वाचस्पत्यम्/गौर

विकिस्रोतः तः
Jump to navigation Jump to search
पृष्ठ २७३७

गौर पु० गुङ्--गतौ र नि० वृद्धिः गुर--घञ् प्रज्ञाद्यण् वा ।

१ चन्द्रे २ श्वेतसर्षपे मेदि० ३ धववृक्षे राजनि० ४
पीतवर्णे ५ श्वेतवर्णे ६ अरुणवर्णे च पु० ७ तद्विशिष्टे त्रि०
स्त्रियां गौरा० ङीष् । ८ श्रीचैतन्यदेवे महाप्रभौ अनन्त-
महिता । ९ पद्मकेशरे न० मेदि० १० स्वर्णे ११ कुङ्कुमे च
न० राजनि० । तत्र श्वेतवर्णयुक्ते “कैलासगौरं
वृषमारुरुक्षोः” रघुः पीतवर्ण्णाद्ये “गोरोचनोपनितान्त
गौरे” कुमा० अरुणवर्ण्णाद्ये “कीर्णैः पिष्टातकोघैः कृत
दिवसमुखैः कुङ्कुमक्षोदगौरः” रत्नाव० “तरुणादित्यगौरैश्च
शरगौरैश्च वानरैः” रामा० कि० ३०१ स० । “नितान्तगौ-
र्य्यो हृतकुङ्कमेष्वलम्” किरा० १२ परिमाणमेदे यथोक्तं
याज्ञ०” जालसूर्य्यमरीचिस्थं त्रसरेणुरजः स्मृतम् । ते
ऽष्टौ लिक्षा च तास्तिस्रो राजसर्षप उच्यते । गौरस्तु
ते त्रयः षट् च यवोमध्यस्तु ते त्रयः” इति ।
१३ मृगभेदे पु० स्त्री “गौरजो महिषः कृष्णः शूकरो
गवयो रुरुः । द्विशफाः पशवश्चेमे अविरुष्ट्रश्च
सत्तम! । खरोऽश्वोऽश्वतरो गौरः शरभश्चमरी तथा ।
एते चैकशफाः क्षत्तः!” भाग० ३ । १० । २२ । अ० ।
“महोरगाश्च भयतो विद्रवन्ति सगौरकृष्णाः शरभा-
श्चमर्यः” भाग० ८ । २ । १६ अ० । १४ विशुद्धे त्रि० मेदि० ।
“कडारा० कर्मधारयेऽस्य वा पूर्वनिपातः गौरपटः पटगौरः ।

गौरक्ष्य न० गोरक्षस्य भावः कर्म्म वा ष्यञ् । वैश्यकर्म्मभेदे

पाशुपाल्ये । “कृषिगौरक्ष्यबाणिज्यं वैश्यकर्म्म स्वभाव-
जम्” गीता ।

गौरग्रीव पु० गौरी ग्रीवात्र । १ देशभेदे २ तद्देशवासिनि

च तस्यापत्यम् तस्येदं वा रैवतका० छ गौरग्रीवय ।
३ तदपत्ये पुंस्त्री ४ तत्सम्बन्धिनि त्रि० गौरग्रीवदेशश्च
वृ० स०१४ अ० कूर्मविभागे मध्यभागे उक्तः । “गौरग्रीवो-
द्देहिकगुडाश्वत्थ पाञ्चालाः” ।

गौरचन्द्र पु० चैतन्यदेवे महाप्रभौ “कृष्णश्चैतन्यो गौराङ्गो

गौरचन्द्रः शचीसुतः । प्रभुर्गौरो र्गौरहरि र्नामानि
भक्तिदानि मे” अनन्तसंहिता एतस्य दृढतरप्रमाणत्वं
संप्रदायविदो न मन्यन्ते ।

गौरजीरक पु० कर्म० । श्वेतजीरके । राजनि० ।

गौरतित्तिरि पुंस्त्री श्वेततित्तिरिभेदे । “तित्तिरिः सर्व्व-

दोषघ्नो ग्राही वर्ण्णप्रसादनः । हिक्काश्वासानिलहरो
विशेषात् गौरतित्तिरिः” सुश्रुते तन्मांसगुणोक्तिः

गौरत्वच् पु० गौरी त्वक् यस्य । इङ्गुदीवृक्षे (जियापुँति) राजनि० ।

गौरपृष्ठ पु० यमसभासदनृपभेदे । “इन्द्रद्युम्नो भीमजानु

र्गौरपृष्ठो नलोगयः” भा० स० अ० मयसभावर्णने ।

गौरमुख पु० गौरं विशुद्धं मुखमस्य । शमीकर्षेः शिष्ये

१ मुनिभेदे तेन हि शिष्येण स्वपुत्रशृङ्गिशापवृत्तान्तं
शमीकर्षिः परिक्षिते न्यवेदयत् तत्कथा भा० आ० ४२ अ० ।
“एवमादिश्य शिष्यं स प्रेषयामासु सुव्रतः । परिक्षिते
नृपतये दयापन्नो महातपाः । संदिश्य कुशलप्रश्नं
कार्य्यवृत्तान्तमेव च । शिष्यं गौरमुखं नाम शीलवन्तं
समाहितम् । सोऽभिगम्य ततः शीघ्रं नरेन्द्रं कुरुवर्द्धनम् ।
विवेश भवनं राज्ञः पूर्व्वं द्वाःस्थैर्निवेदितः । पूजितस्तु
नरेन्द्रेण द्विजो गौरमुखस्तदा । आचख्यौ च परिश्रान्तो
राज्ञे सर्व्वमशेषतः । शमीकवचनं घोरं यथोक्तं
मन्त्रिसन्निधौ । गौरमुख उवाच । शमीकोनाम राजेन्द्र!
विषये वर्त्तते तव । ऋषिः परमधर्मात्मा दान्तः शान्तो
महातपाः” “तस्य त्वया नरव्याघ्र! सर्पः प्राणैर्वियोजितः ।
अवसक्तो धनुष्कोट्या स्कन्धे मौनान्वितस्य च । क्षान्तवां
स्तव तत्कर्म पुत्रस्तस्य न चक्षमे । तेन शप्तोऽसि राजेन्द्र!
पितुरज्ञातमद्य वै । तक्षकः सप्तरात्रेण मृत्युस्तव
भविष्यति । तत्र रक्षां कुरुष्वेति पुनः पुनरथाब्रवीत् ।
तदन्यथा न शक्यञ्च कर्त्तुं केनचिदप्युत । न हि शक्नोमि
तं यन्तुं पुत्रं कोपसमन्वितम् । ततोऽहं प्रेषितस्तेन तव
राजन्! हितार्थिना” । गौरं शुक्लं मुखमस्य । श्वेत-
मुखाढ्ये त्रि० स्त्रियां स्वाङ्गत्वात् वा ङीष् ।

गौरमृग पु० स्त्री नित्यकर्म० । गौरवर्णे मृगभेदे स्त्रियां

ङीष् । “क्रोष्टा मायोरिन्द्रस्य गौरमृगः” यजु० २४ । ३ ।

गौरव न० गुरोर्भावः कर्म्म वा पृथ्वा० वा अण् । १ गुरुत्वे

२ तत्कर्म्मणि च । “तथापि यन्मय्यपि ते गुरुरित्यस्ति
गौरबम्” माघः । “तामगौरवभेदेन” “प्रायश्चलं
गौरवमाश्रितेषु” कुमा० । “सहस्रं तु पितॄन् माता गौरवे
णातिरिच्यते” मनुः । गौरवं साधनतयास्त्यत्र
अच् । ३ गौरवहेतुके अभ्युत्थाने हेम० । गुरोरिदम्
अण् । ४ गुरुसम्बन्धिनित्रि० । “मध्यगत्या भगोगेन गुरो-
र्गौरववत्सराः” वसिष्ठसिद्धान्तः ।

गौरवाहन पु० श्वेतवाहने नृपभेदे । कुन्तिभोजो

महातेजाः पार्थिवो गौरवाहनः” भा० स० ३३ अ० ।

गौरवित त्रि० गौरवं जातमस्य तार० इतच् । पूज्ये ।

“गौरवितक्रियाहेतुर्भक्तिः” शब्दचि० मथुरानाथः ।

गौरशाक पु० गौरः शाकोऽस्य । मधुकभेदे जटा० ।

गौरशिरस् त्रि० गौरं शिरोऽस्य अतिवृद्धत्वात् । १ शुक्ल-

वर्णकेशयुक्ते २ मुनिभेदे पु० । “शङ्खश्च लिखितश्चैव तथा
गौरशिरा मुनिः” भा० स० ७ अ० इन्द्रसभ्योक्तौ । स च
पृष्ठ २७३८
राजनीतिशास्त्रप्रणेता यथाह” भा० शा० ५८ अ० ।
“विशालाक्षश्च भगवान् काव्यश्चैव महातपाः । सह०
स्राक्षो महेन्द्रश्च तथा प्राचेतसो मनुः । भारद्वाजश्च
भगवांस्तथा गौरशिरा मुनिः । राजशास्त्रप्रणेतारो
ब्रह्मण्या ब्रह्मवादिनः”

गौरसर्षप पु० कर्म्म० । १ श्वेतसर्षपे (सितिसरिषा) रत्रमाला ।

तद्गुणा भावप्र० उक्ता यथा “गौरस्तु सर्षपः प्राज्ञैः
सिद्धार्थ इति कथ्यते । सर्षपस्तु रसे पाके कटुःस्निग्धः
सतिक्तकः । तीक्ष्णोष्णः कफवातघ्नो रक्तपित्ताग्निबर्द्धनः ।
रक्षोहरोजयेत् कण्डू कुष्ठकीष्ठकृमिग्रहान् । यथारक्त-
स्तथा गौरः किन्तु गौरोवरोमतः” । स च क्षौमशोधकः
यथाह मनुः “श्रीफलैरं शुपट्टानां क्षौमाणां गौरसर्षपैः”
द्रव्यशुद्धौ । “सगौरसर्षपैः क्षौमम्” गौरसर्षप-
कल्केन साज्येन साधितस्य च” याज्ञ० । २ राजसर्षपत्र-
यमिते परिमाणे च । “त्रसरेणवोऽष्टौ विज्ञेया लिक्षैका
परिमाणतः । ता राजसर्षपास्तिस्रस्ते त्रयो
गौरसर्षपः” मनुः ।

गौरसुवर्ण्ण पु० गौरः श्वेतः सुष्ठुवर्णोऽस्य । चित्रकूट-

प्रसिद्धे पत्रशाकभेदे “गौरसुवर्णं शिशिरं कफपित्त-
ज्वरप्रणुत् । दाहारुचिभ्रान्तिरक्तश्रमहृत् पथ्यमेव
च” राजनि० तद्गुणा उक्ताः ।

गौरा स्त्री गौर + गौरादिगणे वर्णवाचिनएव गौरशब्दस्य

ग्रहणात् विसुद्धार्थपरत्वे टाप् । विशुद्धायाम् स्त्रियाम्
द्विरूपकोषः । तदर्थपरतायामेब टाबन्तता वर्णवरत्वे
तु ङीषिन्ततेत्याकारे स्थितम् ।

गौराङ्ग पु० गौरं श्वेतं पीतं वाऽङ्गमस्य । १ विष्णौ “श्वेतोरक्त-

स्तथा पीत इदानीं कृष्णतां गतः” भाग०१० स्क० तस्य
युगावतारे श्वेताङ्गत्वात् पीताङ्गत्वाच्च तथात्वम् । गौरं
विशुद्धमङ्गमस्य । विशुद्धकान्तियुक्ते नन्दनन्दनै २ श्री
कृष्णे च “गौराङ्गं गौरदीप्ताङ्गं पठेत् स्तोत्रं कृता-
ञ्जलिः । नन्दगोपसतं चैव नमस्यामि गदाग्रजम्” ब्रह्म
यामलम् । “गौराङ्गो नादगम्भीरः स्वनामामृतलालसः”
कृष्णयामलम् । ३ नवद्वीपस्थशचीपुत्रे इति वैष्णवाः ।
ते हि तत् परतयैव यामलवाक्यद्वयं व्याचक्षुः ४
गौरवर्णदेहके त्रि० स्त्रियां ङीष् । गौराङ्गताहेतुरौषधमुक्तं
गरु० पु० १९४ अ० यथा “कुष्माण्डनालक्षारस्तु
सगोभूत्रश्च तत्त्वचः । जलपिष्टा हरिद्रा च सिद्वा
मन्दनिलेन हि । माहिषेण पुरीषेण वेष्टिता वृष-
भध्वज! । अस्या उद्वर्त्तनं कुर्य्यादङ्गगौरत्वसाधनम्” ।

गौराजाजी स्त्री कर्म्म० । श्वेतजीरके राजनि० ।

गौरादि पु० “षिद्गौरादिभ्यश्च” पा० उक्ते ङीष्निमित्ते

शब्दगणभेदे स च गणः पा० ग० सू० उक्तोयथा
“गौर मत्स्य मनुष्य शृङ्ग पिङ्गल हय गबय मुकय
ऋष्य पुट तूण द्रुण द्रोण हरिण काकण पटर
उणक आमलक कुवल विम्ब वदर कर्कर तर्कार शर्कार
पुष्कर शिखण्ड सलद शष्कण्ड सनन्द सुषम सुषम
अलिन्द गडुल पापड़श आढक आनन्द आश्वत्यं
सृपाट आपच्चिक शष्कुल सूर्म शूर्प सूच यूष यूथ
सूप मेथ वल्लक धातक सल्लक मालक मालत माल्वक
वेतस वृष अतस उभय भृङ्ग मह मठ छेद पेश मेद
श्वन् तक्षन् अनडुह अनड्वाह एषण (करणे) देह
देहल काकादन गवादन तेजन रजन लवण औद्गा-
हमानि गौतम पारक अयस्थूण भौरिकि भौलिकि
भौलिङ्गि यान मेघ आलग्वि आलजि आलब्धि आलक्षि
केवाल आपक आरट नट टोट नोट मूलाट शातन
पोतन पातन पानठ आस्तरण अधिकरण अधिकार आग्र-
हायण प्रत्यवरोहिन् सेचन सुमङ्गल (संज्ञायाम्)
अण्डर सुन्दर मण्डल मन्थर मङ्गल पट पिण्ड षण्ड
उर्द गुर्द शम सूद आर्द ह्रद पाण्ड भाण्ड लोहाण्ड
कदर कन्दर कदल तरुण तलुन कल्माष वृहत् महत्
सोम सौधर्म रोहिणी (नक्षत्रे) रेबती (नक्षत्रे)
विकल निष्कल पुष्कल कटी (श्रोणिवचने) । पिप्प-
ल्यादयश्च । पिप्पली हरितकी कोशातकी शमी बरी
शरी पृथिवी कोष्ट्री मातामही पितामही आकृतिगणः” ।
गौरशब्दस्य तोपधभिन्नवर्णवाचित्वेऽपि प्रातिपदिक-
स्वरेणोत्सर्गतः कृष्णेतिवदन्तोदात्ततया अन्यतो ङीषि-
त्यस्याप्रवृत्तेर्गणे पाठः ।
“उपाद् द्व्यजजिनमगौरादयः” पा० उपात् परस्य द्व्यज-
न्तादेरन्तोदात्ततायां पर्युदस्ते शब्दगणे स च गणः पा०
ग० उक्तो यथा “गौर तैष तैल लेट लोट दिहवा
कृष्ण कन्या गृध कल्पपाद ।” उपगौरः

गौरार्द्रक न० नित्यकर्म्म० । स्थावरविषभेदे हेमच० ।

गौरावस्कन्दिन् पु० गुरोरिदं गौरवं गुरुपत्नीरूपं कलत्रं

तदास्कन्दति आ + स्कन्द--णिनि वेदे पृषो० वर्णविप-
र्ययः । अहल्याजारे शक्रे इन्द्रागच्छेत्युपक्रमे “गौर-
वास्कन्दिन्नहल्यायै जारेति” शत० व्रा० ३ । ३ । ४ । १८ ।
पृष्ठ २७३९

गौराश्व पु० गौरोऽश्वोऽस्य । १ नृपभेदे । “अलर्कः कक्षसेन-

श्च गयो गौराश्व एव च” भा० स० ८ अ० । यमसभ्योक्तौ
२ श्वेतवाहने श्वेताश्वे अर्जुने च ।

गौरास्य पुंस्त्री गौरमास्यं यस्य । गौरमुखे कृष्णदेहे

बानरभेदे राजनि० । स्त्रियां जातित्वेऽपि योपधत्वात् न
ङीष् किन्तु टाप् ।

गौराहिक पुंस्त्री गौरः शुभ्रः अहिः कर्म० संज्ञायां कन् ।

सुश्रुतोक्ते निर्विषे सर्पभेदे “गौराहिकवृक्षेशय” इति
सुश्रु० अहिशब्दे दृश्यम् ।

गौरि पु० गौरस्यापत्यम् इञ् । आङ्गिरसे ऋषिभेदे

“गौरेराङ्गिरसस्य साम” श्रुतिः ।

गौरिक त्रि० गौरवर्णोऽस्त्यस्य ठन् । १ श्वेतवर्णयुक्ते २ श्वेत-

सर्षपे पु० “यवाह्वगौरिकोन्मिश्रैः पादलेपः प्रशस्यते”
सुश्रुतः ।

गौरिमत् त्रि० गौरीं मन्यते मन + क्विप् ६ त० ङ्यापोरिति

संज्ञायां ह्रस्वः । १ गौरीनामयुक्ते गौरीतीर्थे तत्रस्थे
२ नदीभदे स्त्री शार्ङ्गर० ङीन् । (भोगवत् गौरीमत्)
संज्ञायाम्” तद्गणसूत्रोक्तेः संज्ञायामेव ङीन् अन्यत्र ङीप् ।

गौरिल पु० गौरवर्णोऽस्त्यस्य बा० इलच् । १ सिद्धार्थे श्वेत-

सर्षपे २ लौहचूर्णे च मेदि० ।

गौरिवीति पु० गौर्य्या वेदवाचि वीतिः विशेषगतिरस्य

“ङ्यापोरिति” संज्ञायां ह्रस्वः । शक्तिमुनिपुत्रे ऋषिभेदे ।
“गोरवीतिः शाक्त्यः क्षत्रमिवाह” शत० ब्रा० १२ । ८ । ३ । ७ ।
“स्तोमसामा गौरवीतेरवर्द्धनः” ऋ०५ । २९ । ११ । गौरिवीते
रेतन्नामकस्य मन्त्रद्रष्टुः” मा० । गौरिवीतिना दृष्टं साम
अण् । गौरिवीत तद्दृष्टे सामभेदे “तृतीयसवनाच्चि-
द्विष्णोः शिपिविष्टवतीषु गौरिवीतेन” कात्या० श्रौ०
२५ । १३ । ६ । “गौरिवीतं नाम सामभेदस्तेन स्तुवीरन्” कर्कः ।

गौरिषक्य गु० गौर्य्या इव सकिख अस्य षच् समा० ह्रस्वः

सुषामा० षत्वम् । गौरीतुल्यसक्थियुक्ते ।

गौरी स्त्री गौर + गौरा० ङीष् । १ गौरवर्णायां स्त्रियाम्

“कपोलभित्तीरिव लोध्रगौरीः” माघः । २ हिमा-
लयसुतायां कालीनाम्न्यां मेनकाकन्यायां तस्याः प्राक्
कृष्णवर्णत्वेन जातत्वेऽपि पश्चात् पीताङ्गत्वात् तथात्वं
कालिकापुराणशब्दे २०१५ पृ० ४५ अ० तन्मूलं दृश्यम् । पुरा-
णान्तरे “योगाग्निदग्धदेहा सा पुनर्जाता हिमालये ।
शङ्खेन्दु कुन्दधवला ततो गौरीति सा स्मृताः” इत्युक्तम
तच्च कल्पान्तरविषयम् । “अष्टवर्षा भवेद्गौरी नववर्षा तु
रोहिणी” स्मृत्युक्तायां ३ अष्टवर्षायां स्त्रियाम् ।
४ हरिद्रायां ५ दारुहरिद्रायाम् ६ गोरोचनायां ७ वरुण-
पत्न्याञ्च । ८ प्रियङ्गुवृक्षे ९ पृथिव्यां १० नदीभेदे च मेदि०
“लेभे प्रसेनजिद्भार्य्यां गौरीं नाम पतिव्रताम् ।
अभिशस्ता तु सा भर्त्त्रा नदी वै बाहुदाऽभवत्”
हरिवं० १२ अ० ११ उक्तयां सूर्य्यवंश्यप्रसेनजिद्भा
र्य्यायाम् तस्याएव बाहुदानदीरूपत्वोक्तेः नदीविशेषः
बाहुदानदीपर इति बोध्यम् । १३ बुद्धशक्तिभेदे हेम० ।
१३ मञ्जिष्ठायां १४ श्वेतदूर्वायां १५ मल्लिकायां १६ तुलस्यां
१७ सुवर्णकदल्याम् १८ आकाशमांस्याञ्च राजनि० । सर्व्वा-
साञ्चासां शुभ्रपीतरक्तविशुद्धपत्रपुष्पादियुक्तत्वात्तथात्वम्
१९ रागिणीभेदे संगीतदामो० । २० वाचि निघण्टुः ।
“गौरीर्मिमाय सलिलानि तक्षत्येकपदी द्विपदी सा
चतुष्पदी । अष्टापदी नवपदी बभूवुषी सहस्राक्षरा परमे
व्योमन्” ऋ०१ । १६४ । ४० । “गौरी र्गरणशीला शब्दब्रह्मा-
त्मिका च वाक् मिमाय । मिमतिः प्रतिष्ठार्थे धातुः ।
प्रतिष्ठितानि घट्वादिद्रव्याणि तक्षती तत्तद्वाचकत्वेन
निष्पादयन्ती । एकपदी अव्याकृतत्वेनैकप्रतिष्ठानैक-
रूपावात्मना । द्विपदी सुपतिङ् भेदेन पदद्वयवती ।
चतुष्पदी नामाख्यातोपसर्गनिपातभेदेन । अष्टापदी
आमन्त्रितसहितसुब्विभक्तिभिरष्टभेदेनाष्टापदी । नवपदी
नवसु पदेषु भवन्ती बभूवुषी पश्चाद्बहुविधाभिव्यक्तिमुपे-
युषी परमे व्योमन् उत्कृष्टे हृदयाकाशे मूलाधारे
सहस्राक्षरानेकाकारेण व्याप्ताऽनेकध्वनिप्रकारा भवतीत्य-
र्थः” भा० । निरु०११ । ४ । व्याख्यान्तरं दृश्यम । गौरीरिति
सुलोपाभावःच्छान्दसः । “सोमो गौरी अधिश्रितः” ऋ० ९ । १।
१२ । ३ । गौरी गौर्य्याम् मध्यमायां वाचि” भा० “सुपां
सुलुक्” पा० सप्तम्या लुक् । “ईदूतौ च सप्तम्यर्थे”
पा० तस्य प्रगृह्यसंज्ञत्वात् न यणादेशः, भा० २१ दीप्ति-
मत्यां स्त्रियां निरु० । “गौरी रोचते ज्वलतिकर्म्मणः ।
अथ पीतोवा गौरोवर्णः एतस्मादव प्रशस्तो भवति तस्या
एषा भवति” “गौरीमिमाय सलिलानि” श्रुति
मधिकृत्य उक्तनिरुक्तिः । पार्वतीरूपा गौरी च
माघशुक्लचतुर्थ्यां पूज्या यथाह ति० भविष्योत्त० पु०
माघशुक्लमधिकृत्य “चतुर्थी वरदा नाम तस्यां गौरी सुपू-
जिता । सौभाग्यमतुलं कुर्यात्”

गौरीकान्त पु० ६ त० महादेवे गौरीनायादयोऽप्यत्र ।

गौरीगुरु पु० ६ त० । पार्वतीपितरि हिमालये “गौरीगुरोर्ग-

ह्वरमाविवेश” रघुः “अखिलमिदममुष्य गौरीगुरोः”
किरा० गौरीपित्रादयोऽप्यत्र ।
पृष्ठ २७४०

गौरीज न० गौर्यारजसो जायते जन--ड । १ अभ्रके राजनि०

अभ्रकशब्दे ३१५ पृ० दृश्यम् । २ कार्त्तिकेये पु० ।

गौरीतक्रम् न० गौर्या निर्मितं तक्रम् । “लबणं मरिचं

विश्वं जीरं नारङ्गजं त्वचम् । एलाचूर्णान्वितं
तक्रं धूपयेत् घृतहिङ्गुना । गौर्येदं विहितं तक्रं सर्व-
दोषनिवर्हणम्” शब्दार्थचि० उक्ते तक्रभेदे

गौरीपट्ट पु० गौर्याः पटृमिव स्थानम् । शिवलिङ्गस्थे

गौर्य्याः पूजास्थाने शिवलिङ्गशब्दे विवृति०

गौरीपुत्र पु० ६ त० । कार्त्तिके गौरीतनय दयोऽप्यत्र

गौरीपुष्प पु० गौरी हरिद्रेव पीतं पुष्पमस्य । प्रियङ्गुदृक्षे राजनि०

गौरीमन्त्र पु० तन्त्रसारोक्ते गोर्य्या मन्त्रभेदे तस्योद्धारश्च

“ह्रीं गौरि! रुद्रदयिते! योगेश्वरि! सवर्म (हुँ) फट् ।
द्विठान्तः षोडशवर्णोऽयं मन्त्रः सद्भिरुदीरितः”

गौरीललित न० गौरी हरिद्रेव ललितम् पीतवर्णत्वात् ।

हरिताले राजनि० ।

गौरीशिखर न० गौर्य्यास्तपःस्थानं शिखरम् । स्वनामख्याते

पर्वतभेदशृङ्गरूपे तीर्थभेदे “प्रजासु पश्चात् प्रथित
तदाख्यया जगाम गौरी शिखरं शिखण्डिमत्” कुमा०

गौरीसुत पु० ६ त० । १ अष्टवर्षोढाजतनये शब्दार्थचि० ।

२ कार्त्तिकेये च ।

गौरुतल्पिक पु० गुरुतल्पं गुरुपत्नीं गच्छति परदारा० ठक् । गुरुपत्नीगामिनि ।

गौलक्षणिक त्रि० गौर्लक्षणं वेत्ति तद्ग्रन्थमधीते वा

“विद्यालक्षणकल्पान्ताच्च” वार्त्ति० ठक् । १ गोलक्षणवेत्तरि
२ तद्ग्रन्थाध्येतरि च ।

गौलन्द्य पुंस्त्री गौलन्दगोत्रापत्यं गर्गा० यञ् । गोलन्द-

र्षिगोत्रापत्ये स्त्रियां जातित्वात् ङीष् यलोपः ।
गोलन्दी तदपत्यस्त्रियाम् । गौलन्द्यस्य छात्राः कण्वा० अण्
यलोपः । गौलन्दास्तच्छात्रेषु ।

गौलाङ्कायन पुंस्त्री गौलाङ्कस्य गोत्रापत्यम् अश्वा० फञ् ।

गोलाङ्कर्षेर्गोत्रापत्ये स्त्रियां जातित्वात् ङीष् ।

गौलिक पु० गुडे साधु ठक् डस्य लः । मुष्ककवृक्षे राजनि०

गौलोमन त्रि० गोलोमेव शर्करा० अण् । गोलोमसदृशे

स्त्रियां ङीप् ।

गौल्मिक पु० गुल्मे रक्षणार्थस्थानभेदे नियुक्तः ठक् ।

गुल्मरूपरक्षणार्थस्थाननियुक्ते यामिके सेनाभेदे
“तथैव गुल्मे संप्रेक्ष्य शयानान् मध्यगौल्मिकान्”
“त्यक्त्वा द्वाराणि च द्वाःस्थास्तथा गुल्मानि गौल्मिकाः”
भा० शा० ८ अ

गौल्य न० गुडस्य भावः ष्यञ् डस्यलः । माधुर्ये मधुररसे राजनि० ।

गौशतिक त्रि० गोशतमस्यास्ति “एकगोपूर्वात्” पा०

शतसहस्रादित्यपकृष्य ठञ् । गोशतस्वामिनि स्त्रियां ङाप् ।

गौष्ठ त्रि० गोष्ठ्यां भवः पलद्या० अण् । गोष्ठ भवे स्त्रियां

ङीप् । स्वार्थे अण् ङीप् गौष्ठीत्यषि गोष्ठ्याम् । तच्छ-
ब्दस्यैव पलद्यादिषु पाठ इत्यन्ये ।

गौष्ठीन न० पूर्बं भूतं गोष्ठं खञ् । भूतपूर्वगोष्ठे । “तासु

वाच स गौष्ठीने वने स्त्रीपुंसभीषणे” भट्टिः

गौसहस्रिक त्रि० गोसहस्रमस्त्यस्य गौशतिकवत् ठञ् ।

गोसहस्रस्वामिनि ।

गौहलव्य पुंस्त्री गुहलोरृषेर्गोत्रापत्यम् गर्गा० यञ् ।

गुहलुगोत्रापत्ये स्त्रियां ङीप् लोहिता० स्वार्थे ष्फः
गौहलव्यायनी ।

ग्धि स्त्री अद--क्तिन् वेदे घसादेशः उपधालोपश्च तस

जशविधौ न स्थानिवत्त्वम् । भक्षणे । “सग्धिश्च मे”
सि० कौ० धृता श्रुतिः ।

ग्ना स्त्री गम--बा० ना डिच्च । स्त्रीमात्रे “ग्नास्त्वा कृन्तन्नपसो-

ऽतन्वत वयित्र्यो वयन्” ता० व्रा० १ । ८ । ९ । “गच्छन्ति पुंमा-
सएना इति ग्नाः स्त्रियः” भा० “मेना ग्ना इति स्त्रीणां
स्त्रियस्त्यायतेरपत्रपणकर्म्मणः । मेना मानयत्येनाम् ।
ग्ना गच्छन्त्येनाः” निरु० । २ देवपत्न्याम् । “आ ग्ना
अग्न इहावसे होत्राम्” ऋ० १ । २२ । १० । ग्ना देवपत्नी भा० ।
ग्ना अस्त्यस्य मतुप् मस्य वः । ग्नावत् सपत्नीके । “अभि
यज्ञं गृणीहि नो ग्नावो नेष्टः” ऋ० १ । १५ । ३ । “मतु-
वसोरुः” संवुद्धौ विसर्गः भा० । ३ वाचि निघ० ।
“तव ग्नावो मित्रमहः सजात्यम्” ऋ० २ । १ । ५ । ग्ना
स्तुतिवाचस्ताः सन्तीति मतुप् । “छन्दांसि वै ग्नाः
इति श्रुतेः ४ वेदे च वेदस्य वाग्विशेषत्वात्तथात्वम् ।
“नराशंसो ग्नास्पतिर्नो अव्याः” ऋ० २ ३८ । १० ग्ना-
स्पतिर्देवपत्नीनां पतिश्छन्दसां पतिर्वा” भा० “ग्ना-
स्पतिरित्यत्र बा० सुट् । सान्तं वा शब्दान्तरम् अतएव
निघण्टौ ग्नाः इति विसर्गान्तं पठितम् ।

ग्मा स्त्री गम्यतेऽत्र गम--बा० ङा । पृथिव्या निघ० ।

ग्रथ कुटिलीकरणे आत्म० इदित् सक० सेट् । ग्रन्थते अग्र-

न्थिष्ट जग्रन्थे ।
पृष्ठ २७४१

ग्रथन न० ग्रन्थ--बा० क्यु नलोपः । (गाँथा) । ग्रन्थने

“दोषस्थिरत्वात् ग्रथनाच्च” सुश्रुतः । “ग्रयनञ्च
विदर्भश्च संपुटोरोधनं तथा । योगः पल्लव इत्येते विन्यासाः
षट्सु कर्म्मसु” । “मन्त्रेणान्तरितान् कृत्वा साध्य-
वर्ण्णान् यथावधि । ग्रथनं तद्विजानीयात् प्रशस्तं
शान्तिकर्म्मणि” २ तन्त्रसारोक्ते “मन्त्रेणान्तिरितसाध्य-
वर्ण्णविन्यासभेदे च ।

ग्रथित त्रि० ग्रन्थ--संदर्भे क्त नलोपः । सूत्रादिना

कृतसन्दर्भे माल्यादौ “पर्य्यायग्रथिताक्षसूत्रवलयाः”
पबो० । “अथास्य रत्नग्रथितोत्तरीयम्” “कुसुमैर्ग्रथिताम-
पार्थिवैः” (स्रजम्) रघुः । “तच्छोककूटमद्यापि ग्रथितं
सुदृढ़ं मुने” भा० आ० १ अ० । “वर्णैः कतिपयैरेव ग्रथि-
तस्य स्वरैरिव” माघः । २ क्रान्ते ३ हिसिते च मेदि० ।

ग्रथिन् त्रि० ग्रन्थ--बा० इनि किच्च नलोपः । जल्पके । “न्यक्र-

तून् ग्रथिनो मृध्रवाचः” ऋ० ७ । ६ । ३ । “ग्रथिनो जल्प-
कान्” भा० ।

ग्रथ्न पु० ग्रन्थ--बा० नङ् । स्तवके । “शलाटु नीलमित्युक्तं

ग्रथ्नः स्तवक उच्यते । कपुष्टिकाभितः केशाः मूर्द्ध्नि
पश्चात् कपुष्टिका” भट्टनारायणधृतवाक्यम् “पश्चात्
पतिरवस्थाय युग्मन्तमौडुम्बरं शलाटुग्रथ्नमाबध्नाति”
गोभिलगृह्यम् ।

ग्रन्थ संदर्भे वा चु० उभ० पक्षे क्य्रा० प० सक० सेट् । ग्रन्थयति-

ते ग्रथ्नाति अजग्रन्थत् अग्रन्थीत् । ग्रन्थयामास वभूव
चकार चक्रे । जग्रन्थ जग्रथतुः--जग्रन्थतुः । जग्रन्थिथ
जग्रथिथ इत्येके । अस्य कविकल्पद्रुमे पा० गणे च
परस्मैपदिष्वेव क्रैयादिकस्य पाठः । णिचि तु
उभयपदिता । भारद्वाजीयास्तु पठन्ति “णिश्रन्थिग्रन्थिव्रू-
ञात्मनेपदाकर्मकाणामात्मनेपदेषूपसंख्यानम्” श्रन्थि
ग्रन्थ्योराधृषीयत्वात् णिजभावपक्षे ग्रहणम् । ग्रन्थति
ग्रन्थम् । श्रन्थति मेखलान्देवदत्तः । ग्रन्थते ग्रन्थः ।
अग्रन्थिष्ट । श्रन्थते । अश्रन्थिष्ट । इति भारद्वाजीय
मते आत्म० । तेनोभयपदता । सि० कौ० पक्षे भ्वा० दित्वमपि
तेन ग्रन्थति इत्याद्वि क्रैयादिकयोस्तु श्रथ्नीते ।
ग्रथ्नीते सि० कौ० । एतच्च कर्म कर्त्तरि न तु कर्त्तरि
इत्यन्ये
उद् + उत्तोल्य ग्रथने । “केशपक्षान् उदग्रथ्येतरान्”
आश्व० श्रौ०१० । ८ । ८ “लताप्रतानोद्ग्रथितैः स केशैः” रघुः ।
“माल्यानि तस्योद्ग्रथितानि पट्टैः” भा० व० ११२ अ०
“कर्म्माशयं ग्रथितमुद्ग्रथयन्ति सन्तः” भाग० ४ । २२ । ३७ ।

ग्रन्थ पु० ग्रन्थ--सन्दर्भे भावे घञ् । १ गुम्फने । कर्म्मणि

घञ् । २ शास्त्रे “ग्रन्थग्रन्थिरिह क्वचित् क्वचि-
दपि न्यासि प्रयत्नान्मया” नैष० । “ग्रन्थग्रन्थि तदा चित्रं
मुनिर्गूढं कुतूहलात्” भा० आ० १ अ० । ३ धने ४ द्वा-
त्रिंशवद्वर्णमितानुष्टुप् छन्दस्के श्लोके हेम० ।

ग्रन्थकार स्त्री ग्रन्थं करोति अण् उप० स० । ग्रन्थकारके

(शाकल्यम्) “तञ्चाह भगवांस्तुष्टो ग्रन्थकारो भविष्यति”
भा० आनु० ३८४ अ० । कृ--क्विप् ६ त० । ग्रन्थकृद-
प्यत्र । “ग्रन्थकृल्लोकविख्यातो भवितास्यजरामरः” भा०
आनु० १४ अ० । “ग्रन्थारम्भे विघ्नविघाताय समुचितेष्ट
देवतां ग्रन्थकृत् परामृशति” काव्यप्र० । तृच् । ग्रन्थ-
कर्त्तृ ण्वुल् ग्रन्थकारक अत्रार्थे त्रि० । तृचि स्त्रियां ङीप् ।

ग्रन्थकुटी स्त्री ग्रन्थस्य कुटीव । लेख्यस्थाने त्रिका० ।

ग्रन्थन न० ग्रन्थ--भावे ल्युट् । (गाँथा) सन्दर्भे गुम्फने

हेमच० । चु० ग्रन्थ--युच् । ग्रन्थनाऽप्यत्र स्त्री ।

ग्रन्थसन्धि पु० ६ त० । ग्रन्थस्थे सन्धौ । तन्नामानि च

कतिचित् त्रिका० पठितानि । “सर्गो वर्गः परिच्छोदोद्-
घाताध्यायाङ्कसंग्रहाः । उच्छ्वासः परिवर्त्तश्च पटलः
काण्डमस्त्रियाम् । स्थानं प्रकरणं पर्व्वाह्निकञ्च ग्रन्थस-
न्धयः” । उपक्रमे गुत्सादीत्युक्तेः अन्यदपि ग्रन्थसन्धि-
नाम भवतीति सूचितम् । तेन कुसुमाञ्जलौ स्तवकः,
काव्यप्र० उल्लासः, । वेदे प्रपाठकब्राह्मणानुवाकादयः ।

ग्रन्थि पु० ग्रन्थ--संदर्भे भावे करणादौ वा यथायथं सर्व्वधा-

तुभ्य, इन् नित्स्वरः, “खनिकृष्यज्यसीत्यादिना इर्वा स्वरे
भेदः । १ वंशादिपर्व्वणि (गाँट) अमरः । २ काण्डसन्धो
३ भद्रमुस्तायाम् ४ हितावल्यां ५ पिण्डालौ राजनि० ।
६ बन्धने ७ रोगभेदे मेदि० । ८ मायापाशे “भिद्यते
हृदयग्रन्थिश्छिद्यन्ते सर्व्वसंशयाः” तैत्ति० उप० । ग्रथि-
कौठिल्ये भावे इन् । ९ कौटिल्ये । कर्त्तरि इन् । १० ग्रन्थि-
पर्ण्णवृक्षे मेदि० । रोगभेद निदानादि सुश्रुते दर्शितं यथा
“अथातो ग्रन्थ्यपच्यर्बुदगलगण्डानां निदानं व्याख्या-
स्यामः । वातादयो मांसमसृक्प्रदुष्टाः सन्दूष्य मदश्च
कफानुविद्धम् । वृत्तोन्नतं विग्रथितन्तु शोफं कुर्व्वन्त्य-
तोग्रन्थिरिति प्रदिष्टः । आयम्यते व्यथ्यत एति तोदं
प्रत्यस्यते कृत्यत एति भेदम् । कृष्णोऽमृदुर्व्वस्तिरिवात-
तश्च भिन्नः स्रवच्चानिलजोऽस्रमच्छम । दन्दह्यते धूप्यति
चातिमात्रं पापच्यते प्रज्वलतीव चापि । रक्तः
सपीतोऽप्यथ वापि पित्ताद्भिन्नः स्रवेदुष्णगतीव चास्रम् । शीतो
पृष्ठ २७४२
विवर्णोऽल्परुजोऽतिकण्डुः पाषाणवत्संहननोपपन्नः ।
विराभिवृद्धिश्च कफप्रकोपाद्भिन्नः स्रवेच्छुक्लघनञ्च पूयम् ।
शरीरवृद्धिक्षयवृद्धिहानिः स्निग्धोमहानल्परुजोऽति-
कण्डुः । मेदःकृतो गच्छति चातिभिन्ने पिण्याकसर्पिः-
प्रतिमन्तु मेदः । व्यायामजातैरबलस्य तैस्तैराक्षिप्य
वायुर्हि शिराप्रतानम् । संपीड्य सङ्कोच्य विशोष्य वापि
ग्रन्थिं करोत्युन्नतमाशु वृत्तम् । ग्रन्थिः सिराजः स तु
कृच्छ्रसाध्यो भवेद्यदि स्यात्सरुजश्चलश्च । अरुक्
सएवाप्यचलोमहांश्च मर्म्मोत्थितश्चापि विवर्जनीयः”

ग्रन्थिक न० ग्रन्थिरिव + कायति--कै--क ग्रन्थ + अस्त्यर्थे

ठन् वा । १ पिप्पलीमूले २ ग्रन्थिपर्णे ३ गुग्गुलौ ४ करीरे
वंशे ५ दैवज्ञे ६ सहदेवाख्ये पाण्डवे च पु० मेदि० ।

ग्रन्थित त्रि० ग्रथि--क्त । गुम्फिते अमरः ।

ग्रन्थिदला स्त्री ग्रन्थिर्दलेऽस्याः । मालाकन्दे राजनि० ।

ग्रन्थिदूर्वा स्त्री ग्रन्थिप्रधाना दूर्व्वा शा० त० । (गाँटदूर्वा)

दूर्व्वाभेदे राजनि० ।

ग्रन्थिन् त्रि० ग्रन्थस्तदर्थो वा ज्ञेयतयाऽस्त्यस्य १ ग्रन्थ-

णिनि वा ग्रन्थार्थवेत्तरि २ ग्रन्थयुक्ते तद्विशिष्टे
३ ग्रन्थनकर्त्तरि च । अज्ञेभ्योग्रन्थिनः श्रेष्ठा ग्रन्थि-
भ्यो धारिणोवराः मनुः । “ग्रन्थी भवति पण्डितः”
सर्वत्र स्त्रियां ङीप् । “सुम्न आपिर्ह्रदे चक्षुर्न ग्रन्थिनी
चरण्युः” ऋ०१० । ९५ । ६ । ग्रन्थिनी ग्रन्थवती संदर्भ-
वती” भा० ।

ग्रन्थिपत्र पु० ग्रन्थिप्रधानं पत्रमस्य । चोरकनाम गन्धद्रव्ये राजनि० ।

ग्रन्थिपर्ण न० ग्रन्थौ पर्णान्यस्य ग्रन्थीनि ग्रन्थयुतानि वा

पर्णान्यस्य । (गाठिबाला) १ वृक्षभेदे अमरः । “ग्रन्थि-
पर्णं तिक्ततीक्ष्णं कदूष्णं दीपनं लघु । कफवातविष-
श्वासकण्डूदौर्गन्ध्यनाशनम्” भावप्र० । २ चोरनामगन्धद्रव्ये
राजनि० ३ जतुकालताया स्त्री राजनि० ४ गण्ड-
दूर्वायां स्त्री राजनि० गोरा० ङीष् ।

ग्रन्थिफल पु० ग्रन्थि ग्रन्थियुक्तं फलमस्य । १ कपित्थवृक्षे

२ मदनवृक्षे ३ शाकरुण्डवृक्षे च राजनि० ।

ग्रन्थिबन्धन न० ६ त० । (गाटबाँधा) पुस्तकादौ १ दृढ़वन्ध-

नार्थे बन्धनभेदे २ जन्मतिथौ गोरोचनायुतसूत्रबन्धने
च । “गुडदुग्धतिलानद्यात् जन्मग्रन्थेश्च बन्धनम् ।
गुग्गुलुनिम्बसिद्धार्थदूर्वागोरोचनायुतम्” कृत्यचि० ।

ग्रन्थिब(व)र्हिन् पु० ग्रन्थिं बर्हति बर्ह--स्तृतौ ग्रन्थिं

वर्हति वर्ह--बधे णिनि । ग्रन्थिपर्णवृक्षे शब्दर०

ग्रन्थिभद पु० ग्रन्थिं वस्त्रादिग्रन्थिं भिनत्ति भिद--अण्

उप० स० । (गाटकाटा) चौरभेदे “अङ्गुलिं ग्रन्थिभेदस्य०
छेदयेत् प्रथमे ग्रहे । द्वितीये हस्तचरणी तृतीये बध
मर्हति” मनुः “उत्क्षेपकग्रन्थिभेदौ करसंदंशहीनकौ ।
कार्यौ द्वितीयापराधे करपादैकहीनकौ” याज्ञ०

ग्रन्थिमत् त्रि० ग्रन्थिरस्त्यत्र मतुप् । १ ग्रन्थियुक्ते (गांट-

युक्ते) स्त्रियां ङीप् “कृष्णत्वचं ग्रन्थिमतीं दधाना”
कुमा० (हाडयोडा) २ अस्थिसंहारिवृक्षे पु० भावप्र०

ग्रन्थिमत्फल पु० ग्रन्थिमत् फलमस्य । नकुचवृक्षे (मान्दार)

इति ख्याते वृक्षे राजनि० ।

ग्रन्थिमूल न० ग्रन्थि गुम्फनवत् मूलं यस्य । १ गृञ्जने

राजनि० २ मालादूर्वायां स्त्री टाप् राजनि० ।

ग्रन्थिल त्रि० ग्रन्थिर्विद्यतेऽस्य सिध्मा० लच् । ग्रन्थियुक्ते

मेदि० २ पिप्पलीमूले न० राजनि० । ३ आर्द्रके न० शब्दच०
४ विकङ्कतवृक्षे (वैचि) ५ करीरवृक्षे च अमरः । ६ तण्डु-
लीयशाके ७ हितावल्यां ८ पिण्डालौ ९ चोरनामगन्धद्रव्ये
१० विकङ्कटवृक्षे च राजनि० । भद्रमुस्तायां ११ माला-
दूर्वायां १२ गण्डदुर्वायाञ्च स्त्री राजनि० ।

ग्रन्थिहर पु० ग्रन्थिं हरति हर--अच् । अमात्ये मन्त्रिणि त्रिका०

ग्रन्थीक न० ग्रन्थिक + पृषो० । पिप्पलीमूले द्वि० को०

ग्र(ग्ल)प्स पु० ग्रथ्न + पृषो० द्विधारूपम् । स्तवके । “अथास्यै

दुग्धेन शालाटुग्र(ग्ल)प्सेन, सीमन्तं व्यू हति” आश्व०
गृ० १ । १४ । ४ । ग्र(ग्ल)प्सः स्तवक उच्यते” नारा० ।

ग्रस भक्षणे भ्वा० आत्म० सक० सेट् । ग्रसते अग्रसिष्ट

जग्रसे । उदित् ग्रसित्वा ग्रस्त्वा । ग्रस्तः । “हिमां-
शुमाशु ग्रसते तन्मृदिम्नः स्फुटं फलम्” माघः “सुमहा-
न्तमपि ग्रासं ग्रसे लब्धं यदृच्छया” भा० शा० १७९
अ० । “य इमां पृथिवीं कृत्स्नां संक्षिप्य ग्रसते
पुनः” भा० व० २६ श्लो० । “राहुग्रस्ते निशाकरे” भा०
व० २६६७ श्लो० । ग्रासः । ग्रसनम् । क्विप् धातुत्वान्न
दीर्घः ग्रत् ग्रसौ ग्रस इति ।

ग्रस भक्षणे वा चुरा० उभ० पक्षे भ्वा० पर० सक० सेट् । ग्रास

यति--ते ग्रसति अजिग्रसत्--त अग्रासीत् अग्रसीत् ।
ग्रासयाम् बभूव आस चकार चक्र । ग्रसितः ।
“न च प्रापितमन्येन ग्रसेदर्थं कथञ्चन” मनुः ।

ग्रसन न० ग्रस--भाव ल्युट् । १ भक्षणे “ग्रसनादजगरः

शरीरप्राणहरी न विषात्” सुश्रु० । २ राहुणा चन्द्र-
सूर्ययोरुपरागे च । वृ० स० ५ अ० उक्ते त्र्यंशादि
पृष्ठ २७४३
३ ग्रासे च । उपरागशब्दे विवृतिः । ४ असुरभेदे पु०
“दृष्ट्वा तदस्त्रमाहात्म्यं सेनानीर्ग्रसनोऽसुरः” ।
“तमप्रत्यर्क्यं जगतान्नजय्यं चक्रं पपात ग्रसनस्य कण्ठे” ।
“द्विधा तु कृत्वा ग्रसनस्य कण्ठं तद्रक्तधारारुणघोरनाभि”
इति च मत्स्यपु० ।

ग्रसिष्ठ त्रि० अतिशयेन ग्रसिता ग्रसितृ + इष्ठन् तृचोलोपे

इटोऽसिद्धिः । ग्रसिवृतमे “भोगमानलादिद् ग्रसिष्ठ ओ
षधीरजीगः” ऋ० १ । १६३ । ७ । “ग्रसिष्ठः ग्रसितृतमः” भा०

ग्रसिष्णु त्रि० ग्रस--इष्णुच् । १ ग्रसनशीले “अत्ता चराचर

ग्रहणात्” शा० सू० न्यायात् २ परब्रह्मणि च । “भूत-
भर्त्तृ च तजज्ञेयं ग्रसिष्णु प्रभविष्णु च” गीता ।

ग्रस्त त्रि० ग्रस--कर्मणि क्त उदित्त्वात् क्त्वोवेट्कत्वेन इडभावः ।

१ भक्षिते लुप्तवर्णपदे २ असंपूर्णोच्चारितशब्दे न० अमरः ।

ग्रस्तृ त्रि० ग्रस + तृच् आर्षे इडभावः । भक्षके । सिंहिका-

सुषुवे राहुम्” “ग्रस्तारं चैव चन्द्रस्य सूर्य्यस्य च
महाप्रभम्” हरिवं० २२६ अ० ।

ग्रस्तास्त पु० ग्रस्त एवास्तः । अदृष्टमोक्षे ग्रासोत्तरमस्त-

गते सूर्य्ये चन्द्रे च । उपरागशब्दे १३१५ पृ०
विवृतिः ।

ग्रस्तोदय पु० ग्रस्तस्य उदयः । ग्रासोत्तरं रविचन्द्रयोरु-

दये “ग्रस्तास्तादौ विशेषमाह गुरुः “ग्रस्तास्ते
त्रिदिनं पूर्वं पश्चात् ग्रस्तोदयें तथा । खण्डग्रासे च
त्रिदिनं निःशेषे सप्त सप्त चेति” । कश्यपस्तु “ग्रस्तोदये
परे दोषो ग्रस्तास्तेऽर्वाक् शशीनयोः । द्युनिशा-
र्द्धेतूभयं तत् खण्डाखण्डव्यवस्थया” इत्याह ।

ग्रस्य त्रि० ग्रस--कर्मणि बा० यत् । अदनीये “यच्छक्यं

ग्रसितुं ग्रस्यं ग्रस्तं प्ररिणमेच्च यत्” भा० उ० ३३ अ० ।
ण्यत् । ग्रास्य तत्रार्थे त्रि० ।

ग्रह हस्तव्यापारभेदे स्वीकारे ज्ञाने च क्र्या० उभ० सक० सेट् ।

गृह्णाति गृह्णीते । गृह्णीयात् गृह्णीत । गृह्णातु
गृहाण । अगृह्णात् अगृह्णीत । अग्रहीत् अलिटि इटो
दीर्घः । अग्रहीष्टाम् । अग्रहीष्ट । जग्राह जगृहतुः
जग्रहिथ जगृहिव । जगृहे जगृहिषे । ग्रहीता
गृह्यात् ग्रहीषीष्ट ग्रहीष्यति ते । ग्रहीतव्यः ग्रहणीयम्
ग्राह्यम् पदास्वैरिपक्ष्येषु गृह्यम् । छन्दसि प्रतिगृह्यम-
पिगृह्यं लोके तु प्रतिग्राह्यम् अपिग्राह्यम् । जलचरे-
णग्राहः । ज्योतिषि अच् ग्रहः । गृहीतः गृहीतिः ।
ग्रहणम् अप् ग्रहः । उद्ग्राहः मुष्टौ संग्राहः सञ्चये
संग्रहः । ग्रहीतुर । गृहीत्वा प्रतिगृह्य । ज्ञाने
“हंसं तनौ सन्निहितं चरन्तं मुनेर्जनोवृत्तिरिव स्वि-
कायाम् । ग्रहीतुकामादरिणाशयेन” नैष० । “गृह्णाति
चक्षुः सम्बन्धादालोकोद्भूतरूपयोः” भाषा० । हस्तव्यापारे
“गृहाण शस्त्रं यदि सर्ग एष ते” “तौ जगृहतुः
पादान् राजा राज्ञी च मागधी” रघुः । “दश गृहान्
गृह्णाति” श्रुतिः स्वीकारश्च स्वत्वापदनव्यापारः सेवनादिना
आयत्तीकरणञ्च तत्राद्ये “तत्र किञ्चिन्न गृह्णीयात्
प्राणैः कण्ठगतैरपि” प्रा० त० गङ्गामा० द्वितीय
“शरद्रौदं न गृह्णीयात् गृह्णीयात् मार्गपौषयोः” नीतिः
कर्मणि गृह्यते अग्राहि अग्राहिषाताम् अग्रहीषाताम् ।
अग्राहिष्यते अग्रहीष्यते । णिच् ग्राहयति ते
अजीग्रहत् त । सन् जिवृक्षति ते । यङ् जरीगृह्यते ।
यङ्लुक् जरी(रि)गृहीति जर्गृहीति जरी(रि)गडिर्ढ
जर्गडिर्ढ मुग्ध०” सि० कौ० जाग्रहीति जाग्राढि । ज्ञान-
सामान्थार्थत्वे णिचि प्रयोज्यस्य कर्मत्वं “शिष्यं
वेदं ग्राहयतीति । गुहणमात्रार्थकत्वेऽपि कर्मत्वम्
मुग्धवो० “अजीग्रहत्त” जनको धनुस्तत्” भट्टिः ।
“अयाचितारं न हि देबदेवमद्रिः सुतां ग्राहयितुं
शशाक” कुमा० अन्यमते भञ्जनीयत्वेन विवाह्यत्वेन
च बोधयामासेत्यर्थकत्वात् नानुपपत्तिः । मुगधबो०
द्विकर्मकमध्ये पाठात् “जग्राह यज्वनोभोज्यम्” उदा०
पा० मते न द्विकर्मकतेति भेदः । वेदे हस्य भकारः ।
“इमामगृभ्णन् रसनामृतस्य” श्रुतिः । आर्षेऽपि क्वचित्
हस्य भः गृभीतशब्दे उदा० ।
  • अति + अतिक्रम्य वर्तने “अतिग्रहाव्यथनक्षेपष्वकर्त्तरि
तृतीयायाः” पा० “अतिक्रम्य ग्रहोऽतिग्रहः चारित्र्य-
तोऽतिगृह्यते चारित्र्येणान्यानतिक्रन्य वर्त्तते इत्यर्थः”
सि० कौ० “तएतानतिग्राह्यान् ददृशुस्तानत्यगृहणत”
शत० ब्रा० ४ । ५ । ४ । २
  • अनु + आनुकूल्यकरणे “वयमप्यनुगृह्णीमोद्विधा कृत्वा
वरूथिनीम्” भा० वि० ९९६ श्लो० ।
  • सम् + अनु + बन्धनादिना आनुकूल्ये “अवमुच्य किरीटं स केशान्
समनुगृह्य च । उदतिष्ठज्जरासन्धः” भा० स० ८९५ श्लो० ।
  • अप + सन्ततधारातोविच्छिद्य पृथक्कृत्य ग्रहणे “अपगृह्य
पुनरिन्द्रवायू” कात्या० श्रौ० ९ । ६ । ३ “अपगृह्य
सन्ततधारातोविच्छिद्य पृथक्कृत्वा पुनस्तस्या एव
धाराया गृह्णाति” कर्कः अपसारणे च “अथैकं
पृष्ठ २७४४
तृणमपगृह्णाति” शत० ब्रा० १ । ८ । ३ । १६ । “उभौ
तृणे अपगृह्योपासाते” २ । ५ । २ । ४२ रोधने च । “स
(च्यवनः) ते विप्रः सह वज्रेण बाहुमपगृह्णात्तपसा
जातमन्युः” मा० आश्व० ९ अ०
  • प्रपि + पिधाने “यत्रैतत् कर्णावपिगृह्य निनदमिव” छा० उ०
“अपिगृह्य पिधाय” भा० “तस्मात् कर्णं पितृदैवतं
हि तदपिगृह्यम्” शत० ब्रा० ३ । ८ । १ । १५ । आच्छादने
च “तस्मात् कल्पगन्धानपि गृह्णीत” शत० ब्रा० ४ । १ । ३ । ८
  • अभि + आभिमुख्येन ग्रहणे “अम्बालिका च बलवदभिगृह्य
चण्डवर्मणा परिणेतुमात्मनोभवनमानीता” दशकु०
  • अव + प्रतिरोधे नियमे च “मन्दोऽपि नाम न महानवगृह्य-
साध्यः” मावः “देवनीयं शंसति पदावग्रहम्” तैत्ति०
“वृष्टिर्वर्षं तद्विघातेऽवग्रहावग्रहौ समौ” अमरः “राव-
णावग्रहक्लान्तमिति वागमृतेन सः” । “वृष्टिर्भवति
शस्यानामवग्रहविशोषिणाम्” रघुः ।
  • वि + अव + अवनतौ अक० । “तत्रैव कपालम् व्यवगृहीता-
न्तमिब भवति व्यवगृहीतान्तेव हि द्यौः” शत० ब्रा० ७ । ५ ।
१ । २ “व्यवगृहीतान्तं विविधमवगृहीतोऽवनतः अन्तो-
यस्य” भा०
  • आ + आभिमुख्येनाकर्षणे “आ त एता वचोयुजा हरीं गृभाण
सुमद्रथा” ऋ० ८ । ४५ । ३९ “आगृभाण अस्मदभिमुखं
यातुं हस्ताभ्यासाकर्षयेत्यर्थः” भा० । निर्बन्धे “चले-
ऽपि काकस्य पदार्पणाग्रहः” नैष० ।
  • आ + सम् + आभिमुख्येन संग्रहे “आ तू न इन्द्र क्षुमन्तं
चित्रं ग्राभं संगृभाय” ऋ० ८ । ८१ । १ । आसंगृभाय
आभिमुख्येन संगृहाण” भा०
  • उद् + ऊर्द्ध्वं विगृज्य दाने “वाजस्य मा प्रसव उद्ग्राभेणोद
ग्रभीत्” यजु०१७ । ६३ । ऊर्द्धं विगृज्य दामम् उद्ग्रहः”
वेददी० “उद्गृह्णते स्वाहोद्गृहीताय स्वाहा” २२ । २६ ।
उद्धृत्य उत्तोल्य ग्रहणे “शक्तिं योऽग्र्यामुदग्रहीत्” भट्टिः ।
  • उद + ग्रह + णिच् । उद्ग्राहि--उपन्यासे “उद्ग्राहितमु-
पन्यस्तम्” वैजयन्ती “विशेषविदुषः शास्त्रं यत्तवोद्ग्रा-
ह्यते मया” माघः । “मोज्जिग्रहः सुनीतानि” भट्टिः
  • उप + उद् + ज्ञाने । “तस्य हि मुखमुपोद्गृह्णन्नुवाच” छा० उ०
“मुखं द्वारं विद्यायादाने तीर्थमुपोद्गृह्णन् जाननि-
त्यर्थः” भा०
  • उप + सामीप्येन ग्रहणे “दशापवित्रमुपगृह्य हिंकरोति”
शत० ब्रा० ४ । २ । २ । १४ अवष्टम्भे च “तेजो वा अद्भ्यो-
भूयस्तद्वा एतद्वायुमुपगृह्याकाशमभितपति” छा० उ०
“तद्वा एतत्तेजो वायुमुपगृह्यावष्टभ्य स्वात्मना निश्च-
लीकृत्य वायुमाकाशमभिव्याप्नुवत्तपति” भा०
  • नि + बलेन निरोधे प्रातिकूल्यकरणेन नियमने च । “र वे
प्रविशमानस्तु शूद्रेणान्धेन रक्षिणा । निगृहीतो बलाद्
द्वारि सोऽवातिष्ठत पार्थिवः” भा० व० १३६ अ० । “निगृ-
हीतः कन्धरायां शिशुना दृढमष्टिना” हरिव० २० अ० ।
“तस्मात् यस्य महावाहो निगृहीतानि सर्वशः ।
इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता” गीता
“अनिग्रहाच्चेन्द्रियाणां नरः पतनमृच्छति” याज्ञ०
  • प्रति + नि + प्रतिरूपतया ग्रहणे “आदित्यपात्रेण द्रोण-
कलसात् प्रतिनिगृह्णीते” शत० ब्रा० ४ । ३ । ५ । ६
  • वि + नि + विशेषेण निग्रहे “शिरःसु विनिगृह्यैतान् योधया
मास पाण्डवः” भा० आ० १२८ अ०
  • निस् + निःशेषोण ग्रहणे निग्रहे च “शक्रस्त्वमिति यो दैत्यै-
र्निर्गृहीतः किलाभवत्” भा० आनु० १९९८ श्लो०
  • परि + परितोग्रहणे “बाहुन । परिजग्राह दक्षिणेन शिरो-
धराम्” भा० आ० ६३२ श्लो० । “ज्ञानेन परिगृह्य तान्”
मनुः । स्वीकारे च “कस्य गुप्तः परिग्रहः” भा० आ०
गन्धर्व्वं प्रति अर्जुनोक्तिः
  • प्र + प्रकर्षेण ग्रहणे । “प्रगृहीतश्च योऽमात्योनिगृहीतश्च
कारणैः” भा० वि० १२ श्लो० । सन्धिकार्यनिषेधाय विशिष्य
ग्रहणे “प्रगृह्यं पदम्” प्रा० प्रगृह्यशब्दे दृश्यम् ।
  • प्रति + दत्तवस्तुनोग्रहणे “सप्त वित्तागमाः धर्म्यादायोलाभ
क्रयो जयः । विभागः संप्रयोगश्च सत्प्रतिग्रह एव च”
स्मृतिः “याजनाध्यापनप्रतिग्रहैर्व्राह्मणो धनमर्ज्जथेत्”
श्रुतिः अदृष्टार्थत्यक्तद्रव्यस्वीकार एव प्रतिग्रहो मुख्यः
अन्यत्र भाक्तः । “तीरे प्रतिग्रहस्त्याज्यस्त्याज्यो धर्मस्य
विक्रयः” “तत्र न प्रतिगृह्णीयात् प्राणैः कण्ठगतै-
रपि” प्रा० त० गङ्गामा० । “प्रतिग्रहादपावृत्तः सन्तु-
ष्टो येन केनचित्” प्रा० त० “अभिपद्यच बाहुभ्यां प्रत्य-
गृह्णादमर्षितः गा० व० ४४१ श्लो० । प्रतिरूपतया
शस्तादिग्रहणे च “तर्थव पाण्डवो भीष्मे दिव्यमस्त्र-
मुदीरयन् । प्रत्यगृह्णादयेमात्मा” भा० वि० ६० अ० ।
स्वीकारमात्रे “प्रतिग्रहीतुं प्रणयिप्रियत्वात्” कुमा०
“अमोघाः प्रतिगृह्णन्तावर्घानुपदमाशिषः” रघुः ।
  • वि + विरोधे रोधने । “सन्दधीत न चानार्यं विगृह्णीयान्न
बन्धुभिः” भा० शा० ७० अ० “विगृह्य शत्रून् कौन्तेय!
पृष्ठ २७४५
जेयः क्षितिपतिस्तदा” भा० आश्र०६ अ० । विशेषेण
ज्ञाने “न बिग हणाति वैषम्यम्” भाग० ३ । ३२ । २ । ४ श्लो० ।
“अविग्रहा गतादिस्था यथा ग्रामादिकर्मभिः” हरिः
विशेषणग्रहः अवयवीभावः । विग्रहो देहः । “रक्त-
प्रसाधितभुवः क्षतविग्रहाश्च” वेणी पञ्चविधवृत्तिस्फु-
टीकरणवचनभेदे “वृत्त्यर्थविवरणं विग्रहः” सि० कौ०
“सप्तम्या विग्रहस्थया” शब्दश० प्र० ।
  • सम् + सञ्चये नानास्थानपठितस्य एकत्र समावेशार्थे संदर्भ-
भेदे “संग्रहेऽस्तमुपागते” वाक्यपदीयम् । सङ्कोचने
“संगृह्णती कौशिकमुत्तरीयम्” भा० व० १५६०२ श्लो०
एकत्रीकरणे “संगृह्य तत्समैरङ्गैर्निर्ममे स्त्रियमुत्तमाम्”
८५५९ श्लो० सम्यक्ग्रहणे “औषधानि च सर्वाणि
मूलानि च फलानि च । चतुर्विधांश्च वैद्यान् वै संगृह्णी-
याद्विशेषतः” भा० शा० २६५४ श्लो० । मुष्टौ संग्राहः
सञ्चये द्रव्यसंग्रहः” सि० कौ०

ग्रह आदाने वा चुरा० उभ० पक्षे भ्वा० पर० सक० वेट् ।

ग्राहयति ते ग्रहति । अजिग्रहत्-त अग्रहीत्
अघ्राक्षीत् ।

ग्रह पु० ग्रह--अच् । १ नवसु सूर्य्यादिषु । २ बालारिष्टकारेषु

स्कन्दग्रहादिषु भावे अप् । ३ अनुग्रहे, ४ निर्बन्धे,
“अवश्यभव्येष्वनवग्रहग्रहा” नैष० ५ आदाने ग्रहणे, ६
रणोद्यमे, ७ मलबन्धे, ८ चन्द्रसूर्ययोर्ग्रासे च “तदा सम्भाव्यते
ग्रहः इति ज्योतिषम् “एकरात्रं परित्यज्य कुर्यात्
पाणिग्रहं ग्रहे” ज्योति० सूर्यादयश्च
“सूर्यश्चन्द्रोमङ्गलश्च बुधश्चापि वृहस्पतिः । शुक्रः शनैश्चरो
राहुः केतुश्चेति नव ग्रहाः” । एषां गतिभेदाः खगगति-
शब्दे २४१३ पृ० दर्शिताः । राहुकेत्वोर्यथा ग्रहत्वंपी० धा०
व्यवस्थापितं तच्च केतुशब्दे २२३४ पृ० उक्तम् । शा० ति०
१ पटले “लोकानद्रीन् स्वरान् धातून् मुनीन् द्वीपान्
ग्रहानपि । समिधः सप्तसंख्याताः सप्त जिह्वा हविर्भुजः”
इत्यनेन ग्रहाणां यत् सप्तत्वमुक्तं तत् वराहमताभि-
प्रायेण । तच्च १३११ पृ० उपरागशब्दे अमृतास्वाद-
विशेषादित्याद्युक्तम् । अन्यमताभिप्रायेण ग्रहाणां
नवत्वं ६ पटले शा० ति० उक्तं यथा “नव वर्गाः समुत्पन्ना
नवरत्नेश्वरा ग्रहाः । अर्केन्दुरक्तज्ञगुरुभृगुमन्दाहि-
केतवः । माणिक्य मौक्तिक चारु विद्रुमं गारुडं
पुनः । पुष्परागं लसद्वज्रं नीलं गोमेदकं शुभम् ।
वैदूर्य्यं नव रत्नानि” ।
स्कन्दग्रहादीनां नवानां लक्षणविभागः सुश्रुते उक्तोयथा
“अथातो नवग्रहाकृतिविज्ञानीयमध्यायं व्याख्यास्यामः ॥
बालग्रहाणां विज्ञानं साधनञ्चाप्यनन्तरम् । उत्पत्तिं
कारणञ्चैव सुश्रुतैकमनाः शृणु ॥ स्कन्दग्रह १ स्तु प्रथमः
स्कन्दापस्मार २ एव च । शकुनी ३ रेवती ४ चैव पूतना ५
चान्धपूतना ६ ॥ पूतना शीतनामा ७ च तथैव मुखमण्डि-
का ८ । नवमो नैगमेयश्च ९ यः पितृग्रहसंज्ञितः ॥
घात्रीमात्रोः प्राक्प्रदिष्टापचाराच्छौचभ्रष्टान्मङ्गलाचारही-
नान् । त्रस्तान् हृष्टांस्तर्ज्जितान् क्रन्दितान् वा पूजाहे-
तोर्हिंस्युरेते कुभारान् ॥ ऐश्वर्य्यस्थास्ते न शक्या विशन्तो
देहं द्रष्टुं मानुषैर्विश्वरूपाः । आप्तं वाक्यं तत्समी-
क्ष्याभिधास्ये लिङ्गान्येषां यानि देहे भवन्ति ॥ शूनाक्षः
क्षतजसगन्धिकः स्तनद्विट्वक्रास्यो हतचलितैकपक्ष्मनेत्रः ।
उद्विग्नः सुललितचक्षुरल्परोदी स्कन्दार्त्तो भवति च
गाढमुष्टिवर्च्चाः १ ॥ निःसंज्ञो भवति पुनर्भवेत्ससंज्ञः संरब्धः
करचरणैश्च नृत्यतीव । विण्मूत्रे सृजति विनद्य जृम्भ-
माणः फेनञ्च प्रसृजति तत्सखाभिपन्नः २ ॥ स्रस्ताङ्गो
भयचकितो विहङ्गगन्धिः संस्राविव्रणपरिपीड़ितः
समन्तात् । स्फोटैश्च प्रतततनुः सदाहपाकैर्व्विज्ञेयो भवति
शिशुः क्षतः शकुन्या ३ ॥ रक्तास्यो हरितमलोऽतिपा-
ण्डुदेहः श्यावो वा ज्वरमुखपाकवेदनार्त्तः । रेवत्या
व्यथिततनुश्च कर्णनासं मृद्नाति ध्रुवमभिपीड़ितः कुमारः ४ ॥
स्रस्ताङ्गः स्वपिति सुखं दिवा न रात्रौ विड्भिन्नं सृजति
च काकतुल्यगन्धिः । छर्द्यार्त्तो हृषिततनूरूहः कुमार
स्तृष्णालुर्भवति च पूतनागृहीतः ५ ॥ यो द्वेष्टि स्तनम-
तिसारकासहिक्काछर्दीभिर्ज्वरसहिताभिरर्द्यमानः ।
दुर्व्वर्णः सततमधःशयोऽम्लगन्धिस्तं ब्रूयुर्वरभिषजोऽन्ध-
पूतनार्त्तम् ६ ॥ उद्विग्नो भृशमतिवेपते प्ररुद्यात् संलीनः
स्वपिति च यस्य चान्त्रकूजः । विस्राङ्गो भृशमतिसा-
र्य्यते च यस्तं जानीयाद्भिषगिह शीतपूतनार्त्तम् ७ ॥
म्लानाङ्गः सुरुचिरपाणिपादवक्त्रो वह्वाशी कलुषसिरा-
वृतोदरो यः । सोद्वेगो भवति च मूत्रतुल्यगन्धिः स
ज्ञेयः शिशुरथ वक्त्रमण्डिकार्त्तः ८ ॥ यः फेनं वमति
विनम्यते च मध्ये सोद्वेगं बिलपति चोर्द्धमीक्षमाणः ।
ज्वर्य्येत प्रततमथो वसासगन्धिर्न्निःसज्ञो भवति हि
नैगमेयजुष्टः ९ ॥ प्रस्तब्धो यः स्तनद्वेषी मुह्यते चावि-
शन्मुहुः । तं बालं नचिराद्धन्ति ग्रहः सम्पूर्णलक्षणः ।
विपरीतमतःसाध्यं चिकित्सेदचिरार्दितम् । गृहे पुरा-
पृष्ठ २७४६
णहविषाभ्यज्य बालं शुचौ शुचिः ॥ सर्षपान् प्रकिरे-
त्तेषां तैलैर्दीपञ्च कारयेत् । सदासन्निहितञ्चापि
जुहुयाद्धव्यवाहनम् ॥ सर्वगन्धौषघीवीजैर्गन्धमाल्यै-
रलङ्कृतम् । अग्नपे कृत्तिकाभ्यश्च स्वाहा स्वाहेति
संस्मरन् ॥ नमः स्कन्दाय देवाय ग्रहाधिपतये नमः ।
शिरसा त्वाभिवन्देऽहं प्रतिगृह्णीष्व मे बलिम् ॥
निरुजो निर्विकारश्च शिशुर्म्मे जायतां ध्रुवम्” ।
सोत्पत्तिकमन्यग्रहभेदा भा० व० २२९ अ० उक्ताः यथा
“यावत् षोड़श वर्षाणि भवन्ति तरुणाः प्रजाः ।
प्रबाधत मनुष्याणां तावद्रूपैः पृथग्विधैः । अहञ्च वः
प्रदास्यामि रौद्रमात्मानमव्ययम् । परमं तेन सहिताः
सुखं वत्स्यथ पूजिताः । मार्कण्डेय उवाच । ततः
शरीरात् स्कन्दस्य पुरुषः पावकप्रभः । भोक्तुं प्रजाः
स मर्त्त्यानां निष्पपात महाबलः । अपतत् सहसा
भूमौ विसङ्गोऽथ क्षुधार्द्दितः । स्कन्देन सोऽभ्यनु-
ज्ञातो रौद्ररूपोऽभवद्ग्रहः । स्कन्दापस्मारमित्याहुर्ग्रहं
तं द्विजसत्तमाः ॥ विनता तु महारौद्रः कथ्यते
शकुनीग्रहः । पूतनां राक्षसीं प्राहुस्तं विद्यात् पूतना-
ग्रहम् । कष्टा दारुणरूपेण घोररूपा निशाचरी ।
पिशाची दारुणाकारा कथ्यते शीतपूतना । गर्भान्
सा मानुषीणान्तु हरते घोरदर्शना । अदितिं रेवतीं
प्राहुर्ग्रहस्तस्यास्तु रैवतः । सोऽपि बालान्महाघोरो
बाधते वै महाग्रहः । दैत्यानां या दितिर्माता तामा-
हुर्मुखमुण्डिकाम् । अत्यर्थं शिशुमांसेन संप्रहृष्टा
दुरासदा । कुमाराश्च कुमार्य्यश्च ये प्रोक्ताः स्कन्दस-
म्भवाः । तेऽपि गर्भभुजः सर्वे कौरव्य! सुमहाग्रहाः ।
तासामेव तु पत्नीनां पतयस्ते प्रकीर्त्तिताः । अज्ञाय-
माना गृह्णन्ति बालकान् रौद्रकर्म्मिणः । गवां माता
तु या प्राज्ञैः कथ्यते सुरभिर्नृप! । शकुनिस्तामथा-
रुह्य सह भुङ्क्ते शिशून् भुवि । सरमा नाम या माता
शुनां देवी जनाधिप! । सापि गर्भान् समादत्ते मानु-
षीणां सदैव हि । पादपानाञ्च या माता करञ्जनिलया
हि सा । वरदा सा हि सौम्या च नित्यं भूतानु-
कम्पिनी । करञ्जे तां नमस्यन्ति तस्मात् पुत्त्रार्थिनो
नराः । इमेःत्वष्टादशान्ये वै ग्रहा मांसमधुप्रियाः ।
द्विपञ्चरात्रं(१०)तिष्ठन्ति सततं सूतिकागृहे । कद्रुः
सूक्ष्मवपुर्भूत्वा गर्भिणीं प्रविशत्यथ । भुङ्क्ते सा तत्र तं
गर्भं सा तु नामं प्रसूथते । गन्धर्वाणाञ्च या माता
सा गभं गृह्य गच्छति । ततो विलीनगर्भा सा मानुषी
भुवि दृश्यते । या जनित्री त्वपसरसां गर्भमास्ते प्रगृह्य
सा । उपविष्टं ततो गर्भं कथयन्ति मनीषिणः । लोहि-
तस्योदधेः कन्या धात्री स्कन्दस्य सा स्मृता । लोहिताय-
निरित्येवं कदम्बे सा हि पूज्यते । पुरुषषु यथा
रुद्रस्तथार्य्या प्रमदास्वपि । आर्य्या माता कुमारस्य
पृथक्कामार्थमिज्यते । एवमेते कुमाराणां मया प्रोक्ता
महाग्रहाः । यावत् षोड़शं वर्षाणि ह्यशिवास्ते शिवा-
स्ततः । ये च मावृगणाः प्रोक्ताः पुरुषाश्चैव ये ग्रहाः ।
सर्वे स्कन्दग्रहा नाम ज्ञेया नित्यं शरीरिभिः । तेषां
प्रशमनं कार्य्यं स्नानं धूपमथाञ्जनम् । बलिकर्मोप-
हारश्च स्कन्दस्येज्या विशेषतः । एवमभ्यर्चिताः सर्वे
प्रयच्छन्ति शुभं नृणाम् । आयुर्वीर्य्यञ्च राजेन्द्र! सम्यक्-
पूजानमस्कृताः । ऊर्द्धन्तु षोडशाद्वर्षाद्ये भवन्ति ग्रहा
नृणाम् । तानहं संप्रवक्ष्यामि नमस्कृत्य भहेश्वरम् ।
यः पश्यति नरो देवान् जाग्रद्वा शयितोऽपि वा ।
उन्माद्यति स तु क्षिप्रं तन्तु देवग्रहं विदुः ।
आसीनश्च शयानश्च यः पश्यति नरः पितॄन् । उन्माद्यति स
तु क्षिप्रं स ज्ञेयस्तु पितृग्रहः । अवमन्यति यः
सिद्धान् क्रुद्धाश्चापि शपन्ति यम् । उन्माद्यति स तु
क्षिप्रं ज्ञेयः सिद्धग्रहस्तु सः । उपाघ्राति च यो
गन्धान्रसांश्चापि पृथग्विधान् उन्माद्यति स तु क्षिप्रं
स ज्ञेयो राक्षसग्रहः । गन्धर्वाश्चापि यं विद्याः संवि-
शन्ति नरं भुवि । उन्माद्यति स तु क्षिपं ग्रहो गान्धर्व
एव सः । अधिरोहन्ति यं नित्यं पिशाचाः पुरुषं
प्रति । उन्माद्यति स तु क्षिप्रं ग्रहः पैशाच एव सः ।
आविशन्ति च यं यक्षाः पुरुष कालपर्य्यये । उन्मा-
द्यति स तु क्षिप्रं ज्ञेयो यक्षग्रहस्तु सः । यस्य दोषैः
प्रकुपितं चित्तं मुह्यति देहिनः । उन्माद्यति स तु
क्षिप्रंसाधनं तस्य शास्त्रतः । वैक्लव्याच्च भयाच्चैव घोराणां
चापि दर्शनात् । उन्माद्यति स तु क्षिप्रं सान्त्व तस्य
तु साधनम् । कश्चित् क्रीडितुकामो वै भोक्त कामस्तथा-
ऽपरः । अभिकामस्तथेवान्यैत्येष त्रिविधो ग्रहः ।
यावत् सप्ततिवर्षाणि भवन्त्येते ग्रह । नृणाम् । अतःपरं
देहिनान्तु ग्रहतुल्यो भवेज्ज्वरः । अप्रकीर्णोन्द्रय
दान्तं शुचिं नित्यमतन्द्रितम् । आस्तिकं शुद्धचारञ्च
वर्ज्जयन्ति सदा ग्रहाः । इत्येषते ग्रहोद्देशो मानुषाणां
प्रकीर्त्तितः । न स्पृशन्तिग्रहा भक्तान्नरान्देवे महेश्वरे” ।
पृष्ठ २७४७
नवग्रहध्यानादिकं ग्रहयज्ञशब्दे वक्ष्यते । ग्रहकक्षादि-
मानं तद्भगगदिकञ्च तत्तद्घशब्दे उक्तं वक्ष्यमाणञ्च
दृश्यम् । “उञ्चस्थे ग्रहपञ्चके” ति० त० श्रीरामजन्मदिने
“ग्रहैततः पञ्चभरुच्चसंस्थितैः” रघुः । गृह्यतेऽनेन
करणे अप् । ९ सोमा दग्रहणपात्रे “दश ग्रहान्
गृह्णाति” “गृहं समाष्टि” श्रुतिः सोमादिग्रहणसाधन-
पात्रनातानि च यागभेदेन भिन्नानि तानि “दश
सोमग्रहान् गृह्णाति” इत्यादौ शत० ब्रा० दर्शितानि । एवं
यागभेदे ग्रहभेदाः तत्रोक्ता दृश्याः । गृह्यतेऽनेन करणे
ऽप् । १० घ्राणाद्यष्टके घ्राणादीनां ग्रहत्वम् वृ० उ० उक्तं यथा
“याज्ञवल्क्येति होवाच कति ग्रहाः कत्यतिग्रहाः?
इति अष्टौ ग्रहा अष्टावतिग्रहा इति ये तेऽष्टौ ग्रहा
अष्टावतिग्रडाः कतमेते? इति । पाणो १ वै ग्रहः
सोऽपानेनातिप्राहेण गृहीतोऽपानेन हि गन्धं जिघ्रति ।
वाग् २ वै ग्रहः स नाम्नातिग्राहेण गृहीतो वाचा हि
नामान्य भवदति । जिह्वा ३ वै ग्रहः स रसेनातिग्राहेण
गृहीतो जिह्वया हि रसान्विजानाति । चक्षु ४ वै ग्रहः
स रूपेणातिग्राहेण गृहीतश्चक्षुषा हि रूपाणि पश्यति ।
श्रोत्रं ५ वै ग्रहः स शब्देनातिग्राहेण गृहीतः । श्रोत्रेण
हि शब्दाञ्छृणीति । मनो ६ वै ग्रहः स कामेनाति-
ग्राहेण गृहीतो मनसा हि कामान् कामयते । हस्तौ ७
वै ग्रहः स कर्म्मणातिग्राहेण गृहीतो हस्ताभ्यां
हि कर्म्म करोनि । त्वग्८ वै ग्रहः स स्पर्शेनातिग्राहेण
गृहीतस्त्वचा हि स्पर्शान्वेदयत इत्येतेऽष्टौ ग्रहा
अष्टावतिग्रहाः” वृ० उ० ।
“ये तेऽष्टौ ग्रहा अभिहिताः कतमे ते नियमैन ग्रही-
तव्या इति तत्राह । प्राणो वै ग्रहः प्राण इति
घ्राणमुच्यते । प्रकरणाद्वायुसहितः सोऽपानेनेति गन्धे-
नोयेतदपानसचिवत्वादपानो गन्ध उच्यते । अपानो-
पहृतं हि गन्धम् घ्राणेन सर्षोलोको जिघ्रति ।
तदेतदुच्यते अपानेन हि गन्धान् जिघ्रतीति । वाग्वै
ग्रहो बाचा ह्यध्यात्मपरिच्छिन्नया आसङ्गविष-
यास्पदया सत्याऽनृताऽसभ्यबीभत्सादिवचनेषु व्यापृतया
गृहीतो लोकोऽपहृतः तेन वाक् ग्रहः स नाम्नाति-
ग्राहेण गृहीतः स वागाख्यो ग्रहो नाम्ना वक्तव्येन
षिपयेणातिग्राहेणातिग्राहेणेति दैर्घ्यं छान्दसं, नाम
बक्तव्यार्था हि वाक् । तेन व्यक्तव्येनार्थेन प्रयुक्ता
वाक् तेन वशीकृता तेन तत्कार्य्यमकृत्वा नैव तस्या
मोक्षः । अतो नाम्नातिग्रहेण गृहीता वानित्युचर्त
वक्तव्यासङ्गेन हि प्रवृत्ता सर्वानर्थेर्युज्यते । समान-
मन्य दत्यते त्वक्पर्यन्ता अष्टौ ग्रहाः स्पर्शपर्य्य-
न्ताश्च एतेऽष्टावतिग्रहा इति” भा० ।

ग्रहकल्लाल पु० ग्रहेषु कल्लोल इव । राहौ त्रिका० ।

ग्रहकुष्माण्ड पु० गृह्णाति ग्रह--अच् कुप्राण्डमादा

कारोऽस्त्यस्य अच् कर्म्म० । नराणामुपद्रावके कुमाण्डा-
कारे सत्वभेदे । “डाकिनी शाकिनी भूतप्रेता वेताल
राक्षसाः । ग्रहकष्माण्डखेटाङ्गा कालकर्णीशिशुग्रहाः ।
सर्व्वे प्रशममायान्ति शिवतीर्थजलोक्षणात्” का० ख०
३३ अ० । अत्र ग्रह इति भिन्नं पदमित्यन्ये

ग्रहगणित न० ग्रहाणां तद्गत्यादीनां गणितं गणनं यत्र ।

त्रिस्कन्धज्यौतिषान्तर्गते तन्न मके स्वान्धभेदे “ज्योतिः
शास्त्रमनेकभेदविषयं स्कन्धत्रवाधिष्ठितम्” इत्युप-
क्रमे “स्कन्धेऽस्मिन् गणितेन या ग्रहगतिस्तन्त्राभिधानं
त्वसौ” वृ० स० १ अ० । “ग्रहगणितहोरासंहिताहोरा
ग्रन्थार्थवेत्ता । तत्र ग्रहगणिते पौलिशरोमकबासिष्ठ
सौरपैतामहेषु पञ्चस्वेतेषु सिद्धान्तेषु” इत्यनेन तत्रैव
तद्भेदा उक्ताः । तत्पाद्यविषयाश्च गणकशब्दे दर्शितत-
द्वाक्ये उक्तप्रायाः । सौरागमप्रतिपाद्यविषयाश्च सि० शि०
सम्मता यथा । मध्यमाधिकारः कालज्ञानम् भगोलः
ग्रहस्कुटीकरणम् । ग्रहकक्षा प्रत्यब्दशुद्धः अधिमासादि
स्फुटीकरणम् । त्रिप्रश्नाधिकारः । पर्व्वसम्भवः चन्द्र
ग्रहणम् सूर्य्यग्रहणम् ग्रहणच्छाया ग्रहोदयास्त-
निर्ण्णयः । शृङ्गेन्नतिः ग्रहयुतिः भग्रहयुतिः पाताधि-
कारः । एनेषां च विशेषस्तत्तच्छब्दे उक्तोवक्ष्यते च ।

ग्रहगोचर पु० ६ त० । ग्रहाणां जन्मराशितःस्थानभेदेन

शुभाशुभसूचके गतिभेदे । गोचरशब्दे उक्तप्रायोऽपि
विशेषोऽत्राभिधीयते यथा वृ० सं० १०४ अ० । तत्र ये श्लो-
कायच्छन्दस्कास्तन्नामापि तत्र भङ्ग्योक्तं द्रष्टव्यम्
“प्रायेण गोचरो व्यवहार्य्योऽतस्तत्फलानि वक्ष्यामि ।
नानावृत्तैस्तन्नो मुखचपलत्वं क्षमत्वार्याः । माण्डव्य
गिरं श्रुत्वा न मदीया रोचतेऽथवा नैवम् । साध्वी
तथा न पुंसां प्रिया यथा स्याज्जघनचपला ।
सूर्यः षट्त्रिदशस्थितस्यिदशषट्सप्ताद्यगश्चन्द्रमा जीवः सप्त-
नवद्विपञ्चमगतो वक्रार्कजौ षट्त्रिगौ । सौम्यः
पड्द्विचतुर्दशाष्टमगतः सर्वेऽप्युपान्त्ये शुमाः शुक्रः
सप्वमषड्दशर्क्षसहितः शार्दूलवत्त्रासकृत् ।
पृष्ठ २७४८
  • रचेः--जन्मत्यायासदोऽकेः क्षप्रयति विभवान् कोष्ठरोगाध्व-
दाता वित्तभ्रंशं द्वितीये दिशति च न सुखं पञ्चनां दृग्रुजं
च । स्थानप्राप्तिं तृतीये धननिचयमुदाकल्यकृच्चारि-
हन्ता रोगीन्धते चतुर्थ जनयति च मुहुः स्रग्धरा
भोगविघ्नम् । पोडाः स्युः पञ्चमस्थे सवितरि बहुशा
रंगारिजनिताः षष्ठेऽर्का हन्ति रोगात् क्षपयति च
रिपूञ्छ कांश्च नुदति । अध्वानं सप्तवस्थो जठरगद-
भय दैन्यं च कुरुते रुक्क सौ चाष्टमस्थे भवति
सुवदना न स्वापि वनिता । रवावापद्दैन्य रुगित० नवमे
चित्तचष्टाबिरोधो जयं प्राप्तोत्युत्यं द्रशमाटहगे कर्मसिद्धिं
क्रमेण । जयं स्थानं मानं विगवमपि चैकादशे रोगनाशं,
सुवृतातां चेष्टा भवति सफला द्वादशे नेतरेषाम् ।
  • विघोः--णथी जन्मन्यन्नपवरगयनाच्छादनकरो द्वितीये
मानार्धौ ग्लायति सविघ्नश्च भयति । त्रतीये वस्त्रस्त्रो-
धननिचयसौख्यानि लभते चतुर्थेऽविश्वासः
शिखरिणिभुदङ्गेन सदृशः । दैत्यं व्याधिं शुचमपि शरी
पञ्चमे माग विध्नं षष्ठे वित्तं जनयति सुखं शतुरोगक्षयं
च । यानं मानं शयनमशनं सप्रने वित्तलाभं मन्दा-
क्रान्ते फणिनि हिगगौ चाष्टसे भीर्न कस्य । नवभगृ-
हगो बन्धोद्वेगश्रमादररोगकृद्दशपभवते चाज्ञाकन
सिद्धिकरः शशी । उपचयसुहृत्संयोगार्य मोदषुपात्यगो
वृषभचरितान्दषानन्त्ये करोति हि सव्ययान् ।
  • कुजस्य--कजेऽभव तः प्रथमे, द्वितीये नरेन्द्रपीडा कलहा-
रिदोपैः । भृणं च पित्तानलरोगचौरैरुपेन्द्रवज्रप्रतिमोऽपि
यः स्यात् । तृतीयगङ्गौरकुमारकेस्यो भौमः सकाशात्
फलमाटधाति । प्रदाप्तिमाज्ञां धनमौर्णिकानि धात्वा
कराख्यनि किलापराण । भवति धरणिजे चतुर्थगे
ज्वरजठरगदसृपुद्भत्रः । कुपुरुषजनिताच्च सङ्गमात् प्रस-
भमपि करोति चाशुभम् । रिपुगदकोपभयानि पञ्चने
तनयकृताश्च शुचो महीसुते । द्युतिरपि नास्य चिरं
भवेत् स्थिरा शिरसि कपेरिव मालती कृता । रिपु-
भयकलहैर्बवजिंतः स कनकविद्रुमतामकागमः । रिपु-
भवनगते महीसुते किमपरवक्त्रविकारमीक्षते । फलत्र-
कलहाक्षिरुग्जठररोगकृत् सप्तनो क्षरत्क्षतजरू क्षतः
क्षयितवित्तमानोऽष्टभे । कजे नवमसंस्थिते परिभवार्थ-
नाणादि भर्विलम्बितगतिर्भवत्यबलदेहधातुकुमैः ।
दशमगृहगते सदा महोजे पिविधवनाप्तिरुपान्त्यगे जयश्च ।
जनपदमुपरिस्थितश्च भुङ्क्ते वनमिव षट्चरणः सुपु-
ष्पिताग्रम् । नानाव्ययैर्द्वादशगे महीसुते मस्ताप्यतेऽ-
नर्थशतैश्च मानवः । स्त्रीकोपपितैश्च स नेत्रयेदनैर्योऽ-
पीन्द्रवंशामिजनेन गर्वितः ।
  • बुधस्य--दुष्टवाक्यविशुनाहितभेदैर्वन्धनैः सकलहैश्च हृबस्वः ।
जन्मगे शशिसुते पथि गच्छन् स्वःगतेऽप्रि कुशल’ न
शृणोति । परिभवो धनगते धनस्तब्धिः सहजगे शशिसुते
सुहृदाप्तिः । नृपतिशत्रुभयशङ्कितचित्तो द्रुतपदं व्रजति
दुश्च रतैः स्वैः । चतुर्थपे स्वजनकटुष्ववृद्धषौ धनागभो
भवति च शीतरश्मिजे । सुतस्थिते तनयकलत्रविग्रहो
निषेवते न च रुचिरामपि स्त्रियम् । सौमाग्यं
विजयमथोन्नतिं च षष्ठे वैवर्ग्य कलहमतोव सप्तमे ज्ञः ।
मृत्युस्थे सुतजयवस्त्रवित्तलाभा नैपुपय भवति
भतिप्रहर्षणीयम् । विव्नकरो नवमः शणित्रः कर्मगतो
रिपुहा धनदर्ब । मामदं शयनं च विधत्ते तद्गृहदोऽथ
कुथास्तरणं च । धनसुखबुतयोषिन्मित्रवाहाप्तितुष्टिस्तु
हिनकिरणपुत्रे लाप्रगे मृष्टवाक्यः । रिपुपरिभव-
रोगैः पीडितो द्वादशस्थे न सहति परिभोक्तु
मालिनीयोगसौख्यम् ।
  • गुरोः--जीवे जत्मन्यपगतवनधोः स्थानम्रष्टो वहुकलह-
युतः । प्राप्यार्थऽर्थान् व्यरिरपि कुरुते क न्तास्याब्जे
भ्रमरविलसितम् । स्थानभ्रंशात् कार्यविघाताच्च तृतीये-
ऽनेकैः क्लेशेबन्धुजनोत्थैश्च चतुर्थे । जीवे शान्तिं
पीडितचित्तश्च स विन्देन्नैव ग्रामे नापि वने मत्तमयूरे ।
जनयति च तनयमवनरपगतः परिजनशुभसुतकरि-
तुरगवृपान् । सकनकपुरगृहयुवतिगसनकृ । मणिगुण-
निकरकृदपि विवुधगुरुः । न सखीवदनं निलकोज्ज्वल
न भवनं शिखिकोकिलनादितम् । हरिण प्लुतशाव-
विचित्रितं रिपुगते मनःमुखदं गुरौ । त्रिदशगुरुः
शयनं रतिप्रोगं धनमशनं कुसुलान्युपवाह्यम् ।
जनयति सप्तमराशिमुपेतो ललितपदां च गिरं
धिपणां च । बन्ध व्याधिं चाष्टमे शोकमुग्रं मार्ग-
क्लशं मृत्युतुल्यांश्च रागान् । नैपुण्याज्ञा पुत्रकर्मार्य-
सिद्धिं धर्मे जीवः शालिनीनां च लाभम् । स्थानकल्य-
धनहा दशर्क्षगस्तत्प्रदो गवति लाभगा गुरुः । द्वःदशे-
ऽध्वनि बिलोमठःखमाग् याति यद्यपि नरो रथोद्धतः ।
  • भृगोः--प्रथमगृहोपगो भृगुसुतः स्मरोपकरणैः सुरभिमनो-
ज्ञगन्धकसुभाम्बरैरुपचयम् । शयनगृहासनाशनयुतस्य
चानुकुरूते समदविलासिनीमुस्वसरोजषट चरणतोभ् ।
पृष्ठ २७४९
शके द्वितीयग्रहगे प्रसवार्थधात्यभूपालसन्नतिकुटुम्ब-
हितान्यवाप्य । संसवते कुतुमरत्नविभूषितश्च कामं
वसन्ततिलकद्युतमूर्धजाऽपि । आज्ञाथमानास्पदभूतिव
स्त्रशत्रुक्षयान् दैत्यगुरुस्तृताये । धत्त चतुर्थश्च सुहृत्-
समाजं रुद्रेन्द्रवज्रपतिमां च शक्तिम् । जंनयति
शुक्रः पञ्चमसस्थो गुरुपरितोषं बन्धुजनाप्तिम् ।
सुतधनलब्धि मित्रसहायान् अनवसतत्वं चारि-
बलेषु । षष्ठो भृगुः परिभवरोगमापदः स्त्रीहेतुकं
जनयति सप्तमोऽशुभम् । यातोऽष्टमं भवन
परिच्छदप्रदो लक्ष्मीवतीमुपनयति स्त्रियं च सः ।
नयमे तु धर्मवनितासुखमाग् भृगुजेर्थवस्त्रनिचयश्च
भवेत् । दशमेऽवमानकलहान्नियमात् प्रमिताक्षराण्यपि
षदन् लभते । उपान्त्यगो भृगः सुतः सुहृद्धनान्नग-
न्धदः । धनाम्बरागमोऽन्त्यगे स्थिरस्तु नाम्बरागमः ।
  • शनेः--प्रथमे रविजे विषवह्निहतः स्वजनेर्विधुतः कृतबन्ध-
बधः । परेदेशमुर्पत्यसुहृद्भवनो पिमुखार्थसुतोऽटक-
दीनमुखः चारवशाद्द्वितीयगृहगे दिनकरतनये
रूपसुखापवर्जिततनुर्विगतमदवलः । अन्यगुणैः कृतं
वसुचयं तदपि खलु भववृम्ब्विव वंशपत्रपतित न बहु
न व चिरम् । सूर्यसुगे ततीपगृहगे धनानि लभते
दासपरिच्छदीष्ट्रमहिषाश्वकुञ्जरखारान् । सद्मविभूति-
सौख्यम मतं गदव्युपरमं भीरुरपि प्रशास्त्यधि रिपूंश्च
वीरनलितैः । चतुयं गृह सूर्यपुत्रेऽभ्युपेते सुहृद्वि-
त्तमार्यादभिर्विप्रयुक्तः । भवत्यम्य सर्वत्र चासाधुकष्टं
भुजङ्गप्रयातानुकारं च चित्तम् । सुतधनपरिहीणः
पञ्चमस्थे प्रचुरकलहयुक्तश्चार्कपुत्रे । विनिहतरिपुरोगः
षष्ठयाते पिबति च वनितास्यं श्रीपुटोष्ठम् । गच्छत्य-
ध्वानं सप्तमे चाष्टमे च हीनः स्त्रीपुत्रैः सूर्यजे
दीनचेष्टः । तद्वधर्मस्थे वैरहृद्रोगवन्धैर्धर्मोऽव्युच्छिद्येद्वैश्वदेवी-
क्रियाद्यः । कर्मप्राप्तिर्दशमेऽर्थक्षयश्च विद्याकीर्त्योः
परिहाणिश्च सौरे० । तेक्षुण्यं लाभे परयोषार्थलाभा
अन्त्ये प्राप्नोत्यपि शोकोर्मिमालाम् । अपि कालमपेक्ष्य
च पात्रं शुभकृ द्वदधात्यमुरूषम । न मधो बहु कं
कुडवे च विसृजत्यपि मेघपितानः । रक्तैः पुष्पैर्ग
न्धैताम्रः कन{??}कुलकुसुमैर्दिवाकरभूसुतौ भक्त्या
पूज्याविन्दुर्धेन्वा सितकुमुमरजतमधुरैः सितश्च मदप्रदैः ।
कृष्णद्रव्यैः सौरिः सौम्यो मणरजततिलककमुमैर्गुरुः
परिपीतकैः प्रीतैः पीडा न स्यादुच्चाद्यदि पतति वि-
शति यदि वा भुजङ्गविजृम्भितम् । शमयेद्गतामशु-
भदृष्टिमपि विबुधविप्रपूजया । शान्तिजपनियमदान-
दमैः सुजनाभिमाषणसमागमेस्तथा । रविभौमौ
पूर्वार्द्ध्वे शशिसौरा कययतोऽन्त्यगौ राशेः । सदसल्लक्षण
मार्यागात्यु गोत्योर्यथासंख्यम् । आदौ यादृक् सौम्यः
पश्चादपि तादृशो भवति । उपगीतेर्मात्राणां गणवत्स-
त्सम्प्रयोगो वा । आर्याणामपि कुरुते विनाशमन्तर्गुरु-
र्विषमसंस्थः । गण इव षष्ठे दृष्टश्च सर्वलघुतां गतो
नयति । अशुभनिरीक्षितः शुभफलो बलिना बलवान्
अशुभफलपदव शुनदृग्विषयोपगतः । अशुसशुभावपि
स्वफलयोर्व्रजतः समताम् इदमपि गीतकं च खलु
नर्दटकं च यथा । नीचेऽरिभेऽस्ते चारिदृष्टस्य र्सां
वृथा यत्परिकीर्त्तितम् । पुरतोऽन्धस्येव भामित्याः
सविलासकटाक्षनिरीक्षणम् । सूर्यसुतोऽर्कफलसमश्चन्द्र-
सुतश्छन्दतः समनुयाति । यथास्कन्धकमार्यागीतिर्वैता-
लीयं च मागधी गाथार्याम् । सौरोऽर्करश्मिरागात्
सविकारो लब्धवृद्धिरधिकतरम् । पित्तादाचरति नृणां
पथ्यकृतां न तु तथार्योणाम् । यादृशेन ग्रहणेन्दुर्युक्त-
स्तादृग्भवेत्सोऽपि । मनो{??}मायोगा {??}कार इव
वक्त्रस्य । पञ्चमं सर्वपादेषु सप्तमं द्विचतुर्थयोः । यद्वच्छ्लो-
काक्षरं तद्वल्लघुतां याति दुःस्थितैः । प्रकृत्यपि लघुर्यश्च
वृत्तबाह्ये व्यवस्थितः । स याति गुरुतां लोके यदा
स्युः सुस्थिता ग्रहाः । प्रारब्धातुस्थिनैर्गहेवत् कर्मा-
त्मविवृद्धयेऽवुधैः । विनिहन्ति तदेव कर्म तान् वैतालीय-
मिवायथाकृतम् । सौस्थित्यमवेक्ष्य यो ग्रहभ्यः काले
प्रक्रमणं करोति राजा । अणुनापि स पौरुषेण वृत्त-
स्योपच्छन्दसिकस्य याति पारम्” । अत्र ग्रहगोचरफ-
लमर्ध्ये राहुत्वोः फलानुत्कीर्त्तनं ग्रहसप्तकाभि-
प्रायेणेति बोध्यम् । अत्र विशेषः ज्यो० त० उक्तो यथा
“गोचरपीडायामपि राशिवलिभिः शुभग्रहैर्दृष्टः ।
पीड़ां न करोति तथा पापैरेवं विपर्य्यासः । गोचराप-
वादः । “दिनकररुधिरौ प्रवेशकाले गुरुभृगुजौ
भवनस्य मध्ययातौ । रविसुतशशिनौ विनिर्गमस्थौ
शशितनयः फलदस्तु सर्व्वकालम्” । राशित्रिभागफलम् ।
“सप्तमोपचवाद्यस्थश्चन्द्रः मर्तत्र शोभमः । शुकृपक्ष । द्वि-
तीयस्तु पञ्चमोनवमस्तथा । सितशनिकुजजीवार्कास्तदिन्द-
र्नराणां व्ययसुखनवमस्थोऽपीष्टदाताऽथतेषाम् । खसुत-
निधनगश्चेत् मृत्युपत्रार्थगोऽपि प्रचुरशुभफलः स्यात्
पृष्ठ २७५०
वामषेधेन शुद्धः” । वामवेधश्च द्यूनजन्मेति एवमत्रेति
वक्ष्यमाणवचनाभ्यामेकार्थत्वाद्बोद्धव्यम् । “उपचयकर-
युक्तः सव्यगः शुक्लपक्षे शुभमभिलषमाणः सौम्यमध्य-
स्थितोवा । सखिवशिगृहयुक्तः कारकर्क्षेऽपि चेन्दुर्जय-
धनसुखबाता तत्प्रहर्त्तान्यथा तु” । सव्यग उत्तरायण-
चारी । उपचयकरस्य पश्चाद्वर्त्ती वा अतएयोक्तम् ।
“भानां यथा सम्भवमुत्तरेण पश्चाद्ग्रहाणां यदि वा
शशाङ्कः । शुभप्रदानां शुभदः प्रयाणे याम्येन यातोन
शुभः शशाङ्कः । योयस्य दशमगृहगः स तस्य वश्यो-
भवति नियमेन । स्वर्क्षतुङ्गमूलत्रिकोणगाः कण्टकेषु यावन्त
आस्थिताः । जन्मकालवशगास्ते तु कारकाः कर्म्मगास्तु
तेषां विशेषतः । सितपक्षादौ चन्द्रे शुभे शुभं पक्ष
मशुभमशुभे च । कृष्णे गोचरशुभदोन शुभः पक्षः
शुभोऽतोऽन्यः” । भीमपराक्रमे । “शुक्लेपक्षे प्रतिपदि चन्द्रे
शिवे शिवं पक्षम् । कृष्णे प्रतिपदि ताराशुद्धौ शुभं
विदुः पक्षम्” । सर्षापवादस्तत्रैव
“मार्कण्डेय पुराणम् “द्रव्ये गेष्ठेषु भृत्येषु सुहृत्सु
तनयेषु च । भार्य्यायाञ्च ग्रहे दुष्टेभयं पुण्यवतां नृणाम् ।
आत्मन्यथाल्पपुपयानां सर्वत्रैवातिपापिनाम् । न कुत्रापि-
ह्यपापानां नराणां जायते भयम्” ।

ग्रहगति स्त्री ६ त० । ग्रहाणां प्रत्यहं भांशगमनभेदे । तत्र

खगगति शब्दे २४१४ पृ० ग्रहग्रतिभेदास्तत् कारणा-
दिकं च दर्शितम् । तत्र ग्रहाणां सावनदिनगतिमानं
सि० शि० उक्तं तच्च खगोलशब्दे २४३२ पृ० उक्तायमपि
विशेषोऽत्रोच्यते । तत्र ग्रहाणा दिनगतिसाधनं
सि० शि० उक्तं यथा
“महीमितादहर्गणात् फलानि यानि तत्कलाः । भवन्ति
मध्यमाः क्रमान्नभासदां द्युभुक्तयः । समा गतिस्तु
योजनैर्नभःमदां सदा भवेत् । कलादिकल्पनायशान्मृदु-
द्रुता च सा स्मृता” सि० शि० ।
“अत्रोपपत्तिस्त्रैराशिकेन । पूर्वं गतिर्योजनात्मिका
ग्रहाणां तुल्यैबोक्ता । इदानीमतुल्या । सा कलादि-
कल्पनावशात् । इदानीमतुल्यत्वे कारणमाह” प्रमिता०
“कक्षाः सर्वा अपि दिविषदां चक्रलिप्ताङ्कितास्ता वृत्ते
लब्ध्यो लघुनि महति स्युर्महत्यश्च लिप्ताः । तस्मादेते
शशिजभृगुजादित्यभौमेज्यमन्दा मन्दाक्रान्ता इव
शशधराद्भान्ति यान्तः क्रमेण” सि० शि० ।
“यतः सर्वा अपि कक्षाश्चक्र २१६०० । लिप्ताभिरेवाङ्किताः
अतो महति वृत्ते महत्यो लिप्ताः स्युः । लघुनि लघ्व्यः ।
तद्यथा चन्द्रकक्षा सर्वाधःस्था लघुः । तस्यामेका कला
पञ्चदशभिर्योजनैर्भवति । शनेः कक्षा सर्पोपरिस्था सा
महती । तस्यामेका कला योजनानां षड्भिः सहस्रै-
रेकसप्तत्योनै ५९२९ र्भवति । योजनं चतुःक्रोशमेव ।
अतश्चन्द्रात् सकाशादूर्ध्वोर्ध्वस्था बुधशुक्रादयः क्रमेण
मन्दाक्राता मन्दगतय इव भान्ति । मन्दाक्रान्ताछ-
न्दोऽपि सूचितम्” प्रमिता० । स्फुटगतिमाह
“दितान्तरस्पष्टखगान्तरं स्याद् ग तः स्फुटा तत्समया-
न्तराले । कोटी फलघ्नी मृदुकेन्द्रभुक्तिस्त्रिज्योद्धृता
कर्किमृगादिकेन्द्रे । तया युतोना ग्रहमध्यभुक्तिस्ता-
त्कालिकी केन्द्रपरिस्फुटा स्वात् । समीपतिथ्यन्तसम्प्रीप-
चालनं विधोस्तु तत्कालजयैव युज्यते । सुदूरसंचालन-
माद्यया यतः प्रतिक्षण सा न समा महत्त्वतः” सि० शि०
अद्यतनश्वस्तनस्फुटग्रहयोरौदयिकयोर्दिनार्द्धजयोर्वास्त
कालिकयोर्वा यदत्तरं कलांदिकं सा स्फुटा गतिः ।
अद्यतनात् श्वस्तने न्यूने वक्रा गतिर्ज्ञेया । तत्समयान्त-
राल इति । तस्य कालस्य मध्येऽनया गत्या ग्रहश्चा-
लयितुं युज्यत इति । इयं किल स्थूला गतिः । अथ
सूक्ष्मा तात्कालिकी कथ्यते । तुङ्गगत्यूना चन्द्रगतिः ।
अन्येषां ग्रहाणां गृहगतिरेव केन्द्रगतिः । मृदु-
केन्द्रकोटिफलं कृत्वा तेन केन्द्रगतिर्गुण्या त्रिज्यया
भाज्या लब्धेन कर्क्यादिकेन्द्रे ग्रहगतिर्युक्ता कार्या ।
मृगादौ तु रहिता कार्या । एवं तात्कालिकी मन्द-
परिस्फुटा स्यात् । तात्कालक्या भुक्त्या चन्द्रस्य
विशिष्टं प्रयोजनम् तदाह । समीपतिथ्यन्तसमीप-
चालनमिति । यत्कलिकश्चन्द्रस्तस्मात् कालाद्गतो वा
गम्यो वा यदासन्नस्तिथ्यन्तस्तदां तात्कालिक्या गत्या
तिथिसाधनं कर्तुं युज्यते । तथा समीपचालनं च ।
यदा तु दूरतरस्तिथ्यन्तो दूरचालनं वा चन्द्रस्य
तदाद्यया स्थूलया कर्तुं युज्यते स्थूलकालत्वात् ।
यतश्चन्द्रगतिर्महत्त्वात् प्रतिक्षणं समा न भवति ।
अतस्तदर्थमयं विशेषोऽभिहितः । अथ गतिफ-
लवासना । अद्यतनश्वस्तनग्रहयोरन्तरं गतिः । अत
एव ग्रहफलयोरन्तरं गतिफलं भवितुमर्हति । अथ
तत्साधनम् । अद्यतनश्वस्तनकेन्द्रयोरन्तरं केन्द्रगतिः ।
भुजज्याकरणे यद्भोग्यखण्डं तेन सा गुण्या शरद्वि-
दस्रैः २२५ भाज्या । तत्र तावत् तात्कालिकभोग्यखण्ड-
पृष्ठ २७५१
करणायानुपातः । यदि त्रिज्यातुल्यया कोटिज्ययाद्यं
भोग्यखण्डं शरद्विदस्रतुल्यं लभ्यते तदेष्टया किमित्यत्र
कोटिज्यायाः शरद्विदस्रा २२५ गुणस्त्रिज्या हरः ।
फलं तात्कालिकं स्फुटभोग्यखण्डं तेन केन्द्रगतिर्गुण-
नीया शरद्विदस्रैर्भाज्या । अत्र शरद्विदस्रमितयोर्गुण-
कभाजकयोस्तुल्यत्वान्नाशे कृते केन्द्रगतेः कोटिज्या
गुणस्त्रिज्या हरः स्यात् । फलमद्यतनकेन्द्रदोर्ज्ययो-
रन्तरं भवति । तत्फलकरणार्थं स्वपरिधिना गुण्यं
भांशै ३६० र्भाज्यम् । पूर्ब्बं किल गुणकः कोटिज्या
सा यावत् परिधिना गुण्यते भांशै ३६० र्ह्रियते
तावत् कोटिफलं जायत इत्युपपन्नं कोटी फलघ्नी मृदु-
केन्द्रभुक्तिरित्यादि । एवमद्यतनश्वस्तनग्रहफलयोरन्तरं
तद्गतेः फलं कर्क्यादिकेन्द्रे ग्रहर्णफलस्यापचीयमान-
त्वात् तुलादौ धनफलस्योपचीयमानत्वाद्धनम् ।
मकरादौ तु धनफलस्यापचीयमानत्वान्मेषादावृणफलस्यो-
पत्तीयमानत्वादृणमित्युपपन्नम्” प्रमिता० ।

ग्रहगन्ध पु० ६ त० । ग्रहयज्ञशब्दे वक्ष्यमाणे सूर्य्याद्युद्देशेन

देये रक्तचन्दनादौ ।

ग्रहचिन्तक पु० ग्रहान् शुभाशुभदायकतया चिन्तयति

चिन्ति--ण्वुल् ६ त० । दैवज्ञे सांवत्सरिके । “वक्तव्यमिष्टं
जगतोऽशुभं वा शास्त्रोपदेशाद् ग्रहचिन्तकेन” वृ० स०
२४ अ० ।

ग्रहण न० ग्रह--भावे ल्युष्ट् । १ स्वीकारे २ ज्ञाने । ३ आदरे

४ उपरागे चन्द्रसूर्य्ययोः राहुणा ग्रसने करणे ल्युट् ।
५ करे मेदि० । ६ इन्द्रिये राजनि० । ७ शब्दे जटा० । तत्र
करस्य ग्रहणसाधनत्वात् इन्द्रियाण्यां शब्दस्य च
ज्ञानसाधनत्वात् तथात्वम् । उपरागस्य यथा राहुकृतत्वं
तथा उपरागशब्दे १३११ पृ० उक्तम् ।
“चक्षुषा दर्शनं राहोर्यत्तद्ग्रहणमुच्यते” संवत्सर
प्रदीपः । तत्रातुरस्यापि स्नानमाह “आदित्यकिरणैः पूतं
पुनः पूतञ्च वह्निना । जलं, व्याध्यातुरः स्नायात्
ग्रहणेऽयुष्णवारिणा” व्यासः । तत्र सर्वजलस्य गाङ्ग-
तुल्यतामाह व्यासः “सर्वं भूमिसमं दानं सर्वे व्याससमा
द्विजाः । सर्वं गङ्गासमं तोयं ग्रहणे नात्र संशयः” ।
तत्र श्राद्धस्यावश्यकतामाह शाता० । “सर्वस्वेनापि
कर्त्तव्यं श्राद्धं वै राहुदर्शने । अकुर्वाणस्तु तत् श्राद्धं
पङ्के गौरिव सीदति” । तत्रामान्नेन श्राद्धमाह प्रचेताः
“आपद्यनग्नौ तीर्थे च चन्द्रसूर्य्यग्रहे तथा । आम-
श्राद्धं द्विजैः कार्य्यं शूद्रेण तु सदैव हि” ।
आमश्राद्धेऽपि विशेषो योगिनीतन्त्रे “निरग्नेरामश्राद्धे
तु अन्नं न क्षालयेत् क्वचित् । वृद्धौ तु क्षालयेदन्नं
संक्रमे ग्रहणेषु च” । ग्रहणश्राद्धादिकं मलमासेऽपि
कार्यं यथाह कालमा० स्मृतिः “चन्द्रसूर्य्यग्रहे स्नानं
श्राद्धदानजपादिकम् । कार्य्याणि मलमासेऽपि नित्यं
नैमित्तिकं तथा” । तत्र दीक्षायां नैव कालादिशुद्ध्यपेक्षा
“सत्तीर्थेऽर्कविधुग्रासे तन्तुदामनपर्वणोः । मन्त्रदीक्षां प्रकु-
र्वाणो मासर्क्षादीन् न शोधयेत्” सारसंग्रहः । तत्र
वारभेदे गुणाधिक्यम् “चन्द्रग्रहश्चन्द्रवारे रवौ सूर्य्यग्रह-
स्तथा । चूड़ामणिरयं योगस्तत्रानन्तफलं स्मृतम् । अन्य-
स्माद्ग्रहणात् कोटिगुणमत्र फलं लभेत्” गरु० पु० । अत्र
पुरश्चरणप्रकारः “अथ वान्यप्रकारेण पुरश्चरणमिष्यते ।
ग्रहणेऽर्कस्य चेन्दोर्वा शुचिः पूर्वमुपोषितः । नद्यां
समुद्रगामिण्यां नाभिमात्रोदके स्थितः । यद्वा पुण्योदके
स्नात्वा शुचिः पूर्वसुपोषितः । ग्रहणादि विमोक्षान्तं
जपेन्मन्त्रं समाहितः । अनन्तरं दशाशन क्रमाद्धोमादिकं
चरेत् । तदन्ते महतीं पूजां कुर्य्याद्ब्राह्मणतर्पणम् । ततो
मन्त्रप्रसिद्ध्यर्थं गुरुं संपूज्य तोषयेत् । एवञ्च मन्त्र-
सिद्धिः स्याद्देवता च प्रसीदति” । ति० त० पुरश्चरणच० ।
तत्र स्नानस्यावश्यकतामाह वृहद्वसिष्ठः “संक्रमे ग्रहणे
चैव न स्नायाद्यस्तु मानवः । सप्तजन्मसु कुष्ठी स्याद्दुःख-
भागी च सर्वदा” अत्राशौचेऽपि साङ्गस्नानमात्रं कार्य्यं
यथाह स्मृतिः । “सूतके मृतके चैव न दोषो राहु-
दर्शने । स्नानमात्रन्तु कर्त्तव्यं दानश्राद्धविवर्जितम्” ।
अत्र क्षताशौचं नास्ति यथोक्तम् “चन्द्रसूर्य्यग्रहे चैव
मृतानां पिण्डकर्मणि । महातीर्थे तु संप्राप्ते क्षतदोषोन
विद्यते” भविष्यपु० ।
तत्र ज्ञाने “भार्य्यात्वसंपादकं ग्रहणं विवाहः” उद्वा० त०
रघु० । “स्वतएव सतां परार्थता ग्रहणानां हि यथा
यथार्थता” नैष० । आदाने “पाणिग्रहणिकाः मन्त्रा
नियतं दारलक्षणम्” उ० त० स्मृतिः । “आचारधूम-
ग्रहणात् वभूव” रघुः “स बाहुशतमुद्यम्य सर्व्वास्त्र
ग्रहणं रणे” हरिवं० ४९ अ० अर्थवद्ग्रहणेनानर्थकस्य”
“अनिनस्मन्ग्रहणान्यर्थवता चानर्थकेन तदन्तावधि
प्रयोजयन्ति” व्या० परिमाषा ।

ग्रहणक न० गृह्यतेऽनेन ग्रह--करणे ल्यट् ततः स्वर्थे क ।

ग्राहके शास्त्रे । “हकरादीनामपि ग्रहणकशास्त्रवलात्
अच्त्वं स्यात्” सि० कौ० । शब्देन्द शेखरे तु ग्रहणर्के-
त्यत्र ग्राहकेति पाठः ।
पृष्ठ २७५२

ग्रह(णि)णी स्त्री गृह्णाति रोगिणोदेहम् ग्रह--अनि वा

ङीप् । १ पित्तधराख्ये कलाभेदे २ तदाश्रिते रोगभेदे
ग्रवाहिकायां च तद्रोगस्थाननिदानाद्युक्तं सुश्रुते यथा
“दुष्यति ग्रहणी जन्तोरग्निसादनहतुभिः ।
अतिसारे निवृत्तेऽपि मन्दाग्नेरहिताशिनः । भूयः सन्दू-
षितो वह्निर्ग्रहणीमभिदूषयेत् । तस्मात्कार्य्यः
परीहारस्त्वतीसारे विरिक्तवत् । यावन्न प्रकृतिस्थः स्याद्दोषतः
प्राणतस्तथा । षष्ठी पित्तधरा नाम या कला परिकी-
र्त्तिता । पक्वामाशयमध्यस्था ग्रहणी सा प्रकीर्त्तिता ।
ग्रहण्यां बलमग्निर्हि स चापि ग्रहणीश्रितः । तस्मा-
त्संदूषिते वह्नौ ग्रहणी सम्प्रदुष्यति । एकशः सर्वशश्चैव
दोषैरत्यर्थमूर्च्छितैः । सा दुष्टा बहुशोभुक्तमाममेव विमु-
ञ्चति । पक्वं वा सरुजं पूति मुहुर्ब्बद्धं मुहुर्द्रवम् । ग्रहणी-
रोगमाहुस्तमायुर्वेदविदो जनाः । तस्योत्पत्तौ विदाहान्न-
सदनालस्यतृट्क्लमाः । बलक्षयोऽरुचिः कासः कर्णक्ष्वेडा-
न्त्रकूजनम् । अथ जाते भवेज्जन्तुः शूनपादकरः कृशः ।
पर्व्वरुग्लौल्यतृट्छर्दिज्वरारोचकदाहबान् । उद्गिरे-
च्छुक्ततिक्ताम्ललोहधूमामगन्धिकम् । प्रसेकमुखवैरस्यतम-
कारुचिपीडितः । वाताच्छूनाधिकैः पायुहृत्पार्श्वोदरम-
स्तकैः । पित्तात्सदाहैर्गुरुभिः कफात्त्रिभिस्त्रिलक्षणैः ।
दोषवर्ण्णनखैस्तद्वद्विण्मूत्रनयनाननैः । हृत्पाण्डूदरगुल्मा
र्शःप्लीहाशङ्की च मानवः” ।
“नानाविधद्रव्यचौरो जायते ग्रहणीयुतः” शाता० । तस्याः
कर्मभेदविपाकतोक्ता । तस्या महारोगत्वमदाह्यशब्दे उक्तम्
“वृद्धस्य ग्रहणीरोगो नागृहीत्वा निवर्त्तते” वैद्य० ।

ग्रहणीहर न० ग्रहणीं हरति हृ--अच् । १ लवङ्गे शब्दच०

२ ग्रहणीहारके औषधादौ त्रि० ।

ग्रहदक्षिणा पु० ग्रहाणां ग्रहोद्देशेन देया दक्षिणा । ग्रहा-

द्देशेन ग्रहयज्ञे देयधेन्वादिदक्षिणायाम् ग्रहयज्ञशब्दे
विवृतिः ।

ग्रहदान पु० ६ त० । ग्रहोद्देशेन तदशुभशान्त्यै दानम् । ग्रहा-

शुभनिवारणार्थं देवे द्रव्यभेदे गोचरशब्दे ग्रहगोचर-
शब्दे ग्रहविप्रशब्दे च तद्विवृतिः ।

ग्रहदृष्टि स्त्री । ६ त० । ग्रहाणां स्वस्थानापेक्षया स्थान-

भेदषु दर्शनभेदे सा च वृहज्जातके तट्टीकायां चोक्ता यथा
“त्रिदशत्रिकोणचतुरखसप्तमान्यवलोकयन्ति चरणामि-
वृद्धितः । रविजामरेज्यरुधिराः परे च ये क्रमशो
भवन्ति किल वीक्षणेऽधिकाः” वृहज्जा० । “यस्मिन स्थाने
खेटाः स्थितास्तस्मात्त्रदशादीनि स्थानानि चरणाभि-
वृद्धितः पादवृद्ध्यावलोकयन्ति खेटो यस्मिन् राशौ
व्यवस्थितः तस्माद्यस्तृतीयग खेटो दशमगतश्च तौ
तृतीयदशमराशी च पादेन चतुभागदृष्ट्यावलोक-
यति एवं त्रिकोणस्थौ नवपञ्चमस्थानगतावर्द्धदृष्ट्या,
चतुरस्रेऽष्टमचतुर्थे अष्टमचतुर्थस्थानस्थौ पादहीनदृष्ट्या
सप्तमगे खेटं परिपूर्णदृष्ट्या । चरणाभिवृद्धित इत्यत्रा-
भिशब्दो वीप्सां द्योतयति चरणचरणवृद्ध्या पादपादवृ-
द्ध्येत्यर्थः । यावत्पाददृष्ट्या पश्यन्ति तावत् फलं प्रयच्छन्ति
तथा च स्वल्पजातवे “दशमतृतीये नवमपञ्चमे चतुर्था-
ष्टमे कलत्रं च । पश्यन्ति पादवृद्ध्या फलानि चैवं प्रय-
च्छन्ति” । अर्थादेव खेटा उक्तस्थानानि पश्यन्तीति तथा च
साराबल्याम् “सव्यं पश्यति सदा खगाश्चरणवृद्धितः सर्वे ।
त्रिदशत्रिकोणचतुरस्रसप्तमगतान् फलं क्रमेणैव ।
पूर्णं पश्यति रविजस्तृतीयदशमे त्रिकोणमपि जीवः ।
चतुरस्रं भूमिसुतः सितार्कबुधहिमकराः कलत्रं च” ।
तथा यवनेश्वरः” द्वौ पश्चिमौ ११ । १२ । षष्ठमथ द्वितीयं
संस्थानराशेः परिहृत्य राशिम् । शेषान् खगः पश्यति
सर्वकालमिष्टेषु चैषां विहिता दृगिष्टा । जामित्रभे दृष्टि-
फलं समस्तें स्वपादहीनं चतुरस्रयोश्च । त्रिकोणयोर्दृष्टि-
फलार्द्धमाहुर्दुश्चिक्युसंज्ञे दशमे च पादम्” । रविजा-
मरेज्यरुधिरा इति । किलेत्यागमसूचन चरणाभि-
वृद्धित इत्यनुवर्त्तते एते रविजादयश्चरणाभिवृद्धितः
पादोपचयाद्वीक्षणे दर्शने क्रमशोऽधिकफलप्रदा भवन्ति
रविजः सौरिः स दर्शने पादफलप्रदः, अमरेज्यो
वृहस्पतिरर्द्धफलप्रदः रुधिरोऽङ्गारकः स पादहीनफलप्रदः ।
अपरेऽर्कचन्द्रबुधशुक्रास्ते वीक्षणे समस्तफलप्रदाः ।
एतन्नैसर्गिकं ग्रहाणां दृष्टिफलम् । स्थानवशादेतेषां
यथास्वं दृष्टिफलमूह्यम् एवमेके व्याचक्षते । अपरे तु
आहुः स्थानफलमेतत् तेन त्रिदशादिस्थानगतान् ग्रह-
राशीन् पश्यन्तो रविजादयो दर्शनेऽधिकफलप्रदा
भवन्ति तद्यथा तृतीयदशमस्थान् ग्रहान्० राशीन् वा
शनैश्चरः पश्यन्नन्येभ्यो राहेभ्योऽधिकफलप्रदो भवति
परिपूर्णं पश्यतीत्यर्थः । एवं त्रिकोणस्थान् जीवः,
चतुरस्रगान् भौमः, सप्तमस्थान् परे सूर्यचन्द्रबुधशुक्राः ।
एतच्च बहुतराचार्याणां मतम । तथा च भगवास
पृष्ठ २७५३
गर्गः “दुश्चिक्य ३ दशमान् सौरिस्त्रिकोणस्थान्
वृहस्पतिः । चतुर्थाष्टमगान् भौमः शेषाः सप्तमसंस्थितान् ।
भवन्ति वीक्षणे नित्यमुक्ताधिकफलाः खगाः” । भट्टो०
वराहमते राहोर्ग्रहत्वाभावेन न तस्य दृष्टिस्तेनोक्ता ।
ज्यो० त० अन्यखेटदृष्टिः तद्दृष्टिश्चोक्तायथा
“दशमे च तृतीये च पाददृष्टिरुदाहृता । अर्द्धदृष्टिश्र
नवमे पञ्चमे पारकीर्त्तिता । चतुर्थे त्वष्टमे चैव पादोना
परिकीर्त्तिता । सप्तमे परिपूर्णा च फलमेवं प्रकल्प्यते ।
तृतीयदशमावार्किः पश्यन पूर्णफलप्रदः । त्रिकोणगान्
गुरुश्चैव चतुर्थाष्टमगान् कुजः । सुतमदननवान्त्ये पूर्ण-
दृष्टिः ६० सुरारेर्युगलदशमराशौ दृष्टिपादत्रयार्हः ४५ ।
सहजरिपुचतुर्थेष्वष्टमे चार्द्धदृष्टिः ३० स्थितिभवनमुपान्त्यं
नैव दृश्यं हि राहोः” ।
सर्वकर्मोपयोगिनैसर्गिकग्रहदृष्टिचक्रम् ।
स्थान र च म वु वृ शु श रा
१० ० ० ० ० ० ० ० ०
३ ० ० ० ० ० ० ० ४५
३ १५ १५ १५ १५ १५ १५ ६० ३०
४ ४५ ४५ ६० ४५ ४५ ४५ ४५ ३०
५ ३० ३० ३० ३० ६० ३० ३० ६०
६ ० ० ० ० ० ० ० ३०
७ ६० ६० ६० ६० ६० ६० ६० ६०
८ ४५ ४५ ६० ४५ ४५ ४५ ४५ ३०
९ २० ३० ३० ३० ६० ३० ३० ६०
१० १५ १५ १५ १५ १५ १५ ६० ४५
११ ० ० ० ० ० ० ० ०
१२ ० ० ० ० ० ० ० ६०
तात्कालिकदृष्टिस्तु द्रष्टृदृश्यग्रहयोर्द्रष्टृखेटराश्योर्वा
अनुपदं वक्तव्यताजतोक्तवत कल्पनीया
इयांस्तु विशषः तत्र एकादिशेषे ये ध्रुवा उक्ता अत्र न
तथा किन्तु दर्शितचक्रानुसारेण खगभेदे ध्रुवाः कल्प-
नीया इति । नैसर्गिकतात्कालिकमित्रादिकं तु अरिशब्दे
३३५ पृ० उक्तम् । तदनुसारेण मित्रादिदृष्टिरुह्या
नीलकण्ठताजके तु वर्षप्रवेशफलोपयोगिनी अन्यविधैव
दृष्टिरुक्ता यथा “दृष्टिः स्यान्नवपञ्चमे बलवती प्रत्यक्षतः
स्नेहदा पादोना ४५ ऽखिलकार्यसाधनकरी मेलापकाख्यो-
च्यते । गुप्तस्नेहकरी तृतीयभवभे कार्यस्य संसिद्धिदा-
त्र्यंशोना ४० कथिता त्रतीयभवने षड्भाग १० दृष्टिर्भवे ११
दृष्टिः पादमिता १५ चतुर्थदशमे गुप्तारिभावा स्मृताऽ-
न्योन्यं सप्तमभे तथैकभवने प्रत्यक्षवैराऽखिला ६० । दृष्टं
दृक्त्रितयं क्षुताह्वयमिदं कार्यस्य विध्वंसनं संग्रा-
मादिकलिप्रदं दृश इमाँ स्युर्द्वादशांशान्तरे ।
वर्षप्रवेशोपयोगिग्रहदृष्टिचक्रम् ।
स्थान र च मं बु वृ शु श
१ ६० ६० ६० ६० ६० ६० ६० प्रत्यक्षवैरा
२ ० ० ० ० ० ० ०
३ ४० ४० ४० ४० ४० ४० ४० गुप्तस्नेहा
४ १५ १५ १५ १५ १५ १५ १५ गुप्तारिः
५ ४५ ४५ ४५ ४५ ४५ ४५ ४५ प्रत्यक्षमित्रा
६ ० ० ० ० ० ० ० ०
७ ६० ६० ६० ६० ६० ६० ६० प्रत्यक्षवैरा
८ ० ० ० ० ० ० ० ०
९ ४५ ४५ ४५ ४५ ४५ ४५ ४५ प्रत्यक्षस्नेहा
१० १५ १५ १५ १५ १५ १५ १५ गुप्तारिः
११ १० १० १० १० १० १० १० गुप्तमित्रा
१२ ० ० ० ० ० ० ०
तात्कालिकस्फुट दृष्टिस्तु
“अपास्य पश्यं निजदृश्यखेटादेकादिशेषे ध्रुवलिप्तिकाः
स्युः । शून्यं स्ववेदास्तिथयोऽक्षवेदाःखं षष्टिरभ्रं शरवे-
दसंख्या । तिथ्यभ्रचन्द्रावियदभ्रतर्काः शेषांशयातैष्यविशेष-
घातात् । लब्धैः खराभैरधिकोगतैष्ये स्वर्णं ध्रुवैताः
स्फुटदृष्टिलिप्ताः” नी० ता० उक्तया दिशा आनेया ।

ग्रहदेवता स्त्री ६ त० । सूर्य्यादिग्रहाणामधिष्ठातृरुद्रादि-

देवभेदे सा च ग्रहयज्ञशब्दे दृश्या ग्रहाधिदेवतादयो-
ऽप्यत्र ।

ग्रहधूप पु० ग्रहाणां ग्रहोद्देशेन धूपः । ग्रहयज्ञशब्दे वक्ष्यमाणे गुग्गुलुप्रभृतौ धूपे ।

ग्रहनायक पु० ६ त० १ सूर्ये ३ अर्कवृक्षे २ शनौ च शब्दरत्ना०

ग्रहनाश पु० ग्रहं मलबन्धं नाशयति नश--णिच्-

अण् उप० स० । शाकवृक्षे (छातियान्) शब्दर० ।

ग्रहनाशन पु० ग्रहं मलबन्धं नाशयति नश--णिच्--ल्यु

शाकवृक्षे रत्नमा० ।

ग्रहनेमि पु० ग्रहाणां ग्रहकक्षाणां नेमिरिव । चन्द्रे शब्दच०

तस्य च ग्रहकक्षाधःस्थितत्वेन नेमितुल्यत्वात् तथात्वम् ।

ग्रहपति पु० ६ त० । १ सूर्य्ये २ अर्कवृक्षे अमरः । ३ चन्द्रे

च । “तस्य विस्तीर्य्यते राज्यं ज्योत्स्नाः ग्रहपतेरिव”
भा० शा० १६८ अ० ।
पृष्ठ २७५४

ग्रहपुष पु० ग्रहं पुष्णाति स्वकरैः पुष--क । सूर्य्ये हेम०

तस्य च तथात्वं खगोलशब्दे पृ० दृश्यम् ।

ग्रहप्रत्यधिदैवत न० ६ त० । ग्रहाणां देवतानां देवतासु

अग्न्यादिषु ग्रहयज्ञशब्दे २४३५ पृ० दृश्यम् ।

ग्रहबल न० ६ त० । ग्रहाणां बलभेदे तानि च वृहज्जातके

तद्व्याख्याने भट्टोत्पलेन चोक्तानि यथा
“स्वोच्चसुहृत्स्वत्रिकोणनवांशैः स्थानबलं स्वगृहो-
पगते च । दिक्षु वुधाङ्गिरसौ रविभौमौ सूर्यसुतः
सितशीतकरौ च । उदगयने रविशीतमयूखौ वक्रसमा-
गमगाः परिशेषाः । विपुलकरा युधि चोत्तरसंस्थाश्चेष्टित
वीर्ययुताः परिकल्प्याः । निशिशशिकुजसौराः सर्वदा
ज्ञोऽह्रि चान्ये बहुलसितगताः स्युः क्रूरसौम्याः
क्रमेण । द्व्ययनदिवसहोरामासपैः कालवीर्यं शकुबुगु-
शुचराद्यावृद्धितो वीर्यवन्तः” वृहज्जा० । “अत्र ग्रहाणां
चतुर्विधं स्थानदिक्चेष्टाकालाख्यं बलम् । तत्र तावत्
स्थानदिग्बलं दोधकेनाह “स्वोच्चसुहृदिति स्वग्रहणं
प्रत्येकमभिसंबध्यते तत्र स्वोच्चे स्थितो गृहो बलवान्
भवति, तात्कालिकस्य सुहृदो मित्रस्य क्षेत्रे स्थितो बलबा-
नेव स्वत्रिकोणे आत्मीयमूलत्रिकोणे स्थितः, स्वनवांशे
स्थितः, स्वगृहे स्वराशाबुपगतः प्राप्तो बलवानेव,
एतेषामन्यतमे व्यवस्थितो ग्रहः स्थानबलयुक्तो भवति ।
तत्रार्कस्य सिंहः स्वत्रिकोणम् तदेव गृहं क्षेत्रम् ।
चन्द्रस्य दृष उच्चः स एव त्रिकोणम्, भौमस्य मेषः
त्रिकोणम् तदैव स्वक्षेत्र, बुधस्य कन्या उच्चः सैव मूल
त्रिकोणं स्वक्षेनं च । गुरोः धन्वी त्रिकोणं, तदेव
स्वक्षेत्रम् सौरेः कुम्भस्त्रिकोणम् तदेव स्वक्षेत्रम् । शुक्रस्य
तला त्रिकीणं तदेवं स्वक्षेत्रम् एतेषामाचार्य्येण
विशेपोनोक्तः अस्मामिरन्यहोर शास्त्रादानीर्य शिष्य-
हितायेह लिख्यते तथा च साराबल्याम् “विशतिरंशाः
सिंहे त्रिकोणमपरे स्वभवनमर्कस्य । उच्चं भागत्रितयं
वृप इन्दोः स्यात्त्रिकोणमपरेऽंशाः । द्वादशभागा मेषे
त्रिकोस्पमपरे स्वभन्तु भौमस्य । उच्चफलं कन्यायां बुधस्य
तङ्गांशकैः सदा चिन्त्यम् । परतस्त्रिकोणजातः पञ्चभिरंशैः
स्वराशिजं परतः । दशभागा जीवस्य त्रिकोणफलं स्वभं
परं चापे । शुक्रस्य तु तिथयोऽंशास्त्रिकोणमपरे घटे
स्वराशिश्च । कुम्भे त्रिकोणजनिते रविजस्य रवेर्यथा
सिहे” एतदार्य्याचतुष्टयम् । दिक्षु बुधाङ्गिरसावित्यादि ।
प्राच्याद्यातु चतसृषु दिक्षुक्रमाद्बु धादयो वलिनो भवन्ति
तत्र पूर्बस्यां बुधाङ्गिरसौ ज्ञजीवौ बलिनौ भवतः
लग्नस्थावित्यर्थः दक्षिणस्यां रविभौमौ सूर्याङ्गारकौ
दशमस्थावित्यर्थः पश्चिमायां सूर्य्यसुतः शनिः सप्तमस्थ
इत्यर्थः । उत्तरस्यां सितशीतकरौ शुक्रचन्द्रौ चतुर्थ-
स्थावित्यर्थः । यो ग्रहो यत्र बली स तस्मात्सप्तमस्था
नस्थो विबलो भवति मध्येऽनुपात ऊह्य इति सर्वत्रेयं
परिभाषा ग्रहाणामुच्चनीचप्रविभागे राशीनां दिग्बल
प्रविभागेऽपि, तथा च यवनेश्वरः “गुर्वैन्दवौ पूर्वविल
ग्नसंस्थौ नभस्तलस्थौ च दिवाकरारौ । सौरोऽस्तगः
शुक्रनिशाकरौ तु तुर्य्ये स्थितौ तौ सवलौ भवेतामिति” ।
अन्यबले ग्रहाणाम् अन्तरेऽनुपात एव युक्तः । एतत्-
ग्रहाणां दिग्बलमुच्यते । अधुना चेष्टाबलं दोधकेनाह
उदगयने इति मकरादिराशिषट्कमुत्तरमयनं कर्कटादि-
राशिषट्कं दक्षिणमयनमिति उदगयने उत्तरायणे
रविशीतमयूखौ सूर्यचन्द्रमसौ बलिनौ भवतः ।
परिशेषाः भौमबुधगुरुसितसौराः वक्रगाः विपरीतगतयो
बलिनो भवन्ति तथा समागमगाश्चन्द्रेण सहिताः
वलिन एव चन्द्रेण संयोगो ग्रहाणां समागमशब्दवाच्यः
रविणा सहास्तमयो भौमादीनां परस्परं युद्धम् उक्त-
ञ्चाचार्य्यविष्णुचन्द्रेण “दिवसकरेणास्तमयः समागमः
शीतरश्मिसहितानाम् । कुसुतादीनां युद्धम् निगद्यतेऽ
न्योन्ययुक्तानामिति” विपुलकरा इति विपुलाः करा येषां
ते विपुलकराः विस्तीर्णरश्मयो वलिनो भवन्ति शीघ्र-
केन्द्रे द्वितीयतृतीयपदस्थे ग्रहस्य विपुलकरत्वं प्रायः
सम्भवति वक्रासन्नत्वात् युधि संग्रामे चोत्तरसंस्था
बलिन एव कुसुतादीनां युद्धमित्युक्तम् । तत्र यः उत्तर-
दिग्भागसंस्थितो जयी स च बलवान् उत्तरसंस्थत्व-
मत्रोपलक्षणार्थम् । यस्तेजस्वी स एव बलवान् तत्रै-
तज्जयलक्षणम् “दक्षिणदिक्स्थः परुषो बेपथुरप्राप्य
सन्निकृष्टतनुः । अधिरूढो विकृतोनिःप्रभो विवर्णश्च यः ।
स जितः उक्तविपरीतलक्षणसम्पन्नो जयगतो विनि-
र्दिष्टः । विपुलः स्निग्धोद्युतिमान् दक्षिणदिक्स्थोऽपि जय
उक्तः” इति एतच्छुक्रंस्य प्रायः सम्भवति यस्मात्पुलिशा-
चार्यः “सर्वे जयिन उदक्स्था दक्षिणदिक्स्थो जयी शुक्रः”
इति । एतच्चेष्टाबलम् एषामन्यतमेन संयुक्तश्चेष्टावल-
संयुक्तो भवति । अधुना ग्रहाणां कालबलं
नैसर्गिकबलं च मालिन्याह निशीति शशिकुजसौराश्चन्द्र
भौमशनयः निशि रात्रौ वीर्य्यवन्तो बलिनः । ज्ञोबुधः
पृष्ठ २७५५
सर्वदा सर्तस्मिन् काले निशि दिने च बली । अन्ये परे
रविगुरुसिता अह्नि दिने बलिनः । क्रूराः पापाः प्रा-
गुक्ताः बहुलपक्षे, कृष्णवक्षेऽपि कूरो बलबान् भवति
यवनेश्वरः “मासे तु शुक्ले प्रतिपत्प्रवृत्ते पूर्वे
शशीमध्यबलो दशाहे । श्रेष्ठो द्वितीयेऽल्पबलस्तृतीये सौम्यैस्तु
दृष्टो बलवान् सदैवेति” सितगताः शुक्लपक्षे स्थिताः
सौम्याः बलिनः । द्व्ययनेति द्वे अयने प्रमाणं यस्य द्व्ययनं
तत्तु वर्षं स्ववर्षे आत्मीयवर्षे, यो ग्रहो यत्र वर्षेऽधि-
पतिः स तत्र बलवान् स्वदिवसे आत्मीयवासरे स्वहो-
रायां कालहोरायाम् । तथा स्वमासे यस्मिन् मासे
योऽधिपतिः स तत्र बली द्व्ययनदिवसहोरामासानां ये
अधिपतयस्तैर्ग्रहैः कालबलोपेतैरुपलक्षणीयम् । ते
कालबलोपेता इत्यर्थः केचिद्द्व्ययनदिवसहोरामास-
पैरिति पठन्ति अन्ये स्वदिवससमहोरामासपैरिति पठन्ति
य एषामपरः पाठः एतेषु कालेषु सर्वे एव बलिनो भवन्ति
एतत् ग्रहाणां कालवीर्य्यम् । एतेषामन्यतमेन संयुक्तः
कालबलसम्पन्नो भवति । शकुबुगुशुचराद्या इति शादयो
वर्णाः आद्या येषाम् ते शकाराद्यः शनैश्चरः सर्वेभ्यो
यलहीनः कुकाराद्यः कुजः भौमः शनैश्चराद्बलवान् ।
बुकाराद्यो बुधः स भौमाद्बलवान् गुकाराद्यो गुरुः
सबुधाद्बली, शुकाराद्यः शुक्रः स जीवाद्बली चकाराद्यश्चन्द्रः
स शुक्राद्बली रकाराद्यो रविः स चन्द्राद्बलीति ।
एतद्ग्रहाणां नैसर्गिकबलम् । यस्मादेवानेन स्वल्पजातके
उक्तम् “मन्दारसौम्यवाक्पतिसितचन्द्रार्का यथोत्तरं
बलिनः । नैसर्गिकबलमेतद्बलसाम्ये स्यादधिकचिन्तेति” ।
यदा ग्रहाणां ग्रहयोर्बा बलसाम्यं भवति तदा बलाधि-
क्यम् अधिकवीर्यवत्ता ज्ञयेति । अत्राचार्य्येण चतुःप्रका-
रस्य फल नोक्तं तच्चान्यशास्त्राल्लिख्यते तथा च साराब-
ण्याम् “उच्चबलेन समेतः परां विभूतिं स्वगः प्रसाधयति ।
स्वत्रिकोणबलः पुंसां साचिव्यं बलपतित्वं वा । स्वर्क्ष-
बलेन च सहितः प्रमुदितधनधान्यसंपदाक्रान्तम् । मित्र-
बलसंयुक्तो जनयति कीर्त्यान्वितं पुरुषम् । तेजस्विनमति
सुखिनं सुस्थिरविभवं नृपाच्च लब्धधनम् । स्वनवांशक-
बलयुक्तः करोति पुरुषं प्रसिद्धं च” । सूक्ष्मजातकेचोक्तम्
“बलबान्मित्रस्वग्र होच्च नवांशकेष्वीक्षितः शुभैश्चापि ।
चन्द्रसितौ स्त्रीक्षेत्रे पुरुषक्षेत्रोपगाः शेषाः” इति तत्र
शुभवृष्ट्यादिफलं तावत् “शुभदर्शनबलसहितः पुरुषं कुर्याद्धना-
न्यितं ख्यातम । सुभगं प्रधानमखिलं सुरूपदेहं च सौम्यं
च । पुंस्त्रीभवनबलेन च करोति जनपूजितं कलाकुश-
लम् । पुरुषं प्रसन्नचित्तं कल्यं परलोकभीतञ्च”
आशाबलसमवेतो नयति खदिशं नभश्चरः पुरुषम् । न
त्या वस्त्रविभूषणवाहनसौख्यान्वितं कुरुते । क्वचिद्राज्यं
क्वचित्पूजां क्वचिद्द्रव्यं क्वचिद्यशः । ददाति विहगश्चित्रं
चेष्टावीर्य्यसमन्वितः । वक्त्रिणस्तु महावीर्याः शुभा राज्य-
प्रदाःखगाः । पापा व्यसनदाः पुंसां कुर्वन्त च वृथाटनम् ।
स्वस्थं शरीरसमागमसुखमाहवजयबलेन विदधाति ।
शुभमतुलं विहगेन्द्रो राज्यं च विनिर्जितारातिम् ।
रात्रिदिवाबलपूर्णैर्मूगजलाभेन शौर्यपरिवृद्ध्या ।
मलिनयति शत्रुपक्षं भुञ्जति लक्ष्मीं नमश्चरैः पुरुषः । द्विगुणं
द्विगुणं दद्युर्वर्षाधिपमासदिवसहोरेशाः । कुर्युर्वृद्ध्या
सौख्यं स्वदशासु धनं च कीर्त्तिञ्च । पक्षबलाद्रिपुनाशं
वराम्बरहस्तिसम्पदं दद्युः । स्त्रीकनकभूमिलाभं कीर्त्तिञ्च
शशाङ्कधवलतराम् । सकलबलभारभरिता निर्मलकर-
जालभासुराः सततम् । राज्यं खगा विदध्युः सौख्यञ्च
मनोरथातीतम् । आचारसौख्यशुभशौचयुताः सुरू-
पास्तेजस्विनः कृतविदो द्विजदेवभक्ताः । सद्वस्त्रमाल्यजन-
भूषणसंप्रियाश्च सौम्यग्रहैर्बलयुतैः पुरुषा भवन्ति । लुब्धाः
कुकर्मनिरता निजकार्य्यनिष्ठाः पापान्विताः सकलहाश्च
तमोऽभिभूताः । क्रूराः शठा बधरता मलिनाः कृतघ्नाः
पापग्रहैर्बलयुतैः पिशुनाः कुरूपाः । पुंराशिषु ग्रहेन्द्रै-
र्वीराः संग्रामकाङ्क्षिणो बलिनः । निःस्नेहाः सुकठोराः
क्रूरा मूर्खाश्च जायन्ते । युवतिभवनस्थितेषु च मृदवः
संग्रामभीरवः पुरुषाः । जलकुसुमवस्त्रनिरताः सौम्याः
कलहैः सुसंयुक्ताः इति” एतत्सर्वं सुगमम्” भट्टोत्पलः ।
ताजकोक्तखगवलं च पञ्चवर्गीशब्दे द्वादशद्वादशवर्गी-
शब्दे च वक्ष्यते ।

ग्रहबलि पु० चतुर्थ्यर्थे ६ त० । ग्रहयज्ञे वक्ष्यमाणे ग्रहोद्देशेन देये गुडोदनादौ द्रव्ये ।

ग्रहभक्ति स्त्री ६ त० । ग्रहाणां विभागरूपे देशपुरुषद्रव्यादि

भेदे सा च वृ० स० १६ अ० उक्ता यथा
  • रवेः--“प्राङ्नर्मदार्धशोणोड्रवङ्गसुह्माः कलिङ्गवाह्लीकाः ।
शकयवनमगधशवरप्राग्ज्योतिषचीनकाम्बोजाः ।
मेकलकिराताटविका बहिरन्तःशैलजाः पुलिन्दाश्च । द्रवि-
डानां प्रागर्धं दक्षिणकूलं च यमुनायाः । चम्पोदुम्बर-
कौशाम्बिचेदिविन्ध्याटवीकलिङ्गाश्च । पुण्ड्रा गोलाङ्गूल-
श्रीपर्वतवर्द्धमानाश्च । इक्षुमतो त्वथ तस्करपारतकान्ता-
रगोपबीजानाम् । तुषधान्यकटुकतरुकनकदहनविषसम-
पृष्ठ २७५६
रशूराणाम् । भेषजभिषक्चतुष्पदकृषिकरनृपहिंस्रया-
यिचौराणाम् । व्यालारण्ययशोयुततीक्ष्णानां भास्करः
स्वामी” ।
  • विधोः--“गिरिसलिलदुर्गकोसलमरुकच्छसमुद्ररोमकतुषा-
राः । वनवासितङ्गणहलस्त्रोराज्यमहार्णवद्वीपाः ।
मधुरसकुसुमफलसलिललबणमणिशङ्खमौक्तिकाब्जानाम् ।
शालियवौषधिगोधूमसोमपाक्रन्दविप्राणाम् । सितसुभ-
गतुरगरतिकरयुवतिचमूनाथभोज्यवस्त्राणाम् । शृङ्ग-
निशाचरकर्षकयज्ञविदां चाधिपश्चन्द्रः” ।
  • कुजस्य--“शोणस्य नर्मदाया भीमरथायाश्च पश्चिमार्द्धस्थाः ।
निर्विन्ध्या वेत्रवती सिप्रा गोदावरी वेणा । मन्दाकिनी
पयोष्णी महानदी सिन्धुमालतीपाराः । उत्तरपाण्ड्यम-
हेन्द्राद्रिविन्ध्यमलयोपगाश्चोलाः । द्रविडविदेहान्ध्राश्म-
कभासापुरकोङ्कणाः समं त्रिशिखाः । कुन्तलकेरलदण्डक-
कान्तिपुरम्लेच्छसङ्करजाः । नासिक्यगोवर्द्धनविराटविन्ध्या-
द्रिपार्श्वगा देशाः । ये च पिबन्ति सुतोयां तापीं
ये चापि गोमतीसलिलम् । नागरकृषिकरपारतहुता-
शनाजीविशस्त्रवार्त्तानाम् । आटबिकदुर्गकर्वटबधकनृ-
शंसावलिप्तानाम् । नरपतिकुमारकुञ्जरदाम्भिकडिम्भाभि-
घातप्रशुपानाम् । रक्तफलकुसुमविद्रुमचमूपगुडमद्यती-
क्ष्णानाम् । कोशभवनाग्निहोत्रिकधात्वाकरशाक्यभिक्षु-
चौराणाम् । शठदोर्घवैरबह्वाशिनां च वसुधासुतोऽधि
पतिः” ।
  • बुधस्य--“लौहित्यः सिन्धुनदः सरयूर्गम्भीरिका रथाह्वा
च । गङ्गाकोशिक्याद्याः सरितो वैदेहकाम्बोजाः ।
मथुरायाः पूर्वार्द्धं हिमवद्गोमन्तचित्रकूटस्थाः । सौराष्ट्र
सेतुजलमार्गपपयबिलपर्वताश्रयिणः । उदपानयन्त्रगा-
न्धर्वलेख्यमणिरागगन्धयुक्तिविदः आलेख्यशब्दगणित-
प्रसाधकायुयशिल्पज्ञाः । चरपुरुषकुहकजीवकशिशुक-
विशठसूचकाभिचाररताः । दूतनपुंसकहास्यज्ञमूतत-
न्त्रेन्द्रजालज्ञाः । आरक्षकनटनर्तकघृततैलस्नेहवीजति-
क्तानि । व्रतचारिरसायनकुशलवेसराश्चन्द्रपुत्रस्य”
  • गुरोः--“सिन्धनदपूर्बभागो मथुरापश्चार्द्धभरतसौवीराः ।
स्रुघ्णोदीचाविपाशासरिच्छतद्रूरमठसाल्वाः । त्रैगर्तपौ-
रवाम्बष्ठपारतावाटधानयौधेयाः । सारस्वतार्जुनायनमत्-
स्यार्द्धग्रामराद्नाणि । हस्त्यश्वपुरोहितभूपमन्त्रिमाङ्गल्यपौ-
ष्टिकासक्ताः । कारुण्यसत्यशौचव्रतविद्यादानधर्मयुताः
पीरमहाधनशब्दार्थवेदविद्वदभिचारनीतिज्ञाः । मनु-
जेश्वरोपकरणं छत्रध्वजचामराद्यं च । शैलेयकम
सीतगरकुष्ठरससैन्धवानि वल्लीजम् । मधुररसमधूच्छि-
ष्टानि चोरकश्चेति जीवस्य” ।
  • भृगोः--“तक्षशिलामार्तिकावतबहुगिरिगान्धारपुष्कलावत-
काः । प्रस्थलमालवकैकयदाशार्णोशीनराः शिवयः । ये च
पिबन्ति वितस्तामिरावतीं चन्द्रभागसरितं च । रथरज-
ताकरकुञ्जरतुरगमहामात्रधनयुक्ताः । सुरभिकुसुमा-
नुलेपनमणिवज्रविभूषणाम्बुरुहशय्याः । वरतरुणयुव-
तिकामोपकरणमृष्टान्नमधुरभजः । उद्यानसलिलकामु-
कयशःसुखौदार्यरूपसम्पन्नाः । विद्वदमात्यवणिग्जनघट-
कृच्चित्राण्डजास्त्रकलाः । कौशेयपट्टकम्बलपत्रौर्णिकरो-
ध्रपत्रचोचानि । जातीफलागुरुवचापिप्पल्यश्चन्दनं च
भृगोः” ।
  • शनेः--“आनर्त्तार्वुदपष्करसौराष्ट्राभीरशूद्ररैवतकाः । नष्टा-
यस्मिन्देशे सरस्वती पश्चिमो देशः । कुरुभूमिजाः प्रभासं
विदिशा वेदस्मृतीमहीतटजाः । खलमलिननीचतैलि-
कविहीनसत्त्वोपहतपुंस्त्वाः । बन्धनशाकुनिकाशुचिकैवर्त्त-
विरूपवृद्धसौकरिकाः । गणपूज्यस्खलितव्रतशवरपुलिन्दा-
र्थपरिहीनाः । कटुतिक्तरसायनविधवयोषितो भुजगत-
स्करमहिष्यः । खरकरभचणकवातुलनिष्पावाश्चार्कपुत्रस्य” ।
  • राहोः--“गिरिशिखरकन्दरदरीविनिविष्टा म्लेच्छजातयः
शूद्राः । गोमायुभक्षशूलिकवोक्काणा मुखविकलाङ्गाः ।
कुलपांसनहिंस्रकृतव्नचौरनिःसत्यशौचदानाश्च ।
खरचरनियुद्धवित्तीव्ररोषगर्भाशया नीचाः । उपहतदाम्भि-
कराक्षसनिद्रावहुलाश्च जन्तवः सर्वे । धर्मेण
च सन्त्यक्ता माषतिलाश्चार्कशशिशत्रोः” ।
  • केतोः--“गिरिदुर्गपह्नवश्वेतहूणचोलावगाणमरुचीनाः ।
प्रत्यन्तधनिमहेच्छव्यवसायपराक्रमोपेताः । परदारविवाद-
रताः पररन्ध्रकतूहला मदोत्सिक्ताः । मूर्खाधा-
र्मिकविजिगीषवश्च केतोः समाख्याताः” ।
“उदयसमये यः स्निग्धांशुर्महान् प्रकृतिस्थितो यदि च न
हतो निर्घातोल्कारजोग्रहमर्दनैः । स्वभवनगतः स्वोच्च-
प्राप्तः शुभग्रहवीक्षितः स भवति शिवस्तेषां येषां प्रभुः
परिकीर्त्तितः । अभिहितविपरीतलक्षणैः क्षयमुपगच्छति
तत्परिग्रहः । डमरभयगदातुरा जना नरपतयश्च
भवन्ति दुःखिताः । यदि न रिपुकृतं भयं नृपाणां
स्वसुतकृतं नियमादमात्यजं वा । भवति जनपदस्य
चाप्यदृष्ट्या गमनमपूर्वपुराद्रिनिम्नगासु” ।
पृष्ठ २७५७

ग्रहभीतिजित् पु० ग्रहभीतिं जयति जि--क्विप् ६ त० ।

(चिड़ानाम) गन्धद्रव्ये राजनि० ।

ग्रहभोजन न० ६ त० । ग्रहाणां देवे बलिरूपे गुड़ौदनादि

द्रव्ये ग्रहयज्ञशब्दे विवृतिः ।

ग्रहमण्डल न० ६ त० । १ ग्रहसमूहे । ग्रहोद्देशेन पूजा

मण्डलम् । तत्पूजार्थे अष्टपद्माकारे २ स्थानभेदे च ग्रह-
यज्ञशब्दे विवृतिः ।

ग्रहमैत्र न० ग्रहयोर्दम्पतिचन्द्राधिष्ठितराशिपयोर्मैत्रम् ।

विवाहे विचारणीये दम्पतिराशिपग्रहयोर्मैत्रे ।
उपयमशब्दे विवृतिः ।

ग्रहयज्ञ पु० ग्रहाणां तदुद्देशेन यज्ञः । शान्तिपृष्ठ्याद्यर्थं

ग्रहोद्देशेन क्रियमाणे यज्ञभेदे तदारम्भकालादिकम्
संस्का० त० उक्तं यथा
दीपिकायाम् “शुभग्रहार्कवारेषु मृदुक्षिप्रध्रुवेषु च ।
शुभराशिविलग्नेषु शुभं शान्तिकपौष्टिकम्” । मृदुगणः
चित्रानुराधामृगशिरोरेवत्यः । क्षिप्रगणोलघुगणः
पुष्याश्विहस्ताः । ध्रुवगणोरोहिण्युत्तरात्रयम् । “गोचरे
बा विलग्ने वा ये ग्रहारिष्टसूचकाः । पूजयेत्तान् प्रय-
त्रेन पूजिताः स्युः शुभावहाः” गोचरे स्वराश्यपेक्षया
यदा कदापि । विलग्ने जन्मलग्ने सूचका न तु रिष्टका
रकाः । तेन दुष्टग्रहसूचनीयदोषोपशमनं फलम् ।
मत्स्यपुराणे “उत्सवानन्दसन्तानयज्ञोद्वाहादिमङ्गले ।
मातरः प्रथमं पूज्याः पितरस्तदनन्तरम् । ततो माता-
महाद्याश्च विश्वेदेवास्तथैव च” । नान्दीमुखे वारादि-
दोषोनास्ति । “नान्दीमुखे पितृश्राद्धे संक्रान्त्यां ग्रह-
णद्वये” । अत्र शूद्रस्याप्यधिकारः “स्मार्त्तं शूद्रः
समाचरेदिति” वचनात् अस्य स्मार्घत्वेन प्रतिनिधिनाप्या-
रम्भः कर्त्तव्यः “श्रौतं कर्म स्वयं कुर्य्यादन्योऽपि
स्मार्त्तमाचरेत् । अशक्तौ श्रौतमप्यन्यः कुर्य्यादाचारम-
न्ततः” इति शातातपीयात् । अन्तत उपक्रमात् परतः ।
तत्प्रकारः मत्स्य पु० ९२ अ० उक्तो यथा
“श्रीकामः शान्तिकामोवा ग्रहयज्ञं समारभेत् ।
वृद्ध्यायुःपुष्टिकामो वा तथैवाभिचरन् पुनः । येन
व्रह्मन् । विधानेन तन्मे निगदतः शृणु । सर्वशास्त्राण्य-
नुक्रम्य संक्षिप्य ग्रन्थविस्तरम् । ग्रहशान्तिं प्रवक्ष्यामि
पुराणश्रुतिनोदिताम् । पुण्येऽह्नि विप्रकथिते कृत्वा ब्रा-
ह्मणवाचनम् । ग्रहान् ग्रहादिदेवांश्च स्थाप्य होमं
समारभेत् । ग्रहयज्ञस्त्रिधा प्रोक्तः पुराणश्रुतिकोविदैः ।
प्रथमोऽयुतहोमः स्याल्लक्षहोमस्ततः परम् । तृतीयः
कोटिहामस्तु सर्वकामफलप्रदः । अयुतेनाहुतीनाञ्च
नवग्रहमखः स्मृतः । तस्य तापद्विधिं वक्ष्ये पुराणश्रुति
भाषितम् ।
  • ग्रहवेदिः--“गर्तस्योत्तरपूर्वेण वितस्तिद्वयविस्तृताम् ।
वप्रद्वयावृतां वेदि” वितस्त्युच्छ्रयसम्मिताम् । संस्थापनाय
देवानाञ्चतुरस्रामुदङमुखाम् । अग्निप्रणयनं कृत्वा
तस्यामावाहयेत् सुरान् । देवतानां ततः स्थाप्या विंश-
तिर्द्वादशाधिका ३२ । सूर्थः सोमस्तथा भौमो बुधजीव-
सितार्कजाः । राहुः केतुरिति प्रोक्ता ग्रहा
लोकहितावहाः” ।
  • भण्डलेस्थानम्--“मध्ये तु भास्करं विद्याल्लोहितं दक्षि-
णेन तु । उत्तरेण गुरुं विद्याद्बुधं पूर्वोत्तरेण तु ।
पूर्वेण भार्गवं विद्यात् सोमं दक्षिणपूर्वके । पश्चिमेन
शनिं विद्याद्राहुं पश्चिमदक्षिणे । पश्चिमोत्तरतः केतु”
स्थापयेच्छुक्लतण्डुलैः” ।
  • अधिदेवता--“भास्करस्येश्वरं पिद्यादुमाञ्च शशिनस्तथा ।
स्कन्दमङ्गारकस्यापि बुधस्य च तथा हरिम् । व्रह्मा-
णञ्च गुरोर्विद्याच्छुक्रस्यापि शचीपतिम् । शनैश्चरस्य
तु यमं राहोः कालं तथैव च । केतार्वै चित्रगुप्तञ्च
सर्वेषामनिदेवताः” ।
  • प्रत्यधिदेवता--“अग्निरापः क्षितिर्विष्णुरिन्द्र ऐन्द्री च
देवताः । प्रजापतिश्च सर्पाश्च व्रह्मा प्रत्यधिदेवताः” ।
  • पञ्चलोकपालाः--“विनायकं तथा दुर्गां वायुमाकाशमेव
च । आवाहयेद्व्याहृतिभिस्तथैवाश्विकुमारकौ” ।
  • ग्रहवर्णः--“संस्मरेद्रक्तमादित्यमङ्गारकसमन्वितम् ।
सोमशुक्रौ तथा श्वेतौ बुधजीवौ च पिङ्गलौ (पीतौ) ।
मन्दरांहू तथा कृष्णौ धूम्रं(चित्रम्)केतुगणं विदुः” ।
ग्रहवर्णानि देयानि वासांसि कुसुमानि च । धूपा-
मोदोऽत्र सुरभिरुपरिष्टाद्वितानकम् । शोभनं स्थापयेत्-
प्राज्ञः फलपुष्पसमन्वितम् ।
  • ग्रहबलिः--गुड़ीदनं रवेर्दद्यात्सोमाय घृतपायसम् ।
अङ्गारकाय संयावं बुधाय क्षीरषष्टिकम् । दध्योदनञ्च
जीवाय, शुक्राय च घृतौदनम् । शनैश्चराय कृसरमाज-
मांसञ्च राहवे । चित्रौदनञ्च केतुभ्यः सर्वैर्भक्ष्यैरथार्चयेत्” ।
“प्रागुत्तरेण तस्माच्च दध्यक्षतविभूषितम् । चूतपल्लवसंछन्नं
फलवस्त्रयुगान्वितम् । पञ्चरत्नसमायुक्तं पञ्चभङ्गसमन्वितम् ।
स्थापयेदव्रणं कुम्भं वरुणं तत्र विन्यसेत् । गङ्गाद्याः
पृष्ठ २७५८
सरितः सर्वाः समुद्राश्च सरांसि च । गजाश्वरथ्यावल्-
माकसङ्गमाद्ध्रदगोकुलात् । मृदमानीय विप्रेन्द्र! सैवोष-
धिजलान्वितम् । स्नानार्थं विन्वसेत्तत्र यजमानस्य धर्म्म
वित् । सर्वे समुद्राः सरितः सरांसि च नदास्तथा ।
आयान्तु यजमानस्य दुरितक्षयकारकाः । एवमावाहये-
देतानमरान् मुनिसत्तम! । होमं समारभेत् सर्पिर्यवव्री-
हितिलादिना” ।
  • ग्रहसमित्--“अर्कः पलाशखदिरावपामार्गोऽथ पिप्पलः ।
औदुम्बरः शमी दूर्वा कुशाश्च समिधः क्रमात्” ।
एकैकस्याष्टकशतभष्टाविंशतिरेव वा । होतव्या
मधुसर्पिभ्यां दध्ना चैव समन्विताः । प्रादेशमात्रा सशिखाः
सबल्काः सुपलाशिनीः । समिधः कल्पयेत् प्राज्ञः सर्वक-
र्म्मसु सर्वदा । देवानामपि सर्वेषामुपांशु परमार्थवित् ।
स्वेन स्वेनैव मन्त्रेण होतव्याः समिधः पृथक् ।
होतव्यं च घृताभ्यक्तं चरुभक्ष्यादिकं पुनः । मन्त्रैर्दशा-
हुतीर्हुत्वा हीमं(अयुतम्)व्याहृतिभिस्ततः । उदङ्मखाः
प्राङ्मुखा वा कुर्युर्व्राह्मणपुङ्गवाः । मन्त्रवन्तश्च कर्त्तव्या-
श्चरवः प्रतिदैवतम् । हुत्वा च तांश्चरून् सम्यक् ततो होमं
समाचरेत्” ।
  • ग्रहादिमन्त्राः--“आ कृष्णेनेति सूर्य्याय होमः कार्यो
द्विजन्मना । आप्यायस्वेति सोमाय मन्त्रेण जुहुयात्
पुनः । अग्निर्मूर्द्धा दिवो मन्त्र इति भौमाय कीर्तयेत् ।
अग्ने! विवस्वदुषस इति सोमसुताय वै । वृहस्पते!
परिदीया रथेवेति गुरोर्मतः । शुक्रन्ते अन्यदिति च
शुक्रस्यापि निगद्यते । शनैश्चरायेति पुनः शन्नो देवीति
होमयेत् । कया नश्चित्र आभुव इति राहोरुदाहृतः ।
केतुं कृण्वन्नपि ब्रूयात् केतूनामपि शान्तये” ।
  • अधिदेवतामन्त्राः--“आ वो राजेति रुद्रस्य बलिहोमं
समाचरेत् । आपोहिष्ठेत्युमायास्तु स्योनेति स्वामिनस्तथा ।
विष्णोरिदं विष्णु रिति तमीशेति स्वयम्भुवः । इन्द्र-
मिद्देवतातये इन्द्राय जुहुयात्ततः । तथा यमस्य चायं
मौरिति होमः प्रकीर्त्तितः । कालस्य ब्रह्मजज्ञानमिति
मन्त्रः प्रशस्यते । चित्रगुप्तस्य चाज्ञातमिति मन्त्र-
विदो विदुः” ।
  • प्रत्यधिदेवतामन्त्राः--“अग्निं दूतं वृणीमह इति वह्नेरुदा
हृतः । उदुत्तमं वरुणमित्यपां मन्त्रः प्रकीर्तितः । भूमेः
पृथिव्यन्तरिक्षमिति वेदेषु पठ्यते । सहस्रशीर्षा पुरुष इति
विष्णोरुदाहृतः । इन्द्रायेन्दो मरुत्वत इति शक्रस्य
शस्यते । उत्तानपर्णे सुभगे इति देव्याः समाचरेत् ।
प्रजापतेः पुनर्होमः प्रजापते इति स्मृतः । नमोऽस्तु
सर्पेभ्य इति सर्पाणां मन्त्र उच्यते । एष ब्रह्मा य
ऋत्विज इति ब्रह्मपयुदाहृतः” ।
  • लोकपालंमन्त्राः--“विनायकस्य चातू न इति मन्त्रो बुधैः
स्मृतः । जातवेदसे सुनवामेति दुर्गामन्त्र उच्यते ।
आदित्प्रत्नस्य रेतस आकाशस्य उदाहृतः । प्रा(क्रा)णा-
शिशुर्महीनाञ्च वायोर्मन्त्रः प्रकीर्त्तितः । एषो उषा
अपूर्व्येति अश्विनोर्मन्त्र उच्यते” ।
पूर्णाहुतिश्च मूर्द्धानं दिव इत्यभिपातयेत् । “अथाभिषेकम-
न्त्रेण वाद्यमङ्गुलगीतकैः । पूर्णकुम्भेन तेनैव होमान्ते
प्रागुदङ्मुखम् । अव्यङ्गावयवैर्ब्रह्मन्! हेमस्रग्दामभू-
षितैः । यजमानस्य कर्त्तव्यं चतुर्भिः स्नपनं द्विजैः ।
  • अभिषेकमन्त्रः--“सुरास्त्वामभिषिञ्चन्तु ब्रह्मविष्णुमहेश्वराः ।
वासुदेवो जगन्नाथस्तथा सङ्कर्षणा विभुः । प्रद्युम्नश्चानि-
रुद्धश्च भवन्तु विजयाय ते । आखण्डलोऽग्निर्भगवान् यमो
वै निरृति स्तथा । वरुणः पवनश्चैव धनाध्यक्षस्तथा
शिवः । व्रह्मणा सहितः शेषो दिक्पालास्त्वामवन्तु ते ।
कीर्त्तिर्लक्ष्मीर्धृतिर्मेधा पुष्टिः श्रद्धा क्रिया मतिः । बुद्धि-
र्लज्जा वपुः शान्तिस्तुष्टिः कान्तिश्च मातरः । एतास्त्वाम-
भिषिञ्चन्तु धर्म्मपत्न्यः समागताः । आदित्यश्चन्द्रमा भौमो
बुवजीवौ सितोऽर्कजः । ग्रहास्त्वामभिषिञ्चन्तु राहुः
केतुश्च तर्पिताः । देवदानवगन्धर्वा यक्षराक्षसपन्नगाः ।
ऋषयोमुनयो गावो देवमातर एव च । देवपत्न्यो द्रुमा
नागा दैत्याश्चाप्सरसाङ्गणाः । अस्त्राणि सर्वशस्त्राणिं
राजानो वाहनानि च । औषधानि च रत्नानि कालस्या-
वयवाश्च ये । सरितः सागराः शैलास्तीर्थानि जलदा
नदाः । एते त्वामभिषिञ्चन्तु सर्वकामार्थसिद्धये” ।
ततः शुक्लाम्बरधरः शुक्लगन्धानुलेपनः । सर्वौषधैः सर्ब-
गन्धैः स्नापितो द्विजपुङ्गवैः । यजमानः सपत्नीकः
ऋत्विजः सुसमाहितान् । दक्षिणाभिः प्रयत्नेन पूजयेद्-
गतविस्मयः” ।
  • ग्रहदक्षिणाः--“सूर्य्याय कपिलां धेनुं शङ्खं दद्यात्तथेन्दवे ।
रक्तं धुरन्धरं दद्याद्भौमाय च ककुद्मिनम् । बुधाय
जातरूपन्तु गुरवे पीतवाससी । श्वेताश्वन्दैत्यगुरवे कृष्णाङ्गा-
मर्कसूनवे । आयसं राहवे दद्यात् केतुभ्यश्छागमुत्त-
मम् । सुवर्णेन समा कार्य्या यजमानेन दक्षिणा ।
सर्वेषामथ वा गावो दातव्या हेमभूषिताः । सुवर्णमथ वा
पृष्ठ २७५९
दद्याद्गुरुर्वा येन तुष्यति । स्वमन्त्रेणैव दातव्याः सर्वाः
सर्वत्र दक्षिणाः” ।
  • द्रव्यदानमन्त्राः तत्र कपिलायाः--“कपिले! सर्वभूतानां
पूजनीयासि रोहिणी! । सर्वदेवमयी यस्मादतः शान्तिं
प्रयच्छ मे” ।
  • शङ्खस्य--“पुण्यस्त्वं शङ्ख! पुण्यानां मङ्गलानाञ्च मङ्गलम् ।
विष्णुना विधृतश्चासि ततः शान्तिं प्रयच्छ मे ।
  • वृषस्य--“धर्म्मस्त्वं वृषरूपेण जगदानन्दकारक! । अष्टमूर्त्ते-
रधिष्ठानमतः शान्तिं प्रयच्छ मे” ।
  • हेम्नः--“हिरण्यगर्भगर्भस्त्वं हेम! वीजं विभावसोः ।
अनन्तपुण्यफलदमतः शान्तिं प्रयच्छ मे” ।
  • पीतवस्त्रस्य--“पीतवस्त्रयुगं यस्माद्वासुदेवस्य वल्लभम् ।
पदानात्तस्य मे विष्णो! ह्यतः शान्तिं प्रयच्छ मे” ।
  • अश्वस्य--“विष्णुस्त्वमश्वरूपेण यस्मादमृतसम्भवः । चन्द्रार्कवा-
हनो नित्यमतः शान्तिं प्रयच्छ मे” ।
  • धेनोः--“यस्मात्त्वं पृथिवी सर्वा धेनुः केशवसन्निभा । सर्व-
र्पापहरा नित्यमतः शान्तिं प्रयच्छ मे” ।
  • अयसः--“यस्मादायसकर्म्माणि तवाधीनानि सर्वदा । लाङ्ग-
लाद्यायुधादीनि तस्माच्छान्तिं प्रयच्छमे” ।
  • छागस्य--“यस्मात्त्वं सर्वयज्ञानामङ्गत्वेन व्यवस्थितः । यानं
विभोवसोर्नित्यमतः शान्तिं प्रयच्छ मे” ।
  • गोः--गवामङ्गेषु तिष्ठन्ति भुवनानि चतुर्दश । यस्मात्तस्मा-
च्छ्रिये मे स्यादिह लोके परत्र च” ।
  • शय्यायाः--“यस्मादशून्यं शयनं केशवस्य च सर्वदा । शय्या
ममाप्यशून्याऽस्तु दत्ता जन्मनि जन्मनि” ।
  • रत्नानाम्--“यथा रत्नेषु सर्वेषु सर्वे देवाः प्रतिष्ठिताः । तथा
रत्नानि यच्छन्तु रत्नदानेन मे सुराः” ।
  • भूमेः--“यथा भूमिप्रदानस्य कलान्नार्हन्ति षोड़शीम् ।
दानान्यन्यानि मे शान्तिर्भूमिदानाद्भवत्विह” ।
“एवं संपूजयेद्भक्त्या वित्तशाठ्येन वर्जितः । रत्नकाञ्चनव-
स्त्रोघैर्धूपमाल्यानुलेपनैः । अनेन विधिना यस्तु ग्रहपूजां
समाचरेत् । सर्वान् कामानवाप्नोति प्रेत्य स्वर्गे महीयते ।
यस्तु पीडाकरो नित्यमल्पवित्तस्य वा ग्रहः । तञ्च यत्नेन
संपूज्य शेषानप्यर्चयेद् बुधः । ग्रहा गावो नरेन्द्राश्च
ब्राह्मणाश्च विशेषतः । पूजिताः पूजयन्त्येते निर्दहन्त्य-
वमानिताः । यथा वाणप्रहाराणां कवचं वारणं
भवेत् । तद्वद्दैवोपघातानां शान्तिर्भवति वारणम् ।
तस्मान्न दक्षिणाहीनं कर्त्तव्यं भूतिमिच्छता । संपूर्णया
दक्षिणया यस्माद्देवोऽपि तुष्यति । सदैवायुतहोमोऽयं
नवग्रहमखे स्थितः । विवाहोत्सवयज्ञेषु प्रतिष्ठादिषु
कर्म्मसु । निर्विन्घार्थं मुनिश्रेष्ठ! तथोद्वेगाद्भुतेषु च ।
कथितोऽयुतहोमोऽयं लक्षहोममतः शृणु” ।
  • लक्षहोमः--“सर्वकामाप्तये यखाल्लक्षहोमं विदुर्बुधाः । पितॄणां
बल्लभं साक्षाद्भुक्तिमुक्तिफलप्रदम् । ग्रहताराबलं दृष्ट्वा
कृत्वा ब्राह्मणवाचनम्” ।
  • मण्डपः--“गृहस्योत्तरपूर्वेण मण्डपं कारयेद् बुधः । रुद्राय-
तनभूमौ वा चतुरस्रमुदङ्मुखम् । दशहस्तमथाष्टौ
वा हस्तान् । कुर्य्याद्विधानतः । प्रागुदक्प्लवना-
म्भूमिं कारयेद् यत्नतो बुधः । प्रागुत्तरं
समासाद्य प्रदेशं मण्डपस्य तु । शोभनं कारयेत् कुण्डं
यथावल्लक्षणान्वितम् । चतुरस्रं समन्तात् सयोनिवक्त्रं
समखलम् । चतुरङ्गुलविस्तारा मेखला तद्वदुच्छ्रिता ।
प्रागुदक्प्लवना कार्या सर्वतः समवस्थिता । शान्त्यर्थं
सर्वलोकानां नवग्रहमखः स्मृतः । मानहीनाधिकं
कुण्डमनेकभयदायकम् । यस्मात्तस्मात् सुसम्पूर्णं शान्ति-
कुण्डं विधीयते ।
विस्तरभयात् कोटिहोमोनोक्तः तत्रैवाध्यायशेषे दृश्यः ।
अत्र याज्ञवल्क्येन ग्रहाणां मन्त्रान्तरमुक्तं यथा
“आ कृष्णेन, इमन्देवा, अग्निर्मूर्द्धा दिबः ककुत् । उद्बु-
ध्यस्वेति च ऋचो यथासंख्यं प्रकीर्त्तिताः । वृहस्पतेः
अतिदर्य, स्तथैवान्नात्परिस्रुतः । शन्नोदेवीस्तथा, काण्डा-
त्केतुङ्कृण्वन्निमास्तथा” ।
विधानपा० विष्णुधर्म्योत्तरवाक्यादन्ये मन्त्रा उक्ताः
हेमाद्रिशान्तिकाण्डे विधानमालादौ चापरे मन्त्रा उक्ता
एवं विप्रतिपत्तौ शाखिभेदाद्व्यवस्था । शाखिभेदा-
न्मन्त्रभेदाश्च मत्कृततुलादानादिपद्धतौ दृश्याः । तत्प्रती-
कानि च विवरणपत्रे वक्तव्यानि तानि च तत्र दृश्यानि
क्वचित् मत्स्यपुराणवाक्यान्मन्त्रभेदस्तु शाखिभेदात् व्यव-
स्थाप्यः ।
तत्र ग्रहयज्ञे ग्रहाणां पूजनाय स्फटिकादिमूर्त्तिकरणं
तदभावे पटेःलेखनं तदभावे मण्डले वर्त्तुलाद्याकारले-
खनं वा कृत्वा पूजादिकं कार्यं यथाह याज्ञ० १ अ०
“सूर्यः सोमो महीपुत्रः सोमपुत्रो वृहस्पतिः । शुक्रः
शनैश्चरो राहुः केतुश्चेति ग्रहाः स्मृताः” याज्ञ० । “एते
सूर्य्यादयो नव ग्रहाः पूज्या इत्युक्तं किं कृत्येत्याह”
मिता० “ताम्रकात् स्फाटिकाद्रक्तचन्दनात् स्वर्णकादुभौ ।
पृष्ठ २७६०
रजतादयसः सीसात्कांस्यात् कार्या ग्रहाः क्रमात् ।
स्ववर्णैर्वा पटे लेख्या गन्धैर्मण्डलकेषु वा” याज्ञ० । “सूर्य्या-
दीनां मूर्त्तयस्ताम्रादिभिर्यथाक्रमङ्कार्यास्तदलाभे स्ववर्णकैः
पटे लेख्या मण्डलेषु वा गन्धैरक्तचन्दनादिभिर्यथावर्णं
लेख्या इत्यन्वयः । द्विभुजत्वादिविशेषस्तु मत्स्यपुरा-
णोक्तो द्रष्टव्यः तद्यथा “पद्मासनः पद्मकरः पद्मगर्भ
समद्युतिः । सप्ताश्वरथसंस्थोऽपि द्विभुजः स्यात् सदा
रविः । श्वेतः श्वेताम्बरधरो दशाश्वः श्वेतभूषणः ।
गदापाणिर्द्विवाहुश्च कर्त्तव्यो वरदः शशी । रक्त-
माल्पाम्बरधरः शक्तिशूलगदाधरः । चतुर्भुजो
मेषगमो वरदः स्याद्धरासुतः । पीतमाल्याम्बरधरः कर्णि
कारसमद्युतिः । खड्गचर्मगदापाणिः सिंहस्थो-
वरदो वुधः । देवदैत्यगुरू तद्वत् पीतश्वेतौ
चतुर्भुजौ । दण्डिनौ वरदौ कार्य्यौ साक्षसूत्रक-
मण्डलू । इन्द्रनीलद्युतिः शूली वरदो गृध्रवाहनः ।
वाणवाणासनधरः कर्त्तव्योऽर्कसुतः सदा । कराल-
वदनः खड़्गचर्मशूली वरप्रदः । नीलः सिंहासनस्थश्च
राहुरत्र प्रशस्यते । धूम्रा द्विवाहवः सर्वे गदिनो
विकृताननाः । गृध्रासनगता नित्यं केतवः स्युर्वर-
प्रदाः । सर्वे किरीटिनः कार्या ग्रहा लोकहितावहाः ।
स्वाङ्गुलेनोच्छ्रिताः सर्वे शतमष्टोत्तरं सदेति” ।
“यथावर्ण्णं प्रदेयानि वासांसि कुसुमानि च ।
गन्धाश्च बलयश्चैव धूपोदेयश्च गुग्गुलुः । कर्त्तव्या मन्त्र-
वन्तश्च चरवः प्रतिदैवतम्” याज्ञ० । “यथावर्णं यस्य ग्रहस्य
योवर्णस्तद्वर्णानि वस्त्रगन्धपुष्पाणि देयानि” मिता० ।
मण्डले ग्रहलेखनाकारस्तु
“वर्त्तुलो भास्करः कार्योह्यर्द्धचन्द्रो निशाकरः । अङ्गा-
रकस्त्रिकोणस्तु बुधश्चापाकृतिस्तथा । पद्माकृतिः गुरुः
कार्यश्चतुःकोणस्तु भार्गवः । सर्पाकृतिः शनिः कार्यो
राहुस्तु मकराकृतिः । खङ्गाकृतिस्तथा केतुः कार्य्यो
मण्डलपूजने” शान्तिदीपिकोक्तः ।
  • ग्रहध्यानं मत्स्यपुराणोक्तमपि ग्रहयागतत्त्वीक्तं
मण्डले मानभेदगोत्रजन्मभूम्याद्यनुगुणं ध्यानं प्रदर्शयते ।
  • सूर्य्यस्य “क्षत्रियं काश्यपं रक्तं कालिङ्गं द्वादशाङ्गुलम् ।
पद्महस्तद्वयं पूर्वाननं सप्ताश्ववाहनम् । शिवाधिदैवतं
सूर्यं वह्निप्रत्यधिदैवतम्” ।
  • सोमस्य “सामुद्रं वैश्यमात्रेयं हस्तगात्रं सिताम्बरम् ।
श्वेतं द्विवाहुं वरदं दक्षिणं सयदेतरम् । दशाश्वं
श्वेतपद्मस्थं विचिन्त्योमाधिदैवतम् । जलप्रत्यधिदैवञ्च
सूर्यास्यमाह्वयेत् तथा” ।
  • मङ्गलस्य “आवन्त्यं क्षत्रियं रक्तं मेषस्थं चतुरङ्गुलम् ।
आरक्तमाल्यवसनं भारद्वाजं चतुर्भुजम् । दक्षिणोर्द्ध-
क्रमाच्छक्तिवराभयगदाकरम् । आदित्याभिमुखं देवं तद्वदेव
समाह्वयेत् । स्कन्दाधिदैवतं ध्यायेत् क्षितिप्रत्यधि-
दैवतम्” ।
  • बुधस्य “मागधं द्व्यङ्गुलात्रेयं वैश्यं पीतं चतुर्भुजम् ।
वामोर्द्धक्रमतश्चर्मगदावरदखङ्गिनम् । सूर्यास्यं सिंहगं
सौम्यं पीतवस्त्रं तथाह्वयेत् । नारायणाधिदैवञ्च विष्णु
प्रत्यधिदैवतम्” ।
  • वृहस्पतेः “द्विजमाङ्गिरसं पीतं सैन्धवञ्च षडङ्गुलम् ।
ध्यात्वा पीताम्बरं जीवं सुपद्मस्थं चतुर्भुजम् । दक्षो-
र्द्धादक्षवरदकरकादण्डमाह्वयेत् । ब्रह्माधिदैवं सूर्य्यास्य-
मिन्द्रपत्यधिदैवतम्” ।
  • शुक्रस्य “शुक्रं मोजकटं विप्रं भार्गवञ्च नवाङ्गुलम् । पद्मस्थ-
माह्वयेत् सूर्यमुखं श्वेत्रं चतुर्भुजम् । सदाक्षवरकरका-
दण्डहस्तं सिताम्बरम् । शक्राधिदैवतं ध्यायेत् शचीप्र-
त्यधिदैवतम्” ।
  • शनेः “सौराष्ट्रं काश्यपं शूद्रं सूर्यास्यं चतुरङ्गुलम्! कृष्ण
कृष्णाम्बरं गृध्रगतं सौरिं चतुर्भुजम् । तद्वद्वाण
वरशूलधनुर्हस्तं समाह्वयेत् । यमाधिदैवतं प्रजाप्रति
प्रत्यधिदैवतम्” ।
  • राहोः “राहुं मलयजं शूद्रं पैठीनं द्वादशाङ्गुलम् । कृष्णं
कृष्णाम्बरं सिंहासनं ध्यात्वा तथाह्वयेत् । चतुर्बाहुं
खङ्गवरशूलचर्मकरन्तथा । कालाधिदैवं सूर्यास्यं सर्प-
प्रत्यधिदैवतम्” ।
  • केतूनाम् “कौशद्वीपं केतुगणं जैमिनीयं षडङ्गुलम् । धूम्रं
गृध्रगतं शूद्रमाह्वयेद्विकृताननम् । सूर्यास्यं धूम्रवसन
वरदं गदिनं तथा । चित्रगुप्ताधिदैवञ्च ब्रह्मप्रत्यधि-
दैवतम्” ।
अत्र चन्द्रस्य सामुद्रत्वं राहोर्मलयजत्वं केतोः
कौशद्वीपत्वमुक्तं पुराणान्तरानुसारेण वक्ष्यमाणजन्मभूम्यादि-
बोधकवचनेन विरोधभिया विकल्प आश्रयणीयः स
चाचारभेदात् “व्यवस्थित इति वोध्यम् । एवं वाहनेऽपि
विकल्पः । मत्कृततुलादानादिपद्धतौ एतेषां मध्ये केषा-
ञ्चिदन्यवाहनत्वस्य दर्शितत्वात्” ।
अधिदेवादीनां ध्यानमुक्तं विष्णुधर्मोत्तरे ।
पृष्ठ २७६१
  • शिवस्य “पञ्चवक्त्रो वृषारूढ़ः प्रतिवक्त्रं त्रिलोचनः । कपाल-
शूलखट्टाङ्गी चन्द्रमौलिः सदाशिवः” ।
  • उमायाः “अक्षसूत्रं च कमलं दर्पणं च कमण्डलुम् । उमा
बिभर्त्ति हस्तेषु पूजिता त्रिदशैरपि” ।
  • स्कन्दस्य “कुमारः षण्मुखः कार्य्यः शिखण्डकविभूषणः ।
रम्यरक्ताम्बरोदेवो मयूरवरवाहनः । कुक्कुटश्च तथा
घण्टां तस्य दक्षिणहस्तयोः । पताका वैजयन्त्याख्या
शक्तिः कार्य्या च वामयोः” ।
  • विष्णोः “विष्णुः कौमोदकीपद्मशङ्खचक्रधरः क्रमात् ।
प्रदक्षिणं दक्षिणाधःकरादारभ्य नित्यशः” ।
  • ब्रह्मणः “पद्मासनस्थो जटिलो ब्रह्मा कार्य्यश्चतुर्भुजः ।
अक्षमालां स्रुवं विभ्रत् पुस्तकं च कमण्डलुम् । वासः
कृष्णाजिनं तस्य पार्श्वे हंसस्तथैव च” ।
  • शक्रस्य “चतुर्दन्तगजारूढो वज्री कुलिशभृत्करः ।
शचीपतिः प्रकर्त्तव्यो नानाभरणभूषितः” ।
  • यमस्य “ईशन्नीलोयमः कार्य्योदण्डहस्तोविजानता । रक्त
दृक् पाशहस्तश्च महामहिषवाहनः” ।
  • कालस्य “कालः करालवदनो नीलाङ्गश्च विभीषणः ।
पाशहस्तोदण्डहस्तः कार्य्यो वृश्चिकरोमवान्” ।
  • चित्रगुप्तस्य “अपीच्यवेशः स्वाकारः द्विभुजः सौम्यदर्शनः ।
दक्षिणे लेखनीं चित्रगुप्तो वामेऽस्य पत्रकम् । पिङ्गल-
श्मश्रुकेशान्तः पीनाङ्गजठरोऽरुणः” । “पिङ्गाक्षत्रितयो-
ऽरुणः” इति वा पाठः ।
  • प्रत्यधिदेवानां तत्राग्नेः “छागस्थः साक्षसूत्रोऽग्निः सप्तार्चिः
शक्तिधारकः । चिह्नितं चमरेणास्य करमन्यं प्रकल्पयेत्” ।
  • जलस्य “आपः स्त्रीरूपधारिण्यः श्वेता मकरवाहनाः ।
दधानाः पाशकलसौ मुक्ताभरणभूषिताः” ।
  • क्षितैः “शुक्लवर्णा मही कार्या दिव्याभरणभूषिताः ।
चतुर्भुजा सौम्यवपुश्चण्डांशुसदृशाम्बरा । रत्नपात्रं
सस्यपात्रं पात्रमौषधिसंयुतम् । पद्मं करे च कर्त्तव्यं
भुवो यादवनन्दन! । दिग्गजानां चतुर्णां सा कार्य्या
पृष्ठगता तथा” । विष्णोरिन्द्रस्य च लक्षणमुक्तम् ।
  • शच्याः “वामे शच्याः करे कार्य्या सौम्यसन्तानमञ्जरी ।
वरदा मण्डिता कार्य्या द्विभुजा च तथा शची” ।
  • प्रजापतेः “यज्ञोपवीती हंसस्थ एकवक्त्रश्चतुर्भुजः । अक्षं
स्रुचं स्रुवं बिभ्रत् कुण्डिकाञ्च प्रजापतिः” । अक्षं
अक्षमालाम् । कुण्डिकां कमण्डलुम् ।
  • सर्पाणाम् “अक्षसूत्रधराः सर्पाः कुण्डिकापुच्छभूषणाः ।
एकभोगास्त्रिभोगा वा सर्वे कार्य्याश्च भीषणाः” ।
ब्रह्मलक्षणं प्रागुक्तम् ।
अथ विनायकादिपञ्चलोकपाललक्षणानि विष्णुधर्मोत्तरं
  • विनायकस्य “चतुर्भुजस्त्रिनेत्रश्च कर्त्तव्योऽत्र गजाननः ।
नागयज्ञोपवीतश्च शशाङ्ककृतशेस्यरः । दण्डं दक्षकरे
दद्याद् द्वितीये चाक्षसूत्रकम् । तृतीये परशुं दद्या-
च्चतुर्थे मोदकं तथा” ।
  • दुर्गायाः “शक्तिं वाणं तथा शूलं खड्गं चक्रं च दक्षिणं ।
चन्द्रविम्बमधो वामे खेटमूर्द्ध्वे कपांलकम् । शुकं टङ्कं
च बिभ्राणा सिंहारूढोरुदिग्भुजा । एषा देवी
समुद्दिंष्टा दुर्गा दुर्गार्त्तिहारिणी”
  • वायोः “धाबद्धरिणपृष्ठस्थो ध्वजधारी समीरणः । वरदा-
नकरो धूभ्रवर्णः कार्यो विजानता” ।
  • आकाशस्य “नीलोत्पलाभं गगनं तद्बर्णाम्बरधारि च ।
चन्द्रार्कहस्तं कर्त्तव्यं द्विभुजं सौम्यखण्डवत्” ।
  • अश्विनोः “पीतपद्मसवर्णामौ पद्मपत्रसमाम्बरौ । द्विभुजौ
देवभिषजौ कर्त्तव्यौ रूपसंयुतौ । तयोरोषधयः कार्य्या
दिव्या दक्षिणहस्तयोः । वामयोः पुस्तके कार्य्ये दर्शनीया
स्तथाद्विजाः (खगाः) । एकस्य दक्षिणे पार्श्वे वामे
चान्यस्य यादव! । नारीयुगं प्रकर्त्तव्यं सुरूपं चारुदर्शनम्”
ग्रहाणां वर्णगोत्रादिसूचकध्यानानि यागतत्त्वो-
क्तानि पूर्वदर्शितान्येव
विनायकादीनां मण्डले स्थापनस्थानमुक्तं रुद्रकल्पे
विष्णुध० यथा
“राहुमन्ददिनेशानामुत्तरस्यां यथाक्रमम् । गणेश-
दुर्गा वायुश्च, राहुकेत्वोश्च दक्षिणे । आकाशमश्विनौ चेति
पञ्च तान् स्थापयेत् द्विजः” ।
धूपादौ विशेषः हेमाद्रौ स्क० पु० “रवेः कुन्दुरकं धूपं
शशिनस्तु वृताक्षतम् । भौमे सर्जरसं चैव अगुरुञ्च बुधे
तथा । सिन्धुजं गुरवे दद्यात् शुक्रे विल्वागुरु स्मृतम् ।
गुग्गुलुर्मन्दचारे तु लाक्षा राहोश्च केतवे” । कुन्दुरकं
शल्वकीनिर्यासः विल्वागुरु विल्वफलनिर्याससहितमगुरु ।
गन्धभेदस्तत्रैव “दिवाकरकुजाभ्यां तु दापयेद्रक्तचन्द-
नम् । चन्द्रे गन्धं भार्गवे च सितचूर्णं प्रदापयेत् ।
कुङ्कुमेन च संयुक्तं चन्दनं जीवसौम्ययोः । अगुरु
चापि कस्तूरी राहुकेत्वर्कजेषु च” ।
विधानमालादौ अन्यविधा गन्धधूपाः पुष्पभेदाश्चोक्तास्ते
पृष्ठ २७६२
च विवरणपत्रे द्रष्टव्याः तत्र जीवस्य चतुःसमगन्ध उक्तः
स च “कस्तूरिकाया द्वौ भागौ चत्वारश्चन्दनस्य तु ।
कुङ्कुमस्य त्रयश्चैव शशिनश्च चतुःसमम्” इत्युक्तः गुरो-
र्दशाङ्गधूपस्तत्रोक्तः स च “हेमाद्रौ व्रतखण्डे”
षडभागकुष्ठं द्विगुणो गुडश्च लाक्षात्रयं पञ्च नखस्य
भागाः हरीतकी सर्जरसः समांसी भागैकमेकं त्रिलवं
शिलाजम् । घनस्य चत्वारि पुरस्य चैकोधूपोदशाङ्गः-
कथितो मुनीन्द्रैः” रत्नानि तु ग्रहशब्दे शारदा० ६ प०
उक्तानि द्रष्टव्यानि । “अभावे सितपुष्पाणि चन्दनं च
विलेपनम् । एतेषां गुग्गुलुर्धूपो नैवेद्यं घृतपायसम्” ।
  • ग्रहमण्डललेखनप्रकारः--उभयतो हस्तमिते ग्रह-
वेदिमध्यस्थले पूर्वपश्चिमाग्राश्चतस्रो दक्षिणोत्तराग्राश्च
चतुस्रोरेखाः कुर्यात् तथा करणे अष्टाङ्गुलदीर्घवि-
स्ताराणि समान्तरालानि नव खण्डानि सम्पद्यन्ते
तत्र विवरणपत्रे वक्ष्यमाणमानकं सूर्य्यादीनां वर्त्तुला-
द्याकारं कुर्यात् । स्वस्वमण्डले च स्व स्व स्थापनम्
स्वस्ववामेऽधिदेवानां स्वस्वदक्षिणे प्रत्यधिदेवानां सूर्या-
भिमुखतया सर्वेषां स्थापनम् विनायकादिस्थापनञ्च
प्रागक्त स्थानेष्विति विवेकः ।
होमे समिद्भेदलक्षणादिकं विधानपारि० स्कन्दपु०
“प्रादेशमात्रा अर्कस्य समिधश्चार्कसम्भवाः । दधिमध्वा-
ज्यसंयक्ताः प्रतिदेवञ्च होमयेत् । पालाशीश्चैव सीमाय ।
खादिरीर्लोहिताय च । आपामार्गीर्बुधायेति आश्व-
त्थीश्च वृहस्पतेः । औदुम्बरीश्च शुक्राय मन्दाय
च शमीमयीः । दौर्वीराहोः कुशान् कोतोर्होममन्त्रास्ततः
परम्” । समिल्लक्षणं चिन्तामणौ “समिधां लक्षणं
वक्ष्ये संख्या तासां तथैव च । विशीर्णा विदला ह्रस्वा
वक्राः सशुषिरा कृशाः । अतिस्थूलातिदीर्घाश्च समिधः
कार्य्यनाशिकाः । विशीर्णाऽऽयुःक्षयकरी विदला पुत्र-
नाशिनी । शुषिरा व्याधिजननी कृशा च रिपुवर्द्धिनी ।
दीर्घा विदेशगमनी स्थूला चात्मविनाशिनी । अकृशा
सुममाऽस्थूला सार्द्रा च सुपलाशिनी । प्रादेशान्नाधिका
न्यूना समित् स्यात् सर्व्वकर्म्मणि” । अथार्कादीनां फलं
होमसंख्या च तत्रैव दर्शितं यथा “अर्को नाशयति
व्याधिं पलाशः सर्व्वकामदः । खदिरश्चार्थलाभाय
अपामार्गः सुदर्शनः । अश्वत्थः सर्वकामाय भाग्यायौ-
दुम्बरस्तथा । शमी शमयते पापं दूर्व्वाऽऽयुष्यविवर्द्धिनी ।
कुशान् धर्म्मार्थकामानां रक्षणं रक्षसां विदुः । अष्टो-
त्तरन्तु साहस्रं शतमष्टाधिकं तु वा । अष्टाविंशतिमष्टौ
वा एकैकस्य तु होमयेत् । देवानामपि सर्व्वेषामुपांशु
परमार्थवित् । खेन स्वेनैव मन्त्रेण होतव्याः समिधः
पृथक् । होतव्यं च घृताद्यक्तं चरुभक्तादिकं पुनः ।
मन्त्रैर्द्दशाहुतीर्द्दद्याद्धोमोव्याहृतिभिस्ततः” अयुतादिहोम
प्रक्रमात् व्याहृतिभिरयुतादिहोमः ।
ग्रहाणां जन्मभूम्यादिज्ञानावश्यकतामाह स्कन्दपु०
“जन्मभूर्गोत्रमग्निश्च वर्णस्थाने मुखानि च । योऽज्ञात्वा
कुरुते शान्तिं ग्रहास्ते नावमानिताः” अतः शान्ति-
काले तेषां जन्मभूम्यादिज्ञानमपेक्षितं तच्च विशेषणेन
ध्याने दर्शितमपि प्रपञ्चार्थमिहोच्यते । तत्र रव्यादीनां
जन्मभूम्यादयो यथा तत्रैव
  • जन्मभूः--“उत्पन्नोऽर्कः कलिङ्गेषु यमुनायाञ्च चन्द्रमाः ।
अङ्गारकस्त्ववन्त्यां वै मगधेषु हिमांशुजः । सैन्धवेषु
गुरुर्जातः शुक्रो भोजकटे तथा । शनैश्चरश्च सौराष्ट्रे
राहुर्वर्वरके पुरे । अन्तर्व्वेद्यां तथा केतुरित्येता ग्रह-
भूमयः । यस्य यस्य च यद्गोत्रं तत्ते वक्ष्याम्यतः परम्” ।
  • ग्रहगोत्रम्--“आदित्यः काश्यपे गोत्रे आत्रेयश्चन्द्रमा
भवेत् । भारद्वाजो भवेद्भौमस्तथात्रेयश्च सोमजः ।
शक्रपूज्योऽङ्गिरोगोत्रः शुक्रोवै भार्गवस्तथा । शनिः
काश्यप एवायं राहुः पैठिनसिस्तथा । केतवो जैमि-
नीयाश्च ग्रहाग्निस्तदनन्तरम्” ।
  • ग्रहवह्निः--“आदित्ये कपिलो नाम पिङ्गलः सोम उच्यते ।
धूमकेतुस्तथा भौमे जाठरोऽग्निर्बुधे स्मृतः । गुरौ चैव
शिखी नाम शुक्रे भवति हाटकः । शनैश्चरे
महातेजा राहुकेत्वोर्हुताशनः” इति । इत्थमेव होमकाले
तत्तदग्निनाम कृत्वा जुहुयात् ।
अथैषां वर्णः म च द्विधा विप्रादिजातिरूपभेदात् तत्र
रूपे तत्रैव “भास्कराङ्गारकौ रक्तौ शुक्लौ शुक्रनिशा-
करौ । सोमपुत्रो गुरुश्चैव ताबुभौ पीतकौ स्मृतौ ।
कृष्णः शनैश्चरस्तद्वत् राहुश्चित्राश्च केतवः” । विप्रादि-
वर्णस्तु । “ब्राह्मणौ शुक्रवागीशौ क्षत्रियौ भौमभास्करौ ।
चन्द्रो वैश्यो बुधः, शूद्रामन्दोराहुश्च केतवः” ।
स्थानं तत्रैव “मध्ये तु भास्करं विद्याच्छशिनं पूर्वदक्षिणे ।
दक्षिणे लोहितं विद्याद् बुधं पूर्व्वोत्तरेण तु । उत्तरे
तु गुरुं विद्यात् पूर्ब्बतो भार्गवं न्यसेत् । पश्चिमेन
शनिं विद्याद्राहुं दक्षिणपश्चिमे । पश्चिमोत्तरतः केतुः
स्थाप्या वै शुक्लतण्डुलैः इति” ।
पृष्ठ २७६३
मुखं स्कान्दे “शुक्रार्कौ प्राङ्मुखौ ज्ञेयौ गुरुज्ञौ तावुदङ्-
मुखौ । प्रत्यङ्मुखः शनिः सोमः शेषा दक्षिणतोमुखाः” ।
अत्र प्राङ्मुखौ ऊर्द्ध्वदृष्टी, उदङ्मुखौ वामदृष्टी, प्रत्यङ्
मुखोऽधोदृष्टिः, दक्षिणतोमुखा दक्षिणदृष्टय इति व्याख्ये-
यम् “आदित्याभिमुखाः सर्व्वे इत्यनेन सर्व्वेषां सूर्य्या-
भिमुखत्वोक्तेः इति विधानपारिजातादयः ।

“वर्णरूपगुणेर्युक्तान् व्याहृत्यावाहयेत्तु तानिति” स्कान्दो-

क्तेरावाहनसमयेऽपि वर्णभूम्यादिकीर्त्तनपूर्ब्बकमावाहनं
कार्य्यमेवमग्रेऽपि होमकाले तथास्मरणमिति बोध्यम्
“चित्रान्नं च “अजाक्षीरेण संस्विन्ना यवाश्च तिलतण्डु-
लाः । अजाकर्णस्य रक्तन रक्ताश्चित्रान्नसंज्ञिताः” दीपि-
कोक्तम् प्रयोगो मत्कृततुलादानादिपद्धतौ दृश्यः ।
सूर्य्यादिग्रहाणां जन्मनूम्यादिसूचकविवरणपत्रम्।
जन्मभूम्यादि सूर्प्यस्य चन्द्रस्य भौमस्य बुधस्य जीवस्य शुक्रस्य शनेः राहोः केतोः
जन्मभूमिः कलिङ्गः यमुना अवन्तिः मगधः सैन्धवः भोजकटः सौराष्ट्रः वर्वरकः अन्तर्वेदी
गोत्रम् कश्यपः अत्रिः भरद्वाजः अत्रिः अङ्गिराः भृगुः कश्यपः पैठिनसिः जैमिनिः
अग्निः कपिलः पिङ्गलः धूमकेतुः जाठरः शिखी हाटः महातेजाः हुताशनः हुताशनः
विप्रादिवर्णः क्षत्रियः वैश्यः क्षत्रियः वैश्यः विप्रः विप्रः शूद्रः शूद्रः शूद्रः
रूपात्मकवर्णः रक्तः शुक्लः रक्तः पीतः पीतः शुक्लः कृष्णः कृष्णः चित्रम्
मण्डलेस्थानम् मध्यम् पूर्बदक्षिणः दक्षिणः पूर्वोत्तरः उत्तरः पूर्वः पश्चिमः दक्षिणपश्चिमः पश्चिमात्तरः
मुखम् (सर्वे सूर्याभिंमुखाः) ऊर्द्ध्वदृष्टिः अधोदृष्टिः दक्षिणदृष्टिः वामदृष्टिः वामदृष्टिः ऊर्द्ध्वदृष्टिः अधोदृष्टिः दक्षिणदृष्टिः दक्षिणदृष्टिः
मण्डले आकारः वर्त्तुलः अर्द्धचन्द्रः त्रिकोणः चापः पद्मम् चतुष्कोणः सर्पः मकरः खङ्गः
उभयताष्टाङ्गुल नवकोष्ठेषु तन्मानम् ४। व्या० १२प० ८ व्या० २४प० ४। व्या० १२प० २। व्या० ६प० ४ व्या० १२प० ३ व्या० ९प० ४ व्या० १२प० ४ व्या० १२प० ६ व्या० १८प०
वाहनम् सप्ताश्वरथः दशाश्वरथः मेषः सिंहः हस्ती हयः गृध्रः सिंहः गृध्रः
मूर्त्तिद्रव्यर ताम्रम् स्फटिकम् श्वेतचन्दनम् स्वर्णम् स्वर्णम् रजतम् लौहम् सीसम् कांस्यम्
गन्धभेदोद्विधा रक्तचन्दनम् श्वेतचन्दनम् रक्तचन्दनम् कुङ्कुमम् कुङ्कुमम् श्वेतचन्दनम् कस्तूरी कस्तूरी कस्तूरी
मतान्तरे तत् तत् तत् तत् चतुःसमम् तत् सा कुलागुरु सा
पुष्पभेदाः करवीरम् कुमुदं जवा चम्पकम् पद्मम् जातिः मल्लिका कुन्दम् मल्लिका
ध्पभेदाः गुग्गुलुः घृताक्तयक्षधूपः सर्जरसाक्तसिह्लकम् पीतागुरुसिह्लकम् दशाङ्गम् साज्यपिल्वागुरु पद्मकाष्ठम् यक्षधूपः मधुमिश्रगुडत्वचमृ
मतान्तरे कुन्दरकम् घृताक्षतम् सर्जरसः पीतागुरु सिन्धुजम् विल्वागुरु गुग्गुलुः लाक्षा लाक्षा
फलम् द्राक्षा इक्षुः पूगम् नागरङ्गम् जम्बीरम् वीजपूरम् जातिफलम् नारिकेलम् दाडिमत्
वस्त्रम् रक्तम् श्वेतम् रक्तम् प्रीतम् पीतम् श्वेतम् कृष्णम् कृष्णम् चित्रम्
रत्नानि माणिक्यम् मुक्ता प्रबालम् गारुत्मतम् पुष्परागम् हीरकम् नीलकम् गोमेदकम् वैदूर्य्यम्
बलिभेदाः गुडीदनः घृतपायसम् यावकम् क्षीरयष्टिकम् दध्योदनः घृतौदनः कृसरम् आजमांसम् चित्रान्नम्
समिधः अर्कः पलाशः खदिरः अपामार्गः अश्वत्यः उडुम्बरः शमी दूर्वात्रयम् कुशत्रयम्
दक्षिणा कपिलाधेनुः शङ्खः रक्तवृषः स्वर्णम् पीतवस्त्रे श्वेताश्वः क्वष्णाधेनुः खङ्गः छागः
जपसङ्ख्या ६००० १०००० ७००० १७००० १६००० २०००० १९००० १८००० ७०००
अधिदेवता शिवः ममा स्कन्दः नारायणः व्रह्मा शक्रः यमः कालः चित्रगुप्तः
प्रत्यतिदेवता अग्निः जलम् क्षितिः विष्णुः इन्द्रः शची प्रजापतिः सर्पः तह्मा

[Page२७६४+ ३९]

वैदभेदे ग्रहादीनां मन्त्रभेदा हेमाद्र्याद्युक्ताः प्रतीकतो दर्श्यन्ते
ग्रहादीनाम् ऋग्वेदिनः यजुर्वेदिनः सामवेदिनः अथर्ववेदिनः
रवेः आ कृष्णेन रजसा आ कृष्णेन रजसा उदु त्यं जातबेदसम् विषासहिं सहमानम्
चन्द्रस्य आप्यायस्व समेतु इमं देवा असपत्नम् सन्ते पयांसि समुयन्तु शकधूमं नक्षत्राणि
भौमस्य अग्निर्मूर्द्ध्वा दिवः अग्निर्मूर्द्ध्वा दिवः अग्निर्मूर्द्ध्वा दिवः त्वया मन्यो! सरथम्
बुधस्य अग्ने! विवस्वद् उद्बुध्यस्याग्ने! अग्ने! वितस्वत् यद्राजानी विभजन्तः
गुरोः वृहस्पते! परिदीया वृहस्पते! अतियदर्य्य वृहस्पते! परिदीया वृहस्पतिर्नः परिपातु
शुक्रस्य शुक्रं ते अन्यत् अन्नात्परिस्नुतः शुक्रं ते अन्यत् हिरण्यवर्णाः शुचयः
शनेः समग्निरग्निभिः शन्नोदेवीरभीष्टये शन्नोदेवीरभीष्टये सहस्रबाहुः--पुरुषः
राहोः कया नश्चित्रः काण्डात् काण्डात् कया नश्चित्रः दिव्यं चित्रमृतुधाः
केतोः केतुं कृण्वन्नकेतवे केतुं कृण्वन्नकेतवे केतुं कृण्वन्नकेतवे यस्ते पृथुःस्तनयित्नुः
सूर्याधिदेववह्नेः आ वोराजानम् त्रियम्बकम् आ वोराजानम् मानोविदन् विव्याधिनः
चन्द्राधिदेवोमायाः गौरीर्मिमाय श्रीश्च ते लक्ष्मीश्च आपोहि ष्ठा आपोहि ष्ठा
कुजाधिदेवस्कन्दस्य कुमारं माता यदक्रन्दः प्रथमम् स्योना पृथिवि! अग्निरिव मन्यो! त्विषितः
बुधाधिदेवविष्णोः इदं विष्णुर्विचक्रमे विष्णोरराटमसि इदं विष्णुर्विचक्रमे प्र तद्विष्णुः स्तवते
जीवाधिदेवब्रह्मणः त्वमित् सप्रथाः आ ब्रह्मन् ब्राह्मणः त्वमित् सप्रथाः ब्रह्म जज्ञानम्
शुक्राधिदेवेन्द्रस्य इन्द्रं वो विश्वतः सजोषा इन्द्र! इन्द्रमित् देवतातये इन्द्रेमं प्रतरम्
शन्यधिदेवयमस्य यमाय सोमं सुनुत यमाय त्वाङ्गिरस्वते आयं गौः पृश्निः यः प्रथमं प्रवतमाससाद
राह्वधिदेवकालस्य ब्रह्म जज्ञानम् कार्षिरसि समुद्रस्य ब्रह्म जज्ञानम् रोहितः कालो अभयत्
केत्वधिदेवचित्रगुप्तस्य उषोवाजं हि चित्रावसो! स्वस्ति चित्र इच्छिशोः आज्ञातं यदनाज्ञातम्
सूर्यप्रत्यधिदेवाग्नेः अग्निं दूतं वृणीमहे अग्निं दूतं पुरोदधे अग्निं दूतं वृणीमहे समास्त्वाग्ने । ऋतवः ।
चन्द्रप्रत्यधिदेवजलस्य अप्सु मे सोमः आपोहि ष्ठा उदुत्तमं वरुण! शन्नोदेवीरभीष्टये
भामप्रत्यधिदेवक्षितेः स्योना पृथिवि! स्योना पृथिवि! पृथिव्यन्तरिक्षम् भूमे! मातर्निधेहि
बुधप्रत्याधदेवहरेः सहस्रशीर्षा पुरुषः इदं विष्णुर्विचक्रमे सहस्रशीर्षा पुरुषः इदं विष्णुर्विचक्रमे
जीवप्रत्यधिदेवन्द्रस्य इन्द्रायेन्दो! मरुत्वते इन्द्र आसां नेता इन्द्रायेन्दो! इन्द्र! जुषस्व प्रवहा
शुक्रप्रत्यधिदेवशच्याः उत्तानपर्णे! सुगगे! अदित्यै रास्नासि एकाष्टका तपमे प्रेतं पादौ प्रस्फुरतम्
शनिप्रत्यधिदेवप्रजापतेः प्रजापते! न त्वद् प्रजापते! न त्वद् प्रजापते! न त्वद् नक्तं जातास्योषधे!
राहुप्रत्यधिदेवसर्पाणाम् आयं गौःप्रश्निः नमोऽस्तु सर्पेभ्यः तवेदिन्द्रा वयम् शेरभक शेरभ!
केतुप्रत्यधिदेवब्रह्मणः ब्रह्म जज्ञानम् ब्रह्म जज्ञानम् एष ब्रह्मा य ऋत्विजः ये दिशामन्तर्देशेभ्यः
विनायकस्य आ तू न इन्द्र! गणानां त्वा गणपतिम् आ तू न इन्द्र! निलक्ष्मां ललामाम्
दुर्गायाः जातवेदसे सुनवाम अम्बे! अम्बिके! इमं स्तोममर्हते पृतनाजितं सहमानम्
बायोः क्राणाशिशुर्महीनाम् वायो! ये ते सहस्रिण क्राणा शिशुर्महीनाम् अन्तरीक्षे वायवे
आकाशस्य आदित पत्नस्य घृतं घृतपावानः आदित् प्रत्नस्य श्राम्यतः पचता विद्धि
अश्विनोः एषो उषा अपर्व्या या वां कशा एषो उषा अपूर्व्या सं चेन्नय थौ अश्विना
एते च मन्त्रा ऋग्वदस्य यादृश स्थानस्थास्तच्चिह्नसहित तुलादानादिपद्धतो ७५--७९ पत्रेषु स्वरूपतो दशितास्ततएवावसेयाः । एते च मन्त्राः शुक्लयजुर्वेदे यादृशस्थानस्थास्तच्चिह्नसहितं तुलादानादिपद्धतौ १०६--११० पत्रेषु स्वरूपपतोदर्शिताः । एते च मन्त्राः मामवेदस्य यादृशस्थानस्थास्तच्चिह्नानसारेण तुलादानादि पद्धता १२७--१३०५ त्रेषु स्वरूपतोदर्शिताः । एते च मन्त्राः अथर्ववेदे यादृशस्थानस्थास्तच्चिह्नानुसारेण तुलादानादिपद्धतौ १४८--१५२ प्रत्रेषुस्वरूपतोदर्शिताः ।

|- |}

पृष्ठ २७६५

ग्रहयुति पु० ६ त० । ग्रहाणामेकराश्यादिस्थितिभेदेन

भूतलस्थानं कल्पनीययोगभेदे तद्विशेषः सूर्य्यसि०
उक्तो यथा “ताराग्रहाणामन्योन्यं स्यातां युद्धसमा-
गस्मै । समागमः शशाङ्केन सूर्य्येणास्तममं सह” सू० सि०
“ताराग्रहाणां भौमादिपञ्चग्रहाणां परस्परं योगे युद्ध
समागमौ वक्ष्यमाणलक्षणभिन्नौ स्तः । चन्द्रेण सह
पञ्चतारान्यतमस्य योगः समागमसञ्ज्ञः । सूर्य्येण सह
पञ्चताराणामन्यतमस्य चन्द्रस्य वा योगस्तदस्तमनं पूर्णा-
स्तङ्गतत्वम् न खस्तमात्रम् युन्यभावे प्रागपरकाले
तस्य सत्त्वात् । अथ युतेर्गतैष्यत्वं सार्घश्लोकेनाह” रङ्गना०
“शीघ्रे मन्दाधिकेऽतीतः संयोगो भवितान्यथा । द्वयोः
प्राग्यायिनोरेवं वक्रिणोस्तु विपर्ययात् । प्रागयायिन्य
धिकेऽतीतो वक्रिण्येष्यः समागमः” सू० सि० ।
“ययार्ग्रहयोर्योगोऽभिमतस्तयोर्ग्रहयोर्मध्ये यः शीघ्रगति-
र्ग्रहस्तस्मित् मन्दाधिकेमन्दगतिग्रहादधिके सति तयोः
संयोगोयुतिसञ ज्ञोऽतीतः पूर्वं जात इत्यर्थः । अन्यथा
मन्दगतिग्रहे शीघ्रगतिग्रहादधिके सतीत्यर्थः । तयोर्योगो
भविता एष्यः । एवमुक्तं गतैष्यत्वम् द्वयोर्ग्रहयोः
प्रागयायिनो पूर्ब्बगतिकयोर्भवति । वक्रिणोर्वक्रगति-
ग्रहयोर्व्विपर्य्ययादुक्तवैपरीत्यात् । तुकाराद्गतैष्यो योगो
भवति । शीघ्रगतिग्रहे मन्दगतिग्रहादधिके एव्यः
संयोगो, मन्दगतिग्रहे शीध्रगतिग्रहादधिके गतः संयोग
इत्यर्थः । अथैकस्य वक्रत्वे आह । प्राग्यायिनीति ।
द्वयोर्मध्य एकतरस्मिन् वक्रिणि सति तदा वक्रगतिग्रहात्
पूर्वगतिग्रहेऽधिके सति गतो यातः । यदा तु पूर्व्वगति-
ग्रहाद्वक्रगतिग्रहेऽधिके गति समागमो योगस्तदा एष्यः
स्यात् । अत्रीपपत्तिः । पूर्वगत्योर्ग्रहयोर्मध्ये शीघ्रगस्या-
धिकत्वेऽग्रे योगासम्भवात् पूर्व्वं योगो जातः । मन्द
गस्याधिकत्वे शीघ्रगस्य न्यूनत्वादग्रे योगो भविष्यति ।
वक्रिणोस्त शीघ्रगस्याधिकत्वेऽग्रे तन्न्यूनत्वेन योगसम्भ
वादेष्यो योगो मन्दगस्याधिकत्वे शीघ्रगस्योत्तरोत्तरं
न्थूनत्वसम्भवेनाग्रे योगासम्भवाद्गतो योगः । अथ वक्र-
वतिग्रहात् पूर्ब्बगतिग्रहेऽधिके उत्तरोत्तरं योगासम्भ-
वाद्गतो योगः । पूर्वगतिग्रहाद्वक्रगतिग्रहेऽधिके वक्र-
गतिग्रहस्यन्यूनत्वेनाग्रे योगसम्भवादेष्यः मयोग इति ।
अथ युतिकाले तुल्यग्रहयोरानयनं युतिकालस्य गतैष्य-
दिनाद्यानयनं च सार्घश्लोकत्रयेणाह” रङ्गना० ।
“ग्रहान्तरकलाः स्वस्वभुक्तिलिप्तासमाहताः । भुक्त्यन्तरेण
विभजेदनुलोमविलोमयोः । द्वयोर्वक्रिण्टथैकस्मिन् भुक्ति-
योगेन भाजयेत् । लब्धं लिप्तादिकं शोध्यं गते, देयं
भविष्यति । विपर्ययाद्वक्रगत्योरेकस्मिंस्तु धनव्ययौ ।
समलिप्तौ भवेतां तौ ग्रहौ भगणसंस्थितौ । विवरं
तद्वदुद्धृत्य दिनादि फलमिष्यते” सू० सि० ।
“युतिसम्बन्धिनोर्ग्रहयोरभीष्टैककालिकयोरन्तरस्य कलाः
पृथक् स्वस्वगतिकलाभिर्गुणिताः(कर्मभूताः)द्वयोर्ग्रहयोर-
नुलोमविलोमयोर्मार्गगयोर्वक्रगयोर्वेत्यर्थः । स्फुटगत्यन्त-
रेण गणको भजेत् । विशेषमाह । वक्रिणीति अथानन्तरं
द्वयोर्मध्य एकतरे वक्रिणि सति तयोर्गतियोगेन भजेत् ।
फलं कलादि स्वं स्वं गते योगे सति ग्रहयोर्मार्गगयोः
शोध्यं, भविष्यति--एव्ये योगे सति तयोर्देयं योज्यम् ।
द्वयोर्वक्रगत्योः स्वं स्वं फलं विपर्ययादुक्तवैपरीत्यत्
कार्यम् । गते योगे योज्यम् । एव्ये योगे हीनमित्यर्थः ।
द्वयोर्मध्य एकतरे तुकाराद्वक्रिणि सति तयोर्ग्रहयो-
र्वक्रमार्गगयीः स्वस्वकलात्मकफलाङ्कौ धनव्ययौ युतहीनौ
कार्यौ । तथाहि । गतपोगे मार्गगग्रहे स्वफलं हीनं,
वक्रिणि ग्रहे योज्यम् । एष्ये योगे वक्रग्रहे शोध्यम् ।
मार्गागग्रहे योज्यमिति । एवं कृते तौ युतिसम्बन्धिनौ
ग्रहौ भगणसंस्थौ भगणे राश्यधिष्ठितचक्रे संस्थितिर्य-
योस्तौ राश्याद्यात्मकौ समलिप्तौ समकलौ स्तः । लिप्ता-
पदस्य भगणावयवोपलक्षणत्वेन समौ स्त इत्यर्थः । अथ
युतिकालज्ञानमाह विवरमिति । अभीष्टकालिकयो-
र्युतिसम्बन्धिनोर्ग्रहयोरन्तरं कलात्मकं तद्वत् समकलो-
पयुक्तफलज्ञानार्थं यथा गतिगुणितमन्तरं गतियोगेम
गत्यन्तरेण भक्तं तथेत्यर्थः तेन हरेण भक्त्वा फलं
दिनादिकं गतैष्ययुतिवशादभीष्टकालाद्गतैष्यमुच्यते ।
तत्समये तद्युतिकाले तौ ग्रहौ समौ स्त इत्यर्थः । अत्रोप-
पत्तिः । यदि गत्यन्तरेण गतिकलास्तदा ग्रहान्तरकलामिः
का? इति फले गतयुतौ ग्रहयोः शोध्ये । एष्ययुतौ
योज्ये । द्वयोर्वक्रत्वे गत्यन्तरभक्तफले गतयुतौ भ्रहयो-
र्योज्ये । एष्ययुतौ शोध्ये वक्रग्रहस्योत्तरोत्तरं न्यू-
नत्वात् । अथैको वक्री तदा तयोरन्तरं पत्यहं गतियो
गेनोपचितम् । अतो गतियोगहरेणागतं फलं गतथोगे
मार्गगग्रहे हीनं, पूर्वं तस्य न्यूनत्वात् । वक्रग्रहे
योज्यम् पूर्वं तस्याधिकत्वात् । एप्ययोगे मार्गगग्रहे
योज्यम् उत्तरोत्तरमधिकत्वात् । वक्रग्रहे शोध्यम्
तस्याग्रे न्यूनत्वात् । यदि गतियोगेन गत्यन्तरेण वा
दिनसेकं लभ्यते तदान्तरकलाभिः किम्? इत्यनुपातेन
गतैष्यदिनाद्यवगमः” रङ्गना०
पृष्ठ २७६६

ग्रहयुद्ध न० ६ त० । ग्रहाणामुपर्युपरिस्थितानां किरण

संस्पर्शादिना युद्धमेदे तद्भेदादिक सू० सि० उक्तं यथा
“उल्लेखं तारकास्पर्शाद्भेदे भेदः प्रकीर्त्यते । युद्धमं
शुविमर्दाख्यमंशुयोगे परस्परम् । अंशादूनेऽपसव्याख्यं
युद्धमेकोऽत्र चेदणुः । समागमोंऽशादधिके भवतश्चेद्-
बलान्वितौ” सू० सि० ।
“भौमादिपञ्चताराणां मध्ये द्वयोर्युतौ तारकास्पर्शा
द्विम्बनेम्योः स्पर्शमात्रादुल्लेखसञ्ज्ञं युद्धं वदन्ति युति-
भेदज्ञाः । इदं तु द्वयोर्मानैक्यखण्डतुल्ययाम्योत्तरान्तरे ।
भेदे मण्डलभेदे भेदो भेदसञ्ज्ञो युद्धावान्तरभेदो युद्धभेद-
तत्त्वज्ञैः कथ्यते । अयं भेदो मानैक्यखण्डादूने द्वयो-
र्याम्योत्तरान्तरे । अत्र भास्कराचार्य्यैस्तु “मानैक्यार्धाद्-
द्युचरविवरेऽल्पे भवेद्भेदयोगः कार्यं सूर्यग्रहवदखिलं
लम्बनाद्यं स्फुटार्थम् । कल्प्योऽधःस्थः सुधांशुस्तदुपरिग
इनो लम्बनादिप्रसिद्ध्यै किं त्वर्कादेव लग्नं ग्रहयुतिसमये
कल्पितार्कान्न साध्यम् । प्राग्वत् तल्लम्बनेन ग्रहयुति-
समयः संस्कृतः प्रस्फुटः स्यात् । खेटौ तौ दृष्टियोग्यौ
ग्रहयुतिसमये कार्यमेवं तदैव । याम्योदक्स्थद्यु चरवि-
वरं भेदयोगे स वाणा ज्ञेयः सूर्य्याद्भवति च यतः
शीतगुः सा शराशा । मन्दाक्रान्तोऽनृजुरपि तदाधःस्थितः
स्यात् तदैन्द्र्यां स्पर्शो मोक्षोऽपरदिशि तदा पारिलेख्येऽ-
वगम्यः” इति विशेषोऽभिहितः । भगवता तु सूक्ष्म-
विम्बवोराकाशे दूरतो विविक्तदर्शनासम्भवाद्व्यर्थप्रयासा-
दुपेक्षितमिति ध्येयम् । युतावन्योऽन्यं किरणयोगे सति
अंशुमर्दाख्यं किरणसङ्घट्टनसञ्ज्ञं युद्धं स्यात् । द्वयो-
र्यास्यात्तरान्तरेंऽशात् षष्टिकलात्मकैकभागादूतेऽनधिके
सत्यपसव्यसञ्ज्ञं युद्धं भबति । अत्र विशेषमाह । एक
इति । अत्रापसव्ययुद्ध एकौ द्वयीरन्यतरोऽणुरणुबिम्ब-
श्चत् तदापसव्यं युद्धं व्यकं स्यादन्यथा त्वव्यक्तं युद्धं
स्यात् । एवां चतुर्णां फलम् । “अपसव्ये भयं ब्रू-
यात् सग्रामं रश्मिसङ्कुले । लेखनेऽमात्यपीडा स्याद्भेदने
तु धनक्षय” इति भार्गवीयोक्तं ज्ञेयम् । युद्धभेदा-
नुक्त्वा समागममाह समागम इति । द्वयोर्याम्योत्तरा-
न्तरे षष्टिकलात्मकैकभागादभ्यधिके सति समागमो योगो
भवति । अत्रापि तिशेषमाह भवत इति । युतिविषयकौ
श्रहौ बलान्वितौ बलेन--“स्थानादिवलचिन्तात्र व्यर्था
केनापि न स्मृता । प्रश्नत्रयेऽथपाप्यस्मिन् स्थौल्यसौक्ष्म्य
बलं स्मृतम्” इति ब्रह्मसिद्धान्तवचनात् स्थूलमण्डल-
तयान्वितौ युक्तौ स्थूलविम्बौ समावित्यर्थः । चेत्
स्तस्तदा समागमस्तयोर्व्यक्तः स्यात् । अन्यथा त्वव्यक्तः
समागमः । “द्वावपि मयूखयुक्तौ विपुलौ स्निग्धौ
समागमे भवतः । अत्रान्योऽन्यं प्रीतिविपरीतावात्मपक्षघ्नौ ।
युद्धं समागमो वा यद्यव्यक्तं तु लक्षणैर्भवतः । भुवि
भूभृटामपि तथा फलमव्यक्तं विनिर्दिष्टम्” इत्युक्तेः ।
“भेदोल्लेखांशुसम्मर्दा अपसव्यस्तथापरः । ततो योगो
भयेदेषामेकांशकसमापनात्” इति काश्यपोक्तेश्च सर्वं निरव-
द्यम् । अथ युद्धे पराजितस्य ग्रहस्य लक्षणमाह” रङ्गना०
“अपसव्ये जितो युद्धे पिहितोऽणुरदीप्तमान् । रूक्षो
विवर्णो विध्वस्तो विजितो दक्षिणाश्रितः” सू० सि० ।
“द्वयोर्मध्ये यस्तदितरेण विध्वस्तो हतः स विजितः
पराजितो ज्ञेयः । हतस्य लक्षणमाह अपसव्य इति ।
अपसव्ये युद्धे यो जितो जयलक्षणैर्विवर्जितः । एतेनो-
ल्लेखादित्रये सञ्ज्ञाफलं न पराजितस्य फलमिति सूचि
तम् । पिहित आच्छादितोऽव्यक्त इति यावत् । अणु
रितरग्रहविम्बादल्पबिम्बः । अदीप्तिमान् प्रभारहितः
रूक्षोऽस्निग्धः विवर्णः वर्णेन स्ववर्णेन स्वाभाविकेन
रहित इत्यर्थः । दक्षिणाश्रित इतरग्रहापेक्षया दक्षि-
णदिशि स्थितः । “श्यामो वा व्यपगतरश्मिवान् रश्मि-
मण्डलो वा रूक्षो वा व्यपगतरश्मिवान् कृशो वा ।
आक्रान्तो विनिपतितः कृतापसव्यो विज्ञेयो हत इति
सग्रहो ग्रहेण” इति भार्गवीयोक्तेः । अथ श्लोको-
त्तरार्धेन जयिनो ग्रहस्यलक्षणमाह” रङ्गना०
“उदक्स्थो दोप्तिमान् स्थूलोजयी याम्येऽपि यो वली” सृ०
सि० “इतरग्रहापेक्षयोत्तरदिक्स्थः दीप्तिमान् प्रभायुक्तः
स्थूल इतरग्रहविम्बापेक्षया पृथुबिम्बः । जयी जययुक्तः
स्यात् । अथोत्तरदक्षिणदिक्स्थत्वक्रमेण जयपराजयौ-
न स्त इत्याह याम्य इति । दक्षिणदिशि यो ग्रहो
बली दीप्तिमान् पृथुबिम्बो भवति स लयी । अपिशब्द
उत्तरदिशासमुच्चयार्थकः । तथा च जयपराजयलक्षणयो
र्दिक्स्थानमनुपयुक्तमिति भावः । अथ युद्धे विशेषमाह
रङ्ग० । “आसन्नावप्युभौ दीप्तौ भवतश्चेत् समागमः । स्वल्पौ
द्वावपि विध्वस्तौ भवेतां कूटविग्रहौ” सू० सि० । “उभौ द्वौ
आसन्नावेकभागान्तरगतान्तरितौ । अपिशब्दाद्युद्धलक्ष-
णाक्राक्षौ । दीप्तौ प्रभायुक्तौ चेत् स्यातां तदा बलान्विता-
पृष्ठ २७६७
“वति समागतलक्षणैकदेशसद्भावात् समागमाख्यं युद्धम् ।
द्वावपि ग्रहौ स्वल्पौ सूक्ष्मविम्बौ विध्वस्तौ द्वावपि
पराजयलक्षणाक्राकौ स्यातां तदा क्रमेण कूटविग्रह-
सञ्ज्ञकौ युद्धभेदौ स्याताम् । अथोत्सर्गतः शुक्रस्य
जयलक्षणाक्रान्तत्वमस्तीति वदन् समागमः शशाङ्केनेति प्राक्
प्रतिज्ञातसमागमे उक्तपकारमतिदिशति” रङ्ग० ।
“उदक्स्थो दक्षिणस्थो वा भार्गवः प्रायशो जयी ।
शशाङ्केनैवमेतेषां कुर्यात् संयोगसाधनम्” सू० सि०
“इतरग्रहापेक्षयोदक्स्थो दक्षिणदिक्स्थो वोभयदिशीत्य-
र्थः । शुक्रः प्रायश उत्सर्गतो जयलक्षणाक्रान्तत्वेन जयी ।
कदाचित् पराजयलक्षणाक्रान्तो भवतीति तात्पर्यार्थः ।
एतेषां भौमादिपञ्चताराणां चन्द्रेण सह संयोगसाधनं
युतिसाधनमेषामुक्तरीत्या गणकः कुर्यात् । अत्र विशेषा-
र्थकम् । “अवनत्या स्फुटो ज्ञेयो विक्षेपः शीतगोर्युतौ”
इत्यर्थं क्वचित् पुस्तके दृश्यते न सर्वत्रेति क्षिप्तत्वात्तदु-
पेक्षितम् अधिकारस्यापर्ण्णश्लोकत्वापत्तेश्च । एतदुक्त्य-
न्ययोगे नतिसस्कारनिषेधस्य सिद्धस्तस्यायुक्तत्वमिति
तदनुक्तौ सूर्य्यग्रहणोक्तरीत्या साधारण्येन सर्वत्र
तद्विशेषोक्तेरर्थसिद्धेरिति ध्येयम् । नन्वेषां ग्रहाणां
दूरान्तरेण सदोर्ध्वाधरान्तरसद्भावात् परस्परं योगा-
सम्भवेन कथं युतिः सङ्गतेत्यत आह” रङ्ग० ।
“भावाभावाय लोकानां कल्पनेयं प्रदर्शिता । स्वमार्गगाः
प्रयान्त्येते दूरमन्योन्यमाश्रिताः” सू० सि० ।
“एते ग्रहाः स्वमार्गगाः स्वस्वकक्षास्था अन्योन्यमाश्रिता
यु तकालऊर्द्ध्वाधरन्तराभावेन संयुक्ताः सन्तः प्रयान्ति
गच्छन्ति इति दूरं दूरान्तरेण दर्शनादियं ग्रहयुति-
कल्पना कल्पनात्मिकाऽवास्तवा प्रदर्शिता पूर्वोक्तग्रन्थेन
कथिता । नन्ववस्तुभूता किमर्थमुक्तेत्यतः प्रयीजनमाह
भावाभावायेति । लोकानां भूस्थपाणिगां मावः
शुभफलमभावोऽशुमफलं तस्मै शुभाशुभफलादेशायावस्तु-
भूतापि युतिरुक्तेति भावः” रङ्ग० ।
युद्धभेदास्तत्फकपिशेषाः समागमजयादिफलभेदाश्च वृ०
सं १७ अ० उक्ता यथा
“युद्धं यथा यदा वा भविष्यदादिश्यने त्रिकालज्ञैः ।
तद्विज्ञाने करणं मया कृतं सूर्यसिद्धान्तात् । वियति
चरतां ग्रहाणामुपर्य्युपर्यात्ममार्गसंस्थानाम् ।
अतिदूराद्डग्विपये समतामिव सम्प्रयातानाम् । आसन्नक्र-
मयोगाद्भेटोल्ले खांशुमदोपसव्यैः । युद्धं चतुःप्रकारं
पराशराद्यैर्मुनिभिरुक्तम् । भेदे वृष्टिविनाशो भेदः
सुहृदां महाकुलानां च । उल्लेखे शस्त्रमयं मन्त्रिवि-
रोधः प्रियान्यत्वम् । अंगुविरोधे युद्धानि भूभृतां
शस्त्ररुक्क्षुदवमर्दाः । युद्धे चाप्यपसव्ये भवन्ति युद्धानि
भूपानाम् । रविराक्रन्दो मध्ये पौरः पूर्वेऽपदे स्थितो
यायी । पौरा बुधगुरुरविजा नित्यं शीतांशुराक्रन्द्रः ।
केतुकुजराहुशुक्रा यायिन एते हता ग्रहा हन्युः ।
आक्रन्दयायिपौरान् जयिनो जयदाः स्ववर्गस्य । पौरे
पौरेण हते पौराः पौरान् नृपान् विनिघ्नन्ति । एवं
याय्याक्रन्दौ नागरयायिग्रहाश्चैव । दक्षिण-
दिक्स्थः परुषो वेपथुरप्राप्य सन्निवृद्धोऽणुः । अधिगूढो
विकृतो निष्प्रभो विवर्णश्च यः स जितः । उक्त
विपरीतलक्षणसम्पन्नो जयगतो विनिर्दिष्टः । विपुल
स्निग्धो द्युतिमान् दक्षिणदिक्स्थोऽपि जययुक्तः । द्वा-
वपि मयूखपृक्तौ विपुलौ स्निग्धौ समागमे भवतः ।
तत्रान्योऽन्यप्रीतिर्विपरीतावात्मपक्षघ्नौ । युद्धं समागमो
वा यद्यव्यक्तौ तु लक्षणैर्भवतः । भुवि भूभृतामपि
तथा फलमव्यक्तं विनिर्देश्यम्” ।
  • कुजजयस्य “गुरुणा जितेऽवनिसुते वाह्लोका यायिनोऽग्नि-
वार्त्ताश्च । शशिजेन शूरसेनाः कलिङ्गसाल्वाश्च पीड्यन्ते ।
सौरेणारे विजिते जयन्ति पौराः प्रजाश्च सीदन्ति ।
कोष्ठागारम्लेच्छक्षत्रियतापाश्च शुक्रजिते” ।
  • बुधजयस्य “भौमेन हते शशिजे वृक्षसरित्तापसाश्मकनरेन्द्राः ।
उत्तरदिक्स्थाः क्रतुदीक्षिताश्च सन्तापमायान्ति । गुरुणा
बुधे तु विजिते म्लेच्छशूद्रचौरार्थयुक्तपौरजनाः । त्रैग-
र्त्तपार्वतीयाः पीड्यन्ते कम्पते च मही । रविजेन
बुधे ध्वस्ते नाविकयोधाब्जसधनगर्भिण्यः । भृगुणा
जितेऽग्निकोपः सस्याम्बुदयायिविध्वंसः” ।
  • जीवजयस्य “जीवे शुक्राभिहते कुलूतगान्धारकैकया मद्राः ।
साल्वा वत्सा वङ्गा गावः सस्यानि नश्यन्ति । भौमेन
हते जीवे मध्यो देशो नरेश्वरा गावः । सौरेण चार्जु-
नायनवसातियौधेयशिविविप्राः । शशितनयेनापि जिते
वृहस्पतौ म्लेच्छसत्यशस्त्रभृतः उपयान्ति मध्यदेशश्च
संक्षयं यच्च भक्तिफलम्” ।
  • शुक्रजयस्य “शुक्रे वृहस्पतिहते यायी श्रेष्ठो विनाश-
मुपयाति । ब्रह्मक्षत्रविरोधः सलिलं च न वासवस्त्य-
जति । कोशलकलिङ्गवङ्गा वत्सा मत्स्याश्च मध्यदेश-
यताः । महतीं व्रजन्ति पीडां सपुंमकाः शूरसे-
पृष्ठ २७६८
नाश्च । कुजविजिते भृगुतनये बलमुख्यबधो नरेन्द्रसं-
ग्रामाः । सौम्येन पार्वतीयाः क्षीरविनाशोऽल्पवृष्टिश्च ।
रविजेन सिते विजिते गणमुख्याः शस्त्रजीविनः क्षत्रम् ।
जलजाश्च निपीड्यन्ते सामान्यं भक्तिफलमन्यत्” ।
  • शनिजयस्य “असिते सितेन निहतेऽर्घवृद्धिरहिविहगमानिनां
पीडा । क्षितिजेन टङ्कणान्ध्रोड्रकाशिबाह्लीकदेशानाम् ।
सौम्येन पराभूते मन्देऽङ्गबणिग्विहङ्गपशुनागाः । सन्ता-
प्यन्ते गुरुणा स्त्रीबहुला महिषकशकाश्च” ।
अयं विशेषोऽभिहितो हतानां कुजज्ञवागीशसितासि-
तानाम् । फलं तु वाच्यं ग्रहभक्तितोऽन्यद यथा तथा
घ्नन्ति हताः स्वभक्तीः” ।
“नीचस्थितेऽरिगृहगेऽथ पराजिते वा जीवे भृगौ व्रत-
विधौ स्मृतिकर्म्महीनः” ज्यो० त० । उपयमशब्दे
तत्कालस्य वर्ज्यतोक्तिर्दृश्या । ग्रहविग्रहग्रहविमर्दाद-
योऽप्यत्र, तत्र च चन्द्रस्यान्य खेटैः समागमे विशेषः न
युद्धम् इत्युक्तं वृ० सं० १८ अ० यथा
“भानां यथासम्भवमुत्तरेण यातो ग्रहाणां यदि वा
शशाङ्कः । प्रदक्षिणं तच्छुभकृन्नराणां याम्येन यातो न
शिवः शशाङ्कः । चन्द्रमा यदि कुजात् प्रयात्युदक्
पार्वतीयबलशालिनां जयः । क्षत्रियाः प्रमुदिताः
स्वयायिनो भूरिधान्यमुदिता वसुन्धरा । उत्तरतः
स्वसुतस्य शशाङ्कः पौरजयाय सुभिक्षकरश्च । सस्य-
चयं कुरुते जयहार्द्दिं कोशचयं च नराधिपतीनाम् ।
वृहस्पतेरुत्तरगे शशाङ्के पौरद्विजक्षत्रियपण्डितानाम् ।
धर्म्मस्य देवस्य च मध्यमस्य वृद्धिः सुभिक्षं मुदिताः
प्रजाश्च । भार्गवस्य यदि यात्युदक् शशी कोशयुक्तगज-
वाजिवृद्धिदः । यायिनां च विजयो धनुष्मतां सस्यस-
म्पदपि चोत्तमा तदा । रविजस्य शशी प्रदक्षिणं
कुर्याच्चेत्पुरभूभृतां जयः । शकबाह्लिकसिन्धु पह्लवा
मुदपाप्ता यवनैः समन्विताः । येषामुदग्गच्छति भग्र-
हाणां प्रालेयरश्मिर्निरुपद्रवश्च । तद्द्रव्यपौरेतरभक्ति-
देशान् पुष्णाति याम्येन निहन्ति तानि । शशिनि
फलमुदक्स्थे यद्ग्रहस्योपदिदं भवति तदपसव्ये सर्वमेव
प्रतीपम् । इति शशिसमवायाः कोर्त्तिता भग्रहाणां
न खलु भवति युद्वं साकमिन्दोर्ग्रहर्क्षैः” ।

ग्रहयुद्धभ न० ग्रहयोयु सं यत्र तादृशं भम् । ग्रहयुद्धा-

धिकरणे नक्षत्र उपमयशब्दे उदा० ।

ग्रहवर्षादिफल न० ६ त० । १ सूर्यादिग्रहस्वामिकवर्षमास-

फलभेदे । ७ ब० । २ तद्बोघकशास्त्रे च तच्च वृ० स० २०
अध्यायात्मकं यथा
  • रवेः--“सर्वत्र भूर्विरलसस्ययुता वनानि दैवाद्बिभक्षयिषुदंष्ट्रिस-
मावृतानि । स्यन्दन्ति नैव च पयः प्रचुरं स्रवन्त्यो रुग्-
भेषजानि न तथातिबलान्वितानि । तीक्ष्णं तपत्यदितिजः
शिशिरेऽपि काले नात्यम्बुदा जलमुचोऽचलसन्निकाशाः ।
नष्टप्रभर्क्षगणशीतकरं नभश्च सीदन्ति तापसकुलानि
सगोकुलानि । हस्त्यश्वपत्तिमदसह्यबलैरुपेता वाणासना-
सिमुसलातिशयाश्चरन्ति । घ्नन्तो नृपा युधि नृपानुचरैश्च
देशान् संवत्सरे दिनकरस्य दिनेऽथ मासे” ।
  • विधोः--“व्याप्तं नभः प्रचलिताचलसन्निकाशैर्व्यालाञ्जनालिगव
लच्छविभिः पयोदैः । गां पूरयद्भिरखिलाममलाभिरद्भि-
रुत्कण्ठकेन गुरुणा ध्वनितेन चाशाः । तोयमन पद्म-
कुमुदोत्पलवन्त्यतीव फुल्लद्रुमाण्यु पवनान्यलिनादितानि ।
गावः प्रभूतपयसो नयनामिरामा रामा रतैरविरतं
रमयन्ति रामान् । गोधूमशालियवधान्यवरेक्षुवाटा भूः
पाल्यते नृपतिभिर्नगराकराढ्या । चित्यङ्किता क्रतुवरे-
ष्टिविघुष्टनादा संवत्सरे शिशिरगोरभिसम्प्रवृत्ते” ।
  • कुजस्य--“वातोद्धतश्चरति वह्निरतिप्रचण्डो ग्रामान् वनानि
नगराणि च सन्दिधक्षुः । हाहेति दस्युगणपातहता
रटन्ति निःस्वीकृता विपशवो भुवि मर्त्यसङ्घाः । अभ्यु-
न्नता वियति संहतमूर्तयोऽपि मुञ्चन्ति न क्वचिदपः
प्रचुरं पयोदाः । सीम्नि प्रजातमपि शोषमुपैति शस्यं
निष्पन्नमप्यविनयादपरे हरन्ति । भूपा न सम्यगाभपा-
लनसक्तचित्ताः पित्तोत्थरुक्प्रचुरता भुजगप्रकोपः ।
एवंविधैरुपहता भवति प्रजेयं संवत्सरे ऽवनिसुतस्य
विपन्नसस्या ।
  • बुधस्य--“मायेन्द्रजालकुहकाकरनागराणां गान्धर्वलेख्यगणि-
तास्त्रविदां च वृद्विः । पिप्रीषया नृपतयोऽद्भुतदर्श-
नानि दित्सन्ति तुष्टिजननानि परस्परेभ्यः । वार्त्ता
जगत्यवितथाऽविकला त्रयी च सम्यक् चरत्यपि मनोरिवं
दण्डनीतिः । अध्यक्षरं स्वभिनिविष्टधियोऽत्र केचित्
आन्वीक्षिकीषु च परं पदमीहमानाः । हास्यज्ञदूत-
कविवालनपुंसकाना युक्तिज्ञसेतुजलपर्वतवासिनां च ।
हार्दिं करोति मृगलाञ्छनजः खकेऽव्द मासेऽथ वा
प्रचुरतां भुवि चौषधीनाम्” ।
  • गुरोः--“ध्वनिरुच्चरितो ऽध्वरे द्युगामी विपुलो यज्ञ-
मुषां मनांसि मिन्दन् । विचरत्यनिशं द्विजोत्तमानां
पृष्ठ २७६९
हृदयानन्दकरो ऽध्वरांशभाजाम् । क्षितिरुत्तमसस्यवत्य-
नेकद्विपपत्त्यश्वधनोरुगोकुलाढ्या । क्षितिपैरभिपालनप्र-
वृद्धा द्युचरस्पधिजना तदा विभाति । विविधैर्वियदुन्नतैः
पयोदैर्वृतभूमिं पयसाभितर्पयद्भिः । सुरराजगुराः शुभे
ऽत्र वर्षे बहुसस्या क्षितिरुत्तमर्द्धियुक्ता” ।
  • भृशोः--“शालीक्षुमत्यपि धरा धरणीधराभधाराधरीज्झित-
पयःपरिपूर्णवप्रा । श्रीमत्सरोरुहतताम्बुतडागकीर्णा
योषेव भात्यभिनवाभरणोज्ज्वलाङ्गी । क्षत्रं क्षितौ
क्षपितमूरिबलारिपक्षम् उद्घुष्टनैकजयशब्दविराविताशम् ।
संहृष्टशिष्टजनदुष्टविनष्टवर्गां गां पालयन्त्यवनिपा
नगराकराद्याम् । पेपीयते मधु मधौ सह कामिनीभिर्जे-
गीयते श्रवणहारि सवेणुवीणम् । बोभुज्यते ऽतिथि-
सुहृत्खजनैः सहान्नम् अव्दे सितस्य मदनस्य जयावघोषः”।
  • शनेः--“उद्व, त्तदस्युगणभूरिरणाकुलानि राष्ट्राण्यनेकपशु-
वित्तविनाकृतानि । रोरूयमाणहतबन्धुजनैर्जनैश्च
रोगोत्तमाकुलकुलानि बुभुक्षया च । वातोद्धताम्बुधरव-
र्जितमन्तरिक्षम् आरुगणनैकविटपं च धरातलं, द्यौः ।
नष्टार्कचन्द्रकिरणातिरजोऽवनद्धा, तोयाशयाश्च विजलाः
सरितोऽपि तन्व्यः । जातानि कुत्रचिदतोयतया विनाशम्
ऋच्छन्ति पुष्टिमपराणि जलोक्षितानि । सस्यानि मन्द-
मभिवर्षति वृत्रशत्रौ वर्षे दिवाकरसुतस्य सदा प्रवृत्ते” ।
अणुरपटुमयूखो नीचगोऽन्यैर्जितो वा न सकलफल-
दाता पुष्टिदोऽतो ऽन्यथा यः । यदशुभमशुभेऽवदे मासजं
तस्य वृद्धिः शुभफलमपि चैवं याप्यमन्योऽन्यतायाम्” ।

ग्रहवह्नि पु० ६ त० । ग्रहयज्ञे ग्रहोद्देशेन होमाऽधिकरणे

वह्रिभेदे स च ग्रहयज्ञशब्दे २७६२ पृ० दर्शितः ।

ग्रहविप्र पु० ६ त० । ग्रहोद्देश्यकदानग्रहणेन पतिते विप्रभेदे

(दैवज्ञ) “तस्य ग्रहदानोद्देश्यता च ग्रहयामले
६ पटले उक्ता यथा
“तुलादानञ्च यो दद्याद् ग्रहविप्राय सुन्दरि । आपन्मुक्तो
भवेत् सोऽपि भुविः संमोदते सुखम् । सुवर्णस्य तुलां
दद्याद् ग्रहविप्राय यः प्रिये! । तस्य तुष्टः सुरगुरुरा-
युर्वृद्धिं करोति सः । यस्तु रौप्यतुलादानं दद्यात् ग्रह-
द्विजाय च । सन्तुष्टस्तस्य शुक्रः सन् स सृजेद्दीर्घजीवितम् ।
ग्रहद्विजाय यो दद्यात्तुलां ताम्रस्य पार्व्वति! । सन्तुष्टो
मङलस्तस्य दीर्घायुष्यं करोति हि । योदद्याद् ग्रहबिप्राय
पित्तलस्य तुलां प्रिये! । तस्य तुष्टो वुधः कुर्य्यादायुः-
पुष्टिं सुगौरवम् । ग्रहबिप्राय लौहस्य तुलां यस्तु
प्रयच्छति । प्रीतः शनैश्चरस्तस्य विपुलायुः प्रयच्छति ।
शीशकस्य तुलां दद्याद् ग्रहविप्राय यः प्रिये! । तस्या-
शु राहुः सुप्रीतः सौभाग्यायुःप्रयच्छति । यः स्वर्पर-
तुलां दंद्याद् ग्रहविप्राय सुन्दरि! सन्तुष्टो भगवान् केतु-
स्तस्यायुर्व्वर्द्धयेत् सुखम् । तुलां ताम्रस्य यो दद्याद्
ग्रहविप्राय सुन्दरि! । आदित्यस्तस्य स प्रीतो दीर्वायुः
परियच्छति । ग्रहविप्राय यो दद्याद् तुलां कांस्यस्य
सुन्दरि! । सन्तुष्टस्तस्य रात्रीशोविभूत्यायुःप्रयच्छति” ।

ग्रहशृङ्गाटक न० वृ० सं० २० अ० उक्ते ग्रहयोगभेदे यथा

“यस्यां दिशि दृश्यन्ते विशन्ति ताराग्रहा रविं सर्वे ।
भवति भयं दिशि तस्यामायुधकोपक्षुधातङ्कैः । चक्र-
धनुःशृङ्गाटकदण्डपुरप्रासवज्रसंस्थानाः । क्षुदवृष्टिकरा
लोके समराय च मानवेन्द्राणाम् । यस्मिन् खांशे दृश्या
ग्रहमाला दिनकरे दिनान्तगते । तत्रान्यो भवति नृपः
परचक्रोपद्रवश्च महान् । यस्मिन्नृक्षे कुर्युः समागमं
तज्जनान् ग्रहा हन्युः । अविभेदनाः परस्परममलम-
यूखाः शिवास्तेषाम् । ग्रहसंवर्तसमागमसम्मोहसमाज-
सन्निपाताख्याः । कोशश्चेत्येतेषामभिधास्ये लक्षणं
सफलम् । एकर्क्षे चत्वारः सह पौरैर्यायिनो ऽथ वा
पञ्च । संवर्तो नाम भवेच्छिखिराहुयुतः स सम्मोहः ।
पौरः पौरसमेतो यायी सह यायिना सभाजाख्यः ।
यमजीवसङ्गमे ऽन्यो यद्यागच्छेत्तदा कोशः । उदितः
पश्चादेकः प्राक् चान्यो यदि स सन्निपाताख्यः ।
अविकृततनवः स्निग्धा विपुलाश्च समागमे धन्याः । समौ
तु संवर्तसमागमाख्यौ सम्मोहकोशौ भयदौ प्रजानाम् ।
समाजसञ्ज्ञः सुसमः प्रदिष्टो वैरप्रकोपः खलु सन्निपाते”

ग्रहसमागम पु० ६ त० । चन्द्रेण सह भौमादिपञ्चग्रह-

योगभेदे । ग्रहयुतिशब्दे ग्रहशृङ्गाटकशब्दे च विवृतिः

ग्रहादि पु० पा० उक्ते कर्त्तरि णिनिप्रत्ययनिमित्ते धातु-

गणभेदे स च गणः णिन्यन्तया पा० ग० सू० उक्तो यथा
ग्राही उत्साही उद्दासी उद्भासी स्थायी मन्त्री संमर्द्दी
(रक्षश्रुबपशां नौ) निरक्षी निश्रावी निवापी निशायी
(याचृव्याहृव्रजवदवसां प्रतिषिद्धानाम्) अयाची अव्या-
हारी असंव्याहारी अव्राजी अवादी अवासी (अचाः
अचित्तकर्त्तृकानाम्) अकारी अहारी अविनायी
विशायी विषायी (अभिभावी भूते) अतराधी
उपरोधी परिभवी भरिभावी इति ग्रहादिराकृतिनणः”
पृष्ठ २७७०

ग्रहाधार पु० ६ त० । ध्रुवनक्षये । तस्य तथात्वञ्च

खगोलशब्दे पृ० २४१९ । २० दर्शितम् ग्रहाश्रयादयोऽप्यत्र ।

ग्रहाधिकरण न० ग्रहस्य पात्रविशेषस्यैकत्वाविवक्षा-

याज्ञापकमधिकरणम् । न्यायरूपे पञ्चाङ्गे अधिकरणभेदे
तच्च जै० ३ अ० १ पादे दर्शितं संक्षेपतस्तत उद्धृत्य तत्त्व-
बोधिन्यामुक्तं यथा
“सोमयागे श्रूयते “दशापवित्रेण ग्रहं संमार्ष्टीति”
दशापवित्रं वासःखण्डं ग्रहः सोमरसादिहविःपात्र
विशेषः तत्र एकस्यैव मार्ज्जनमुत एकत्वाविवक्षया सर्व्वे-
षामिति संशये “पशुना रुद्रं यजेत” इत्यत्रेव एकवचना-
देकत्वविवक्षया एकस्यैव मार्ज्जनं न सर्व्वेषां तथा च
सू० “एकत्वं युक्तमेकस्य श्रुतिसंयोगादिति, प्राप्ते ब्रूमः ।
ग्रहाणां यागोपकरणतया प्राप्तानामनेन मार्जन
संस्कारोविधीयते तत्र ग्रहमिति द्वितीयया एकस्योद्दे-
श्यत्वं फलवत्त्वञ्च बोध्यते प्रधानं ग्रहं प्रति मार्ज्जनं
गुणः “प्रतिप्रधानं गुण आवर्त्तनीयः” इति न्यायेन
सर्व्वेषां मार्जनं प्राप्तम् उद्देश्यगतमेकत्वमविवक्षितं न च
ग्रहत्वजातिर्मार्ज्जनेन सस्कार्य्या इति तदाश्रयैक-
मार्जनेन सर्वे संस्कृता भवन्ति, जातेः सर्बवृत्तित्वा-
दित्येकत्वविवक्षायामपि सर्वमार्ज्जनसिद्धिरिति बाच्यं
जातेरभूर्त्तत्वात् अपूर्वासाधनत्वाच्च तल्लक्षितानां द्रव्या-
णामपूर्व्वसाधनतया संमार्गात् तदुक्तम् “उद्देश्य
लक्षणं जातिर्यद्द्रव्यं लक्ष्यते तया । तस्याङ्गमेष सम्मार्गः
सर्वस्येति विनिश्चयः” । नचैकत्वं नोद्देश्यगतम् अपि तु
एकत्वं सर्मार्ज्जनञ्चोभयं विधेयमिति वाच्यं “ग्रहं
संमृज्य त् सचैकः कार्य्य इति वाक्यभेदापत्तेः एकत्वस्य
सर्वग्रहेषु सिद्धत्वेन विधानासम्मवात् स्वसमानाधि-
करणकर्म्मतानिरूपकमार्ज्जनसजातीयकर्मतासमानाधि-
करणान्योन्याभावप्रतियोगितानवच्छेदकैकत्वरूपविशिष्ट-
मेकत्वं विधेयं तथा सति सर्वर्मार्जनासिद्धिः
अतएव एकत्वविशिष्टग्रहस्य मार्जनं विधीयते एकत्वं
ग्रहत्वञ्च सर्वेषु वर्त्तत इति एकत्वविवक्षायामपि सर्व-
मार्जनसिद्धिरित्यपि परास्तं तादृशैकत्वस्याव्यावर्त्तकत्वात्
विशिष्टैकत्वविवक्षायाञ्च उक्तदोषादिति साम्प्रदा-
यिकाः । अत्नेदमवधेयम् एकत्वविवक्षायामपि सर्व-
मार्जलसिद्धिः तथाहि एकत्वविवक्षायां प्रत्येकमेव
मार्जनं न तु मिलितानामेकं मार्जनं तथात्वे साहित्ये
बहुपचनं निर्द्दिस्येत । तस्मादेकवचननिर्द्देशात्
प्रतिप्रधानं गुणावृत्तिन्यायात् प्रत्येकं सर्वेषां मार्जनमिति ।
इत्थञ्च स्वसमानाघिकरणकर्मतानिरूपकमार्जननिरूपि-
तकर्मतासमानाधिकरणान्योन्याभावप्रतियोगितानवच्छे-
दकैकत्वरूपविशिष्टैकत्वमेव विवक्षितं स्यात् ।
अविवक्षितत्वसिद्धान्तस्तु एकस्यैव मार्जनं न सर्वेषामिति
प्रापकस्य स्वसमानाधिकरणेत्यादिपूर्व्वपक्षोक्तस्य
सामान्यती मार्जनघटितैकत्वस्य विवक्षामादाय । न चैवं
ग्रहं संमार्ष्टीति वाक्यात् कथं सर्वेषां मार्जनबोधः ग्रह-
त्वेनोपस्थितस्यैव ग्रहस्य मार्जनबोधनादिति वाच्यम्
उद्देश्यविधेयभेदेन भिन्नानामेव वाक्यानां तन्त्रेणो-
च्चारणात् प्रतिप्रधानं गुणावृत्तिन्यायात् सर्वमार्जन-
सिद्धौ वाक्यभेदकल्पनागौरवस्याप्रामाणिकत्वात् अतएव
भावार्थदीपिकायां रुक्मिणीस्वयंवरीयषड़्बधारणव्या-
ख्याने “न चैवं वाक्यभेदः अनूद्यविधेयभेदेन विभिन्ना-
नामेव वाक्यानां सहप्रयोगात् ग्रहं समार्ष्टीतिवदिति”
दृष्टान्तीकृतं श्रीधरस्वामिचरणैः” ।

ग्रहाधीश पु० ६ त० । सूर्य्ये ग्रहाध्यक्षादयोऽप्यत्र ।

ग्रहामय पु० ग्रहकृत आमयः । ग्रहावेशे स्कन्दग्रहाद्या

वेशे राजनि० ।

ग्रहावमर्द्दन पु० ग्रहौ चन्द्रसूर्य्यौ अवमृद्नाति अव +

मृदल्यु । १ राहौ । चन्द्रसूर्य्यावमर्द्दनमिति तद्व्यानलिङ्गा-
त्तस्य तथात्वम् । भावे ल्युट् ६ त० । २ ग्रहचोः परस्पर
युद्धे च । “ग्रहावमर्द्दने चैव पुष्यस्नानं समाचरेत्”
वृ० सं० ४८ अ० ।

ग्रहाशिन् पु० ग्रहं स्कन्दग्रहदोषमश्नाति नाशयति अव +

अश--णिनि । ग्रहनाशकवृक्षे शब्दर० ।

ग्रहाह्वय पु० ग्रहं ग्रहदोषमाह्वयति नाशाय आकारयति

आ + ह्वे--श । भूताङ्कुश वृक्षे राजनि० । तस्य ग्रह-
दोषनाशनेऽङ्कुशतुल्यत्वात्तथात्वम् ।

ग्रहिल त्रि० ग्रहोऽस्त्यस्य काशा० इलच् । निर्वन्धयुक्ते ।

निर्वन्धश्च कोपादनुरागातिशयाच्च भवति तत्र “कोपमूल
निर्बन्धयुक्ते । “न निशाऽखिलयाऽपि वापिका प्रससाद
ग्रहिलेव मानिनी” नैष० । अनुरागाधीननिर्बन्धयुक्ते
“प्रसाधनग्रहिलैरस्माभिः रसादीनां व्यङ्ग्यत्वमुक्तम्” सा० द० ।

ग्रहीतृ त्रि० ग्रह--तृच् इटोदीर्षः । १ ग्रहणकर्त्तरि २

ऋणग्राहिणि च । “विषयाणां ग्रहीतॄणि शनैः पञ्चेन्द्रि-
याणि च” मनुः । “ग्रहीता याद नष्टः स्वात् कुटु-
म्बार्थ कृतोव्ययः” मनुः ।
पृष्ठ २७७१

ग्रह्य पु० ग्रहः हविःपात्रभेदएव स्वार्थे यत् । हविःपात्र

रूपे यज्ञिये पात्रभेदे । “आस्माकोऽसि शुक्रस्ते ग्रह्यो
विचितस्त्वा” यजु० ४ । २४ । “ग्रहएव ग्रह्यः शुक्रपदमैन्द्र
वायवादिग्रहाणामुपलक्षणम्” वेददी० ।

ग्राभ पु० ग्रह--ण वेदे हस्य मः । ग्राहके । “आ तू न

इन्द्र! क्षुमन्तं चित्रं ग्राभं संगृभाय” ऋ० ८ । ८१ । १ ।
“ग्राभं ग्राहकम” भा० ।

ग्राम पु० ग्रस--मन् आदन्तादेशः । “विप्राश्च विप्रभृत्याश्च यत्र

चेव वसन्ति हि । स तु ग्राम इति प्रोक्तः शूद्राणां वास
एव वा इति” “तथा शूद्रजनप्रायाः सुसमृद्धकृषी-
वलाः । क्षेत्रोपयोगभूमध्ये वसतिर्ग्रामसंज्ञिका”
इतिचोक्तलजणे विप्रादीनां १ बासस्थाने, “धनुः शत
परिणाहोग्रामात् क्षेत्रान्तरं भवेत्” याज्ञ० । “ग्रामेष्वा-
त्मविसृष्टेषु” रघुः । “त्यजेदेकं कुलस्यार्थे ग्रामस्यार्थे
कुलं त्यजेत् । ग्रामं जनपदस्यार्थे आत्मार्थे पृथिवीं
त्यजेत्” हितोप० “यथा कुटुम्बिनः सर्व्वेप्येकीभूता
भवन्ति हि । तथा स्वराणां सन्दोहो ग्राम इत्यभिधी-
यते” इत्युक्ते २ स्वरसंघभेदे, “षड्जग्रामो भवेदादौ
मव्यमग्रामएव च । गान्धारग्राम इत्येतत् ग्रामत्रय-
मुदाहृतम्” “नन्द्यावर्त्तोऽथ जीमूतः सुभदो ग्रामका-
स्त्रयः । षडजमध्यमगान्धरास्त्रयाणां जन्महेतवः”
मल्लिनाथधृतवाक्यम् तेषाञ्च सप्तस्वरविशेषयोगात् एकविं-
शतिमूर्च्छनाहेतुत्वं यथोक्तं तत्रैव “क्रमात् खराणां
सप्तानामारोहश्चावरोहणम् । सा मूर्च्छनोच्यते ग्रामस्था
एताः सप्त सप्त च” । “ग्रामत्रयेऽपि प्रत्येकं सप्त सप्त
मूर्च्छनाइत्येकविंशतिमूर्च्छना भवन्तीति” मल्लि० । अधिकं
संगीतदामोदरे दृश्यम् । “स्फुटीभवद्ग्रामविशेषमूर्च्छनाम्”
माघः । किञ्चिच्छब्दपूर्वकसः ३ तदर्थसंघाते च यथा शब्दग्रामः
अर्थग्राम इत्यादि । “शब्दाकरकरग्रामः” कविकल्पद्रुमः ।
४ जनपदे च “यस्याश्वासः प्रदिशि यस्य गावो यस्य
ग्रामा यस्य विश्वे रथासः” ऋ० १ । १२ । ७ । “ग्रसन्तेऽत्र
ग्रामाजनपदाः” भा० । स्वार्थे क तेष्बर्थे “दीयन्तां
ग्रामकाः कचित्” भा० उद्यो० १४६६ श्लो० । स्वल्पार्थे
टी ततः स्वार्थे क ग्रामटिका स्वल्पग्रामे स्त्री “स्वर्ग
ग्रामटिकाविलुण्ठनवृथोच्छूनैः किमेभिर्भुजैः” सा० द० ।
५ गामवासि कषकादिजने ६ ग्रामसहशे संहते ग्रामस्ये-
दमण् । ७ तत्सम्बन्धिनि ८ ग्राम्यधर्म्म च ।

ग्रामकाम त्रि० ग्राम स्वकायत्वेन कामयते कम--णिङ्

अण् उप० स० । आत्मसम्बन्धितया ग्रामस्य कामुके ।
“यवाग्वा ग्रामकामः” कात्या० श्रौ०४ । १५ । २२ । “उपहव्यो
ग्रामकामस्य” २२ । ८ । ७ । “दीर्घव्याधिग्रामकामप्रजाकाम-
पशुकामानां वा” २२ । ९ । १७ ।

ग्रामकुक्कुट पुंस्त्री ७ त० । ग्राम्ये कुक्कुटभेदे “कलविङ्गं

प्लवं हंसं चक्राङ्गं ग्रामकुक्कुटम्” “छत्राकं विड़्वराहं
च लसुनं ग्रामकुक्कुटम् । पलाण्डुं गृञ्जनं चैव मत्या-
जग्ध्वा पतेत् द्विजः” इति मनुना तन्मांसभक्षणं निषि-
द्धम् स्त्रियां जातित्वात् ङीष् ।

ग्रामकुमार त्रि० ग्रामेषु मध्ये कुमारः सुन्दरः । ग्राम-

सुन्दरे । तस्य भावः मनोज्ञा० वुञ् । ग्रामकुमारक
तद्भावे न० ।

ग्रामकुलाल पु० ग्रामे कुलालः । ग्राम्ये कुलाले कुम्भकारे

“ग्रामः शिल्यिनि” पा० अस्य वा प्रकृतिस्वरता ग्राम
शब्दश्च आद्युदात्तः । एवं ग्रामनापितादिषु वा आद्यु-
दात्तता । ततः मनोज्ञा० भावे वुञ् । ग्रामकुलालक
तद्भावे न०

ग्रामकूट पुंस्त्री ग्रामस्य कूट इष वञ्चनाप्रधानत्वात् ।

शूद्रे हारा० स्त्रियां जातित्वात् ङीष् ।

ग्रामक्रोड पुंस्त्री ग्रामे क्रोड़ः । ग्राम्यशूकरे स्त्रियां जाति-

त्वात् ङीष् । “स दोग्ध्रीं धेनुमुत्सृज्य ग्रामक्रोड़ीं दुधु-
क्षति” काशीख० ३६ अ० । ग्रामशूकरादयोऽप्यत्र पुंस्त्री० ।

ग्रामगृह्य त्रि० ग्रह--बाह्यार्थे क्यप् ५ त० । १ ग्रामबाह्ये

स्त्रियां टाप् सा च २ ग्रामवाह्यसेनायाम् ।

ग्रामगेय न० ग्रामे गेयम् । सामभेदे तस्य ग्रामे गेयत्वात् तथात्वम् ।

ग्रामगोदुह् पु० ७ त० । ग्राम्ये गोपे “ग्रामः शिल्पिनि”

पा० वा अस्य प्रकृतिखरत्वे प्राप्ते युक्त्यारोह्या०
आद्युदात्तता ।

ग्रामघात पु० ६ त० । ग्रामस्य द्रव्यहरणेन हननप्राये व्या-

पारे । “ग्रामघाते हिताभङ्गे पथि मोषाभिदर्शने ।
शक्तितोनाभिधावन्तो निर्वास्याः सपरिच्छदाः” मनुः ।
“ग्रामघाते ग्रामलुण्ठने” कुल्लू० । २ ग्रामवृत्तिजनहनने
च । “मृगोऽसकृद्ग्रामघातमाचष्टे” वृ० सं० ३० अ० ।
“एकस्थाने रुवन्दीप्तः सप्ताहाद् ग्रामघातकृत” ८६ अ० ।

ग्रामघातिन् पुंस्त्री ग्रामार्थं तत्रस्थलोकभक्षणार्थं हन्ति

पशून् हन--णिनि । ग्रामस्थबहुलोकपोपणार्थं
पशुघातके । “ग्रामघाती च कौन्तेय! मांसस्य परिविक्र-
यी” भा० शा० ३४ अ० प्रायश्चित्तीयोपाख्याने ।
पृष्ठ २७७२

ग्रामघोषिन् पु० ग्रामे कृषके घोषोऽस्त्यस्य इनि । संक्रन्दने

इन्द्रे । “संक्रन्दनः प्रवदोधृष्णुषेणः प्रवेदकृद्बहुधा
ग्रामघोषी” अथ० ५ । २० । ९ । वृष्ट्यर्थं वृषकेण शब्दमान-
त्वात्तस्य तथात्वम् ।

ग्रामचर्य्या स्त्री ६ त० । ग्राम्यधर्म्मे स्त्रीसम्भोगे “सर्व्वशो

वर्जयेद्ग्रामचर्य्याम्” आश्व० श्रौ० १२ । ८ । ३ । सत्रिधर्म्मोक्तौ
“ग्रामचर्य्या स्त्रीसम्भोगः” नारा० वृ० ।

ग्रामज त्रि० ग्रामे जायते जन--ड । ग्राम्ये धान्यादौ ।

ग्रामजनिष्पावी स्त्री कर्म्म० । नखनिष्पाव्यां धान्यभेदे राजनि० ।

ग्रामजात त्रि० ग्रामे जायते जन--कर्त्तरि क्त । ग्राम्ये

धान्यादौ “न ग्रामजातान्यार्त्तोऽपि मूलानि च फलानि
च” मनुः वानप्रस्थधर्म्मोक्तौ । “ग्रामजातानि अफाल
कृष्टभूभागे जातान्यपि फलादीनि न भक्षयेत्” कुल्लू० ।

ग्रामजाल न० । ग्रामसमूहे चक्रशब्दार्थे त्रिका० ।

ग्रामजित् त्रि० ग्रामं संहतं जयति विश्लेषणेन,

जिक्विप् । संघात्मकस्य बस्तुनः विश्लेषयितरि । “निथु-
त्वन्तो ग्रामजितो यथा नरः” ऋ० ५ । ५४ । ८ ।

ग्रामणी त्रि० ग्रामं समूहं नयति प्रेरयति स्वस्वकार्य्योषु

नी--क्विप् णत्वम् । १ प्रधाने २ ग्रामाध्यक्षे ३ नापिते पु०
मेदि० । “ग्रामणीभ्योऽन्नं सुरां सुरापेभ्यः” कौषीत०
व्रा० । ग्रामं ग्रामधर्म्मं नयति । ४ भोगिके हेम०
ग्रामेण मैथुनव्यापारेण नयति कालम् । बहुजनभो-
ग्यायां स्त्रियां ५ वेश्यायां ६ नीलिकायां च स्त्री हेमच० ।
७ विष्णौ पु० “अग्रणीर्ग्रामणीः श्रीमान्” विष्णुस० ।
“भूतग्रामस्य नेतृत्वात् ग्रामणीः भा० । ग्रामण्यः
इदम् तक्षशि० अण् । ग्रामण तत्सम्बन्धिनि त्रि० ।
ग्रामणीरिवाचरति क्यच् ग्रामणीयते । ततः कर्त्तरि
अच् ग्रामणीय तत्तुल्ये त्रि० “सिन्धुकूलाश्रिताये च
ग्रामणीयमहाबलाः” भा० स० ३१ अ० ।

ग्रामणीथ्य न० ग्रामण्यः भावः त्व वेदे पृषो० । आधिपत्ये ।

“एषोऽलं श्रियै धारणाय राज्यस्य वा ग्रामणीथ्याय”
शत० व्रा० ८ । ६ । २ । १ ।

ग्रामतक्ष पु० ६ त० टच् समा० । वहूनां साधारणे काष्ठ तक्षितरि ।

ग्रामता स्त्री ग्रामाणां समूहः तल् । ग्रामसमूहें “तस्मा-

द्धेदं प्राच्यो ग्रामता वहुविष्ठालाः” ऐत० ३ । ४४ ।

ग्रामधर्म्म पु० ग्रामे भवः अण् ग्रामो धर्म्मः । ग्राम्यधर्म्मे

मैथुने शब्दार्थचि० तस्य स्त्रीपुंधर्म्मत्वात्तथात्वम् ।

ग्रामपाल पु० ग्रामं पालयति पालि--अण् उप० स० । ग्राम

रक्षके १ सैन्यभेदे २ ग्रामाध्यक्षे च ।

ग्रामपुत्र पु० ग्रामस्य ग्रामस्थबहुजनस्य पुत्र इव पाल्य-

त्वात् । बहूनां पाल्यतया पुत्रतुल्ये । ततोमनोज्ञा०
भावे वुञ् । ग्रामपुत्रक तद्भावे न० ।

ग्रामप्रेष्य पु० ६ त० । बहूनां प्रेष्ये । ततः मनोज्ञा० भावे

वुञ् । ग्रामप्रेष्यक तद्भावे न० ग्रामप्रेष्यस्य श्राद्धेऽपात्र
तोक्ता यथा “वृषलीपतिः पिशुनोनर्त्तनश्च ग्रामप्रेष्यो
यश्च भवेत् विकर्म्मा” भा० शा० ६५ अ० । “प्रेष्यो ग्रामस्य
राज्ञश्च कुनखी श्यावदन्तकः” मनुः ।

ग्रामभृत पु० ग्रामेण तत्रस्थसमूहे न भृतः प्रेष्यः । बहुजनभर-

णीये । स च अव्राह्मणः यथाह शाता० “अब्राह्मणास्तु
षट् प्रोक्ता ऋषिणा तत्त्ववादिना । आद्यो राजभृतस्तेषां
द्वितीयः क्रयविक्रयी । तृतीयो बहुयाज्यः स्यात्
चतुर्थो ग्रामयाजकः । पञ्चमस्तु भृतस्तेषां ग्रामस्य
नगरस्य च । अनागतां तु यः पूर्वां सादित्यां चैव पश्चि-
माम् । नोपासीत द्विजः सन्ध्यां स षष्ठोऽब्राह्मणः स्मृतः” ।

ग्राममद्गुरिका स्त्री ग्रामस्य प्रिया मद्गुरिका । ग्रामस्य

मद्गुरिकेव वा (सिङी) १ मत्स्यभेदे २ ग्रामयुद्धे च मेदि० ।

ग्राममुख पु० ग्रामो ग्रामस्थजनो मुखमिवास्य । हट्टे

त्रिका० तस्य ग्रामजननिष्पाद्यत्वात्तन्मुखत्वम् ।

ग्राममृग पु० ६ त० । कुक्कुरे हारा० । कुक्कुरस्य ग्रामे

मृगतुल्यत्वात्तथात्वम् स्त्रियां जातित्वात् ङीष् ।

ग्रामयाजक पु० ६ त० । ग्रामस्य नानावर्णानां याजके

अपकृष्टविप्रे । ग्रामभृतशब्दे दृश्यम् । “गुरौ चानृतके
पापे कृतघ्ने ग्रामयाजके” भा० व० १९९ अ० ।
अपात्रोक्तौ ।

ग्रामयाजिन् पु० ग्रामान् ग्रामस्थनानावर्ण्णान् याजयति

यज--णिच्--णिनि । ग्रामयाजके । “नाश्रोत्रियतते
यज्ञे ग्रामयाजिहुते तथा” मनुः अभोज्यान्नोक्तौ ।

ग्राम(मे)वास पु० ७ त० वा अलुक्स० । ग्रामे स्यितौ

ग्राम(मे)वासिन् त्रि० ग्रामे वसति वस--णिनि वा

अलुक्स० । ग्रामे स्थायिनि स्त्रियां ङीप् ।

ग्रामषण्ड पु० ग्रामे ग्रामधर्मे षण्डः । ग्रास्यधर्मरहिते

क्लीबे । ततः मनोज्ञा० भावे वुञ् । ग्रामषण्डक तद्भावे न०

ग्रामस्थ त्रि० ग्रामे तिष्ठति स्था--क । ग्रामवासिनि

ग्रामहासक पु० ग्रामं हासयति हस--णिच्--ण्वुल् ।

भगिनीपतौ शब्दच०

ग्रामाधान न० ग्रामस्य ग्रामपोषणार्थमाधीयते आ + धा

ल्युट् । मृगयायाम् हलायुधः ।
पृष्ठ २७७३

ग्रामान्त न० ६ त० । ग्रामसमीपे उपशल्ये “नाधीयीत-

श्मशनान्ते ग्रामान्ते गोव्रजेऽपि वा” “कृतवापनो निवसेत्
ग्रामान्ते गोव्रजेऽपि वा” मनुः । ग्रामान्ते भवः वृद्धः
त्वाच्छः । ग्रामान्तीय ग्रामसमीपभवे त्रि० “पथि क्षेत्रे
परिवृते ग्रामान्तीयेऽथ वा पुनः” मनुः ।

ग्रामिक पु० ग्रामे तद्रक्षणे नियुक्तः ठञ् । ग्रामरक्षणाय

नियुक्ते ग्रामाध्यक्षे “ग्रामे दोषान् समुत्पन्नान् ग्रा-
मिकः शनकैः स्वयम् । शंसेत् ग्रामदशेशाथ दशेशो
विंशतीशिने” मनुः । “यानि राजप्रदेयानि प्रत्यहं
ग्रामवासिभिः । अन्नपानेन्धनादीनि ग्रामिकस्तान्यवाप्नु-
यात्” मनुना तद्वृत्तिरुक्ता । “ग्रामेयान् गुणदोषांश्च
ग्रामिकः प्रतिभावयेत्” “यानि ग्रान्याणि भोज्यानि
ग्रामिकस्तान्युपाश्नीयात्” भा० शा० ८७ अ० । तस्य भावः
पुरोहि० यक् । ग्रामिक्य तद्भावे न० ।

ग्रामिन् त्रि० ग्रामः स्वामित्वेन आधारत्वेन वाऽस्त्यस्य

इनि । १ ग्रामस्वामिनि २ ग्रामवासिनि च । ३ ग्राम्यधर्म
युक्ते मैथुनयुक्ते च । आसुरी मेट्रमर्वाग्द्वार्व्यवाये ग्रा-
मिणां रतिः” भाग० ४ । २९ । १४ । स्त्रियां ङीप् । सा च
४ नीलीवृक्षे स्त्री जटा० ।

ग्रामीण पुंस्त्री ग्रामे भवः खञ् । १ कुक्कुरे, २ काके, मेदि०

३ ग्राम्यशूकरे च राजनि० । ४ ग्रामोद्भवे त्रि० । “ग्रामी-
णस्य प्रथमतः पश्यतोगबयादिकम्” भाषा० । ग्रामीण-
वध्वस्तमलक्षिता जनः” माघः । ५ गीलिकोषधौ, मेदि०
६ पालङ्क्यशाके च स्त्री राजनि० ।

ग्रामेय त्रि० ग्रामे भवः वा० ढक् । १ ग्रामभये “ग्रामेयान्

गुणदोषांश्च” मनुः । २ वेश्यायां स्त्री

ग्रामेयक त्रि० ग्रामे भवः कत्त्र्या० ढकञ् । ग्रामभषे ।

“ग्रामेयककुलानाञ्च समक्षं सीम्नि साक्षिणः” मनुः ।
अत्र गामयिकेति पाठः लिपिकरप्रमादात् ।

ग्रामेश पु० ६ त० । ग्रामपतौ ग्रामाध्यक्षे ग्रामेश्वरादयोऽप्यत्र ।

ग्राम्य त्रि० ग्राम--भवार्थे--वा यत् । १ ग्रामभवे कृषकादौ

“अल्पव्ययेन सुन्दरि! ग्राम्यजनो मिष्टमश्नाति” वृ० र० ।
२ मूढ़े ३ प्राकृते । ४ मैथुने च “व्यवायो ग्राम्यधर्मश्च”
अमरः । प्राकृते “ग्राम्यानपश्यत् कपिशं पिपासतः” माघः ।
मूढे “ग्राम्यभावमपहातुमिच्छवः” माघः । ५ स्वीकारे
६ रतवन्धे ७ भण्डादिवचने अश्लीले हालिकादिप्रसिद्ध-
वाक्ये च न० शब्दार्थचि० । ८ काव्यदोषभेदे पु० । स
च शब्दगतोऽर्थगतश्च तत्र शब्दगतः सा० द० ।
शब्ददोषविभागे “दुःश्रव्यत्रिविधाश्लीलानुचितार्थाप्रयु-
क्तताः । ग्राम्योऽप्रतीतसन्दिग्धनेयार्थनिहतार्थताः”
इत्यादिना शब्ददोषान् विभज्य “कटिस्ते हरते
मनः” इत्युदाहृतम् “अपुष्टदुष्क्रमग्राम्यव्याहताश्ली-
लकष्टताः” इत्यादिनाऽर्थदोषान् विभज्य च “स्वपिहि
त्वं समीपे मे स्वपिम्येवाधुना प्रिय!” इत्य-
र्थस्य ग्राम्यत्वमुदाहृतम् । “ग्राम्या मिथुनतुलास्त्री
चापालिघटा निशासु मेषवृषौ च” ज्यो० उक्तेषु ९
सदामिथुनादिराशिषु १० रात्रौ मेषवृषराश्योश्च पु० ।
११ पशुभेदे पुंस्त्री० । यथाह पैठीनसिः “ग्राम्यारण्याश्च-
तुर्द्दश गौरविरजोऽश्वोऽश्वतरो गर्द्दभो मनुष्यश्चेति सप्त
ग्राम्याः पशवः, महिषवानरऋक्षसरीसृपरुरुपृषतमृगाश्चेति
सप्तारण्याः” । “अश्वाश्वतरगोस्वरोष्ट्रवस्तोरम्रमेदःपुच्छक
प्रभृतयो ग्राम्याः इति सुश्रुतोक्ते १२ पशुभेदे पुंस्त्री०
“ग्राम्या वातहराः सर्वे वृंहणाः कफपित्तलाः । मधुरा
रसपाकाभ्यां दीपना बलवर्द्दनाः” सुश्रु० । १३
ओषधिभेदे स्त्री । “तिलमाषव्रीहियवाः प्रियङ्गवो गोधू-
माश्चेति सप्त ग्राम्या ओषधयः” तैत्ति० । ओषधि शब्दे
१५६४ पृ० दृश्यम् ।

ग्राम्यकन्द पु० कर्म्म० । कन्दभेदे (ग्रामेर ओल) रत्नमा०

ग्राम्यकर्कटी स्त्री कर्म० । कुष्माण्डे त्रिका० ।

ग्राम्यकर्म्मन् न० ग्राम्यस्य प्राकृतस्य हालिकादेः कर्म ।

मैथुने व्यवाये । “ग्राम्यकर्म्मणैव विस्मृतकालाबधिः”
भाग० ५ । १४ । ३ ।

ग्राम्यकुङ्कुम न० कर्म० । कुसुम्भे त्रिका० ।

ग्राम्यधर्म्म पु० ग्राम्यस्य प्राकृतस्य हालिकादेः धर्मः । व्यवाये

मैथुने अमरः । “प्रमत्तोग्राम्यधर्मेषु” भा० व० ४८ अ० ।
“प्रमत्तं ग्राम्यधर्मेषु” २८० अ० । स अस्त्यस्य इनि
ग्राम्यधर्म्मिन् मैथुनरते त्रि० । “शूद्रादायोगवश्चापि
वैश्यायां ग्राम्यधर्मिणः” भा० आनु० ४८ अ० ।

ग्राम्यपशु पु० कर्म्म० । पशुभेदेषु ते च पशवः ग्राम्यशब्दे दर्शिताः ।

ग्राम्यमद्गुरिका स्त्री कर्म० । शृङ्गीमत्स्ये हारा० ।

ग्राम्यमृग पुंस्त्री कुक्कुरे जटा० स्त्रियां ङीष् ।

ग्राम्यवल्लभा स्त्री ६ त० । १ पालङ्ग्यशाके (पालङ्ग) राजनि०

हालिकादिग्राम्यप्रियत्वात्तस्य तथात्वम् । २ वेश्यायाञ्च

ग्राम्यवादिन् त्रि० ग्राम्यं वदति णिनि । ग्राम्यशब्द वादके

हालिकादौ । “यः परस्तात् ग्राम्यबादी तस्य गृहाद्
व्रीहीनाहरेत्” तैत्ति० २ । ३ । १ । ३ ।
पृष्ठ २७७४

ग्राम्यशूकर पुंस्त्री कर्म्म० । विड्वराहे स्त्रियां ङीष् ।

ग्राम्या स्त्री ग्रामे भवा यत् । १ तुजस्यां शब्दार्थचि० २

नीलीवृक्षे ३ निष्पावीवृर्क्षें च राजनि० ।

ग्राम्यायणि पुंस्त्री० ग्राम्यस्यापत्यम् तिका० फिञ् । ग्राम्यस्य

प्राकृतादेरपत्ये । स्त्रियां इदन्तत्वात् वां ङीप् ।

ग्राम्याश्व पु० कर्म० । गर्दभे त्रिका० स्त्रियां जातित्वेऽपि

अजा० टाप् ।

ग्रावग्राभ पु० ग्रावाणमभिषवरणपाषाणं स्तुत्या गृह्णाति

ग्रह--अण् हस्य भः उप० स० । ग्रावस्तुति ऋत्विग्भेदे ।
“अग्निमिन्धो ग्रावग्राभ उत शस्ता सुविप्रः” ऋ० १ ।
१६२ । ५ । “ग्रावग्राभः ग्राष्णः स्तुत्या गृह्णातीति
ग्रावस्तुत्” भा० ।

ग्रावन् पु० ग्रसते ग्रस--ड ग्रः आवनति वन--संभक्तौ विच्

कर्म० । १ प्रस्तरे, २ पर्व्वते, अमरः ३ मेघे घिश्वः ।
३ दृढ़े त्रि० शब्दर० । “श्रोता ग्रावाणोविदुषो न
यज्ञम्” यजु० ६ । २६ । “मूर्द्ध्नि ग्राव्णां जर्जरा
निर्झरौवाः” माघः । “ग्रावसु संमुखेष्वधिनिदधाति
क्षत्रं वै सोमोविशोग्रावाणः” शत० व्रा० ३ । ९ । ३ । ३ ।

ग्रावरोहक पु० ग्रावणि रोहति रुह--ण्वुल् ७ त० । अश्व-

गन्धावृक्षे रत्नमा० ।

ग्रावस्तुत् पु० ग्रावाणं स्तौति स्तु--क्विप् ६ त० । होतुः सहाय

ऋत्विग्भेदे अच्छावाकशब्दे ८५ पृ० विवृतिः । तृच् ।
ग्रावस्तोताप्यत्र । तस्येदम् घ ग्रावस्तोत्रिय अण् ग्राव-
स्तोत्र तत्सम्बन्धिनि त्रि० ग्रावस्तोत्राय हितम् छ ।
ग्रावस्तोत्रीय तस्यहिते त्रि० “प्रस्तोता व्राह्मणाच्छंसि
ग्रावस्तोत्रीये” कात्या० श्रौ० २४ । ५ । ४५ ।

ग्रावहस्त पु० ग्रावा अभिषवसाधनं पाषाणोहस्तेऽस्य ।

अभिषवसाधनपाषाणयुक्तहस्ते ग्रावस्तुति ऋत्विग्भेदे ।
“ग्रावहस्तासो अध्वरे” ऋ० १ । १५ । ७ ।

ग्रावायण पु० प्रवरभेदे हेमा० व्र० ख० प्रवराध्याये दृश्यम्

ग्रास पु० ग्रस्यते ग्रस--कर्मणि घञ् । मुखपूरणयोग्यान्नादौ

तन्मानञ्च “कुक्कुटाण्डप्रमाणश्च यावान् वा प्रविशेनमुखम् ।
एतं ग्रासं विजानीयात् शुद्ध्यर्थं कायशोधनम्” पराशरः ।
“यावतो ग्रसते ग्रासान् हव्यकव्येष्वमन्त्रवित् । तावतो
ग्रसते प्रेत्य तीव्रशूलर्ष्ट्ययोगुड़ान्” “ग्रामादाहृत्य
बाश्नीयादष्टौ ग्रासान् वने वसन्” “ऐकैकं ग्रासमश्नी-
यात् त्र्यहाणि त्रीणि पूर्व्ववत्” इति च मनुः । “सायं
द्वाविंशतिर्ग्रासाःप्रातः षड्विंशतिः स्मृताः । अया-
चिते चतुविशः परञ्चानशनं स्मृतम” पराशरः ।
प्रायश्चित्ते ग्रासभोजनस्य परिसङ्ख्यारूपत्वमुक्त प्रा० त०
“भोजनस्य रागप्राप्तत्वात् नापाप्तपापको विधिः ।
सचाहरहः सन्ध्यामुपासीत पव्येवं रूपः । नापि
तद्भक्षणस्यानावश्यकत्वेन स्वायोगव्यवच्छेदमात्रफलको
नियमविधिः । स च तत्ततिथौ तत्तदगासान् भुञ्जीतै-
वेत्येवं रूपः । तथा च “स्वरुच्या क्रियमाणे च यत्रावश्यं
क्रिया क्वचित् । नोद्यते नियमः सोऽत्र ऋतावभिगमो
यथा” । तथात्वे च पितृमरणादावपि भोजनं प्रसज्येत
हविष्यान्नभोजनव्रतादावपि उपवासाभाव एव सम्प-
द्येत तद्भक्षणसमकालमेवान्यभक्षणेऽपि न दोषःस्यात् ।
तस्मादगत्या “श्रुतार्थस्य परित्यागादश्रुतार्थय्यकल्पनात् ।
प्राप्तस्य बाधादित्येवं परिसंख्या त्रिदोषिका” । इत्युक्त
स्वार्थहान्यर्यान्तरकल्पनरागप्राप्तबाधरूपदोषत्रयदूष्टापि
अन्ययोगव्यवच्छेदफलिका परिसंख्यैव युक्ता, सा च
सतिं भोजने तत्तत्तिथौ तत्तद् ग्रासानेव भुञ्जीत नान्य-
दित्येवं रूपा तस्मात्तदतिरिक्तभोजनाभावपरत्वेन
उपवासेऽपि दोषाभावः । तदुक्तं भट्टपादैः “अन्यार्थ
श्रूयमाणा च यान्यार्थपतिषेधिका । परिसंख्यां तु सा
ज्ञेया यथा प्रोक्षितभोजनम्” । अन्यथा प्राजापत्य
व्रतेऽपि “त्र्यहमद्यादयाचितमिति” “अयाचितन्तु
मध्याह्ने चतुर्विंशन्तु शुद्धये” इति ब्रह्मपुराणोक्तस्या-
याचितस्यालाभे व्रतलोपापत्तिः स्यात्” ॥
१ ग्रहणे छाद्यच्छादकयोः २ स्पर्शे । “छादकोभास्करस्ये-
न्दुरधःस्थेवनवद् भवेत् । भूच्छायां प्राड्मुखश्चन्द्रो
विशत्यस्य भवेदसौ” इत्युपक्रम्य “यद्ग्राह्यमधिके तस्मिन् सकलं
न्यूनमन्यथा । योगार्द्धादधिके न स्याच्छिक्षपे ग्राससम्भवः
इति । “स्फुटतिथ्यवसाने तु मध्यग्रहणमादिशेत् ।
स्थित्यर्द्धनाडिकाहीने ग्रासेमोक्षस्तु संयुने” सू० सि०
“स्पष्टतिप्यन्तकाले तुकारात् तत्पूर्व्वापरकालनिरासः ।
मध्यग्रहणं ग्रासोपचयसमाप्तिं कथयेत् । मध्यग
हणसम्बन्धेन मध्यसूर्य्यचन्द्रानीतमध्यतिथ्यन्ते तत्सम्भव
इति कस्यचिद् भ्रमस्तद्वारणार्थम् स्फुटेति । स्थित्यर्द्ध
घटिकाभिरूने तिथ्यन्त ग्रासः र्म्पर्शः । सयते
स्थित्यर्धघटीभिर्युते तिथ्यन्ते काले मोक्षः । तुकारः
स्पर्शमोक्षस्थित्यधाभ्यां स्पर्शमोक्षकालाविति विषयव्यव-
स्थार्थकः । अत्रोपपत्तिः । तिथ्यन्तकाले छाद्यच्छादकयोः
पूर्ब्बापरान्तराभावाद्योगे मण्डलस्पर्शो यावान् भवति
ततः पूर्व्वाग्रिमकालयोर्न्यून एवातोऽत्र मध्यग्रहण-
कालः” रङ्गना० ।
पृष्ठ २७७५

ग्रासशल्य न० ग्रासे शल्यम् । ग्रासस्थिते मत्स्यादिकण्टक-

रूपे शल्य तदुद्धारोपायः सुश्रुते दर्शितोयथा
“ग्रासशल्ये तु कण्ठासक्ते निःशङ्कमनबरुद्धस्कन्धे मुष्टि-
नाभिहन्यात् स्नेहं मद्यं पानीयं वा पाययेत्” ।

ग्राह पु० ग्रह--जलचरे ण । (हाँगोर) ख्याते जलचरभेदे

अमरः “सन्निमज्जज्जगदिदं गम्भीरे कालमागरे ।
जरामृत्युमहाग्राहे न कश्चिदवबुध्यते” भा० शा० २८ अ० ।
“जग्राहाजगरो ग्राहोभुजयोरुभयीर्बलात्” भा० व०
१७८ अ० “कृच्छ्राद् ग्राहाद्विमुच्यते” मनुः । भावे घञ् ।
२ ज्ञाने ३ आग्रहे निर्बन्धेच । “मूढ़ग्राहेणात्मनोयत्
पीडया क्रियते तपः” गीता । “मूढ़ग्राहेण अविवेककृतेन
दुराग्राहेण” श्रीधरः । ४ आदाने हस्तव्यापारे ५ स्वीकारे
जलचरभिन्नेऽपि कर्त्तरि वेदे ण । ६ ग्रहीतरि त्रि०
“अध्वर्य्युं यजमानं वा ग्राहो विन्दति” शत० ब्रा०
३ । ५ । ३ । २५ । कस्मिंश्चित् कर्मणि उपपदे अण् । तत्तत्कर्म
ग्राहके “पार्ष्णिग्राहस्तु पृष्ठतः” अमरः । “ऋक्थ
ग्राह ऋणं दाय्यः” याज्ञ० ।

ग्राहक पु० ग्रह--ण्वुल् । १ श्येनपक्षिणि २ विषवैद्ये च ।

३ ग्रहीतरि त्रि० । ग्रह--णिच्--ण्वुल् । ४ ज्ञापके
लिङ्गेन्द्रियादौ “ग्राहकैर्गृह्यते चौरो लोप्त्रेणाथ पदेन
वा” याज्ञ० “यथास्वं ग्राहकाण्येषां शब्दादीनामि-
मानि तु । इन्द्रियाणि सदा देही धारयन्निव तप्यते”
भा० वन० २१० अ० । ५ सितावरशाके राजनि० ।

ग्राहिन् पु० ग्रह--णिनि । १ कपित्थे शब्दच० । २ मलबन्ध-

कारके, (धारक) त्रि० वैद्यकम् । “कषायानुरसं ग्राहि
स्निग्धं मेधाबलावहम्” भावप्र० दाडिमफलगुणोक्तौ ।
३ ग्राहके, “व्यालग्राही यथा व्यालान् बलादुद्धरते बिलात्”
काशीख० । “पल्लवग्राहि पाण्डित्यम्” उद्भट्टः । स्त्रियां
ङीप् । सा च ४ प्रतिकूलायाम् । “मा स्म भूर्ग्राहिणी
भीरु! “भट्टिः ग्राहिणी प्रतिकूला” जयम० । ५ क्षुद्र-
दुरालभायां स्त्री राजनि० । ६ ताम्रमूलावृक्षे (क्षीरै)
रत्नमाला तयोर्मलबन्धकारित्वात्तथात्वम् ।

ग्राहिफल पु० ग्राहि मलबन्धकं फलं यस्य । कपित्थवृक्षे । राजनि० ।

ग्राहुक त्रि० ग्रह--बा० उकञ् । ग्रहणशीले “उद्रावर्त्तः

प्रजा ग्राहुक्रः स्यात्” तैत्ति० ६ । ४ । १ । ११

ग्राह्य त्रि० ग्रह--ण्यत् । १ ग्रहीतुमुचिते, २ ग्रहणयोग्ये,

३ उपादेये, ४ स्वीकार्य्ये, ५ ज्ञेये च । “शस्त्रं द्विजातिभि
र्ग्राह्यं धर्म्भो यत्रोपरुध्यते” मनुः । “अस्मिंस्तु किल
संमर्दे ग्राह्यम् विविधमायुधम्” भा० द्रो० ११२ अ० ।
“अयाचिताहृतं ग्राह्यमपि दुष्कृतकर्म्मणः” स्मृतिः
“विषादप्यमृतं ग्राह्यम्” मनुः । “चक्षुर्ग्राह्यं
भवेद्रूपम्” भाषा० । ६ प्रतिबध्यज्ञाने प्रकारीभूतधर्म्मे
यथा ह्रदीवह्न्यभाववानिति ज्ञानस्य प्रतिवध्यं ह्रदो
वह्निमानितिज्ञानं तत्र प्रकारीभूतो वह्निः ।

ग्रीवा स्त्री गिरत्यनया गॄ--वनिप् नि० । कन्धरायाम्

“ग्रीवाभङ्गाभिरामं मुहुरनुपतति स्यन्दने दचदृष्टिः”
शकु० । तन्मानादिकमुक्तं सुश्रुते यथा
“चतुरङ्गुलानि मेहनवदनान्तरनासाकर्ण्णललाटग्रीवो-
च्छ्रायदृष्ट्यन्तराणि । द्वादशाङ्गुलानि भगविस्तारमेह-
ननाभिहृदयग्रीवास्तनान्तरमुखायाममणिबन्धप्रकोष्ठस्थौ-
ल्यानि । चतुर्विंशतिविस्तारपरिणाहं मुखग्रीवम्”
सुश्रु० । “ग्रीवाग्रसंसक्तयुगैस्तुरङ्गैः” माघः । “पाद-
योर्द्दाढिकायाञ्च ग्रीवायां वृषणेषु च” मनुः । “प्राग्-
ग्रीवमुत्तरलोस” आश्व० गृ० १ । १४ । ३ । “इदमहं रक्षसां
ग्रीवा अपि कृन्तामि” यजु० ५ । २२ । दशग्रीवः कम्बु-
श्रीवः इत्यादि ।

ग्रीवाक्ष पु० ऋषिभेदे तस्य गोत्रापत्यं शिवा० अण् ।

ग्रैवाक्ष तद्गोत्रापत्ये पुंस्त्री स्त्रियां ङीष् ।

ग्रीवाघण्टा स्त्री ७ त० । ग्रीवास्थितघण्टायां त्रिका० ।

ग्रीवाबिल न० ६ त० । ग्रीवान्तर्गते गर्त्तभेदे त्रिका० ।

ग्रीविन् पुंस्त्री० दीर्घा ग्रीवाऽस्त्यस्य बा० इनि टिलोपः ।

१ उष्ट्रे जटाधरः स्त्रियां ङीष् । २ दीर्घग्रीवायुक्ते त्रि० ।

ग्रीष्म पु० ग्रसते रसान् ग्रस--मनिन् । ज्यैष्ठाषाढ़मास-

द्वयात्मके १ ऋतुभेदे । “ग्रीष्मे तीव्रकरोभानुर्न हेमन्ते
तथाविधः” सूर्य्यसि० । “विहर्त्तुमिच्छोर्वनितासखस्य
तस्याम्भसि ग्रीष्मसुखे बभूव” रघुः । “अनेन विधिना
श्राद्धं त्रिरव्दस्येह निर्वपेत् । हेमन्तग्रीष्मवर्षासु-
पाञ्चयज्ञिकमन्वहम्” “ग्रीष्मे पञ्चतपास्तु स्यात् वर्षास्व
नवकाशिकः” मनुः । स्वार्थे अण् । ग्रैष्म तत्रार्थे तस्ये-
दमण् । तत्सम्बन्धिनि त्रि० “शुक्रश्च शुलिश्चग्रैष्मावृतू”
यजु० १ । ६ । “ग्रैष्मौ ग्रैष्मसम्बन्धिनौ ऋतू ऋत्ववयवौ”
वेददी० । ऋतोश्च यथा चान्द्रमासात्मकता तथर्त्तु-
शब्दे १४३७ पृ० दर्शिता । सौरत्वं तु ज्योतिर्शण-
नामात्रोपयोगित्वेन ज्योतिषे व्यवह्रियते तदपि तत्रैव
शब्देदर्शितम् । सुश्रुतोक्तग्रीष्मगुणादिकं ऋतुशव्दे दतितम् ।
पृष्ठ २७७६
ग्रीष्मे सूर्य्यकिरणस्य तीव्रत्वे कारणम् सू० सि० उक्तं यथा
“मेषादौ देवभागस्थे देवानां याति दर्शनम् ।
असुराणां तुलादौ तु सूर्यस्तद्भागसञ्चरः” सू० ।
“जम्बुद्वीपलवणससुद्रसन्धौ परिधिवृत्तं भूगोलमध्ये तत्स-
मसूत्रेणाकाशे वृत्तं विषुवद्वृत्तं तत्र क्रान्तिवृत्तं षड्भान्तरेण
स्थानद्वये लग्नं तन्मेषतुलास्थानं प्रवहवायुना विषुवद्वृत्त-
मार्गे भ्रमति मेपस्थानात् कर्कादिस्थानं विषुवद्वृत्ताच्चतु-
र्विंशत्यंशान्तर उत्तरतः, मकरादिस्थानं विषुवद्वृत्ता-
च्चतुर्विशत्यंशान्तरे दक्षिणतः, तत् स्वस्थाने प्रवहवायुना
भ्रमति । एवं क्रान्तिवृत्तप्रदेशाः स्वस्वस्थाने प्रवहवायुना
भ्रमन्ति । तत्र मेषादौ देवभागस्थः “जम्बुद्वीपं च देवानां
देवासुरविभागकृदिति” पूर्वोक्तेः । तत्सम्बद्धा मेषादिक-
न्यान्ता राशय उत्तरगोलः । तत्रस्थः सूर्यो मेषादौ
मेषादिपदेशे देवानां मेरोरुत्तराग्रवर्तिनां दर्शनं षण्मासा-
गन्तरं प्रथमदर्शनं याति गच्छति प्राप्नोतीत्यर्थः विषुवद्बृत्तस्य
तत्क्षितिजत्वात् । एवं दैत्यानां मेरोर्दक्षिणाग्रवर्तिना-
मित्यसुराणामित्युक्तेनैवोक्तम् । तद्भागसञ्चरो दैत्यभागे
समुद्रादिदक्षिणविभागस्थस्तुलादिमीनान्ता राशयो दक्षिण-
गोलस्तत्र सञ्चरो गमनं यस्येत्येतादृशः सूर्यस्तुलादिप्रदेशे
तुकराददर्शनानन्तरं प्रथमदर्शनं प्राप्नोतीत्यर्थः तेषामपि
विषुवद्वृत्तक्षितिजत्वात् । अथ प्रसङ्गाद्ग्रीष्मे तीव्रकरः
इत्याद्यर्घोक्तप्रश्नस्योत्तरमाह” रङ्गना० ।
“अत्यासन्नतया तेन ग्रोष्मे तीव्रकरा रवेः । देवभागेऽ-
सुराणां तु हेसन्ते मन्दताऽन्यथा” सू० सि० ।
“तेन--उत्तरदक्षिणगोलयोः सूर्यस्योत्तरदक्षिणसञ्चार-
रूपकारणेनेत्यर्थः । देवभागे जम्बुद्वीपे अत्यासन्नतया
सूर्य्यस्यात्यन्तनिकष्टस्यत्वेन ग्रीष्मे ग्रीष्मर्तौ सूर्यस्य तेजो-
गोलकस्य किरणास्तीक्ष्णा अन्युष्णाः, असुराणां देवभाग
इत्यस्यासन्नतया भाग इत्यस्य समन्वयाद्दैत्यानां भागे
समुद्रादिदक्षिणपदेशे हेमन्ते हेमन्तर्तौ तुकारात् अन्यथा
सूर्यस्य दूरस्यत्वेन मन्दता किरणानामत्युष्णताभावः ।
देवभागे हेमन्तर्तौ कराणां मन्दता । अतएव तत्र
शीताधिक्यं च । तथाच देवभागे दक्षिणगोले सूर्यस्य
दूरस्थत्वमुत्तरभोले निकटस्थत्वं मध्याह्ने नतांशानां
क्रमेणाधिकाल्पत्वादिति भावः” र० ना० ।
२ तत्कालभवे ऊष्मणि पु० ३ तद्वति त्रि० मेदि०

ग्रीष्मजा स्त्री ग्रीष्मे जायते जन--ड । (लोणा आता)

१ लवल्याम् २ नवमल्ल्याञ्च शब्दच० । ३ ग्रीष्मजातमात्रे त्रि०

ग्रीष्मधान्य न० ग्रीष्मे जातं तत्कालभवं धान्यम् ।

धान्यभेदे (वोरो) “ग्रीष्मधान्यजननोऽत्र राक्षसः”
वृ० स० ८ अ० । वर्षभेदफलोक्तौ

ग्रीष्मपुष्पी स्त्री ग्रीष्मे पुष्पं यस्याः ङीप् । करुणपुष्पवृक्षे । राजनि० ।

ग्रीष्मभवा स्त्री ग्रीष्मे भवति भू--अच् । १ नवमल्लिकायाम्

रत्नमाला । २ ग्रीष्मजातमात्रे त्रि० ।

ग्रीष्मसुन्दर पु० ७ त० । (गिमः) शाकभेदे । राजनि० । स्वार्थे क तत्रार्थे ।

ग्रीष्महास न० ग्रीष्मे हासोविकाशोऽस्य । इन्द्रतूले ।

(वुडिरसुता) तस्य वियति ग्रीष्मे उड्डीयमानत्वात्
इन्द्रतूलतुल्यत्वात्तथात्वम् ।

ग्रीष्मी स्त्री ग्रीष्मः कालः कारणत्वेनास्त्यस्य अच् गौरा०

ङीष् । नवमल्लिकायां राजनि० ।

ग्रीष्मोद्भवा स्त्री ग्रीष्मे काले उद्भवति उद + भू--अच् ।

१ नवमल्लिकायां राजनि० २ ग्रीष्मजातमात्रे त्रि० ।

ग्रुच चौर्य्ये गतौ च भ्वा० पर० सक० सेट् । ग्रोचति इरित्

अग्रुचत् अग्रोचीत् । जुग्रोच । उदित् ग्रुचित्वा-
ग्रक्त्वा । क्त्वो वेट्क्त्वात् निष्ठायां नेट् ग्रुक्तः ।

ग्रैव त्रि० ग्रीवायां भवः शरीरावयवत्वात् यति प्राप्ते “ग्री-

वाभ्योऽण् च” पा० अण् । ग्रीवाभवे “नास्रसत् करिणां
ग्रैवं त्रिपदीच्छेदिनामपि” रघुः ।

ग्रैवेय त्रि० ग्रीवायां भवः “ग्रीवाभ्योऽण च” पा० चात् ढञ् ।

ग्रीवाभवे “सरलासक्तमातङ्गग्रैवेयस्फुरितत्विषाम्” रघुः ।

ग्रैवेयक न० ग्रीवायां बद्धः अलङ्कारः “कुलकुक्षिग्रीवाभ्यः

श्वास्यलङ्कारेषु” पा० ढकञ् । ग्रीवाबद्धे अलङ्कारभेदे
(कण्ठी) “अस्माकं सखि! वाससी न रुचिरे ग्रैवेयकं
नोज्ज्वलम्” सा० द० ।

ग्रैव्य त्रि० ग्रीवायां भवः वेदे ष्यञ् । ग्रीवाभवे । “सप्त-

चयाः सप्ततिः संयन्ति ग्रैव्या अभि” अथ० ६ । २५ । २ ।

ग्रैष्मी स्त्री ग्रीष्मे ऋतौ भवः पक्षे ॠत्वण् ङीप् । १ नवमल्लि-

कायाम् त्रिका० २ ग्रीष्मर्षुसम्बन्धिनि त्रि० ग्रीष्म ऊष्मा
तस्येदम् उत्सा० अण् । ३ ऊष्मसम्बन्धिनि त्रि०
उभयतः स्त्रियां ङीप् ।

ग्रैष्मक त्रि० ग्रीष्मे ऋतौ भवः “ग्रीष्मवसन्ताभ्यामन्यतर-

स्यास” पा० पक्षे बुञ् । ग्रीष्मर्त्तुभवे “ग्रैष्मकधान्यं
कुरुते समर्थमुभयोपयोग्यञ्च” वृ० स० ४ अ० “कुरुते पुष्णाति
च ग्रैष्मकम्” ९ अ० । उभयत्र ग्रैष्मिकमित्यपपाठः
भवार्थे ठञोऽविधानात् तदधीते वेदेत्यधिकारे एव
वसन्ता० ठञो विधानात् भवार्थे वुञोविधानाच्च ।
पृष्ठ २७७७

ग्रैष्मिक त्रि० ग्रीष्मधर्म्मं वेद तत्प्रतिपादकग्रन्थमधीते वा

वसन्ता० ठञ् । १ ग्रीष्मधर्म्मवेत्तरि २ तद्ग्रन्थाध्यायिनि च

ग्लपन न० ग्लै--णिच् पुक् ह्रस्वः भावे ल्युट् । १ ग्लानि

करणे “तद्वैशद्यलाघवग्लपनरूक्षणविचारणकरम्” सुश्रुतः ।
कर्त्तरि ल्यु । २ ग्लानिकारके त्रि० ।

ग्लस भक्षणे भ्वा० आत्म० सक० सेट् । ग्लसते अग्लसिष्ट ।

जग्लसे । उदित् ग्लसित्वा--ग्लस्त्वा । ग्लस्तः ।

ग्लस्त त्रि० ग्लस--क्त क्त्वोवेट्कत्वात् नेट् । भक्षिते अमरः

ग्लह आदाने वा चुरा० उभ० पक्षे भ्वा० सक० वेट् । ग्लाह

यति ते ग्लहति अजिग्लिहत् त अग्लहीत् अघ्लाक्षीत् ।
णिचोऽभावे घ्लाढा । घ्लाटः इत्यादि आदानं च द्यूत-
क्रीड़ार्थं पणादानम् । “तदेषां ग्लहमानानां ध्रुवौ
जयपराजयौ” भा० क ८७ अ० । “दुर्य्योधनो ग्लहते
पाण्डवेन” भा० व० ६१ अ० “शकुने! हन्त दिव्यामो-
ग्लहमानाः परस्परम्” भा० स० ५९ अ० । सर्व्वत्र
आर्षम् आत्मनेपदम् । “इमाञ्चेत् पूर्व्वं कितवोऽग्लहीष्यत्”
भा० स० ६९ अ० ।

ग्लह पु० ग्रह--ग्लह--वा अक्षेषु ग्लहः” पा० कर्मणि नि० ।

देवनविषये पणरूपे ग्राह्ये वस्तुनि(हुड़)(वाजि)ख्याते
पदार्थे “व्यात्युक्षीमभिसरणग्लहामदीव्यन्” माघः ।
“अक्षग्लहः सोऽभिभवेत् परं नः” भा० स० ५८ अ० ।
“महाधनं ग्लहं त्वेकं शृणु मे भरतर्षभ!” ७४ अ०
सभिकस्य द्यूतविषये ग्लहविभागभेदः याज्ञ० दर्शितो
यथा “ग्लहे शतिकवृद्धेस्तु सभिकः पञ्चकम् शतम् ।
गृह्णीयात् धूर्त्तकितवादितरात् दशकं शतम्” ।

ग्लान त्रि० ग्लै--कर्त्तरि क्त । १ रोगादिना क्षीणदेहादौ

दीने अमरः । भावे क्त । २ दैन्ये न०

ग्लानि स्त्री ग्लै--भावे नि । १ दौर्बल्ये २ स्वकार्य्याक्षमतायाम्

हेम० । “स्वकर्मभ्योनिवर्त्तन्ते मनश्च ग्लानिमृच्छति”
मनुः “रत्यायासमनस्तापक्षुत्पिपासादिसम्भवा ।
ग्लानिर्निष्प्राणता कम्पकार्श्यानुत्साहतादिकृत्” सा० द०
उक्ते ३ व्यभिचारिगुणभेदे यथा
“किसलयमिव मुग्धं बन्धनाद्विप्रलूनं हृदयकुसुमशोषी
दारुणो दीर्घशोकः । ग्लपयति परिपाण्डु क्षाममस्याः
शरीरं शरदिज इव घर्मः केतकीपत्रगर्भम्” सा० द० ।

ग्लाव पु० दल्भमित्रयोरपत्ये द्व्यामुष्मायणे ऋषिभेदे ।

“अथातः शौब उद्गीथ स्तद्ध वकोदाल्भ्यो ग्लावो वा
मैत्रेयः स्वाध्यायमुद्वव्राज” छा० उप० ।

ग्लाविन् त्रि० ग्लै बा० विनि । अहृष्टे “पश्चादोषाय ग्लावि-

नम्” यजु० ३० । १७ । “ग्लाविनमहृष्टम्” वेददी० ।

ग्लास्नु त्रि० ग्लै--स्नु । ग्लानियुक्ते अमरः । “वसन्

माल्यवति ग्लास्नूरामोजिष्णुरघृष्णुवत्” भट्टिः ।

ग्लुच चौर्य्ये गतौ च भ्वा० पर० सक० सेट् । ग्लोचति

इरित् अग्लुचत्--अग्लोचीत् । जुग्लोच उदित् क्त्वा वेट् ।
ग्लुचित्वा ग्लुक्त्वा क्त्वो वेट्कत्वात् ग्लुक्तः । “बहूनाम-
ग्लुचत् प्राणानग्लोचीच्च रणे यशः” भट्टिः ।

ग्लुचुक पु० ऋषिभेदे तस्य गोत्रापत्यम् “प्राचामवृद्धात् फिन्

बहुलम्” पा० फिन् । ग्लुचुकायनि तद्गोत्रापत्ये
पुंस्त्री० स्त्रियां वा ङीप् । ग्लुचुकयनिर्भक्तिः सेव्योऽस्य
“गोत्रक्षत्रियाभ्यो बहुलम्” पा० वुञ् । ग्लौचुकायनक
तत्सेवके त्रि० ।

ग्लुन्च चौर्य्ये गतौ च भ्वा० पर० सक० सेट् । ग्लुञ्चति इरित्

अग्लुचत् अग्लुञ्चीत् जुग्लुञ्च । जुग्लुच(ञ्च) तुः ।
उदित् ग्लुञ्चित्वा ग्लुक्त्वा । क्त्वो वेट्टकात् ग्लुक्तः ।

ग्लेप दैन्ये अक० गतौ चाले च सक० भ्रा० आ० सेट् ।

ग्लेपते अग्लेपिष्ट जिग्लेपे ऋदित् अजिग्लेपत् त ।

ग्लेव सेवने भ्वा० आ० सक० सेट् । ग्लेवते अग्लेविष्ट ।

जिग्लेवे ऋदित् अजिग्लेवत् त ।

ग्लेष अन्वेषणे भ्वा० आ० सक० सेट् । ग्लेषते अग्लेमिष्ट

जिग्लेषे । ऋदित् । अजिग्लेषत् ।

ग्लै क्लमे हर्षक्षये च भ्वा० पर० अक० अनिट् । ग्लायति

आग्लासीत् । जग्लौ जग्लिथ--जग्लाथ । ग्लानिः
ग्लास्नुः । ग्लानः । ग्लेयम् । णिचि ग्लपयति ते
अजिग्लपत् त । ग्लानिशब्दे उदा० । “मनो ग्लपयते
तीव्रम् विषं गन्धेन सर्वशः” भा० आनु० ४६९४ श्ली० ।
“ग्लपयति यथा शशाङ्कम् न तथा हि कुमुद्वतीं
दिवसः” शकु० । “पतङ्गैर्ग्लपितावयम्” भट्टिः ।
“बालस्य लक्ष्मीं ग्लपयन्तमिन्दोः” कुमा० । “यत्त्वं
वैराणि कोषञ्च सहदण्डमजिग्लपः” भट्टिः ।

ग्लौ पु० “ग्लानुभ्यां डौः” उणा० ग्लै--डौ । १ चन्द्रे तस्य प्रतिमासं

कृष्णपक्षे हीयमानत्वात्तथात्वम् तन्नामनामके २ कर्पूरे च
अमरः । “लग्नेट् कविर्ग्लौश्च रिपौ मृतौ ग्लौर्लग्नेट्
सुराराश्च मदे च सर्व्वे” मूहु० चि० । ३ हृदयनाभ्याञ्च
“ग्लौभिर्गुल्मान् हिराभि स्रवन्तीः” यजु० २५ । ८ ।
“ग्लायन्ति श्राम्यन्ति ग्लावो हृदयनाड्यः” वेददी० ।
इति वाचस्पत्ये गकारादि शब्दार्थनिरूपणम् ।
"https://sa.wikisource.org/w/index.php?title=वाचस्पत्यम्/गौर&oldid=133658" इत्यस्माद् प्रतिप्राप्तम्