-०४९)
गर्भस्थे मधुसूदने (०७५-०४९)
बभूव तेजसो हानिर् (०७५-०४९)
यथोक्तं परमेष्ठिना (०७५-०४९)
निस्तेजसो ऽसुरान् दृष्ट्वा (०७६-००१)
समस्तान् असुरेश्वरः (०७६-००१)
प्रह्रादम् अथ पप्रच्छ (०७६-००१)
बलिर् आत्मपितामहम् (०७६-००१)
तात निस्तेजसो दैत्या (०७६-००२)
निर्दग्धा इव वह्निना (०७६-००२)
किम् एते सहसैवाद्य (०७६-००२)
ब्रह्मदण्डहता इव (०७६-००२)
दुरिष्टं किं नु दैत्यानां (०७६-००३)
किं कृत्या वैरिनिर्मिता (०७६-००३)
नाशायैषां समुद्भूता (०७६-००३)
येन निस्तेजसो ऽसुराः (०७६-००३)
इत्य् आसुरवरस् तेन (०७६-००४)
पृष्टः पौत्रेण पार्थिव (०७६-००४)
चिरं ध्यात्वा जगादेदम् (०७६-००४)
असुरेन्द्रं तदा बलिम् (०७६-००४)
चलन्ति गिरयो भूमिर् (०७६-००५)
जहाति सहजां धृतिम् (०७६-००५)
सद्यः समुद्राः क्षुभिता (०७६-००५)
दैत्या निस्तेजसः कृताः (०७६-००५)
सूर्यादयो यथा पूर्वं (०७६-००६)
तथा गच्छन्ति न ग्रहाः (०७६-००६)
देवानां च परा लक्ष्मीः (०७६-००६)
कारणैर् अनुमीयते (०७६-००६)
महद् एतन् महाबाहो (०७६-००७)
कारणं दानवेश्वर (०७६-००७)
न ह्य् अल्पम् इति मन्तव्यं (०७६-००७)
त्वया कार्यं सुरार्दन (०७६-००७)
इत्य् उक्त्वा दानवपतिं (०७६-००८)
प्रह्रादः सो ऽसुरोत्तमः (०७६-००८)
अत्यन्तभक्तो देवेशं (०७६-००८)
जगाम मनसा हरिम् (०७६-००८)
स ध्यानपथगं कृत्वा (०७६-००९)
प्रह्रादः स्वं मनो ऽसुरः (०७६-००९)
विचारयाम् आस ततो (०७६-००९)
यतो देवो जनार्दनः (०७६-००९)
स ददर्शोदरे ऽदित्याः (०७६-०१०)
प्रह्रादो वामनाकृतिम् (०७६-०१०)
अन्तःस्थान् बिभ्रतं सप्त (०७६-०१०)
लोकान् आदिप्रजापतिम् (०७६-०१०)
तद् अन्तश् च वसून् रुद्रान् (०७६-०११)
अश्विनौ मरुतस् तथा (०७६-०११)
साध्यान् विश्वे तथादित्यान् (०७६-०११)
गन्धर्वोरगराक्षसान् (०७६-०११)
विरोचनं सतनयं (०७६-०१२)
बलिं चासुरनायकम् (०७६-०१२)
जम्भं कुजम्भं नरकं (०७६-०१२)
बाणम् अन्यांस् तथासुरान् (०७६-०१२)
आत्मानम् उर्वीगगनं (०७६-०१३)
वायुम् अम्भो हुताशनम् (०७६-०१३)
समुद्राद्रिद्रुमसरित्- (०७६-०१३)
सरांसि पशवो मृगान् (०७६-०१३)
वयोमनुष्यान् अखिलांस् (०७६-०१४)
तथैव च सरीसृपान् (०७६-०१४)
समस्तलोकस्रष्टारं (०७६-०१४)
ब्रह्माणं भवम् एव च (०७६-०१४)
ग्रहनक्षत्रताराश् च (०७६-०१५)
दक्षाद्यांश् च प्रजापतीन् (०७६-०१५)
संपश्यन् विस्मयाविष्टः (०७६-०१५)
प्रकृतिस्थः क्षणात् पुनः (०७६-०१५)
प्रह्रादः प्राह दैत्येन्द्रं (०७६-०१६)
बलिं वैरोचनिं तदा (०७६-०१६)
वत्स ज्ञातं मया सर्वं (०७६-०१७)
यदर्थं भवताम् इयम् (०७६-०१७)
तेजसो हानिर् उत्पन्ना (०७६-०१७)
तच् छृणु त्वम् अशेषतः (०७६-०१७)
देवदेवो जगद्योनिर् (०७६-०१८)
अयोनिर् जगदादिकृत् (०७६-०१८)
अनादिर् आदिर् विश्वस्य (०७६-०१८)
वरेण्यो वरदो हरिः (०७६-०१८)
परापराणां परमः (०७६-०१९)
परः परवताम् अपि (०७६-०१९)
प्रभुः प्रमाणं मानानां (०७६-०१९)
सप्तलोकगुरोर् गुरुः (०७६-०१९)
स्थितिं कर्तुं जगन्नाथः (०७६-*(१२३))
सो ऽदित्या गर्भतां गतः (०७६-*(१२३))
प्रभुः प्रभूणाम् परमः पराणाम् (०७६-०२०)
अनादिमध्यो भगवान् अनन्तः (०७६-०२०)
त्रैलोक्यम् अंशेन सनाथम् एष (०७६-०२०)
कर्तुं महात्मादितिजो ऽवतीर्णः (०७६-०२०)
न यस्य रुद्रो न च पद्मयोनिर् (०७६-०२१)
नेन्द्रो न सूर्येन्दुमरीचिमिश्राः (०७६-०२१)
जानन्ति दैत्याधिप यत् स्वरूपं (०७६-०२१)
स वासुदेवः कलयावतीर्णः (०७६-०२१)
यो ऽसौ कलांशेन नृसिंहरूपी (०७६-०२२)
जघान पूर्वं पितरम् अशेषः (०७६-०२२)
यः सर्वयोगीशमनोनिवासः (०७६-०२२)
स वासुदेवः कलयावतीर्णः (०७६-०२२)
यम् अक्षरं वेदविदो विदित्वा (०७६-०२३)
विशन्ति तं ज्ञानविधूतपापाः (०७६-०२३)
यस्मिन् प्रविष्टा न पुनर् भवन्ति (०७६-०२३)
तं वासुदेवं प्रणमामि देवम् (०७६-०२३)
भूतान्य् अशेषाणि यतो भवन्ति (०७६-०२४)
यथोर्मयस् तोयनिधेर् अजस्रम् (०७६-०२४)
लयं च यस्मिन् प्रलये प्रयान्ति (०७६-०२४)
तं वासुदेवं प्रणमाम्य् अचिन्त्यम् (०७६-०२४)
न यस्य रूपं न बलं प्रभावो (०७६-०२५)
न च स्वभावः परमस्य पुंसः (०७६-०२५)
विज्ञायते सर्वपितामहाद्यैस् (०७६-०२५)
तं वासुदेवं प्रणमाम्य् अचिन्त्यम् (०७६-०२५)
रूपस्य चक्षुर् ग्रहणे त्वग् एषा (०७६-०२६)
स्पर्शग्रहीत्री रसना रसस्य (०७६-०२६)
श्रोत्रं च शब्दग्रहणे नराणां (०७६-०२६)
घ्राणं च गन्धग्रहणे नियुक्तम् (०७६-०२६)
न घ्राणचक्षुःश्रवणादिभिर् यः (०७६-०२७)
सर्वेश्वरो वेदितुम् अव्ययात्मा (०७६-०२७)
शक्यस् तम् ईड्यं मनसैव देवं (०७६-०२७)
ग्राह्यं नतो ऽहं हरिम् ईशितारम् (०७६-०२७)
येनैकदंष्ट्राग्रसमुद्धृतेयं (०७६-०२८)
धराचला धारयतीह सर्वम् (०७६-०२८)
ग्रस्त्वा स शेते सकलं जगद् यस् (०७६-०२८)
तम् ईड्यम् ईशं प्रणतो ऽस्मि विष्णुम् (०७६-०२८)
अंशावतीर्णेन च येन गर्भे (०७६-०२९)
हृतानि तेजांसि महासुराणाम् (०७६-०२९)
नमामि तं देवम् अनन्तम् ईशम् (०७६-०२९)
अशेषसंसारतरोः कुठारम् (०७६-०२९)
देवो जगद्योनिर् अयं महात्मा (०७६-०३०)
स षोडशांशेन महासुरेन्द्र (०७६-०३०)
सुरेन्द्रमातुर् जठरं प्रविष्टो (०७६-०३०)
हृतानि वस् तेन बले वपूंषि (०७६-०३०)
तात को ऽयं हरिर् नाम (०७६-०३१)
यतो न भयम् आगतम् (०७६-०३१)
सन्ति मे शतशो दैत्या (०७६-०३१)
वासुदेवबलाधिकाः (०७६-०३१)
विप्रचित्तिः शिबिः शङ्कुर् (०७६-०३२)
अयःशङ्कुस् तथैव च (०७६-०३२)
अयःशिरा अश्वशिरा (०७६-०३२)
भङ्गकारो महाहनुः (०७६-०३२)
प्रतापी प्रघसः शंभुः (०७६-०३३)
कुर्कुराक्षश् च दुर्जयः (०७६-०३३)
एते चान्ये च मे सन्ति (०७६-०३३)
दैतेया दानवास् तथा (०७६-०३३)
महाबला महावीर्या (०७६-०३४)
भूभारधरणक्षमाः (०७६-०३४)
येषाम् एकैकशः कृष्णो (०७६-०३४)
न वीर्यार्धेन संमितः (०७६-०३४)
पौत्रस्यैतद् वचः श्रुत्वा (०७६-०३५)
प्रह्रादो दैत्यपुङ्गवः (०७६-०३५)
धिग् धिग् इत्य् आह स बलिं (०७६-०३५)
वैकुण्ठाक्षेपवादिनम् (०७६-०३५)
विनाशम् उपयास्यन्ति (०७६-०३६)
मन्ये दैतेयदानवाः (०७६-०३६)
येषां त्वम् ईदृशो राजा (०७६-०३६)
दुर्बुद्धिर् अविवेकवान् (०७६-०३६)
देवदेवं महाभागं (०७६-०३७)
वासुदेवम् अजं विभुम् (०७६-०३७)
त्वाम् ऋते पापसंकल्पं (०७६-०३७)
को ऽन्य एवं वदिष्यति (०७६-०३७)
य एते भवता प्रोक्ताः (०७६-०३८)
समस्ता दैत्यदानवाः (०७६-०३८)
सब्रह्मकास् तथा देवाः (०७६-०३८)
स्थावरान्ताश् च भूतयः (०७६-०३८)
त्वं चाहं च जगच् चेदं (०७६-०३९)
साद्रिद्रुमनदीनदम् (०७६-०३९)
समुद्रद्वीपलोकाश् च (०७६-०३९)
यच् चेङ्गं यच् च नेङ्गति (०७६-०३९)
यस्यातिवन्द्यवन्द्यस्य (०७६-०४०)
व्यापिनः परमात्मनः (०७६-०४०)
एकांशांशकलाजन्म (०७६-०४०)
कस् तम् एवं प्रवक्ष्यति (०७६-०४०)
ऋते विनाशाभिमुखं (०७६-०४१)
त्वाम् एकम् अविवेकिनम् (०७६-०४१)
दुर्बुद्धिम् अजितात्मानं (०७६-०४१)
वृद्धानां शासनातिगम् (०७६-०४१)
शोच्यो ऽहं यस्य वै गेहे (०७६-०४२)
जातस् तव पिताधमः (०७६-०४२)
यस्य त्वम् ईदृशः पुत्रो (०७६-०४२)
देवदेवावमन्यकः (०७६-०४२)
तिष्ठत्व् अनेकसंसार- (०७६-०४३)
संहृताघविनाशनी (०७६-०४३)
कृष्णे भक्तिर् अहं तावद् (०७६-०४३)
अवेक्ष्यो भवतो न किम् (०७६-०४३)
न मे प्रियतरः कृष्णाद् (०७६-०४४)
अपि देहो ऽयम् आत्मनः (०७६-०४४)
इति जानात्य् अयं लोको (०७६-०४४)
भवांश् च दितिजाधमः (०७६-०४४)
जानन्न् अपि प्रियतरं (०७६-०४५)
प्राणेभ्यो ऽपि हरिं मम (०७६-०४५)
निन्दां करोषि च कथम् (०७६-०४५)
अकुर्वन् गौरवं मम (०७६-०४५)
विरोचनस् तव गुरुर् (०७६-०४६)
गुरुस् तस्याप्य् अहं बले (०७६-०४६)
ममापि सर्वजगतां (०७६-०४६)
गुरुर् नारायणो गुरुः (०७६-०४६)
निन्दां करोषि तस्मिंस् त्वं (०७६-०४७)
कृष्णे गुरुगुरोर् गुरौ (०७६-०४७)
यस्मात् तस्माद् इहैश्वर्याद् (०७६-०४७)
अचिराद् भ्रंशम् एष्यसि (०७६-०४७)
मा देवो मा जगन्नाथो (०७६-०४८)
बले मासौ जनार्दनः (०७६-०४८)
भवत्व् अहम् अवेक्ष्यस् ते (०७६-०४८)
प्रीतिमान् अत्र मे गुरुः (०७६-०४८)
एतावन्मात्रम् अप्य् अत्र (०७६-०४९)
निन्दता जगतो गुरुम् (०७६-०४९)
नापेक्षिता वयं यस्मात् (०७६-०४९)
तस्माच् छापं ददामि ते (०७६-०४९)
यथा मे शिरसश् छेदाद् (०७६-०५०)
इदं गुरुतरं बले (०७६-०५०)
त्वयोक्तम् अच्युताक्षेपि (०७६-०५०)
राज्यभ्रष्टस् तथा पत (०७६-०५०)
यथा न कृष्णाद् अपरं (०७६-०५१)
परित्राणं भवार्णवे (०७६-०५१)
तथाचिरेण पश्येयं (०७६-०५१)
भवन्तं राज्यविच्युतम् (०७६-०५१)
इति दैत्यपतिः श्रुत्वा (०७६-०५२)
गुरोर् वचनम् अप्रियम् (०७६-०५२)
प्रसादयाम् आस गुरुं (०७६-०५२)
प्रणिपत्य पुणः पुनः (०७६-०५२)
प्रसीद तात मा कोपं (०७६-०५३)
कुरु मोहहते मयि (०७६-०५३)
बलावलेपमत्तेन (०७६-०५३)
मयैतद् वाक्यम् ईरितम् (०७६-०५३)
मोहोपहतविज्ञानः (०७६-०५४)
पापो ऽहं दितिजोत्तम (०७६-०५४)
यच् छप्तो ऽस्मि दुराचारस् (०७६-०५४)
तत् साधु भवता कृतम् (०७६-०५४)
राज्यभ्रंशं वसुभ्रंशं (०७६-०५५)
संप्राप्स्यामीति न त्व् अहम् (०७६-०५५)
विषण्णो ऽस्मि यथा तात (०७६-०५५)
तवैवाविनये कृते (०७६-०५५)
त्रैलोक्यराज्यम् ऐश्वर्यम् (०७६-०५६)
अन्यद् वा नातिदुर्लभम् (०७६-०५६)
संसारे दुर्लभास् तात (०७६-०५६)
गुरवो ये भवद्विधाः (०७६-०५६)
तत् प्रसीद न मे कोपं (०७६-०५७)
कर्तुम् अर्हसि दैत्यप (०७६-०५७)
त्वत्कोपहेतुदुष्टो ऽहं (०७६-०५७)
परितप्ये न शापतः (०७६-०५७)
वत्स कोपेन मोहो मे (०७६-०५८)
जनितस् तेन ते मया (०७६-०५८)
शापो दत्तो विवेकश् च (०७६-०५८)
मोहेनापहृतो मम (०७६-०५८)
यदि मोहेन मे ज्ञानं (०७६-०५९)
नाक्षिप्तं स्यान् महासुर (०७६-०५९)
तत् कथं सर्वगं ज्ञानन् (०७६-०५९)
हरिं कंचिच् छापाम्य् अहम् (०७६-०५९)
यो ऽयं शापो मया दत्तो (०७६-०६०)
भवतो ऽसुरपुङ्गव (०७६-०६०)
भाव्यम् एतेन नूनं ते (०७६-०६०)
तस्मात् त्वं मा विषीदथाः (०७६-०६०)
अद्यप्रभृति देवेशे (०७६-०६१)
भगवत्य् अच्युते हरौ (०७६-०६१)
भवेथा भक्तिमान् ईशः (०७६-०६१)
स ते त्राता भविष्यति (०७६-०६१)
शापं प्राप्य च मां वीर (०७६-०६२)
संस्मरेथाः स्मृतस् त्वया (०७६-०६२)
तथा तथा यतिष्यामि (०७६-०६२)
श्रेयसा योक्ष्यते यथा (०७६-०६२)
एवम् उक्त्वा स दैत्येन्द्रो (०७६-०६३)
विरराम महामतिः (०७६-०६३)
अजायत स गोविन्दो (०७६-०६३)
भगवान् वामनाकृतिः (०७६-०६३)
अवतीर्णे जगन्नाथे (०७६-०६४)
तस्मिन् सर्वम् अशीशमत् (०७६-०६४)
यद् आसुरम् अभूद् दुःखं (०७६-०६४)
देवानाम् अदितेस् तथा (०७६-०६४)
ववुर् वाताः सुखस्पर्शा (०७६-०६५)
नीरजस्कम् अभून् नभः (०७६-०६५)
धर्मे च सर्वभूतानां (०७६-०६५)
तदा मतिर् अजायत (०७६-०६५)
नोद्वेगश् चाप्य् अभूद् देहे (०७६-०६६)
मनुजानां जनेश्वर (०७६-०६६)
तथा हि सर्वभूतानां (०७६-०६६)
भूम्यम्बरदिवौकसाम् (०७६-०६६)
तं जातमात्रं भगवान् (०७६-०६७)
ब्रह्मा लोकपितामहः (०७६-०६७)
जातकर्मादिकाः कृत्वा (०७६-०६७)
क्रियास् तुष्टाव पार्थिव (०७६-०६७)
जयाद्येश जयाजेय (०७६-०६८)
जय सर्वात्मकात्मक (०७६-०६८)
जय जन्मजरापेत (०७६-०६८)
जयानन्त जयाच्युत (०७६-०६८)
जयाजित जयाशेष (०७६-०६९)
जयाव्यक्त स्थिते जय (०७६-०६९)
परमार्थार्थ सर्वज्ञ (०७६-०६९)
ज्ञान ज्ञेयात्मनिःसृत (०७६-०६९)
जयाशेषजगत्साक्षिञ् (०७६-०७०)
जय कर्तर् जगद्गुरोः (०७६-०७०)
जगतो जगदन्ते ऽन्त (०७६-०७०)
स्थितौ पालयिता जय (०७६-०७०)
जयाखिल जयाशेष (०७६-०७१)
जयाखिलहृदि स्थित (०७६-०७१)
जयादिमध्यान्तमय (०७६-०७१)
सर्वज्ञानमयोत्तम (०७६-०७१)
मुमुक्षुभिर् अनिर्देश्य (०७६-०७२)
स्वयंदृष्ट जयेश्वर (०७६-०७२)
योगिभिर् मुक्तिफलद (०७६-०७२)
दमादिगुणभूषणैः (०७६-०७२)
जयातिसूक्ष्म दुर्ज्ञेय (०७६-०७३)
जगत् स्थूल जगन्मय (०७६-०७३)
जय स्थूलातिसूक्ष्म त्वं (०७६-०७३)
जयातीन्द्रिय सेन्द्रिय (०७६-०७३)
जय स्वमायायोगस्थ (०७६-०७४)
शेषभोगशयाक्षर (०७६-०७४)
जयैकदंष्ट्राप्रान्तान्त (०७६-०७५)
समुद्धृतवसुंधर (०७६-०७४)
नृकेसरिञ् जयाराति- (०७६-०७५)
वक्षःस्थलविदारण (०७६-०७५)
सांप्रतं जय विश्वात्मन् (०७६-०७५)
मायावामन केशव (०७६-०७५)
निजमायापटच्छन्न (०७६-०७६)
जगद्धातर् जनार्दन (०७६-०७६)
जयाचिन्त्य जयानेक- (०७६-०७६)
स्वरूपैकविध प्रभो (०७६-०७६)
वर्धस्व वर्धितानेक- (०७६-०७७)
विकारप्रकृते हरे (०७६-०७७)
त्वय्य् एषा जगताम् ईश (०७६-०७७)
संस्थिता धर्मपद्धतिः (०७६-०७७)
न त्वाम् अहं न चेशानो (०७६-०७८)
नेन्द्राद्यास् त्रिदशा हरे (०७६-०७८)
ज्ञातुम् ईशा न मुनयः (०७६-०७८)
सनकाद्या न योगिनः (०७६-०७८)
त्वन्मायापटसंवीते (०७६-०७९)
जगत्य् अत्र जगत्पते (०७६-०७९)
कस् त्वां वेत्स्यति सर्वेशं (०७६-०७९)
त्वत्प्रसादं विना नरः (०७६-०७९)
त्वम् एवाराधितो यस्य (०७६-०८०)
प्रसादसुमुखः प्रभो (०७६-०८०)
स एव केवलं देव (०७६-०८०)
वेत्ति त्वां नेतरो जनः (०७६-०८०)
तद् ईश्वरेश्वरेशान (०७६-०८१)
विभो वर्धस्व भावन (०७६-०८१)
प्रभावायास्य विश्वस्य (०७६-०८१)
विश्वात्मन् पृथुलोचन (०७६-०८१)
एवं स्तुतो हृषीकेशः (०७६-०८२)
स तदा वामनाकृतिः (०७६-०८२)
प्रहस्य भावगम्भीरम् (०७६-०८२)
उवाचाब्जसमुद्भवम् (०७६-०८२)
स्तुतो ऽहं भवता पूर्वम् (०७६-०८३)
इन्द्राद्यैः कश्यपेन च (०७६-०८३)
मया च वः प्रतिज्ञातम् (०७६-०८३)
इन्द्रस्य भुवनत्रयम् (०७६-०८३)
भूयश् चाहं स्तुतो ऽदित्या (०७६-०८४)
तस्याश् चापि प्रतिश्रुतम् (०७६-०८४)
यथा शक्राय दास्यामि (०७६-०८४)
त्रैलोक्यं हतकण्टकम् (०७६-०८४)
सो ऽहं तथा करिष्यामि (०७६-०८५)
यथेन्द्रो जगतः पतिः (०७६-०८५)
भविष्यति सहस्राक्षः (०७६-०८५)
सत्यम् एतद् ब्रवीमि ते (०७६-०८५)
ततः कृष्णाजिनं ब्रह्मा (०७६-०८६)
हृषीकेशाय दत्तवान् (०७६-०८६)
यज्ञोपवीतं भगवान् (०७६-०८६)
ददौ तस्मै बृहस्पतिः (०७६-०८६)
आषाढम् अददद् दण्डं (०७६-०८७)
मरीचिर् ब्रह्मणः सुतः (०७६-०८७)
कमण्डलुं वसिष्ठश् च (०७६-०८७)
कौश्यं वेदम् अथाङ्गिराः (०७६-०८७)
अक्षसूत्रं च पुलहः (०७६-०८७)
पुलस्त्यः सितवाससी (०७६-०८७)
उपतस्थुश् च तं वेदाः (०७६-०८८)
प्रणवस्वरभूषणाः (०७६-०८८)
शास्त्राण्य् अशेषाणि तथा (०७६-०८८)
सांख्ययोगोक्तयश् च याः (०७६-०८८)
स वामनो जटी दण्डी (०७६-०८९)
छत्त्री धृतकमण्डलुः (०७६-०८९)
सर्वदेवमयो भूप (०७६-०८९)
बलेर् अध्वरम् अभ्ययात् (०७६-०८९)
यत्र यत्र पदं भूप (०७६-०९०)
भूभागे वामनो ददौ (०७६-०९०)
ददाति भूमिर् विवरं (०७६-०९०)
तत्र तत्रातिपीडिता (०७६-०९०)
स वामनो जडगतिर् (०७६-०९१)
मृदु गच्छन् सपर्वताम् (०७६-०९१)
साब्धिद्वीपवतीं सर्वां (०७६-०९१)
चालयाम् आस मेदिनीम् (०७६-०९१)
ततः संशयम् आपन्नाः (०७६-*(१२४))
सर्वे दैतेयदानवाः (०७६-*(१२४))
सपर्वतवनाम् उर्वीं (०७७-००१)
दृष्ट्वा संक्षुभितां बलिः (०७७-००१)
पप्रच्छोशनसं शुक्रं (०७७-००१)
प्रणिपत्य कृताञ्जलिः (०७७-००१)
आचार्य क्षोभम् आयाति (०७७-००२)
साब्धिभूभृद्धरा मही (०७७-००२)
कस्माच् च नासुरान् भागान् (०७७-००२)
प्रतिगृह्णन्ति वह्नयः (०७७-००२)
इति पृष्टो ऽथ बलिना (०७७-००३)
काव्यो वेदविदां वरः (०७७-००३)
उवाच दैत्याधिपतिं (०७७-००३)
चिरं ध्यात्वा महामतिः (०७७-००३)
अवतीर्णो जगद्योनिः (०७७-००४)
कश्यपस्य गृहे हरिः (०७७-००४)
वामनेनेह रूपेण (०७७-००४)
परमात्मा सनातनः (०७७-००४)
स नूनं यज्ञम् आयाति (०७७-००५)
तव दानवपुङ्गव (०७७-००५)
तत्पदन्यासविक्षोभाद् (०७७-००५)
इयं प्रचलिता मही (०७७-००५)
कम्पन्ते गिरयश् चामी (०७७-००६)
क्षुभिता मकरालयाः (०७७-००६)
नैनं भूतपतिं भूमिः (०७७-००६)
समर्था वोढुम् ईश्वरम् (०७७-००६)
सदेवासुरगन्धर्व- (०७७-००७)
यक्षराक्षसपन्नगा (०७७-००७)
अनेनैव धृता भूमिर् (०७७-००७)
आपो ऽग्निः पवनो नभः (०७७-००७)
धारयत्य् अखिलान् देव- (०७७-००७)
मनुष्यादीन् महासुर (०७७-००७)
इयम् अस्य जगद्धातुर् (०७७-००८)
माया कृष्णस्य गह्वरी (०७७-००८)
धार्यधारकभावेन (०७७-००८)
यया संपिण्डितं जगत् (०७७-००८)
तत्संनिधानाद् असुरा (०७७-००९)
न भागार्हाः सुरद्विषः (०७७-००९)
भुञ्जते चासुरान् भागान् (०७७-००९)
अमी ते न तवाग्नयः (०७७-००९)
शुक्रस्य वचनं श्रुत्वा (०७७-*(१२५))
हृष्टरोमाब्रवीद् बलिः (०७७-*(१२५))
धन्यो ऽहं कृतपुण्यश् च (०७७-०१०)
यन् मे यज्ञपतिः स्वयम् (०७७-०१०)
यज्ञम् अभ्यागतो ब्रह्मन् (०७७-०१०)
मत्तः को ऽन्यो ऽधिकः पुमान् (०७७-०१०)
यं योगिनः सदोद्युक्ताः (०७७-०११)
परमात्मानम् अव्ययम् (०७७-०११)
द्रष्टुम् इच्छन्ति देवो ऽसौ (०७७-०११)
मदध्वरम् उपैष्यति (०७७-०११)
होता भागप्रदो यस्य (०७७-०१२)
यम् उद्गाता च गायति (०७७-०१२)
तम् अध्वरेश्वरं विष्णुं (०७७-०१२)
मत्तः को ऽन्य उपैष्यति (०७७-०१२)
सर्वेश्वरेश्वरे विष्णौ (०७७-०१३)
ममाध्वरम् उपागते (०७७-०१३)
यन् मया चार्य कर्तव्यं (०७७-०१३)
तन् ममादेष्टुम् अर्हसि (०७७-०१३)
यज्ञभागभुजो देवा (०७७-०१४)
वेदप्रामाण्यतो ऽसुर (०७७-०१४)
त्वया तु दानवा दैत्या (०७७-०१४)
यज्ञभागभुजः कृताः (०७७-०१४)
अयं च देवः सत्त्वस्थः (०७७-०१५)
करोति स्थितिपालनम् (०७७-०१५)
निसृष्टेश् चायम् अन्ते च (०७७-०१५)
स्वयम् अत्ति प्रजाः प्रभुः (०७७-०१५)
त्वयानुबन्धी भविता (०७७-०१६)
नूनं विष्णुः स्थितौ स्थितः (०७७-०१६)
विदित्वैतन् महाभाग (०७७-०१६)
कुरु यत् ते मनोगतम् (०७७-०१६)
त्वयास्य दैत्याधिपते (०७७-०१७)
स्वल्पके ऽपि हि वस्तुनि (०७७-०१७)
प्रतिज्ञा नैव वोढव्या (०७७-०१७)
वाच्यं साम तथाफलम् (०७७-०१७)
कृतकृत्यस्य देवस्य (०७७-*(१२६))
देवार्थं चैव कुर्वतः (०७७-*(१२६))
नालं दातुं धनं देवेत्य् (०७७-०१८)
एवं वाच्यं तु याचतः (०७७-०१८)
कृष्णस्य देवभूत्यर्थं (०७७-०१८)
प्रवृत्तस्य महासुर (०७७-०१८)
ब्रह्मन् कथम् अहं ब्रूयाम् (०७७-०१९)
अन्येनापि हि याचितः (०७७-०१९)
नास्तीति किमु देवेन (०७७-०१९)
संसाराघौघहारिणा (०७७-०१९)
व्रतोपवासैर् विविधैर् (०७७-०२०)
यः प्रतिग्राह्यते हरिः (०७७-०२०)
स चेद् वक्ष्यति देहीति (०७७-०२०)
गोविन्दः किम् अतो ऽधिकम् (०७७-०२०)
यदर्थम् उपहाराढ्या (०७७-०२१)
दमशौचगुणान्वितैः (०७७-०२१)
यज्ञाः क्रियन्ते देवेशः (०७७-०२१)
स मां देहीति वक्ष्यति (०७७-०२१)
तत् साधु सुकृतं कर्म (०७७-०२२)
तपः सुचरितं च नः (०७७-०२२)
यन् मया दत्तम् ईशेशः (०७७-०२२)
स्वयम् आदास्यते हरिः (०७७-०२२)
नास्तीत्य् अहं गुरो वक्ष्ये (०७७-०२३)
तम् अप्य् आगतम् ईश्वरम् (०७७-०२३)
यदि तद् वञ्च्यते प्राप्ते (०७७-०२३)
नूनम् अस्मद्विधः फलैः (०७७-०२३)
यज्ञे ऽस्मिन् यदि यज्ञेशो (०७७-०२४)
याचते मां जनार्दनः (०७७-०२४)
निजमूर्धानम् अप्य् अद्य (०७७-०२४)
तद् दास्याम्य् अविचारितम् (०७७-०२४)
नास्तीति यन् मया नोक्तम् (०७७-०२५)
अन्येषाम् अपि याचताम् (०७७-०२५)
वक्ष्यामि कथम् आयाते (०७७-०२५)
तद् अनभ्यस्तम् अच्युते (०७७-०२५)
श्लाघ्य एव हि धीराणां (०७७-०२६)
दानाद् आपत्समागमः (०७७-०२६)
नाबाधाकारि यद् दानं (०७७-०२६)
तद् अङ्गमलवत् कथम् (०७७-०२६)
मद्राज्ये नासुखी कश्चिन् (०७७-०२७)
न दरिद्रो न चातुरः (०७७-०२७)
नातृषितो न चोद्विग्नो (०७७-०२७)
न स्रगादिविवर्जितः (०७७-०२७)
हृष्टतुष्टः सुगन्धी च (०७७-०२८)
तृप्तः सर्वसुखान्वितः (०७७-०२८)
जनः सर्वो महाभाग (०७७-०२८)
किमुताहं सदा सुखी (०७७-०२८)
एतद् विशिष्टपात्रोत्थं (०७७-०२९)
दानबीजफलं मम (०७७-०२९)
विदितं भृगुशार्दूल (०७७-०२९)
मयैतत् त्वत्प्रसादतः (०७७-०२९)
एतद् विजानतो दान- (०७७-०३०)
बीजं पतति चेद् गुरो (०७७-०३०)
जनार्दने महापात्रे (०७७-०३०)
किं न प्राप्तं ततो मया (०७७-०३०)
मत्तो दानम् अवाप्येशो (०७७-०३१)
यदि पुष्णाति देवताः (०७७-०३१)
उपभोगान्वयगुणं (०७७-०३१)
दानं श्लाघ्यतरं ततः (०७७-०३१)
मत्प्रसादपरो नूनं (०७७-०३२)
यज्ञेनाराधितो हरिः (०७७-०३२)
तेनाभ्येति न संदेहो (०७७-०३२)
दर्शनाद् उपकारकृत् (०७७-०३२)
अथ कोपेन वाभ्येति (०७७-०३३)
देवभागोपरोधिनम् (०७७-०३३)
मां निहन्तुम् अतो ऽपि स्याद् (०७७-०३३)
वधः श्लाघ्यतरो ऽच्युतात् (०७७-०३३)
यन्मयं सर्वम् एवेदं (०७७-०३४)
नाप्राप्य यस्य विद्यते (०७७-०३४)
स मां याचितुम् अभ्येति (०७७-०३४)
नानुग्रहम् ऋते हरिः (०७७-०३४)
यः सृजत्य् आत्मभूः सर्वं (०७७-०३५)
चेतसैवापहन्ति च (०७७-०३५)
स मां हन्तुं हृषीकेशः (०७७-०३५)
कथं यत्नं करिष्यति (०७७-०३५)
एतद् विदित्वा तु गुरो (०७७-०३६)
दानविघ्नपरेण मे (०७७-०३६)
नैव भाव्यं जगन्नाथे (०७७-०३६)
गोविन्दे समुपस्थिते (०७७-०३६)
इत्य् एवं वदतस् तस्य (०७७-०३७)
प्राप्तस् तत्र जगपतिः (०७७-०३७)
सर्वदेवमयो ऽचिन्त्यो (०७७-०३७)
मायावामनरूपधृक् (०७७-०३७)
तं दृष्ट्वा यज्ञवाटान्तः- (०७७-०३८)
प्रविष्टम् असुराः प्रभुम् (०७७-०३८)
जग्मुः प्रभावतः क्षोभं (०७७-०३८)
तेजसा तस्य निष्प्रभाः (०७७-०३८)
जेपुश् च मुनयस् तत्र (०७७-०३९)
ये समेता महाध्वरे (०७७-०३९)
बलिश् चैवाखिलं जन्म (०७७-०३९)
मेने सफलम् आत्मनः (०७७-०३९)
ततः संक्षोभम् आपन्नो (०७७-०४०)
न कश्चित् किंचिद् उक्तवान् (०७७-०४०)
प्रत्येको देवदेवेशं (०७७-०४०)
पूजयाम् आस चेतसा (०७७-०४०)
अथासुरपतिं प्रह्वं (०७७-०४१)
दृष्ट्वा मुनिवरांश् च तान् (०७७-०४१)
देवदेवपतिः साक्षाद् (०७७-०४१)
विष्णुर् वामनरूपधृक् (०७७-०४१)
तुष्टाव यज्ञं वह्निंश् च (०७७-०४२)
यजमानम् अथ र्त्विजः (०७७-०४२)
यज्ञकराधिकारस्थान् (०७७-०४२)
सदस्यान् द्रव्यसंपदम् (०७७-०४२)
ततः प्रसन्नम् अखिलं (०७७-०४३)
वामनं प्रति तत्क्षणात् (०७७-०४३)
यज्ञवाटस्थितं वीरं (०७७-०४३)
साधु साध्व् इत्य् उदीरयन् (०७७-०४३)
स चार्घम् आदाय बलिः (०७७-०४४)
प्रोद्भूतपुलकस् तदा (०७७-०४४)
पूजयाम् आस गोविन्दं (०७७-०४४)
प्राह चेदं वचो ऽसुरः (०७७-०४४)
सुवर्णरत्नसंघातं (०७७-०४५)
गजाश्वम् अमितं तथा (०७७-०४५)
स्त्रियो वस्त्राण्य् अलंकारान् (०७७-०४५)
गावो ग्रामांश् च पुष्कलान् (०७७-०४५)
सर्वस्वं सकलाम् उर्वीं (०७७-०४६)
भवतो वा यद् ईप्सितम् (०७७-०४६)
तद् ददामि वृणुष्व त्वं (०७७-०४६)
ममार्थी सततं प्रियः (०७७-०४६)
इत्य् उक्तो दैत्यपतिना (०७७-०४७)
प्रीतिगर्वान्वितं वचः (०७७-०४७)
प्राह सस्मितगम्भीरं (०७७-०४७)
भगवान् वामनाकृतिः (०७७-०४७)
ममाग्निशरणार्थाय (०७७-०४८)
देहि राजन् पदत्रयम् (०७७-०४८)
सुवर्णग्रामरत्नादि (०७७-०४८)
तद् अर्थिभ्यः प्रदीयताम् (०७७-०४८)
त्रिभिः प्रयोजनं किं ते (०७७-०४९)
पदैः पदवतां वर (०७७-०४९)
शतं शतसहस्रं वा (०७७-०४९)
पदानां मार्गतां भवान् (०७७-०४९)
एतावता दैत्यपते (०७७-०५०)
कृतकृत्यो ऽस्मि मार्गताम् (०७७-०५०)
अन्येषाम् अर्थिनां वित्तम् (०७७-०५०)
इच्छया दास्यते भवान् (०७७-०५०)
एतच् छ्रुत्वा तु गदितं (०७७-०५१)
वामनस्य महात्मनः (०७७-०५१)
वाचयाम् आस तत् तस्मै (०७७-०५१)
वामनाय पदत्रयम् (०७७-०५१)
पाणौ तु पतिते तोये (०७७-०५२)
वामनो भूतभावनः (०७७-०५२)
सर्वदेवमयं रूपं (०७७-०५२)
दर्शयाम् आस तत्क्षणात् (०७७-०५२)
चन्द्रसूर्यौ च नयने (०७७-०५३)
द्यौः शिरश् चरणौ क्षितिः (०७७-०५३)
पादाङ्गुल्यः पिशाचाश् च (०७७-०५३)
हस्ताङ्गुल्यश् च गुह्यकाः (०७७-०५३)
विश्वेदेवाश् च जानुस्था (०७७-०५४)
जङ्घे साध्याः सुरोत्तमाः (०७७-०५४)
यक्षा नखेषु संभूता (०७७-०५४)
रेखास्व् अप्सरसः स्थिताः (०७७-०५४)
दृष्टिर् धिष्णान्य् अशेषाणि (०७७-०५५)
केशाः सूर्यांशवः प्रभो (०७७-०५५)
तारका रोमकूपाणि (०७७-०५५)
रोमाणि च महर्षयः (०७७-०५५)
बाहवो विदिशस् तस्य (०७७-०५६)
दिशः श्रोत्रं महात्मनः (०७७-०५६)
अश्विनौ श्रवणौ तस्य (०७७-०५६)
नासा वायुर् महाबलः (०७७-०५६)
प्रसादश् चन्द्रमा देवो (०७७-०५७)
मनो धर्मः समाश्रितः (०७७-०५७)
सत्यम् अस्याभवद् वाणी (०७७-०५७)
जिह्वा देवी सरस्वती (०७७-०५७)
ग्रीवादितिर् देवमाता (०७७-०५८)
विद्यास् तद्वलयस् तथा (०७७-०५८)
स्वर्गद्वारम् अभून् मैत्रं (०७७-०५८)
त्वष्टा पूषा च वै भ्रुवौ (०७७-०५८)
मुखं वैश्वानरश् चास्य (०७७-०५९)
वृषणौ तु प्रजापतिः (०७७-०५९)
हृदयं च परं ब्रह्म (०७७-०५९)
पुंस्त्वं वै कश्यपो मुनिः (०७७-०५९)
पृष्ठे ऽस्य वसवो देवा (०७७-०६०)
मरुतः सर्वसंधिषु (०७७-०६०)
सर्वसूक्तानि दशना (०७७-०६०)
ज्योतींषि विमलप्रभाः (०७७-०६०)
वक्षःस्थले तथा रुद्रो (०७७-०६१)
धैर्ये चास्य महार्णवः (०७७-०६१)
उदरे चास्य गन्धर्वा (०७७-०६१)
मरुतश् च महाबलाः (०७७-०६१)
लक्ष्मीर् मेधा धृतिः कान्तिः (०७७-०६१)
सर्वविद्याश् च वै कटिः (०७७-०६१)
सर्वज्योतींषि यानीह (०७७-०६२)
तपश् च परमं महत् (०७७-०६२)
तस्य देवातिदेवस्य (०७७-०६२)
तेजः प्रोद्भूतम् उत्तमम् (०७७-०६२)
स्तनौ कुक्षौ च वेदाश् च (०७७-०६३)
जानू चास्य महामखाः (०७७-०६३)
इष्टयः पशुबन्धाश् च (०७७-०६३)
द्विजानां चेष्टितानि च (०७७-०६३)
तस्य देवमयं रूपं (०७७-०६४)
दृष्ट्वा विष्णोर् महाबलाः (०७७-०६४)
उपसर्पन्ति दैतेयाः (०७७-०६४)
पतंगा इव पावकम् (०७