सामग्री पर जाएँ

शतपथब्राह्मणम्/काण्डम् १२/अध्यायः ८/ब्राह्मण ३

विकिस्रोतः तः


१२.८.३

त्वष्टा हतपुत्रोऽभिचरणीयमपेन्द्रं सोममाहरत्। तस्येन्द्रो यज्ञवेशसं कृत्वा प्रासहा सोममपिबत्। स विष्वङ् व्यार्च्छत्। तस्य मुखात् प्राणेभ्यः श्रीयशसान्यूर्ध्वान्युदक्रामन्। तानि पशून् प्राविशन्। तस्मात्पशवो यशः। यशो ह भवति। य एवं विद्वान् सौत्रामण्याऽभिषिच्यते॥१२.८.३.१॥

ततोऽस्मा एतमश्विनौ च सरस्वती च यज्ञं समभरन् सौत्रामणीं भैषज्याय। तयैनमभ्यषिंचन्। ततो वै स देवानां श्रेष्ठोऽभवत्। श्रेष्ठः स्वानां भवति। य एनयाऽभिषिच्यते॥१२.८.३.२॥

कृष्णाजिनेऽभिषिंचति। यज्ञो वै कृष्णाजिनम्। यज्ञ एवैनमेतदभिषिंचति। लोमतः। छन्दांसि वै लोमानि। छन्दस्स्वेवैनमेतदभिषिंचति॥१२.८.३.३॥

आसंद्यामभिषिंचति। आसंदीसद्वै साम्राज्यम्। साम्राज्येनैवैनं साम्राज्यं गमयति॥१२.८.३.४॥

औदुम्बरी भवति। ऊर्ग्वा उदुम्बरः। ऊर्ज्येवाध्यभिषिच्यते। जानुसंमिता भवति। जानुसंमितो वा अयं लोकः। अस्मा उ वै लोकाय क्षत्रियोऽभिषिच्यते। क्षत्त्रमु वा एष भवति। यः सौत्रामण्याऽभिषिच्यते। तस्मात् जानुसंमिता। परिमिता तिरश्ची॥१२.८.३.५॥

राष्ट्रं वा आसंदी। अपरिमितसमृद्धमु वै राष्ट्रम्। मुंजविवयना भवति। यज्ञिया हि मुंजाः। द्वा उत्तरस्यां वेद्यां पादौ भवतः। द्वौ दक्षिणस्याम्। अयं वै लोक उत्तरवेदिः। दक्षिणा पितृलोकः। तदेनमुभयोर्लोकयोरध्यभिषिंचति॥१२.८.३.६॥

एतद्ध स्म वै तद्विद्वानाह गोरीवीतिः शाक्त्यः। क्षत्त्रमिवाह किल वयममुष्मिन् लोके भवितास्म इति। शश्वद्धास्मा ऋषभो याज्ञतुरः प्रोवाच श्विक्नानां राजा॥१२.८.३.७॥

स आसंदीमास्तृणाति। क्षत्त्रस्य योनिरसि क्षत्त्रस्य नाभिरसि इति। क्षत्त्रस्य वा एषा योनिः। क्षत्त्रस्य नाभिः॥१२.८.३.८॥

अथैनां कृष्णाजिनेनास्तृणाति। मा त्वा हिंसीन्मा मा हिंसीः इति। यज्ञो वै कृष्णाजिनम्। यज्ञस्य चैवात्मनश्चाहिंसायै॥१२.८.३.९॥

अथाधिरोहति वारुण्यर्चा। वरुणो वै देवानां राजा। स्वयैवैनमेतद्देवतयाऽभिषिंचति। निषसाद धृतव्रतो वरुणः पस्त्यास्वा। साम्राज्याय सुक्रतुः इति॥१२.८.३.१०॥

अथ सुवर्णरजतौ रुक्मौ व्युपास्यति। मृत्योः पाहि विद्योत्पाहि इति। वृष्टिर्वै विराट्। तस्या एते घोरे तन्वौ। विद्युच्च – ह्रादुनिश्च। ततः सुवर्ण एव रुक्मो विद्युतो रूपम्। रजतो ह्रादुनेः। ताभ्यामेवास्मै देवताभ्यां शर्म यच्छति। तस्मात् सौत्रामण्येजानस्यैताभ्यां देवताभ्यां न शंका भवति। अथो य एवमेतद्वेद॥१२.८.३.११॥

पशूनां वसयाऽभिषिंचति। श्रीर्वै पशूनां वसा। श्रियैवैनमेतत् पशूनां रसेनाभिषिंचति। अथो परमं वा एतदन्नाद्यम्। यद्वसा। परमेणैवैनमेतदन्नाद्येनाभिषिंचति॥१२.८.३.१२॥

शफग्रहा भवंति। शफैर्वै पशवः प्रतितिष्ठंति। प्रतिष्ठामेवैनं गमयति। त्रयस्त्रिंशत् ग्रहा भवंति। त्रयस्त्रिंशद्वै सर्वा देवताः। सर्वाभिरेवैनमेतद्देवताभिरभिषिंचति। जगतीभिर्जुहोति। जागता वै पशवः। जगत्यैवास्मै पशूनवरुंधे। षोडशभिर्ऋग्भिर्जुहोति। षोडशकला वै पशवः। अनुकलमेवास्मिन् श्रियं दधाति॥१२.८.३.१३॥

सीसेन तंत्रं मनसा मनीषिणः इति द्वौ द्वौ समासं हुत्वा। सते संस्रवान् समवनयति। अहोरात्राण्येवैतदर्धमासान् मासान् ऋतून् संवत्सरे प्रतिष्ठापयति। तानीमान्यहोरात्राण्यर्द्धमासा मासा ऋतवः संवत्सरे प्रतिष्ठिताः॥१२.८.३.१४॥

वैतसः ततो भवति। अप्सुयोनिर्वै वेतसः। आपो वै सर्वा देवताः। सर्वाभिरेवैनमेतद्देवताभिरभिषिंचति॥१२.८.३.१५॥

सर्वसुरभ्युन्मर्द्दनं भवति। परमो वा एष गंधः। यत्सर्वसुरभ्युन्मर्द्दनम्। गंधेनैवैनमेतदभिषिंचति॥१२.८.३.१६॥

पुरस्तात्प्रत्यङ्ङभिषिंचति। पुरस्ताद्धि प्रत्यगन्नमद्यते शीर्षतः। शीर्षतो ह्यन्नमद्यते। आ मुखादन्ववस्रावयति। मुखेन ह्यन्नमद्यते। सर्वतः परिक्रामम्। सर्वाभ्य एवास्मिन्नेतद्दिग्भ्योऽन्नाद्यं दधाति। तस्मात्सौत्रामण्येजानस्य सर्वासु दिक्ष्वन्नाद्यमवरुद्धं भवति। अथो य एवमेतद्वेद॥१२.८.३.१७॥

आश्विनेन प्रथमेन यजुषाऽभिषिंचति। अथ सारस्वतेन। अथैन्द्रेण एताभिरेवैनमेतद्देवताभिरभिषिंचति। तं हैके – एताभिश्च देवताभिरभिषिंचन्ति। भूर्भुवः स्वरित्येताभिरु च व्याहृतिभिः। एता वै व्याहृतय इदं सर्वम्। तदेनमनेन सर्वेणाभिषिंचाम इति। न तथा कुर्यात्। एताभिरेवैनं देवताभिरभिषिंचेत्। एता उ ह्येव देवता इदं सर्वम्॥१२.८.३.१८॥

पुरस्तात् स्विष्टकृतोऽभिषिंचति। क्षत्रं वै स्विष्टकृत्। क्षत्त्रेणैवैनमेतदभिषिंचति। अंतरा वनस्पतिं च स्विष्टकृतं चाभिषिंचति। सोमो वै वनस्पतिः। अग्निः स्विष्टकृत्। अग्नीषोमाभ्यामेवैनमेतत्परिगृह्याभिषिंचति। तस्मात् ये चैतद्विदुः। ये च न। त आहुः। क्षत्रियो वाव क्षत्रियस्याभिषेक्तेति॥१२.८.३.१९॥

अथैनं जानुमात्रे धारयंति। अथ नाभिमात्रे। अथ मुखमात्रे। एष्वेवास्मा एतल्लोकेष्वायतनानि कल्पयति। अभिषेको वा एषः। यत् वाजपेयम्। अभिषेकः सौत्रामणी। तद्यथैवादो वाजपेये यूपं रोहति। तदेवैतत् रूपं क्रियते॥१२.८.३.२०॥

तदाहुः – प्रेव वा एषोऽस्माल्लोकाच्च्यवते। यः सौत्रामण्याऽभिषिच्यत ऽइति। कृष्णाजिने प्रत्यवरोहति। यज्ञो वै कृष्णाजिनम्। यज्ञ एवांततः प्रतितिष्ठति॥१२.८.३.२१॥

प्रति क्षत्त्रे प्रतितिष्ठामि राष्ट्रे इति। क्षत्त्र एव राष्ट्रे प्रतितिष्ठति। क्षत्त्रात् राष्ट्रादप्रभ्रंशाय। प्रत्यश्वेषु प्रतितिष्ठामि गोषु इति। गोऽश्व एव प्रतितिष्ठति। गोऽश्वादप्रभ्रंशाय। प्रत्यंगेषु प्रतितिष्ठाम्यात्मन् इति। अङ्गेष्वेवात्मन्प्रतितिष्ठति। अंगेभ्य आत्मनोऽप्रभ्रंशाय। प्रति प्राणेषु प्रतितिष्ठामि पुष्टे इति। प्राणेष्वेव पुष्टे प्रतितिष्ठति। प्राणेभ्यः पुष्टादप्रभ्रंशाय। प्रति द्यावापृथिव्योः प्रतितिष्ठामि यज्ञे इति। तदनयोर्द्यावापृथिव्योः प्रतितिष्ठति। ययोरिदं सर्वमधि॥१२.८.३.२२॥

अथ साम गायति। क्षत्त्रं वै साम। क्षत्त्रेणैवैनमेतदभिषिंचति। अथो साम्राज्यम् वै साम। साम्राज्येनैवैनं साम्राज्यं गमयति। सर्वेषां वा एष वेदानां रसः। यत्साम। सर्वेषामेवैनमेतद् वेदानां रसेनाभिषिंचति॥१२.८.३.२३॥

बृहत्यां गायति। बृहत्यां वा असावादित्यः श्रियां प्रतिष्ठायां प्रतिष्ठितस्तपति। बृहत्यामेवैनमेतच्छ्रियां प्रतिष्ठायां प्रतिष्ठापयति॥१२.८.३.२४॥

ऐंद्र्यां बृहत्यां गायति। ऐंद्रो वा एष यज्ञः। यत्सौत्रामणी। इंद्रायतन एष एतर्हि। यो यजते। स्व एवैनमेतदायतनेऽभिषिंचति॥१२.८.३.२५॥

अथ यस्मात् संशानानि नाम। एतैर्वै सामभिर्देवा इंद्रमिंद्रियाय वीर्याय समश्यन्। तथो एवैतमृत्विजो यजमानमेतैरेव सामभिरिंद्रियाय वीर्याय संश्यंति। संश्रवसे विश्रवसे सत्यश्रवसे श्रवस इति सामानि भवंति। एष्वेवैनमेतल्लोकेषु श्रावयंति। चतुर्निधनं भवति। चतस्रो वै दिशः। सर्वास्वेवैनमेतद्दिक्षु प्रतिष्ठापयंति। सर्वे निधनमुपावयंति। संविदाना एवास्मिन् श्रियं दधति॥१२.८.३.२६॥

तदाहुः – यदेतत् साम गीयते। अथ क्वैतस्य साम्न उक्थम्। का प्रतिष्ठा। व्यृद्धं हि तत्। यत् स्तुतम् अननुशस्तम् इति॥१२.८.३.२७॥

त्रया देवा एकादशेति। एतद्वा एतस्य साम्न उक्थम्। एषा प्रतिष्ठा॥१२.८.३.२८॥

अथो त्रया देवा एकादश इति त्रयस्त्रिंशं ग्रहं जुहोति। त्रया हि देवा एकादश त्रयस्त्रिंशाः सुराधसः इति। त्रयस्त्रिंशद्धि देवाः। बृहस्पतिपुरोहिताः इति। ब्रह्म वै बृहस्पतिः। ब्रह्मपुरोहिताः इत्येवैतदाह। देवस्य सवितुः सवे इति। देवेन सवित्रा प्रसूता इत्येवैतदाह। देवा देवैरवंतु मा इति। देवा ह्येतं देवैरभिषिंचन्ति॥१२.८.३.२९॥

प्रथमा द्वितीयैः इति। प्रथमा ह्येतं द्वितीयैरभिषिंचन्ति। द्वितीयास्तृतीयैः इति। द्वितीया ह्येतं तृतीयैरभिषिंचन्ति। तृतीयाः सत्येन इति। तृतीया ह्येतं सत्येनाभिषिंचन्ति। सत्यं यज्ञेन इति। सत्यं ह्येतं यज्ञेनाभिषिंचति। यज्ञो यजुर्भिः इति। यज्ञो ह्येतं यजुर्भिरभिषिंचति। यजूंषि सामभिः इति। यजूंषि ह्येतं सामभिरभिषिंचन्ति। सामानि ऋग्भिः इति। सामानि ह्येतमृग्भिरभिषिञ्चन्ति। ऋचः पुरोऽनुवाक्याभिः इति। ऋचो ह्येतं पुरोऽनुवाक्याभिरभिषिंचन्ति। पुरोऽनुवाक्या याज्याभिः इति। पुरोऽनुवाक्या ह्येतं याज्याभिरभिषिंचन्ति। याज्या वषट्कारैः इति। याज्या ह्येतं वषट्कारैरभिषिंचन्ति। वषट्कारा आहुतिभिः इति। वषट्कारा ह्येतमाहुतिभिरभिषिंचन्ति। आहुतयो मे कामान् समर्द्धयन्तु भूः स्वाहा इति। तदेनमेताभिर्देवताभिः परोऽवरमभिषिच्य अथास्मा आहुतिभिः सर्वान् कामान् समर्द्धयन्ति। अथर्त्विक्षूपहवमिष्ट्वा भक्षयति। ऋतवो वा ऋत्विजः। ऋतुष्वेवैतदुपहवमिच्छते॥१२.८.३.३०॥

स भक्षयति। लोमानि प्रयतिर्मम त्वङ्म आनतिरागतिः। मांसं म उपनतिर्वस्वस्थि मज्जा म आनतिः इति। प्रेव वा एष लोकांश्च देवताश्च विशति। यः सौत्रामण्याऽभिषिच्यते। तदेतदवांतरामात्मानमुपह्वयते। तथा कृत्स्न एव सर्वतनूः सांगः संभवति॥१२.८.३.३१॥

इति चतुर्थप्रपाठके द्वितीयं ब्राह्मणम्॥